०३८ द्वित्रिमूर्तिस्थापनविधिः

अथाष्टत्रिंशः पटलः एकविमाने स्थानकादिप्रतिष्ठाविधिः अथैकविमाने स्थानकाऽऽसनशयनानां प्रतिष्ठाविधिं वक्ष्ये। विमानं त्रितलायतचतुरश्रमायतवृत्तं वा, मुखमण्टपसोपानसहितं कृत्वा, आद्यतले स्थानकं द्वितीयतले चासनं तृतीयतले शयानं कारयेत्।

तृतीये स्थानकं द्वितीये चासनम् आदौ शयानं कारयेदिति केचित्।

योगभोगादिभेदेष्वेकमार्गेण ध्रुवबेराणि पूर्ववत्कारयेत्। ध्रुवा(वबेरा)नुरूपं कौतुकादीनि बेराणि कृत्वा, परिषदमालयं, प्राकारं, मण्टपं गोपुरं च, पूर्ववत्कारयेत्।

तेषां स्थापनविशेषं वक्ष्ये - यथोक्तमङ्कुरानर्पयित्वा, सम्भारान् सम्भृत्य, पूर्ववदक्षिमोचनाधिवासौ कृत्वा आलयाभिमुखे स्थानकस्य तत्पश्चिमे [[१९७]] आसीनस्य, तत् प्राच्यां शयानस्य च, यागशालां कृत्वा, अलङ्कृत्य, तन्मध्ये शय्यावेदिं परितोऽग्निकुण्डानि च पूर्ववत्कृत्वा, त्रयाणां देवानां प्रत्येकमाचार्यस्थापकादीन्वरयेत्।

आलयस्योत्तरे वास्तुहोममेकमेव कृत्वा, आलयं संशोध्य, सर्वेष्वग्निकुण्डेषु आघारं हुत्वा, कुम्भपूजनस्नापन प्रतिसरबन्धनशयनहौत्रशंसनमूर्त्यावाहनादिहोमादीनि सर्वाणि महाप्रतिष्ठोक्तविधिना पृथगेव कृत्वा, रात्रिशेषं विनीय, प्रभाते स्नात्वा, यज्ञशालामाविश्य, सर्वान् देवानुत्थाप्य, अभ्यर्च्य, पश्चाद्रत्नादीनि सन्न्यसेत्।

मुहूर्ते समनुप्राप्ते यजमान आचर्यादिभ्यो दक्षिणां देवसन्निधौ सोदकं दद्यात्। आचार्याः कुम्भान् शिरसा धारयन्तो अग्रतो गच्छेयुः, स्थापका देवानादायाऽनुगच्छेयुः, आलयं प्रदक्षिणीकृत्याऽभ्यन्तरं प्रविश्य, कुम्भान् देवांश्च संस्थाप्य, पूर्ववदावाह्य, अभ्यर्च्य, हविर्निवेद्य, होमं हुत्वा, बलिं निर्वाप्य, बल्युद्धरणं कारयेत्। आदितले बलिदानबल्युद्धरणस्नापनोत्सवादीनि कारयेदिति केचित्।

द्विमूर्तिस्थापनाविधिः

द्विमूर्तिस्थापनं वक्ष्ये। ग्रामादिषु यथेष्टदेशे, बाह्ये वा, चूलिकामेकामेव कृत्वा, पृथक्पृथगन्तर्मण्डलसंयुक्तं, दक्षिणे शङ्करभवनम्, उत्तरे विष्ण्वालयम्, उत्तरे शङ्करभवनं, दक्षिणे विष्ण्वालयं वा, अथवा पश्चिमे विष्ण्वालयं प्राङ्मुखं, तत्पूर्वे पश्चिमाभिमुखं शङ्करभवनं, कुर्यात्। एतद्विपरीतं वा, विमानं सपरिषत्कं कृत्वा, रुद्रं तच्छास्त्रविधिभिस्संस्थाप्याऽर्चयेत्। पूर्वोक्तविधिना विमानादीनि सर्वाणि कृत्वा, अन्तर्मण्डले नवभेदेष्वेकमार्गेण परिवारान् परिकल्प्य, देवेशं विष्णुं प्रतिष्ठोक्तविधिना प्रतिष्ठाप्य अभ्यर्च्य हविर्निवेद्य होमाद्यं सर्वं पूर्ववत् स्नापनोत्सवादीनि कारयेत्॥

अष्टत्रिंशः पटलः [[१९८]]

त्रिमूर्तिस्थापनम्

अथ त्रिमूर्तिस्थापनं वक्ष्ये - ग्रामादिषु यथेष्टदेशे अन्यत्र विविक्ते वापि एकस्मिन् प्राकारे पृथक्पृथगन्तर्मण्डलसंयुक्तं सपरिषत्कं तथा शङ्करभवनं, उत्तरे ब्रह्मभवनं, उत्तरे शङ्करभवनं, ब्रह्मभवनं वा, मध्ये शङ्करभवनं, दक्षिणे ब्रह्मभवनं, उत्तरे विष्ण्वालयं वा, मध्ये ब्रह्मभवनं दक्षिणे विष्ण्वालयं, उत्तरे शङ्करभवनं वा, मुखमण्टपसोपानोपेतं, विधिना कारयित्वा, शङ्करभवनं तच्छास्त्रोक्तविधिना संस्थाप्य, देवेशं विष्णुं देवीभ्यां सहितं, रहितं वा, संस्थाप्याऽर्चयेत्।

