अथ चत्वारिंशः पटलः देव्योः पृथक्प्रतिष्ठाविधिः अथ देव्योः, श्रीभूम्योः, पृथक् प्रतिष्ठाविधिं वक्ष्ये ध्रुवे देवीसमायुक्ते वियुक्ते वा कौतुकस्य देव्योः स्थापनं कारयेत्। कौतुके देवीसमायुक्ते वियुक्ते वापि औत्सवं देवीभ्यां सहितं स्थापितं चेत् तद्ग्रामस्य समृद्धिर्भवति; यद्द्रव्येण कृतं बिम्बं तद्द्रव्येण देव्यै च कारयेत्। हीनाधिकद्रव्यैर्न कारयेत्।
स्थानके स्थानकम्, आसने चासनं, देवस्य बाहुमानं स्तनान्तं वा स्थानकस्य, आसनस्य कर्णान्तमास्यान्तं वा यथोक्ततलक्रमेण देव्यौ सम्यक् प्रकल्पयेत्।
स्थापनदिवसात्पूर्वम्, अङ्कुरानर्पयित्वा, पूर्ववदक्षिमोचनाधिवासौ च कृत्वा, आलयाभिमुखे यागशालां तन्मध्ये दक्षिणे, श्रीदेव्याः शय्यावेदिं द्विहस्तायतविस्तारा तत्तुरीयांशोत्सेधां तत्प्राच्यामौपासनाग्निकुण्डं तत्प्राच्यां स्नानश्वभ्रं च कारयेत्। तन्मध्ये चोत्तरे शय्यावेदिं, तथैव महीदेव्यास्तत्प्राच्यामौपासनाग्निकुण्डं, तत्प्राच्यां स्नानश्वभ्रं च कारयेत्।
अधिवासगते देव्यौ समादाय, शुद्धोदकैस्संस्नाप्य, वस्त्राद्यैरलङ्कृत्य, यज्ञालये पश्चिमे विष्टरे देव्यौ संस्थाप्य, वास्तुहोमं हुत्वा, पर्यग्निपञ्चगव्याभ्यां शोधयित्वा, द्वयोरौपासनाग्निकुण्डयोराघारं हुत्वा, द्वौ कुम्भौ सङ्गृह्य, पूर्ववत्तन्तुना परिवेष्ट्य, अद्भिः प्रक्षाल्य, उत्पूतैराधावैरापूर्य, पञ्चरत्नाऽष्टमङ्गलपञ्चायुधवर्णचिह्नानि पूर्ववत् प्रक्षिप्य, वस्त्रयुग्मेनावेष्ट्य, अभ्यन्तरं प्रविश्य, पूर्वं श्रीदेव्याअभिमुखे धान्यराशौ कुम्भं सन्न्यस्य, पश्चान्महीदेव्या अभिमुखे धान्यराशौ कुम्भं सन्यस्य, देव्योर्ध्रुवबेरहीने देवस्य ध्रुवादर्कमण्डलाद्वा, तत्तद्रूपं तथैव ध्यात्वा, कुम्भे अम्भसि समावाह्य, कुम्भौ समादाय, शकुनसूक्तं जप्त्वा, देवीभ्यां सह स्नानश्वभ्रे प्रतिष्ठाप्य, पूर्ववत्सप्तभिः कलशैस्संस्नाप्य, वस्त्राद्यैर्विभूष्याऽभ्यर्च्य, शय्यावेद्यां धान्योपरि पूर्ववत्प्रत्येकम् अण्डजादीनि [[२०५]] पञ्चशयनानि वासांसि वा आस्तीर्य, शयने समारोप्य, पुण्याहं कृत्वा, पूर्ववत्प्रतिसरं बध्वा तत्तन्मन्त्रेण शाययित्वा, उत्तराछादनं कृत्वा, पश्चाद्धोतारमाहूयाऽभिपूजयेत्। स होता तयोः प्राच्यां तिष्ठन् हौत्रं प्रशंसयेत्। प्रत्येकं होता अध्वर्युः देव्यौ जयाद्यप्सरसश्चावाह्य, आवाहनक्रमेण निरूप्य, आज्याहुतीर्हुत्वा, दक्षिणे अग्निकुण्डे श्रीसूक्तं, श्रीदेवत्यं, जयादीनां मूर्तिमन्त्रान् उत्तरे अग्निकुण्डे महीसूक्तं, महीदेवत्यं, तथा जयादीनां मूर्तिमन्त्राँश्च, जुहुयात्।
