अथ सप्तत्रिंशः पटलः नवषट्पञ्चमूर्तीनां प्रतिष्ठाविधिः आचार्यवरणम् अथ नवषट्पञ्चमूर्तीनां प्रतिष्ठाविशेषं वक्ष्ये। पूर्वोक्तेषु नक्षत्रेषु एकस्मिन् यजमानानुकूले नक्षत्रे प्रतिष्ठां कुर्यात्। तद्दिनात्पूर्वं यथोक्तमङ्कुरानर्पयित्वा नवमूर्तीः समुद्दिश्य प्रत्येकमाचार्यं स्थापकानृत्विजश्च पूर्वोक्तलक्षणसम्पन्नान् उक्तदोषविवर्जितान् वरयेत्॥
आदिमूर्तेः प्रतिष्ठाक्रमः तथैव सम्भारान् सम्भृत्य, आलयाभिमुखे विष्णोरादिमूर्तेर्यागशालां पञ्चहस्तायतविस्तारां षट्त्रिंशत्पादसंयुक्तां प्रपां कृत्वा, तन्मध्ये वर्षनिवारणकूटं [[१८९]] कृत्वा, तस्मिन् पञ्चविंशतिभागं कृत्वा तन्मध्ये पदे शय्यावेदिं, तद्भित्तिसमाऽऽयामविस्तारां, तत्तुरीयांशोत्सेधां, दर्पणोदरवत् स्थलं सङ्कल्प्य, परितश्चाऽष्टसु पदेषु उपपदेष्वष्टाऽङ्गुलोत्सेधानि स्थलानि कृत्वा, शय्यावेद्याः पूर्वे सभ्यमाहवनीयं च, याम्ये अन्वाहार्यम्, पश्चिमे गार्हपत्यं, सौम्ये चावसथ्यम्, आग्नेय्यां पौण्डरीकं, र्नैऋत्यां विष्टरं, वायव्यां सम्भारवेदिम्, एैशान्यां स्नानश्वभ्रं च तद्बाह्ये षोडशभागैकभागाङ्गुलोत्सेधं स्थलं कृत्वा इन्द्रादिदिग्देवानां तत्तद्दिक्षु औपासनाग्निकुण्डानि कृत्वा इन्द्राग्न्योर्मध्ये गरुडस्य यमपावकयोर्मध्ये ब्रह्मणो यमनीलयोर्मध्ये भृगोः, नीलवरुणयोर्मध्ये श्रीदेव्याः, वरुणोदानयोर्मध्ये महीदेव्याः, वायुसोमयोर्मध्ये मार्कण्डेयस्य, सोमेशानयोर्मध्ये शङ्करस्य, इन्द्रेशानयोर्मध्ये विष्वक्सेनस्य च, अन्येषां परिवाराणां तत्तद्दिक्षु यागशालां परितश्चौपासनाग्निकुण्डानि कुर्यात्॥
तेषां बेरमालयं यदि स्यात् तत्तदभिमुखे च, औपासनाग्निकुण्डं कुम्भपूजनं च पृथगेव कुर्यात्। बिम्बाभावेऽपि इन्द्रादीशानपर्यन्तानां द्वारेषु द्वारपालानां न्यक्षादीनामभिमुखे श्रीभूतस्यानपायिनं च होमं कुर्यादिति केचित्।
पुरुषादीनां यागशालादिलक्षणम् प्राच्यां पुरुषमूर्तेर्यागशालां षोडशस्तम्भसंयुक्तां तन्मध्ये शय्यावेदिं परितश्चतुरग्निकुण्डानि च परिकल्प्य, आलयाद्दक्षिणे तद्द्वाराभिमुखे सत्यमूर्तेर्यागशालां तन्मध्ये शय्यावेदिं परितश्चतुरग्निकुण्डानि परिकल्प्य, तद्दक्षिणे नरनारायणयोर्यागशालां तन्मध्ये शय्यावेदिं तन्मध्ये चतुरग्नीन् सङ्कल्प्य, पश्चिमे अच्युतमूर्तेर्यागशालां तन्मध्ये शय्यावेदिं परितश्चतुरग्नीन्, तत्पश्चिमे नृसिंहस्य यागशालां तन्मध्ये शय्यावेदिं परितश्चतुरग्नीन् परिकल्प्य, उत्तरे अनिरुद्धमूर्तेर्यागशालां तन्मध्ये शय्यावेदिं परितश्चतुरग्नीन् परिकल्प्य, तस्योत्तरे वाराहस्य यागशालां तन्मध्ये शय्यावेदिं परितश्चतुरग्नीन् परिकल्प्य, अन्यत्सर्वं पूर्ववत्कुर्यात्।
