अथ पञ्चत्रिंशः पटलः
नवषट्पञ्चमूर्तिविधिः
अथ नवषट्पञ्चमूर्तिविधिं वक्ष्ये - सहस्राधिकविप्रवासे ग्रामे मध्ये, पश्चिमे वा, नवहस्ताद्येकषष्ठिहस्तान्तं द्विहस्तविवृद्ध्या, सप्तविंशतिभेदेषु इष्टमानं विनिश्चित्य तत्रैकाशीतिविभागं कृत्वा, मध्ये पञ्चविंशतिभागमूर्ध्वतलकरणार्थं दृढतरं यथालक्षणं परिकल्प्य, तत्परितः प्रागादिचतुर्दिक्षु पुरुषसत्याऽच्युताऽनिरुद्धानां गर्भागारं दशभागं तत्प्रमुखे निर्गमं युक्त्या कृत्वा, तत्समं प्राच्यां मुखमण्टपं सत्यादीनां मुखमण्टपं तद्गर्भागारसमं त्रिपादमर्धं वाप्येवं विमानं नळिकाद्यलङ्कारयुतं चतुर्मुखं चतुर्द्वारं चतुष्कूटं त्रिशालं हारपञ्जर- [[१८३]] नासिकाद्यैस्सह कृत्वा, द्वितीयतले विस्तारं पूर्ववदेकाशीतिभागं कृत्वा, तन्मध्ये पञ्चविंशतिभागं विष्णोरादिमूर्त्तेरासनागारं तत्परितोऽलिन्द्रं चतुर्विंशतिभागं तद्बाह्ये द्वात्रिंशद्भागं बाह्यकुड्यं कूटशालाद्यैरुपशोभितं मुखमण्टपसोपानसंयुक्तं कृत्वा, तस्यालिन्द्रे दक्षिणे नरनारायणयोर्दक्षिणेनागारं पश्चिमे नृसिंहस्य उत्तरे वाराहस्य चाऽगारं युक्त्या परिकल्प्य, तृतीयतलविस्तारायामं यथालक्षणं देवेशस्य शयनागारं मुखमण्टपसंयुक्तमेवं त्रितलैर्युक्तं नवमूर्तिविमानं कारयेत्॥
षण्मूर्तिप्रतिष्ठाविधानम्
षण्मूर्तिप्रतिष्ठा चेत् एवं विमानं त्रितलं कृत्वा नरनारायणनारसिंहान्विना तृतीयतले देवेशं शयानं द्वितीयतले विष्णुमादिमूर्तिम् अधस्तले पुरुषादीन् पूर्ववत् स्थापयेत्।
अथ विमाने द्वितले अधस्तले विष्णुमादिमूर्तिं भोगासनमार्गेण प्रतिष्ठाप्य तत्परितोऽलिन्द्रं चतुर्दिक्षु चतुर्द्वारयुतं यत्प्रधानं तन्मुखमण्टपं संयुक्तं कृत्वा, तत्प्राच्यामलिन्द्रे दक्षिणभागे भित्तिमाश्रित्य पुरुषं प्राङ्मुखं, दक्षिणेऽलिन्द्रे दक्षिणामुखं सत्यं, तथैव पश्चिमे अच्युतं, उत्तरे अनिरुद्धं, देवीभ्यां सहितं वा कृत्वा, ऊर्ध्वतले योगेशं योगशयनं वा संस्थाप्यार्चयेत्।
पञ्चमूर्तिप्रतिष्ठाक्रमः
