अथ एकचत्वारिंशः पटलः
नित्यार्चनाविधिः
अथ विष्णोर्नित्यार्चनाविधिं व्याख्यास्यामः - मन्त्रेण स्नात्वा, आचम्य, कृतप्राणायामस्सावित्रीं जप्त्वा, सन्ध्यामुपास्य, देवादीनद्भिस्तर्पयित्वा, ब्रह्मयज्ञं कुर्यात्। ’प्रतद्विष्णुस्तवत’ इति देवालयं गत्वा, प्रदक्षिणं करोति ’मणिकं प्रपद्ये’ (वै॰म॰८-) ति द्वारपालं प्रणम्य, कवाटबन्धं यन्त्रिकया ’निरस्त’ (वै॰म॰प्र॰८) मिति निरस्य, ’हिरण्यपाणि’ (ऋ॰सं॰१-२-४) मिति कवाटमुद्घाटयति ’दिवं विवृणोत्वि (वै॰म॰प्र॰७)त्यन्तः प्रविश्य, वैष्णवैर्मन्त्रैर्देवं प्रणमेत्। ’उद्दीप्यस्वे’ (वै॰म॰प्र॰८) ति दीपानुद्दीप्य, ’शाम्यन्त्वि’ (वै॰म॰- प्र॰८) ति पाणिना दक्षिणेन वामे सन्ताड्य, ’भगवत’ (वै॰म॰प्र॰८) इति देवं प्रार्थयेत्। परिचारकास्स्नात्वा कुम्भमादाय, दुहतां दिव (वै॰म॰प्र॰८)मिति गृहीत्वा, नद्यास्तोयम् आद्यमभिगृह्णामी’ (वै॰म॰प्र॰८) ति सङ्गृह्य, तदभावे तटाके कूपे वा ’सोमं राजानम्’ (वै॰म॰प्र॰८) इत्यालयं प्रविश्य धौतवस्त्रेण ’धारास्वि’ (वै.म.प्र १-१)ति तोयमुत्पूय, उशीरादिगन्धैर्वासयित्वा, ’इदमापश्शिवा’ (वै॰म॰प्र॰८) इति कुशेनाभिमन्त्रयेत्। ’अवधूत’मिति मार्जन्या मार्जयित्वा, ’आशासु सप्त’ (वै॰म॰प्र८०) स्विति गोमयेनोदकेन प्रोक्ष्य, उपलिप्य, ’आमावाजस्येति प्रणिध्यर्घ्यपात्रं हविः पात्राणि प्रक्षाल्य, विधिना हवींषि चोपदंशाँश्च पचेत्, अर्चको ’ब्रह्मब्रह्मे’ ति हृदयमभिमृश्य, द्यौर्द्यौरसी’ति शिरोभिमृश्य, ’शिखेति शिखोद्वर्तनं, ’सकृद्देवानामायुधै’रिति सर्वत्र रक्षां कृत्वा, ’सुदर्शनमिति दक्षिणे हस्ते सुदर्शनमुद्रां, धारयेत्। ’रविपा’मिति वामे शङ्खमुद्रां धारयेत्।
’सूर्योसी’ति दक्षिणे नयने, चन्द्रोसीति वामे नेत्रे, हस्तयोस्तलयोर्दक्षिणवामयोस्सूर्याचन्द्रमासोर्मण्डलं न्यस्य, ’अभुरण्य’मिति अङ्गुष्ठादिकनिष्ठान्तम् एकचत्वारिंशः पटलः [[२१०]] न्यस्य, ’अन्तरस्मिन्निम’ इति ब्रह्माणं स्मरति। ’अहमेवेद’मिति देवमनुमान्य, ’पूतस्तस्येति निर्माल्यं व्यपोह्य, पीठवेदिमद्भिर्व्याहृत्या परिमार्ज्य, ’नारायणाय विद्महे’ इति ध्रुवस्य पादपुष्पं पञ्चभिर्मूर्तिभिर्दत्वा, देवेशस्य निर्माल्यं विष्वक्सेनाय दत्वा अन्येषां बहिर्विसर्जयेत्। ’भूः प्रपद्य’ इति देवेशं प्रणम्य, आलयद्वारोत्तरपार्श्वे पूर्वे वा प्रथमावरणे स्नानपीठे ’परं रंह’ इत्यवस्थाप्य, ’इषोत्वोर्जेत्वे’ति जपन् बिम्बं यथाशुद्धमाम्लाद्यैस्संशोध्य, शुद्धोदकैस्संस्नाप्य, चन्दनोदकैरभिषिच्य, धौतप्लोतवस्त्रेण मूर्धाद्यं विमृजेत्। परिमृष्टेऽर्चापीठे देवेशं प्रतिष्ठाप्य, वस्त्राभरणोपवीतैरलङ्कुर्यात्। पवित्रपाणिश्चन्दनाद्यैरूर्ध्वपुण्ड्रं धृत्वा, ’संयुक्तमेतदिति ध्रुवकौतुकयोर्मध्ये सम्बन्धकूर्चं प्रक्षिप्य, विष्णुगायत्र्या पीठं प्रोक्ष्य ध्रुवपादयोर्मध्ये ’विष्णवे नम’ इति पुष्पं दद्यात्॥
प्रागादि प्रदक्षिणं चतुर्दिक्षु ’पुरुषाय सत्याय अच्युताय अनिरुद्धाये’ति क्रमेण पुष्पाणि न्यसेत्। आग्नेयादिकोणेषु ’कपिलाय यज्ञाय नारायणाय पुण्याये’ति परितः प्रागाद्यैशानान्तं ’वराहाय सुभद्राय नारसिंहायेशितात्मने वामनाय सर्वोद्वहाय त्रिविक्रमाय सर्वविद्येश्वराये’ त्यष्टदिक्षु न्यस्य, पीठादधः परितः पूर्वात् इन्द्राय अग्नये यमाय र्निऋतये वरुणाय वायवे कुबेराय ईशानाये’ति तत्तद्देशे तत्तन्नाम्ना प्रणवादिनमोऽन्तं पुष्पन्यासं ध्रुवे स्थिते करोति।
आसीने प्रसारितपादस्य परितः, शयानेप्यनन्तोर्ध्वे, पादपार्श्वे, कुर्यात्।
देव्योश्च नाममन्त्रैः कौतुकपीठे प्राच्यादि ’मित्रम् अत्रिं शिवं विश्व’मित्युत्तरान्तम् आग्नेयादि ’सनातनं सनन्दनं सनत्कुमारं सनक’मित्यैशानान्तं च एकादशोपचारैरष्टोपचारैर्वा नाम्ना बहिर्मुखानभ्यर्च्य, दक्षिणे मार्कण्डे, (यं देवेक्षणं, वामे भृगुं तथा, भित्तिपार्श्वे) उत्तरे भृगुं, तदुत्तरपार्श्वे ब्रह्माणं, शङ्करं च द्वारेद्वारे धात्रादि द्वारदेवान् द्वारपालान् श्रीभूतवीशाऽमितान्यथोक्ते देशे पूर्ववदर्चयति॥
[[२११]] आवाहनपाद्याऽऽचमनस्नानोदकार्थाश्चतस्त्रः, प्रणिध्योर्द्वे च एकैकं वा, गृहीत्वा, साक्षतका(कु)शकूर्चान् विक्षिप्य, अद्भिः प्रणवेन पूरयित्वा, कुडुबसम्पूर्णाऽर्घ्यपात्राणि सौवर्णराजतताम्रमृण्मयकांस्याऽन्यतमानि पञ्च, अलाभे, तदेकं वा, तद्देवं चन्द्रमभ्यर्च्य, पात्राणि संशोध्य, तण्डुलव्रीहि माषसर्षपमिश्रितम् अक्षतं प्राहुः।
तत्पूर्वं सिद्धार्थकं, तिलं, कुशाग्रं, दधिक्षीरघृतं च, प्रक्षिप्य, गायत्र्याऽऽधावेन पूरयति, अर्घ्यमेतत् पात्रे पुष्पाण्यादाय, जलेन पिष्टं चन्दनं, गन्धगुग्गुल्वगरुकोष्ठचन्दनघनगुळमिश्राणि यथालाभं धूपार्थं, पिचुवर्ति युतं घृतेन तैलेन वा दीपं च, सम्भारान् सम्भरति।