सप्तत्रिंशः पटलः [[१९०]] आलयस्योत्तरे श्रामणकाग्निकुण्डं कृत्वा सूत्रोक्तविधिना वास्तुहोमं हुत्वा सर्वत्र पर्यग्निपञ्चगव्याभ्यां संशोध्य प्रोक्षणैः प्रोक्ष्य अधिवासनगतान् देवान् सन्धायाभिषिच्य वस्त्रोत्तरीयाद्यैर्विभूष्य अष्टोपचारैरभ्यर्च्य आलयमावेश्य तत्तद्यागशालायां पश्चिमे विष्टरे प्राङ्मुखान् देवान् संस्थाप्य सर्वेष्वग्निकुण्डेषु आघारं हुत्वा सर्वेषाम् आचार्यः(र्याः) पूर्ववत्प्रत्येकं कुम्भपूजनं कुर्या(र्युः)त्। यजमानःआचार्यान् वस्त्राद्यैरलङ्कुर्यात्।
कुम्भेषु रत्नादीनां न्यासः कुम्भानादाय तन्तुना परिवेष्ट्य प्रक्षाल्य नादेयैराधावैः पूरयित्वा पृथक्पृथक्वस्त्रयुग्मेनाऽऽवेष्ट्य प्रत्येकं नवरत्नानि सौवर्णानि अष्टमङ्गलपञ्चायुधवर्णचिह्नानि च विन्यस्य, तत्तदागारे, बालागारे वा, देवाभिमुखे धान्यराश्युपरि कुम्भान् सन्न्यस्य, पूर्ववद्ध्यात्वाऽऽवाह्य, पश्चात् स्थापकानाहूय, आदिमूर्त्यादीन् यथाक्रमेणाऽऽआचार्याः तत्तत्समादाय पुरतो गच्छेयुः।
तत्तद्यागशालामासाद्य स्नानश्वभ्रे प्रतिष्ठाप्य, सप्तभिः कलशैः संस्नाप्य, वस्त्रोत्तरीयाभरणैरलङ्कृत्य, अभ्यर्च्य, पुण्याहान्ते प्रतिसरं बध्वा, तत्तद्वेद्यां धान्योपरि पञ्चशयनानि, वासांसि वाऽऽस्तीर्य तथैव शाययित्वा उत्तराच्छादनं कृत्वा होतॄन् सर्वान् वस्त्रोत्तरीयाद्यैरलङ्कृत्य तत्तत्प्रधानहोमे हौत्रं प्रशंस्य, तथैवाऽऽवाहनादीनि कुर्यात्।
विष्णुमूर्तेः शयानस्य सभ्यं, पुरुषमूर्तेराहवनीयं, सत्यमूर्तेरन्वाहार्यं, अच्युतमूर्तेर्गार्हपत्यं; अनिरुद्धमूर्तेरावसथ्यं; नरनारायणयोरन्वाहार्यं; नृसिंहस्य गार्हपत्यं; वाराहस्याऽऽवसथ्यं; प्रधानाग्निरित्युच्यते।
पश्चादादिमूर्तेस्सभ्याग्निं परिस्तीर्य, परिषिच्य, पालाशेध्मान् गृहीत्वा मूलाग्राभ्यां घृताक्तान्, विष्णुगायत्र्या जुहुयात्, उपभृता वैष्णवमाज्येन, जुह्वा पक्कं साज्यं वैष्णवेन, स्रुवेणाज्यमादाय, विष्णुसूक्तम् अग्निहोत्रहवण्या पुरुषसूक्तं च, दशपर्यायतो यजेत्।