पञ्चमूर्तिप्रतिष्ठा चेत् - विमानतलं कृत्वा, ऊर्ध्वतले विष्णुमादिमूर्तिम्, अधस्तले पुरुषादीन् पूर्ववत् स्थापयेत्। अथवा द्वितीयतले विष्णुं पूर्ववत् संस्थाप्याऽधस्तले अभ्यन्तरं घनसंयुक्तं तत्परितः सालिन्द्रं चतुर्दिक्षु चतुर्द्वारयुतं प्रधानं मुखमण्टपसंयुक्तं कृत्वा, अलिन्द्रे प्राङ्मुखादीन् पुरुषादीन् देवीभ्यां सहितं रहितं वा स्थापयित्वाऽर्चयेत् - एवं यथोक्तविधिना सर्वाणि ध्रुवबेराणि कर्तुमशक्तश्चेत् उक्तविमानेष्वेकस्मिन् विमाने चैकतलप्रासादं नवहस्तादहीनं पञ्चत्रिंशः पटलः [[१८४]] निश्चित्य तस्मिन्नेकाशीतिविभागं कृत्वा तन्मध्ये नवभागं गर्भागारं तत्परितः षोडशभागमभ्यन्तरं तत्परितश्चतुर्विंशतिभागमलिन्द्रं तद्बाह्ये द्वात्रिंशद्भागं बाह्यकुड्यम् अथवा तदेकविंशतिशतभागं विभज्य षट्पञ्चाशद्भागम् अलिन्द्रं चत्वारिंशद्भागं बाह्यकुड्यं कारयेदित्येके।
तत्समं, त्रिपादमर्धं वा, मुखमण्टपं दक्षिणपश्चिमोत्तरं मूर्तीनां द्वारदेशे जालकैर्युक्तं बाह्यं भित्तिविस्तारसममभ्यन्तरभित्तिविस्तारं सप्तदशोत्सेध, मर्धाधिकं, पादोनद्विगुणं, द्विगुणं वा, विमानोत्सेधं तदष्टभागं कृत्वा, एकांशमधिष्ठानं, तद्विगुणं स्तम्भायाममेकांशं प्रस्तरं, बाह्यभित्तौ संयोज्य अभ्यन्तरभित्तेरुपरि कण्ठमेकांशं, द्व्यंशं शिखरं, एकांशापिण्डि(स्थूपि)- केत्येवमेकतलप्रासादं परिकल्प्य, तस्मिन् गर्भालये दैविके भागे विष्णुमादिमूर्तिं भोगासनमार्गेण ध्रुवबेरं प्रतिष्ठाप्य, पुरुषादिमूर्तीनामादिमूर्तेर्भिन्नत्वात् ध्रुवबेरं विना आदिमूर्तेरनुरूपं विष्ण्वादीनि सर्वाणि कौतुकबेराणि विधिना कारयित्वा, गर्भागारे ब्रह्मपदे विष्णुमादिमूर्तिमलिन्द्रे द्वारदक्षिणे प्राङ्मुखं पुरुषं दक्षिणे सत्यं, पश्चिमे अच्युतम्, उत्तरे अनिरुद्धं, द्वारस्योत्तरपार्श्वे शयानं, दक्षिणे सत्यस्य पश्चिमे नरनारायणौ, पश्चिमे अच्युतस्योत्तरे नृसिंहम्, उत्तरे अनिरुद्धस्य पश्चिमे वाराहं स्थापयेत्।
अथवा तत्तद्भित्तावाभासं ध्रुवं सङ्कल्प्य, ध्रुवकौतुकसंयुक्तं कारयेदिति केचित्। अथवा पुरुषादीनामभ्यन्तरभित्तौ गुहासु रत्नन्यासं कृत्वा कौतुकानेव स्थापयित्वा अर्चयेत्।
सर्वेषामंशानाम् (कौतुकानां) आवाहनं विसर्जनं च आदिमूर्तावेव नित्यहोमबलिदानबल्युद्धरणस्नपनोत्सवादीन्यादिमूर्ते(रे)रिव कारयेत्। अन्यत्सर्वं समानं, पुरुषादीनामेव तौ विना तत्रार्चनमेव कारयेदित्येके।
