०३९ विमानप्रतिष्ठाविधिः

अथ एकोनचत्वारिंशः पटलः

विमानप्रतिष्ठाविधिः

अथ विमानप्रतिष्ठाविधिं वक्ष्ये - विमानं विधिवत्कृत्वा, देवानेतान् प्रकल्पयेत्। मुखमण्टपद्वारदक्षिणे तापसम्; उत्तरे सिद्धिदं; विमानस्य दक्षिणे सत्यं; पश्चिमे अच्युतम्; उत्तरे अनिरुद्धं; मुखमण्टपदक्षिणे विनायकम्; उत्तरे विन्ध्यवासिनीमेवं मूलतले स्थानकमासनं वा, उपरि वा द्वितीय तले प्रागादिषु पुरुषादीन्; अथवा पूर्वे चक्रं, दक्षिणे नृसिंहं, पश्चिमे अच्युतम्, उत्तरे वाराहं च, गळस्थाने पूर्वादिषु पुरुषादीन् दक्षिणे दक्षिणामूर्तिम्, उत्तरे पितामहं, पश्चिमे नृसिंहं, पूर्वे वराहं च, कारयेत्।

विमानकोणेषु खगेन्द्रमृगेन्द्रयोर्विकल्पः कोणेषु द्विजेन्द्रं, मृगेन्द्रं वा, कारयेत्।

अस्मिन्विमाने चाऽऽदितले मध्ये, तृतीये वा, यथेष्टदेशे नृसिंहं, दक्षिणामुखं, पश्चिमाभिमुखं वा, कारयेत्। सर्वशत्रुविनाशः सर्वार्थसाधनमिति

विशेषेणोक्तम्,

तेषामुद्देशमानं, मानाङ्गुलेनैकादशाऽङ्गुलं समारभ्य, सप्तविंशतिमात्रान्तं, द्व्यङ्गुलं वर्धयेत्, नवधा भवति, एतेष्विष्टमानेन शैलमृण्मयमैष्टकं सौधमालेख्यं वा यथार्हं कारयेत्।

शैलं बेरं वर्णयुक्तं यदीच्छेत्।

प्रथमं पूर्वोक्तसशर्कराकल्कं, द्विगुणं द्विगुणार्धं त्रिगुणं वालुकां मिश्रीकृत्य, निर्यासाम्बुना सह, तस्योपरिष्टादावेष्टयेदिति विशेषः। शेषं समानम्।

अस्मिन्विमानाङ्गदेवानां, विमानपालद्वारपालानां, श्रीभूम्यादि सर्वपरिषदां च, प्रतिमाकरणे, तत्राऽऽयव्ययाद्यं नेष्टं स्वप्रधाने बेरे विमाने च [[२०१]] प्रतिष्ठादिवसात् पूर्वमङ्कुरानर्पयित्वा, आलयाभिमुखे दक्षिणे पश्चिमे चोत्तरे वा विमानं परितो वा प्रपां कृत्वा, तोरणाद्यैरलङ्कृत्य, प्रतिष्ठादिवसात्पूर्वं तृतीये द्वितीये वा अहनि, विमानदेवानामक्षिमोचनममन्त्रकं समन्त्रकं च कुर्यात्।

अक्षिमोचनार्थं तस्यालयस्योत्तरे कुण्डमौपासनं कृत्वा, वास्तुहोमं हुत्वा, पर्यग्निपञ्चगव्याभ्याम् आलयं संशोध्य, पुण्याहं वाचयित्वा आलयाभिमुखे चौपासनाग्निकुण्डं कृत्वा, आघारान्ते वैष्णवं विष्णुसूक्तं, पुरुषसूक्तं, महीभूतदैवत्यं, दद्भ्यः स्वाहाद्यङ्गहोमं स्थूप्याद्युपानपर्यन्ताऽङ्गानाम् अभिजुहुयात्।