सूतादिप्रतिलोमाः, पतिताः, पाषण्डिनोऽपि अर्चनं हविर्निवेदनं च वीक्षितुं नैवार्हन्ति। तस्माद्यवनिकया समावृणोति। स्वस्तिकमेकजानुं वा समासीन उदङ्मुखो पार्श्वे बिम्बार्हं तिष्ठन्वा, प्रणम्य, आत्मसूक्तं जप्त्वा, बिम्बस्य मूर्धनाभिपादेषु क्रमेण ’स्व(सुव)र्भुवर्भू’रिति विन्यस्य, हृदये प्रणवेनाऽऽदिबीजाक्षरं च पादमध्ये पीठे यकारं विन्यस्य प्रणिधिमुद्धृत्य, दीपाद्दीपमिव ध्रुवबेरात् प्रणधिजले ’प्रणवत्माकं विष्णुं रुग्माभं रक्तनेत्राऽऽस्यपाणिपादं चतुर्भुजं शङ्खचक्रधरं शुकपिञ्छाम्बरधरं किरीटकेयूरहार मकरकुण्डल कटकाङ्गुलीय कटिसूत्रोदरबन्धप्रलम्बयज्ञोपवीतिनं श्रीवत्साङ्कमेवं सकळं ध्यात्वा; कूर्चेन ’इदं विष्णु’रायातु भगवानित्यावाह्य; तद् व्याप्तं तोयं प्रणवेन कौतुकमूर्ध्नि ’विष्णुमावाहयामी’ति संस्राव्य ’पुरुषं सत्यमच्युतमनिरुद्ध’ मिति मन्त्रैरावाहयेत्।
तथा स्नापने चोत्सवे च दक्षिणे श्रियं, वामे महीमावाहयेत्। स्नापने चोत्सवे चादावे वाऽऽवाहनं नित्यं नैवेति केचित्। तत्रासीनं देवं ध्यायन् पीठान्ते ’प्रतद्विष्णुरस्त्वासन’ मिति पुष्पं, दर्भं वा आसनं सङ्कल्पयेत्।
’विश्वाधिकाना’ (वै॰म॰प्र) मिति अभिमुखं स्वागतं ब्रूयात्।
एकचत्वारिंशः पटलः [[२१२]] ’मनोभिमन्ते’(वै॰म॰प्र॰)त्यर्चनानुमानं याचेत्। ’त्रीणीपद, (वै॰म॰प्र॰) इन्द्रोभिमन्तेति पादयोः शङ्खाग्रेण कूर्चेन वा पाद्यजलं दद्यात्। ’शन्नोदेवी’ (अ॰र्व-१-१-१) रिति तथा दक्षिणहस्ते तोयमाचमनीयं दद्यात्। ’तद्विष्णोः परमं पद’ (ऋ॰स॰१-२) मिति ’इमास्सुमनस’ इति मूर्ध्नि भुजयोः शङ्खचक्रयोः पादयोश्च पुष्यं दद्यात्। ’तद्विप्रास’ (ऋ॰स॰१-२-७) इति ’इमेगन्धा’ वै॰म॰प्र॰) ललाटे गन्धेनोर्ध्वाग्रमालिप्य, बाह्वोर्वक्षसि कण्ठेनाभेरूर्ध्वं वा तेनाऽलङ्करोति।
’परोमात्रया, (ऋ॰स ५-६-२४) बृहस्पति;, इमे धूपा’ (वै॰म॰प्र॰) इति चतुर्दिक्षु धूपयेद्धूपम्। ’विष्णोः कर्माणि, (ऋ॰ऋ॰१-२) शुभ्राज्योति’ (वै॰म॰प्र॰) रिति पार्श्वे दर्शयेद्दीपम् अग्निरिन्द्रे (वै॰म॰प्र॰) त्यभिमृश्य पात्रमुद्धृत्य, ’त्रिर्देव, इन्द्रियाणि शतक्रतौ’ (वै॰म॰प्र॰) इति मधुपर्कवदर्घ्यं निवेदयेत्।