[[१९१]] सहस्राहुतिमिष्ट्वा, पञ्चवारुणं, यद्देवादींश्च, ब्रह्मजज्ञानादिसर्वदेवत्यमन्त्रान् वैष्णवं, मिन्दाहुतीर्विच्छिन्नं च, सकृज्जुहुयात्। आहवनीये पुरुषसूक्तम्, अन्वाहार्ये विष्णुसूक्तं, गार्हपत्ये वैष्णवं, आवसथ्ये चैकाक्षरादिसूक्तं, त्रिर्जुहुयात्। विष्णुसूक्तेन पञ्चस्वग्निषु क्षीरदध्याज्यलाजान्युक्तान् उपजुह्वा जुहुयात्। आज्यं स्रुचा गृहीत्वा वैष्णवं सकृद्धुत्वा पौण्डरीके वैष्णवं जुहुयात्।
अब्जशतं, बिल्वपत्रं वा, घृताक्तं विष्णुगायत्र्या जुहुयात्। पुरुषसूक्तं, ’विष्णुः सर्वेषा’मित्यादिपारमात्मिकं, देवं ध्यायन् जुहुयात्। परिषदां होमेषु तत्तन्मन्त्रान् द्वादशाष्टपर्यायतो जुहुयात्।
तृतीयतलस्थशयानस्य
तृतीयतले शयानस्य शयनस्थापनमार्गेण पञ्चाग्नीनां होमं हौत्रशंसनं मूर्त्यावाहनादिकं चाचरेत्।
पुरुषस्य
अधस्तले प्राच्यां पुरुषमूर्तेर्यागशालायामाहवनीये पुरुषसूक्तमन्वाहार्ये विष्णुसूक्तं गार्हपत्ये वैष्णवं श्रीदेवत्यं पूजकमुन्योर्मन्त्रम् आवसथ्ये एकाक्षरादिसूक्तं महीदेवत्यं रौद्रं च जुहुयात्।
सत्यस्य
दक्षिणे सत्यमूर्तेर्यागशालायामन्वाहार्ये विष्णुसूक्तं, गार्हपत्ये वैष्णवं, श्रीदेवत्यं ब्राह्मम् आवसथ्ये एकाक्षरादिसूक्तं, भूमिपुण्ययोर्मन्त्रम्, आहवनीये पुरुषसूक्तं, महीदेवत्यं, रौद्रं च जुहुयात्।
अच्युतस्य
पश्चिमे अच्युतमूर्तेर्यागशालायां गार्हपत्ये वैष्णवम्, आवसथ्ये चैकाक्षरादिसूक्तं, श्रीदेवत्यं, ब्राह्मम्, आहवनीये पुरुषसूक्तं, मुन्योर्मन्त्रम्, अन्वाहार्ये विष्णुसूक्तं, महीदेवत्यं, रौद्रं च जुहुयात्।
सप्तत्रिंशः पटलः [[१९२]]
अनिरुद्धस्य
उत्तरे अनिरुद्धमूर्त्तेर्यागशालायाम् आवसथ्ये चैकाक्षरादिसूक्तम्, आहवनीये पुरुषसूक्तं श्रीदेवत्यं, ब्राह्मम्; अन्वाहार्ये विष्णुसूक्तं, मुन्योर्मन्त्रं, गार्हपत्ये वैष्णवं, महीदेवत्यं वैष्णवं च, जुहुयात्।
नरनारायणयोः
दक्षिणे नरनारायणयोर्यागशालायाम् अन्वाहार्ये विष्णुसूक्तं, विष्णुगायत्रीं च, गार्हपत्ये वैष्णवम्, आदित्यदेवत्यम्, आवसथ्ये चैकाक्षरादिसूक्तं, आहवनीये पुरुषसूक्तं, प्राजापत्यं च जुहुयात्।
नृसिंहस्य
पश्चिमे नृसिंहस्य यागशालायां गार्हपत्ये वैष्णवं, ’यो वा नृसिंह’ इति एकम्, आवसथ्ये चैकाक्षरादिसूक्तं, ब्राह्मम् आहवनीये पुरुषसूक्तम् अन्वाहार्ये विष्णुसूक्तं, रौद्रं च जहुयात्।