विमानाङ्गहोमः

’स्थूपिमुकुळाय, पद्माय, फलकायै, पद्माय, कण्ठाय, क्षेपणाय, वेत्राय, क्षेपणाय, कण्ठाय, क्षेपणाय, कुम्भाय, पङ्कजाय, क्षेपणाय, पद्माय, फलकायै, अवलग्नाय, कुम्भाय, शक्तिध्वजाय, पद्माय, उभाय, नासिकायै, फलकायै, दण्डाय, मृणाळिकायै, मुष्टिबन्धाय, वाजनाय, उत्तराय, कण्ठाय, ऊहप्रत्यूहाय, वेदिकायै, भूमिकल्पाय, वाजनाय, वृत्ताय, अन्तरिताय, लिङ्गाय, शक्तिध्वजाय, नासिकायै, कर्णपालिकायै, कपोताय, वाजनाय, पङ्कजाय, वाजनाय, उत्तराय, बोधिकायै, वीरकाण्डाय, पलकायै, वेत्राय, उत्सन्धिकाय, धृजे, कुम्भाय, धृजआस्याय, पद्माय, भीरवे, स्कन्धाय, पद्ममालायै, स्तम्भान्तराय, वेदिकायै, महापट्टिकायै, कण्ठाय, कुमुदाय, जगत्यै ’उपानाय, (६३ अग) स्वाहे’ति व्याहृत्यन्तं हुत्वा, विमानं परितः प्रागादिचतुर्दिक्षु सवत्सां गां घृतं मधु क्षीरम् अष्टधान्यराशींश्च सङ्कल्प्य, प्रच्छन्नपटं कृत्वा, देवानां तत्तन्मन्त्रेणाऽक्षिमोचनं कृत्वा, तत्प्रच्छन्नपटं विसृज्य, गवादिदर्शनद्रव्याणि दर्शयित्वा, अग्निं विसृज्य, तत्काले तद्विमानशुद्ध्यर्थं, कुम्भं सूत्रेण वस्त्राभ्यां च वेष्टयित्वा, पूतवारिणाऽऽपूर्य, सुवर्णमक्षतान् एकोनचत्वारिंशः पटलः [[२०२]] कूर्चं विक्षिप्य, ’इदमापःशिवा’ इत्यभिमन्त्र्य, विष्णुसूक्तेन आपो हिरण्यपवमानै र्विमानं समभ्युक्ष्य, पुण्याहं कारयेत्।

प्रतिष्ठोक्तदिनात्पूर्वे अपराह्ने प्रागादियज्ञशालां संशोध्य, प्राच्यां मुखमण्टपपूर्वे सभ्यमाहवनीयं च, विमानस्य दक्षिणभागे अन्वाहार्यं, पश्चिमे गार्हपत्यं, उत्तरे चावसथ्यं च सङ्कल्प्य, तदालयोपरिस्थदेवानां प्रत्येकमौपासनाग्निकुण्डं तत्तदभिमुखे विमानं परितः कल्पयेत्, एतदुत्तमम्। सभ्यादिपञ्चाग्नीन् परिकल्पयेदेतन्मध्यमं सभ्याग्निमेकमेवकल्पयेदधममाचक्षते।

सर्वेष्वाघारं हुत्वा द्रोणद्वयपूर्णं कुम्भं सङ्गृह्य, त्रिगुणेनैकेन वा सूत्रेण वेष्टयित्वा, ’शुचीवोहव्य’ (ऋ॰५-४-२४) इति प्रक्षाल्य, ’धारास्वि’ त्यपामुत्पवनं कृत्वा, अद्भिरापूर्य, ’इदमापः (वै॰म-य-१) शिवा’ इत्यभिमृश्य, वस्त्रयुग्मेनावेष्ट्य, पञ्चरत्नानि सुवर्णं वा अष्टमङ्गलपञ्चायुधवर्णचिह्नानि पृथक् पृथक् विष्णुसूक्तेन प्रक्षिप्य, अभ्यन्तरं प्रविश्य, ध्रुवबेरस्याभिमुखे धान्यराशौ कुम्भं सन्यस्य, आचार्य उत्तराभिमुखो भूत्वा ब्राह्ममासनमास्थाय, प्राणायामं कृत्वा, समाहितो देवं ध्यायन् ध्रुवबेरात्कुम्भे अम्भसि तद्विमानं सम्यगावाहयेत्।

यस्माद्देवेशो विष्णुः सर्वेषां प्राणभूतः सर्वावासश्च तस्माद्विमानस्य ध्रुवादावाहनं, तस्मिन्नुद्वासनं च कारयेत्।