[[१८५]] अथवा द्वितालप्रासादमेवं कल्पयेत्। विमानोत्सेधं चतुर्दशभागं कृत्वा, सार्धांशमधिष्ठानं, तत् द्विगुणं स्तम्भायामं, सार्धांशं प्रस्तरं, बाह्यभित्तौ संयुज्य, अलीन्द्रं विसृज्य अभ्यन्तरं भित्तेरुपर्यूर्ध्वं भूमेः पादं द्व्यर्धांशं, प्रस्तरमेकांशं, सपादांशं कण्ठं, सपादद्व्यंशं शिखरमेकांशं स्थूपितुङ्गं, बाह्यभित्तेरुपरि कूटशालाद्यैरुपशोभितं मुखमण्टपचर्यासोपानादिभिर्युक्तं शिल्पिशास्त्रोक्तमार्गेण युक्त्या कृत्वा, अधस्तले विष्णुं पूर्ववत्, ध्रुवकौतुकं संस्थाप्य, पुरुषादीन् पूर्ववत् स्थापयेत्।
ऊर्ध्वतले शयानध्रुवकौतुकसंयुक्तं, कौतुकमेव वा, मानुषपदे पीठे रत्नानि विन्यस्य, संस्थाप्य, नृसिंहं द्वारस्योत्तरे पार्श्वे अलीन्द्रे स्थापयेदिति विशेषः।
अथवा कूटाकारमनर्पितं चतुर्वर्गयुक्तं सङ्कल्प्य, बाह्यभित्तिसमाभ्यन्तरभित्तौ सप्तदशोत्सेधं षडंशं कृत्वा, एकांशमधिष्ठानं, द्व्यर्धांशं स्तम्भतुङ्गं, द्व्यंशं शिखरमर्धांशं स्थूपितुङ्गमिति एवं शिलयेष्टकया वा भित्तिं सङ्कल्प्य, लुपाविधानेन कृत्वा, लोहैर्लोष्टैर्वाऽऽछाद्य, उपरिस्थूपिकां (एकां) तिस्रः, पञ्च, सप्त, नव वा, कारयेत्। मुखमण्टपेन सार्धं वेति केचित्। ध्रुवबेरं विना विष्ण्वादिसर्वमूर्तिनां कौतुकानेव पूर्ववत्प्रतिष्ठापयेत्। उपरितालऽर्धं विष्णुमूर्तेः प्राच्यामुन्नतं पीठं कृत्वा, तस्मिन् भित्तौ, गुहायां वा, देवं कौतुकमेव संस्थाप्य, नृसिंहं द्वारवामे अलिन्द्रे स्थापयित्वाऽर्चयेत्।
षट्पञ्चमूर्तिभ्योऽधिकमूर्तीर्विनैवं कुर्यात्।
शक्तश्चेत्पुनर्बालागारं कृत्वा, कूटकागारे तस्मिन् प्रतिष्ठाप्य, अभ्यर्च्य, नलिनकादिषु पूर्ववद्यथोक्तं विमानं ध्रुवबेराणि च कृत्वा, बालागारे अर्चितान् कौतुकादीन् समानीय तस्मिन् विमाने प्रतिष्ठाप्याऽर्चयेत्। अथवा प्रथमं तरुणालयस्थाने कूटाकारं कारयेदिति केचित्। क्षुद्रविमाने ध्रुवयुक्तं स्थापितं पञ्चत्रिंशः पटलः [[१८६]] चेत्तस्मिन्महाविमानं कर्तुमिच्छेच्चेत् अन्यत्र विस्तीर्णे देशे यथोक्तं विमानं ध्रुवबेराणि च कृत्वा, पूर्वविमानस्थान् कौतुकादीन् समानीय, तस्मिन्विमाने प्रतिष्ठाप्य अर्चयेत्। पुनरपि पूर्वविमाने ध्रुवानुरूपं कौतुकं यथालाभमानेन कृत्वा, संस्थाप्य, अलाभे सुवर्णं, कूर्चं वा, निक्षिप्य यथालाभमर्चयेत्।
आदिमूर्त्यादीनां बल्युत्सवस्नपनादीनि सर्वाणि विष्णोरादिमूर्तेरिव समाचरेदित्याह मरीचिः॥
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्ये नवषट्पञ्चमूर्तिविधिर्नाम पञ्चत्रिंशः पटलः ॥ ३५ ॥