द्रव्यालाभे तोयं पात्रालाभे अक्षतं कूर्चेन तोयं वा दद्यात्। पूर्ववदाचमनं दद्यात्। ’आपोहिष्ठे (वै॰म॰प्र॰१) ति स्नानायाभ्युक्षणं कृत्वा, ’मित्रस्सुपर्ण’ (वै॰म॰प्र॰१) इति प्लोतं ’तेजोवत्सव’ इति वस्त्रं, ’भूतोभूते’ष्वित्याभरणं, ’सोमस्य तनोरसी’त्युत्तरीयम्, ’अग्िन्नदूत’ (ऋ॰स॰१-१-) मित्युपवीतं, दद्यात्। तत्तद्द्रव्यं ध्यायन् तत्तदङ्गेषु पुष्पं वा दद्यात्। पूर्ववत्पाद्यार्घ्याचमनपुष्पगन्धधूपदीपाचमनानि पञ्चमूर्तिमन्त्रैर्द्रव्यनाम संयोज्य ’ददामी’ति दद्यात्।
यथैकः पुरुषः पञ्चसञ्ज्ञिकः तथा सर्वं मनसा पञ्चधा सङ्कल्प्य पञ्चभिर्नामभिरेव कुर्यात्। देव्यौ स्नानोत्सवबलिबेराणि च एकमूर्त्या चाऽर्चयेत्। परिषदां नाममन्त्रैर्यथालाभमर्चनं स्यात्।
निवेदनक्रमः बलिक्रमश्च ’अथावनीद’(वै॰म प्र॰८)मिति प्रोक्ष्य, प्रमुखे मण्डलमुपलिप्य, हविः पात्रं सङ्गृह्य, अधिदेवमादित्यमभ्यर्च्य, संशोध्य, (वै॰म॰प्र॰१) ’देवस्यत्वे’ति [[२१३]] घृतेनाऽभिघार्य, गायत्रीं वैष्णवीं, जपन् स्थाल्यां चतुर्भागं हित्वा, त्रिभागं हविःपात्रे प्रक्षिष्य, मण्डले निधाय, तस्मिन् हविषि, सुगन्धमुत्पूतं गव्यं घृतं ’देवस्ये’ त्यास्राव्य, ’अहमस्मी’(तै॰वा॰२-८-८)त्यभिमृश्य, ’तदस्य प्रियं सुभूस्स्वयम्भू’ (वै॰म॰प्र॰८) रिति हविर्निवेदयेत्। देवीभ्यां स्नापनोत्सवबलिबेरेभ्यो निवेदयेत्। ब्राह्ममुत्कुटिकासनं वा आसीनोऽग्निकुण्डे चुल्यां वा अग्निं परिषिच्य, देवेशाय साज्यचरुं ’अतोदेवाद्यै’ मूर्तिमन्त्रैश्च जुहुयात्।
देव्यादितदालयगत परिषद्देवेभ्यस्त्रिकालं जुहुयात् उत्तमे प्रातर्मध्याह्नयोर्देवेशाय देवीभ्यां मुनिभ्यां ब्रह्मेशानाभ्यां मध्यमे च, एतेभ्यो मध्याह्न एव अधमे जुहुयात्। पुनश्चाऽग्निं परिषिच्य अशक्तः कुण्डादग्निं समिध्यारोप्य, लौकिकाग्नौ निधाय, जुहुयात्।
शिष्यो नम्रदेहः तत्तद्देशे मणिकादिद्वारपालेभ्यः, श्रीभूताद्यनपायिभ्यो, दिग्देवताभ्यो विमानपालेभ्यो महीभूतान्तं प्रणवादिनमोन्तेन तत्तन्नाम्ना पूर्वमुदकं पुष्पं बलिपुदकं च दद्यात्। तस्य दक्षिणतो भूतयक्षपिशाचनागेभ्यो बलिशेषं दद्यात्।
देवेशाय ’इदं विष्णु’रिति स्वादुशीतलं वारिपानीयं दत्वा, निवेदितमपनीय मण्डलं सम्मृज्य, तथैव आचमनं ’विचक्रमे’ इति मुखवासं दत्वा, विधिना बलिमाराध्य, बलिबेरयुतमालयं प्रदक्षिणं कारयेत्। विष्णुसूक्तेन ’मस्तिष्कं सम्पुटं प्रह्वाङ्गं पञ्चाङ्गं दण्डाङ्ग’मिति पञ्चप्रणामान् कुर्यात्।