वाराहस्य
उत्तरे वाराहस्य यागशालायाम् आवसथ्ये एकाक्षरादिसूक्तं, ’यत्स्वयं सृष्ट’मित्येकं महीदेवत्यम्, आहवनीये पुरुषसूक्तम्, (ब्राह्ममाहवनीये पुरुषसूक्तं) ऐन्द्रम्, अन्वाहार्ये विष्णुसूक्तं, गार्हपत्ये वैष्णवं, वारुणं च, जुहुयात्।
सर्वान् मन्त्रान् षोडशद्वादशपर्यायतो जुहोति पुरुषादीनां चतुर्णां नरनारायणनारसिंहवाराहाणां च, तत्तत्प्रधानाग्निमेव हुत्वा यथोक्तं होमं जुहुयादित्येके। विष्णुमूर्तेस्सभ्यं पौण्डरीकं च अन्येषां तत्तत्प्रधानाग्निं च विना सर्वहोमे अन्तहोमं हुत्वा, रात्रिशेषं व्यपोह्य, प्रभाते त्वाचार्यः स्थापकाद्याश्च स्नात्वा, आलयमाविश्य प्रदक्षिणं कृत्वा, तत्तद्यागशालामागत्य, [[१९३]] पूर्ववत्सर्वान् देवानुत्थाप्य, अभ्यर्च्य, गर्भालयेषु सर्वेषु कौतुकपीठे रत्नन्यासं कृत्वा, सभ्याग्निं विना सर्वहोमेष्वन्तहोमं जुहुयुः। यजमानः आचार्यादिभ्यो यथोक्तदक्षिणां देवसन्निधौ सोदकं दद्यात्। सभ्याग्निं परिस्तीर्य अन्तहोमं हुत्वा, तमग्निं नित्यहोमाय विन्यसेत्।
पश्चात्सुमुहूर्त प्राप्ते तत्तद्यागशालामागत्य, तत्तदाचार्यादयः, ’भूःप्रपद्य’ इति क्रमेण कुसुमाञ्जलिं दत्वा, तं तं देवं प्रणम्य, सर्वालङ्कारसंयुक्तं, सर्ववाद्यघोषसमायुक्तं, तोयधारापुरस्सरं, शकुनसूक्तं समुच्चार्य, आचार्याः कुम्भानाहृत्य शिरसा धारयन्तोऽग्रतो गच्छेयुः। स्थापकाः कौतुकादीन्यादायानुगच्छेयुः, आलयं प्रदक्षिणं कृत्वा पूर्वं विष्णुमादिमूर्तिं, पश्चात् पुरुषसत्याच्युतानिरुद्धाँश्च, शयानं देवं, नरनारायणनारसिंहवाराहाँश्च क्रमेणानीय तत्तद्गर्भागारं प्रविश्य तत्तद्ध्रुवबेरस्य दक्षिणपार्श्वे कुम्भान् सन्यसेयुः। ’प्रतद्विष्णु’ रिति कौतुकबेराणि संस्थाप्य, पार्श्वयोः देव्यौ च, पूर्ववत् स्थापयेयुः।
आत्मसूक्तं जप्त्वा ध्रुवबेरस्य पादौ स्पृष्ट्वा, सूक्तानि जप्त्वा, तथैव मन्त्रन्यासं (अक्षरन्यासं) च कृत्वा, समाहितो देवं ध्यायन् पूर्ववत्समावाह्य पुण्याहं कृत्वा, नित्यार्चनाविधानेनाऽभ्यर्च्य, पायसादीनि हवींषि निवेद्य, होमं हुत्वा, बलिं निर्वाप्य, बल्युद्धरणं च कारयेत्। एष विशेषोऽन्यत्सर्वं समानम्।
षण्मूर्तिप्रतिष्ठा चेद्विष्ण्वादिपञ्चमूर्तीश्शयनं च यथोक्तविधिना प्रतिष्ठापयेत्॥
अशक्तविषयककल्पः