ब्रह्माणं, चतुर्मुखं चतुर्बाहुं तप्तहाटकसन्निभं विद्युद्दाम पिशङ्गार्चिर्जटामुकुटसंयुतं, कुण्डलाङ्गदहारादिभूषणभूषितम् आगुल्फतललम्बिशुक्लाम्बरं मेखलोपवीतोत्तरीयकृष्णजिनशुक्लमालासमायुक्तं दक्षिणाऽऽदक्षिणकराभ्याम् अक्षमालाकमण्डलुधरं दक्षिणं पूर्वकरं सकूर्चमभयं वामकरं कुशग्रन्थिधरम्।

अथवा दक्षिणकरं स्रुवधरं वामकरमाज्यस्थालीधरम्। अथवा दक्षिणं पूर्वकरं स्रुग्धरं वरदं वामकरं गोश्रृङ्गधरं कारयेत्। आसनं चेत्सिंहासनस्योर्ध्वे पद्मासने समासीनं कारयेत्। स्थानपीठोपरि देवीभ्यां सहितं, रहितं वा, कारयेत्।

तस्य शयनं न कुर्वीत।

दक्षिणे देवीं भारतीं श्वेताभां जटामकुटान्वितां द्विभुजां रक्तवस्त्रधरां वामे सावित्रीं रक्ताभां जटामुकटमण्डितां द्विभुजां श्यामवस्त्रधराम् अन्यत्सर्वं श्रीभूम्योरिव कारयेत्।

द्वारपार्श्वयोः शङ्खलिखितौ, मुखमण्टपद्वारे तापससिद्धिदौ, अन्तर्मण्डले पूर्वादीशानपर्यतं भृग्वादिसप्तर्षीन्, सनकं च, अग्रे वाहनं हंसराजं, शैषिकं कुशध्वजम् अकल्मषं नृपं पीठदैवतं महाभद्रम्, अन्तर्मण्डलद्वारे नासत्यदस्रौ, कृत्वा, कौतुकपीठं तद्रूपं कुर्यात्, अङ्कुरानर्पयित्वा पूर्ववद्वास्तुहोमाङ्गे होमं [[१९९]] हुत्वा, पद्माग्नावाघारं हुत्वा, कुम्भं संसाध्य ब्रह्माणं सपरिषक्तं ध्यात्वा, आवाह्य, सप्तभिःकलशैः, संस्नाप्य, शयने समारोप्य प्रतिसरं बध्वा, तन्मन्त्रेण शाययित्वा, पद्माग्नौ हौत्रं प्रशंस्य, ’ब्रह्माणं प्रजापतिं पितामहं हिरण्यगर्भम्’ इति ब्रह्माणं, ’भारतीं वाणीं ब्रह्मपत्नीं सरस्वती’ मिति भारतीं, ’गायत्रीं वेदमातरं सर्वदेवत्यां सावित्री’मिति सावित्रीं, तद्दक्षिणप्रणिधौ समावाह्य, उत्तरप्रणिधौ अन्यपरिवाराणां तत्तन्नाममन्त्रेण आवाह्य, तथैव जुष्टाकारस्वाहाकारं कृत्वा, श्वेताब्जशत (ब्रह्म) घृतेनाप्लुत्य, गायत्र्या जुहुयात्। ’ब्रह्मजज्ञानं, हिरण्यगर्भ’ इति द्वाभ्यां ब्रह्मसूक्तं षोडश कृत्वो हुत्वा, पारमात्मिकमीङ्कारांश्च सर्वान् जुहुजात्। तद्दक्षिणे कुण्डे पावका नो महो अर्ण (ऋ॰-१-१-६) इति मन्त्राभ्यां सूक्तं सारस्वतं दशकृत्वः उत्तरे अग्निकुण्डे सावित्रीमष्टोत्तरशतं हुत्वा, पद्माग्नावन्यपरिवाराणां मन्त्रान् दशकृत्वो हुत्वा, चतुर्दिक्षु चतुर्वेदाध्ययनेन रात्रिशेषं यापयेत्।

प्रभाते स्नात्वा यागशालामागत्य, ब्रह्माणं देव्यौ च प्रणवेनोत्थाप्य, अभ्यर्च्य, अभ्यन्तरे पीठे रत्नादीनि सन्न्यस्य कुम्भं बिम्बं च समादाय, सद्मप्रदक्षिणं कृत्वा, अभ्यन्तरं प्रविश्य, ब्रह्मस्थाने ’ब्रह्मजज्ञान’ (य सं-४- का २-प्र॰८-अ॰२) मिति कौतुकं प्रतिष्ठाप्य, देव्यौ तत्तन्मन्त्रेण संस्थाप्य, ध्रुवबेरं स्पृष्ट्वा, ब्रह्मसूक्तं, ध्रुवसूक्तं च, जप्त्वा, तत्तद्बीजाक्षरं तस्य हृदये न्यस्य, कुम्भस्थां शक्तिं ’ब्रह्मजज्ञानमिति मन्त्रेण ब्रह्माणं ध्यात्वा, तस्य मूर्ध्नि समावाह्य, ततः कौतुकबिम्बे समावाह्य; तत्तत्कुम्भजलेन धात्रादिमहाभूतान्तान् तत्तन्मन्त्रेण आवाह्य, अग्निं विसृज्य, पुण्याहं कृत्वा, अभ्यर्च्य, हविर्निवेदयेत्। अत्रानुक्तं सर्वं हरेरिव समाचरेत्।

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे स्थानकासनशयने द्वित्रिमूर्तिस्थापनविधिर्नाम अष्टत्रिंशः पटलः ॥ ३८ ॥

अष्टत्रिंशः पटलः [[२००]]