पश्चात् नृत्तगेयवाद्यैश्च रात्रिशेषं व्यपोह्य, प्रभाते त्वाचार्याद्याःस्नात्वा, आलयं प्रविशेयुः। अचार्याद्याः देव्यौ समुत्थाप्य, अभ्यर्च्य, अभ्यन्तरे तत्पीठे पञ्चरत्नानि सुवर्णं वा निक्षिपेयुः। आचार्यादिभ्यो दक्षिणां दद्यात्।
अग्निं विसृज्य, मुहूर्ते प्राप्ते तु, आचार्यः श्रीदेव्याः कुम्भं, पश्चान्महीदेव्याः कुम्भं च, शिरसा धारयन् अग्रतो गच्छेत्। स्थापकाः देव्यौ समादायानुगच्छेयुः।
सर्ववाद्यसमायुक्तं, देवागारं प्रदक्षिणं कृत्वा, अभ्यन्तरं प्रविश्य, ध्रुवस्याभिमुखे धान्यराशौ द्वौ कुम्भौ न्यसेत्। कौतुकस्य दक्षिणवामयोः कृते पीठे देव्यौ तत्तन्मन्त्रेण स्थापयेयुः। अचार्यश्चोत्तराभिमुखस्तिष्ठन् ध्रुवबेराक्षरन्यासं कृत्वा, पूर्वमावाह्य, पश्चात्कौतुके अक्षरन्यासं कृत्वा, तद्धृवाद्देव्यौ ध्यायन् दीपाद्दीपमिवावाहयेत्। ध्रुवे देवीयुक्ते देवीबेरे अक्षरन्यासं कृत्वा, समावाह्य, पश्चाद्देव्योरक्षरन्यासं कृत्वा, समावाहयेत्।
अस्त्वासनमिति आसनं दत्वा, पुण्याहं वाचयित्वा, नित्यार्चना विधानेन देवेशेन सह देव्यौ समभ्यर्च्य, हविर्निवेद्य, पञ्चप्रणामान् कुर्यात्। ते देव्यौ पृथक्पृथक् चेत् पृथगेवं कारयेत्॥
चत्वारिंशः पटलः [[२०६]]
देव्योर्विवाहविधिः
अथ देव्योर्विवाहक्रियाविधिं वक्ष्ये - देव्योर्नवबिम्बप्रतिष्ठानन्तरं विवाहक्रियां कारयेत्। यजमानो द्विजश्चेत्। गृहे देवालये वा यागशालां कृत्वा, यथा विभवमलङ्कुर्यात्। तन्मध्ये दक्षिणे श्रीदेव्या वामे महीदेव्याश्च औपासनाग्निकुण्डं स्थण्डिलं वा कुर्यात्। शुभे मुहूर्ते सम्प्राप्ते पूर्वं देव्यावानीय, शुभासने संस्थाप्य, अर्चयित्वा, फलोपहारताम्बूलादीनि निवेद्य, आचार्यः परिचारकैस्सह देवमलङ्कृत्य, यानमारोप्य, शङ्खभेर्यादिघोषयुतं, नृत्तगेयस्तोत्रध्वनिसमायुक्तं, यागशालां प्रविश्य, अग्निकुण्डात्पश्चिमे महार्हसंस्तरणपर्यङ्कोपरि देवं प्राङ्मुखं संस्थाप्य, राजवदुपचारं कुर्यात्। यजमानो बान्धवैस्सह देवेशं प्रणम्य, आचार्यं पूजयेत्।