एवं सर्वासां मूर्तीनां पृथक्कर्तुमशक्तश्चेत् प्राच्यामेकां यागशालां पूर्ववत्कृत्वा मध्येपदे विष्णोःप्रागादीशानान्तमष्टसु पदेषु यथाक्रमेण संवेशयन्
यथाक्रमेणानन्तशयनपुरुषसत्यनरनारायणाच्युतनृसिंहानिरुद्धवाराहाणां
सप्तत्रिंशः पटलः [[१९४]] शयनवेदिं तत्तत्प्राच्यां तत्तत्प्रधानाग्निं च कृत्वा एकाग्निविधानेन प्रतिष्ठापयेदिति केचित्॥
अशक्तानां नवमूर्त्यादीनां प्रतिष्ठाविशेषः अशक्तानामेकतलप्रासादे नवषट्पञ्चमूर्तीनां प्रतिष्ठाविशेषं वक्ष्ये।
पूर्ववदाचार्यम् एकं, स्थापकादींश्च वरयित्वा, यथोक्तमङ्कुरानर्पयित्वा, सम्भारान् सम्भृत्य, तथैवाक्षिमोचनाधिवासौ च कृत्वा, आलयाभिमुखे, दक्षिणे वा, पूर्ववद्यागशालां, महावेदिं च कृत्वा, परितोऽग्निकुण्डानि, पौण्डरीकाग्निकुण्डं च, कृत्वा, वास्तुशुद्धिं च कृत्वा, सर्वेष्वग्निष्वाघारं हुत्वा, पूर्ववत्कुम्भं संस्थाप्य, आलये बालागारे, देवाभिमुखे, धान्योपरि कुम्भं सन्न्यस्य, आचार्यश्चोत्तराभिमुख आसित्वा, पूर्ववद्ध्यायन् कुम्भे सर्वान् देवान् समावाह्य, कुम्भं सङ्गृह्य, अग्रतो गच्छेत्। स्थापकाः शकुनसूक्तं समुच्चार्य, पुर्वं विष्णुमादिमूर्तिं, पश्चात्पुरुषादीन् स्नापनोत्सवबलिबेराणि च आदायाऽनुगच्छेयुः; स्नानवेद्यां मध्ये विष्णुं, दक्षिणे श्रियं, पुरुषसत्यनरनारायणनारसिंहाँश्च, उत्तरे महीम्, अच्युतानिरुद्धवाराहाँश्च, शयानं च संस्थाप्य, एषां दक्षिणपार्श्वे कुम्भं सन्न्यस्य, स्नापनोत्सवबलिबेराणि च, तत्क्रमेण संस्थाप्य, पूर्ववत्प्रत्येकं कलशैः संस्नाप्य, वस्त्रोत्तरीयाद्यैर्विभूष्याऽभ्यर्च्य यज्ञालये र्नैऋते देवान् संस्थाप्य, पूर्ववत्प्रतिसरं बध्वा, ध्रुवबेरेऽपि प्रतिसरमाबध्य, पुरुषादीनां ध्रुवबेरं यदि स्यादाभासं विना प्रतिसरं बन्धयेत्।
पूर्ववत् पृथक्पृथक् शयनान्यास्तीर्य, मध्ये विष्णुमादिमूर्तिं, देवीभ्यां सह, दक्षिणे पुरुषसत्यनरनारायणनृसिंहाँश्च, उत्तरे अच्युतानिरुद्धवाराहाँश्च, शयानं च, तत्तद्देवीभ्यां सह समारोप्य, तेषां दक्षिणे स्नापनमुत्तरे चोत्सवबलिबेरं च समारोप्य, पूर्ववच्छाययेत्।
[[१९५]] यतो द्वारं ततस्तेषां मौलिं कृत्वा, उत्तराछादनं कृत्वा, सभ्याग्नौ पूर्ववद्धौत्रं प्रशंस्य, आवाहनादीनि कृत्वा, सर्वानभ्यर्च्य, चतुर्दिक्षु वेदानध्यापयेत्।