पञ्चप्रणामाः तल्लक्षणं च मस्तकेऽजलौ न्यस्ते स मस्तिष्कः, हृदयेऽञ्जलिपुटं न्यसेत्, स सम्पुटः, पाणीव्यत्यस्य हृदये न्यस्याऽऽनतगात्रो भवेत् स प्रह्नङ्गः, पादाङ्गुलिभ्यां जानुभ्यां वाऽऽसीनः साञ्जलि’ भूमौ ललाटं निदध्यात् स पञ्चाङ्गः। पादौ हस्तौ प्रसार्य साञ्जलिर्भूत्वा अधोमुखो दण्डवच्छयितः स दण्डाङ्गः प्रणामः।
एकचत्वारिंशः पटलः [[२१४]] रत्नं सुवर्णं मुखवासं वा दक्षिणां दद्यात्। पुरुषसूक्तेनैकाक्षरादिना च, संस्तूय अष्टाक्षरेण पुष्पाञ्जलिं ददाति। ’सूर्यस्त्वे’ति कवाटौ बन्धयति।
मध्याह्ने सायाह्ने च पूर्ववदुद्घाटयति। द्वारार्चितपुष्पाण्यपोह्याऽभ्युक्ष्य, ध्रुवस्य पादपीठे न्यस्तानि पुष्पाण्यनुद्धृत्य, उपरि पूर्ववत्पुष्पन्यासं कुर्यात्।
निशान्ते तानि निर्माल्यानि भवन्ति। तथैव धात्रादिद्वारदेवांश्चाभ्यर्च्य, कौतुकादिबिम्बे अर्चितानि पुष्पाण्यादाय तत्पीठपार्श्वे निधाय, आसनाद्यैरर्चयेत्।
उत्तमे पाद्याद्यैरुपचारैरर्चयेत्। मध्यमे रात्रौ स्नानाद्यैरुपवीतान्तैर्विनाऽन्यैः।
अधमे पाद्याद्यर्घ्याचमनान्तैर्हविषि लब्धे पाद्यादिहविरन्तैः अर्धयामे पाद्यादिदीपान्तैर्हविरन्तैरित्येके। अर्धयामे पुष्पन्यासहोमबलिदानबल्युद्धरणानि न कुर्वीत।
अन्त्यवेलायां तत्तन्मन्त्रेषु तत्तन्मूर्तिमन्त्रं संयोज्यार्चयेत्। नवषट्पञ्चमूर्तिविधाने विष्णुमादिमूर्तिं पूर्ववदर्चयेत्। पुरुषमूर्तेरापोहिष्ठेत्याचमनं, हिरण्यगर्भ इति अर्घ्यदानं, हविर्निवेदनं च। सत्यमूर्तेः ’योगेयोग’ इत्याचमनम्, ’इदमापः शिवा’ इत्यर्घ्यदानम्, ’इहपुष्टि’मिति हविर्निवेदनं च। अच्युतमूर्तेः ’समाने वृक्ष’ इत्याचमनं, ’नारायणाय विद्महे’ इति अर्घ्यदानं, ’समाववर्त्ती’ति हविर्निवेदनं च। अनिरुद्धमूर्तेः ’पवित्र’ इत्याचमनं, ’कयानश्चित्रा’ इति अर्घ्यदानं, ’त्रीणिपदे’ ति हविर्निवेदनं च कुर्यात्। शयनस्याऽऽदिमूर्तेरिव मन्त्रेषु तत्तन्मूर्तिमन्त्रं संयोजयेत्। नरनारायणनारसिंहवराहाणां तत्तन्मूर्तिमन्त्रं संयोज्याऽर्चयेत्। ध्रुवार्चनायां पूर्ववत् ध्रुवकौतुकयोः पुष्पन्यासविधानेन पुष्पन्यासं कृत्वा द्विकालमेककालं वा स्नापयित्वा अभ्यर्च्य आवाहनविसर्गौ न कुर्यात्। एष विशेषो अन्यत्सर्वं समानम् अन्येषां देवानामर्चने मन्त्र एव विशेषो भवतीत्याह मरीचिः॥
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे नित्यार्चनाविधानं नाम एकचत्वारिंशः पटलः ॥ ४१ ॥
[[२१५]]