आचार्यो देवं पाद्याद्यर्घ्यान्तमभ्यर्च्य, मधुपर्कं निवेद्य, वैखानससूत्रोक्तविधिना विवाहं कारयेत्। आत्मसूक्तं जप्त्वा, देवं ध्यायन् एकाक्षरादिसूक्तं, विष्णुसूक्तं, पुरुषसूक्तं, वैष्णवं च, जपेत्। देवेशं प्रणम्य, प्रतिसरं बध्नीयात्।
’प्रसुग्मन्ते’ (वै॰म॰म॰३-) ति देवो देवीमीक्षेत, ’अभ्रातृघ्नी’मिति देवं देवी प्रेक्षेत, पश्चादाघारं जुहुयात्। श्रीदेव्याःप्रदाने देवसन्निधौ देवीं, विनीय यजमानः स्वात्मानं भृगुं स्मृत्वा, ’मूलप्रकृतिरूपामयोनिजां सङ्कल्पतनयां भृगुपुत्रीं श्रियं, विष्णवे तुभ्यं ददामी’ ति ’प्रजापति स्त्रियामिति चोक्त्वा, सुवर्णं गोभूमियुतं जलं दद्यात्’।
हरिण्या प्रदाने यजमानः स्वात्मानं प्रजापतिं स्मृत्वा ’विष्णोः पुराणमहिषीं प्रकृत्यंशभूतां सङ्कल्पतनयां काश्यपीं हरिणीं विष्णवे तुभ्यं ददामीति पूर्ववद्दद्यात्। प्रादुर्भावेषु सर्वेषु तत्तद्देवीपितरं सञ्चिन्त्य, तत्तन्नाम्ना दद्यात्।
यजमानः शूद्रादिश्चेत्तन्नियोगेन द्विज एवं कुर्यात्।
[[२०७]] एवं जलप्रदाने कृते देवस्य दक्षिणवामयोर्देव्यौ संस्थाप्य, नवैर्वस्त्राभरणगन्धाद्यैरलङ्कृत्य, विवाहविषयमन्त्रान् लाजहोमादिप्रदक्षिणादिक कर्म देव्योस्सन्निधौ आचार्य एवाचरेत्। पाणिग्रहणे मन्त्रमुच्चरन् दर्भेण देवदेव्योः पाणीस्पर्शयेत्। अश्मसंस्पर्शने देव्योः दक्षिणपादाङ्गुष्ठेनाऽश्मसंस्पर्शयेत्।
सप्तपदाक्रान्तौ देवस्याभिमुखे नववस्त्रे चोत्तराग्रान्’ दर्भानास्तीर्य, यथाक्रमेण संस्पृशेत्। स्तोमारोपणे वैष्णवैर्देवस्य देव्योस्तत्तन्मन्त्रेण पादयोः प्रक्षिपेत्।
ध्रुवदर्शनादीन् नाचरेत्।
एककाले तयोर्देव्योर्विवाहक्रिया चेत् एकाग्नौ पृथगेव कुर्यादिति केचित्। आचार्यादिभ्यो दक्षिणां दद्यात्।
वैष्णवान् सम्पूज्य, सर्वेषामपि गन्धपुष्पमुखवासादीनि दद्यात्। पुण्याहं वाचयित्वा, अन्तहोमं हुत्वा, ’अग्निं नित्याग्नौ समारोप्य, प्रभूतं हविर्निवेद्याऽपूपदीनि निवेद्य, आचमनमुखवासं च दद्यात्। देवं देवीभ्यां सह यानमरोप्य, ग्राममालयं वा सर्वालङ्कारसंयुक्तं प्रदक्षिणं कृत्वाऽभ्यन्तरं प्रविश्य, शुद्धस्नपनविधिना संस्नाप्य, अभ्यर्च्य, हविर्निवेद्य, प्रणामं कुर्यात्, एवं हरेर्वैवाहिकोत्सवे कृते सर्वसम्पत्समृद्धिर्भवति, तद्ग्रामवासिन्यो स्त्रियः पुत्रमङ्गलसंयुक्ता भवन्ति।