पश्चाच्छकुनसूक्तं समुच्चार्य, कुम्भमानीय, तस्यालयस्याऽभिमुखे सभ्याग्निकुण्डस्य पश्चिमे धान्यवेद्यां वस्त्रेणाऽस्तीर्य, तस्यां कुम्भं सन्यस्य, आलयं परितश्चतुर्विंशतिकलशन्यासार्थं धान्यैः पङ्क्तिं कृत्वा; तस्यामैशानादि

पञ्चगव्यघृतमधुदधिक्षीरगन्धोदकाऽक्षतोदकफलोदककुशोदकरत्नोदक-

जप्योदकसर्वौषध्युदकानि प्रत्येकमुपस्नानसंयुक्तानि यथाक्रमेण विन्यस्य, अधिदेवान् समाराध्य यथोक्तैर्मन्त्रैर्विमानस्य पादमूले प्रदक्षिणवशेनाऽभिषिच्य, [[२०३]] विमानं विष्णुमयं देवावासं वैकुण्ठोद्भव’मिति चतुर्भिर्मन्त्रैरर्घ्यान्तमभ्यर्च्य, हेमादिपात्रे तण्डुलोपरि न्यस्तं प्रतिसरं त्रिवृतं स्वस्तिसूक्तेनाऽभिमृश्य, ’स्वस्तिदाविशस्पति’ रिति तस्य पादमूले बध्नीयात्। विमानस्य शयनार्थं तत्परितःशय्यावेदिं कृत्वा, हस्तमात्रविस्तारां तालोत्सेधां द्विभागोत्सेधां भागोत्सेधां वा व्रीहिभिःकृत्वा, नवैर्वस्त्रैः स्थूप्यादिविमानान्तमधिष्ठानान्तं, कपोतान्तं वा निच्छिद्रं परिवेष्ट्य, यद्वैष्णव’ मिति शयनं सङ्कल्प्य; चतुर्दिक्षु चतुर्वेदाध्ययनं कारयित्वा, सभ्याग्निं समुज्वाल्य, हौत्रं प्रशंस्य, दक्षिणप्रणिधौ ’विमानं विष्णुमयं देवाऽऽवासं वैकुण्ठोद्भव’मिति, उत्तरप्रणिधौ आलयाङ्गदेवान् न्यक्षादीन् इन्द्रादिलोकपालाँश्चाऽऽवाह्य, आवाहनक्रमेण जुष्टाकारस्वाहाकारं च कृत्वा पश्चाद्वैष्णव (विष्णुसूक्तं पुरुषसूक्तं तदालयगतदेवानां मन्त्राँश्च जुहुयात्) मिन्द्रदेवत्यादि तत्तदङ्गमन्त्रैस्सह न्यक्षादिदेवत्यमन्त्रांश्च आवसथ्ये चैकाक्षरादिसूक्तं क्षत्रदेवत्यम् आलयोपरिस्थदेवानाम् अग्निकुण्डेषु तत्तद्देवत्यमन्त्रान् दशपर्यायतो जुहोति।

नृत्तगेयवाद्यैः रात्रिशेषं नयेत्। आचार्यादयःप्रभाते स्नत्वा आलयमाविश्य देवं प्रणमेयुः। मुहूर्ते प्राप्ते यजमान आचार्यादीन् वस्त्रोत्तरीयाद्यैरलङ्कृत्य दक्षिणादानं दद्यात्। पश्चात्सर्वाग्नीन् विसृजेयुः। आचार्यः शिरसा कुम्भं धारयन् सर्ववाद्यसमायुक्तं सर्वालङ्कारसंयुक्तमालयं प्रदक्षिणीकृत्य कुम्भं विमाने समारोप्य तस्य मूर्धनि ’आयातु भगवा’निति मन्त्रान्ते विमानं, विष्णुमयं, देवावासं, वैकुण्ठोद्भव’मिति चतुर्भिर्मन्त्रैस्समावाह्य, पश्चात् प्रागादितद्विमानगत (देवांश्च तत्तन्मन्त्रेणाऽऽवाह्य पश्चात्तद्विमानगत) देवान् तत्तन्मन्त्रेणावाहयेत्।

एवं विमानप्रतिष्ठायां महाप्रतिष्ठाफलं लभते। तस्माद्देवेशेन सार्धं, पृथगेव वा, कारयेदित्याह मरीचिः॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे विमानप्रतिष्ठाविधिर्नाम एकोनचत्वारिंशः पटलः ॥ ३९ ॥

एकोनचत्वारिंशः पटलः [[२०४]]