सभ्याग्नौ पूर्वोक्तहोमं हुत्वा, आहवनीयादिषु यथोक्तं होमं जुहुयुः, तथैव पद्महोमं हुत्वा, सर्वपरिवाराणां तत्तद्दैवत्यं तत्तद्धोमे सभ्ये वा तथैव हुत्वा, नृत्तगेयवाद्यैः रात्रिशेषं नयेत्।
अथाचार्यः प्रभाते स्नात्वाऽऽलयमाविश्य, देवानुत्थाप्य, पूर्ववद्विष्ण्वादीनां सर्वेषां कौतुकादीनां पीठेषु रत्नादीनि सन्यसेयुः, यजमानः आचार्यादिभ्यो दक्षिणां दद्यात्। सभ्याग्निं परिस्तीर्य, अन्तहोमं हुत्वा, तदग्निं नित्यहोमाय विन्यसेत्।
मुहूर्तेप्राप्ते सर्वालङ्कारसंयुक्तं, तोयधारापुरस्सरं, शकुनसूक्तं जप्त्वा, देवं ध्यायन् आचार्यः शिरसा कुम्भं धारयन् अग्रतो गच्छेत्। स्थापकाः विष्ण्वादिमूर्तीः पूर्ववदादायाऽनुगच्छेयुः।
आलयं प्रदक्षिणं कृत्वा, अभ्यन्तरं प्रविश्य, ध्रुवबेरस्य दक्षिणे कुम्भं सन्यस्य, ब्रह्मस्थाने विष्ण्वादिमूर्तिं, तद्वारदक्षिणे अलिन्द्रे प्राङ्मुखं पुरुषं, दक्षिणे दक्षिणामुखं सत्यं, तत्पश्चिमे नरनारायणौ दक्षिणाभिमुखौ, पश्चिमे पश्चिमाभिमुखमच्युतं, तदुत्तरे तथैव नृसिंहं, उत्तरे चोत्तराभिमुखमनिरुद्धं, तत्पश्चिमे तथैव वाराहं, पूर्वद्वारोत्तरेऽलिन्द्रे शयानं प्राङ्मुखं, पूर्ववत् स्थापयेयुः।
तस्मिन्मुखमण्टपे अभ्यन्तरे वा दक्षिणे स्नापनमुत्तरे चोत्सवं बलिबेरं च स्थापयेत्।
आचार्यश्चात्मसूक्तं जप्त्वा, ध्रुवस्य पादं स्पृशन् सूक्तानि जप्त्वा, दक्षिणे चोत्तराभिमुखस्तिष्ठन् ध्रुवबेरे अक्षराणि विन्यस्य, समाहितः कुम्भस्थां सप्तत्रिंशः पटलः [[१९६]] शक्तिमादाय, ’आयातु भगवा’निति ध्रुवबेरस्य मूर्धि्न विष्णुमावाहयामीति समावाहयेत्। तथैव पुरुषादीनां ध्रुवबेरेषु तत्तन्मूर्तिभिस्समावाहयेत्। तथैव पुरुषादीनां ध्रुवबेरं हीनं चेत्, आदिमूर्तेर्ध्रुवबेरस्य मूर्धि्न सर्वां मूर्तिमावाहयेत्।
ध्रुवस्य पादं परितः पुरुषाद्यावरणत्रयदेवान् समावाह्य, दक्षिणे श्रियं, वामे हरिणीं समावाहयेत् विष्ण्वादीनां कौतुकानां स्नापनोत्सवबलिबेराणां बीजमन्त्रन्यासमक्षरन्यासं च कृत्वा, पूर्ववत् सौवर्णादिपात्रं, शङ्खं वा, पूतवारिणाऽऽपूर्य देवं ध्यायन् ध्रुवबेरात्प्रणिधिजले दीपाद्दीपमिव आवाह्य, विष्ण्वादीनां कौतुकेषु यथाक्रमेण आवाहयेत्। तदैव स्नापनोत्सवबलिबेरेषु चावाहयेत्। एष विशेषोऽन्यत्सर्वं समानम्॥
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे नवषट्पञ्चमूर्तिप्रतिष्ठाविधिर्नाम सप्तत्रिंशः पटलः ॥ ३७ ॥