यजमान इष्टान् कामानवाप्य, विष्णोस्सायुज्यमाप्नुयात्। स्नापनं बिम्बं बलिबेरं च देवीभ्यां सहितं रहितं वा कारयेत्।’ कौतुकादिबेरे अक्षिरेखाभ्रूरेखाद्यतिजीर्णे वृद्धे पृष्ठे अङ्गहीने चोराद्यपहृते तद्वत्पुनः बिम्बं कृतं चेत्, बिम्बं प्रतिष्ठाप्य, विवाहक्रियां नाचरेत्। अर्चाहीने प्रायश्चित्तं कृत्वा, सहार्चयेत्। देव्योः पुनर्बिम्बं कृतं चेत्, प्रतिष्ठाप्य, विवाहक्रियां कारयेत्। योगमार्गेण विरहमार्गेण वा ध्रुवबेरं यत्रैव प्रतिष्ठाप्याऽर्चितं, तत्र पश्चाद्देवीयुक्तं न कारयेत्।
चत्वारिंशः पटलः [[२०८]] स्नापनोत्सवादीनां विवाहविधिः अथ स्नापनोत्सवबलिबेराणां पृथक् प्रतिष्ठाविधिं वक्ष्ये - पूर्वोक्तेन विधानेन बिम्बं सलक्षणं कृत्वा, अङ्कुरानर्पयित्वा, सम्भारान्सम्भृत्य, यागशालां कृत्वा, त्रयाणां बिम्बानां सह प्रतिष्ठा चेत् सहैवाऽक्षिमोचनं कृत्वा, प्रत्येकं गवादिदर्शनद्रव्याणि दर्शयित्वा, पृथक् पृथक् यथोक्तविधिनाऽधिवासनं कृत्वा, पञ्चाग्निं, पौण्डरीकाग्निं च, कृत्वा; कुम्भं संसाध्य, सप्तभिः कलशैः संस्नाप्य, शय्यावेद्याम् एकस्यां धान्योपरि प्रत्येकमण्डजादीनि पञ्चशयनानि वासांसि वाऽऽस्तीर्य, प्रतिसरं बध्वा, तद्देवं शाययित्वा, सभ्याग्नौ हौत्रं प्रशंस्य, सर्वेष्वग्निषु पूर्ववद्धोमं हुत्वा, रात्रिशेषं व्यपोह्य, प्रभाते स्नात्वा, आलयमाविश्य, देवानुत्थाप्य, अभ्यर्च्य, अभ्यन्तरं प्रविश्य कृते पीठे सुवर्णं निक्षिप्य, अग्निं विसृज्य, यजमानः आचार्यादिभ्यो दक्षिणां दद्यात्।
आचार्यः शिरसा कुम्भं धारयन् अग्रतो गच्छेत्। स्थापकादेवमादायाऽनुगच्छेयुः आलयं प्रदक्षिणीकृत्य, अभ्यन्तरं प्रविश्य, ध्रुवबेरे देवं समावाह्य, तस्मात् स्नापनोत्सवबलिबेरेषु समावाहयेत्। एष विशेषोऽन्यत्सर्वं समानम्।
तेषां पृथक् चेत् पृथगेव समाचरेत्। स्नापने बेरे तद्रात्रौ स्नापनोक्तक्रमेण स्नपनं कारयेत्। औत्सवे चोत्सवोक्तक्रमेण उत्सवम्, ऐकाहिकोत्सवं वा कारयेत्। बलिबेरे तत्काले बल्युत्सवं कारयेत्। एवं यः कुरुते भक्त्या स महाप्रतिष्ठाफलं लभेतेति विज्ञायते।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे देव्योः पृथक्प्रतिष्ठा वैवाहिकस्नपनोत्सवबलिबेरप्रतिष्ठाविधिर्नाम चत्वारिंशः पटलः ॥४०॥
[[२०९]]