अथ षट्त्रिंशः पटलः
नवमूर्तिध्रुवबेरमानम्
अथ नवमूर्तीनां ध्रुवबेराणि मानं च वक्ष्ये - धामगर्भ गृहद्वारस्तम्भयजमानमानाङ्गुलमानेषु इष्टमानेन ध्रुवबेराणि कल्पयेत्। देव्यौ बाहुकर्णसीमामानेन मुन्यादिपरिवारांश्च तत्समेन, त्रिपादेन, अर्धेन वा कारयेत्॥
मध्यमतले विष्णुमादिमूर्तिं सिंहासने समासीनं श्रीभूमिभ्यां, भृगुपुण्याभ्यां, ब्रह्मशङ्कराभ्यां, युक्तम्, उपरिभित्त्यूर्ध्वभागे दक्षिणवामयोर्वन्दमानौ चामरधारिणौ किष्किन्धसुन्दरौ च कामिनीव्याजिनीभ्यामर्कचन्द्राभ्यां युक्तं प्रथमद्वारस्य दक्षिणे तुहिणं वामे बलिन्दं, द्वितीयद्वारे तापससिद्धिदौ च; तस्याऽलीन्द्रे दक्षिणामुखौ नरनारायणौ, स्थितौ प्रजापतिशङ्कराभ्याम् अर्चकमुनिभ्यां कामिनीव्याजिनीभ्यामर्कचन्द्राभ्यां युक्तौ; द्वारस्य दक्षिणवामयोश्चक्रचूलि शङ्खचूलिनौ च, तस्याऽलीन्द्रे पश्चिमे नृसिंहं योगासने समासीनं कक्ष्ययोरोबद्धं ब्रह्मशङ्कराभ्यामर्चकमुनिभ्याम् अर्कचन्द्राभ्यां युक्तं; द्वारस्य दक्षिणवामयोः चण्डप्रचण्डाभ्यां सहैव कुर्यात्॥
[[१८७]] तस्याऽलीन्द्रे चोत्तरे चोत्तरामुखं वाराहं पूर्ववत् देवस्य दक्षिणे चन्द्रं वामे हलेशं पूजकमुनी ब्रह्मशङ्करौ अपरभित्त्योर्ध्वभागे सनकसनत्कुमारौ चन्द्रादित्यौ द्वारदक्षिणवामयोर्दुर्गां, विघ्नेशं कुर्यात्॥
अधस्तले प्राच्यां पुरुषं भोगासनमार्गेणाऽऽसीनं पूजकमुनिभ्यां ब्रह्मशङ्कराभ्याम् अपरभित्त्यूर्ध्वभागे श्वेतच्छत्रेण, वामयोःचामरधारिणीभ्यां मायासंह्लादिनीभ्यां सनकसनत्कुमाराभ्यां चन्द्रसूर्याभ्यां च युक्तं कारयेत्।
प्रथमद्वारे तुहिणबलिन्दौ द्वितीयद्वारे शङ्खपद्मनिधी द्वारसोपानस्थले भित्तौ प्राङ्मुखीं श्रियं, वारणाभिषेकयुक्तां कारयेत्।
दक्षिणे सत्यमूर्तिं दक्षिणामुखं देवीभ्यां पूजकमुनिभ्यां ब्रह्मशङ्कराभ्याम् अपरभित्त्यूर्ध्वभागे छत्रेण चामरधारिणीभ्यां जयाभद्राभ्यां सूर्यचन्द्राभ्यां शक्रबृहस्पतिभ्यां युक्तं, प्रथमद्वारे नासत्यदस्त्रौ द्वितीयद्वारे चक्रशङ्खचूलिनौ दक्षिणे सोपानस्थलभित्तौ दक्षिणामुखं वाग्देवीं च कारयेत्॥
पश्चिमे पश्चिमाभिमुखम् अच्युतं देवीभ्यां पूजकमुनिभ्यां ब्रह्मशङ्कराभ्याम् अपरभित्त्यूर्ध्वभागे छत्रेण चामरधारिणीभ्यां जयाभद्राभ्यां सूर्यचन्द्राभ्यां युक्तं; प्रथमद्वारे गुहजाम्बवौ, द्वितीयद्वारे शङ्खपद्मनिधी, सोपानस्थलभित्तौ पश्चिमामुखं मन्मथं कारयेत्॥
उत्तरे चोत्तराभिमुखम् अनिरुद्धं देवीभ्यां सहितं रहितं वा पूजकमुनिभ्यां ब्रह्मशङ्कराभ्यां परभित्त्यूर्ध्वभागे छत्रेण चामरधारिणीभ्यां जयापुष्टिकाभ्यां सूर्यचन्द्राभ्यां युक्तं; प्रथमद्वारे विद्युदप्सरसो द्वितीयद्वारे चक्रशङ्खचूलिनौ सोपानस्थलभित्तौ चोत्तराभिमुखं मुद्गलं मुनिं च कारयेत्॥
तृतीयतले योगशयनं दक्षिणशीर्षम् अनन्तस्य सप्तभिः पञ्चभिर्वा फणैः छन्नमौलिं द्विभुजं पूजकस्थाने महीमार्कण्डेयौ देवस्य दक्षिणहस्तं षट्त्रिंशः पटलः [[१८८]] मार्कण्डेयशिरसि न्यस्तं वामं समुद्धतकटकं पादं दक्षिणं प्रसारितमीषत्कुञ्चितं नाभ्यम्बुजसमासीनं ब्रह्माणं पञ्चायुधान् गरुडं च उद्देश्यकरतलप्रहारयुक्तं पादपार्श्वे मधुकैटभौ च दक्षिणपार्श्वे कर्किणं सनकं वामे भारतीं सनत्कुमारम् ऊर्ध्वे वेदान् दक्षिणोत्तरयोः ब्रह्मशङ्करौ प्रथमद्वारे गङ्गायमुने द्वितीयद्वारे सुरसुन्दरौ च कारयेत्।
ब्रह्मस्थाने कौतुकं चतुर्भुजं शङ्खचक्रधरम् अनन्तोत्सङ्के आसीनं फणैस्सप्तभिः पञ्चभिर्वा छन्नमौलिं कारयेत्॥
आदिमूर्तीनां सर्वासां मूर्तीनां तत्तत्कौतुकबिम्बानां पूर्वोक्तविधिना तत्तद्ध्रुवबेरानुरूपं, विष्णुं चतुर्भुजं वा कारयेत्।
इन्द्रादिलोकपालानाम् अन्येषां परिवाराणां नवभेदेष्वेकमार्गेण नवषट्पञ्चमूर्तीः विमाने कारयेत्॥
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे नवषट्पञ्चमूर्तिकल्पनं नाम षट्त्रिंशः पटलः ॥ ३६ ॥