०३४ पृथक्प्रतिष्ठाविधिः

अथ चतुस्त्रिंशः पटलः परिवारादीनां पृथक् प्रतिष्ठाविधिः परिवाराणां पृथक्प्रतिष्ठाविधिं वक्ष्ये - द्वारं विधिवत्कृत्वा षडङ्गानि विधिना शिल्पिना योजयेत्। प्रथमं पट्टिकामूर्ध्वाननां दक्षिणशिरस्कां न्यस्य, तदूर्ध्वे दक्षिणस्तम्भमुत्तराभिमुखं, उत्तरस्तम्भं दक्षिणाभिमुखं, तयोरुपरिष्ठादुत्तरपट्टिकाम् अधोमुखीम्, उत्तरशिरस्कां न्यस्य, अन्तरे दक्षिणकवाटमुत्तराभिमुखम्, उत्तरकवाटं दक्षिणाभिमुखं, संस्थाप्य शिल्पिनं विसृज्य; तद्वाराभिमुखे चोत्तरे वास्तुहोमं हुत्वा, पर्यग्निं कृत्वा, पञ्चगव्याद्भिस्संशोध्य, षडङ्गानि प्रत्येकं वस्त्रेणावेष्ट्य, अभिमुखे धान्यपीठे कुम्भं सन्न्यस्य, आचार्य उत्तराभिमुखमासित्वा, ध्यायन् धातारं, विधातारं, भुवङ्गं, पतङ्गं, पतिरं, वरुणं च, तस्मिन् कुम्भाऽम्भसि समावाह्य, पश्चाद्धौत्रं प्रशंस्य, धात्रादीनामावाहनं, जुष्टाकारस्वाहाकारान् कृत्वा, धात्रादिषट्दैवमन्त्रान् प्रत्येकं दशपर्यायं सवैष्णवं च हुत्वा, प्रभाते तत्कुम्भोदकेन धात्रादीन् समावाह्य, अभ्यर्च्य, हविर्निवेदनं च कारयेत्। ब्रह्मेशयोः, भृगुमार्कण्डेययोश्च, मुखमण्टपे सोपाने वा दक्षिणोत्तरयोः पृथगेव होमं हुत्वा, कुम्भपूजनं च कारयेत्।

मणिकादीनां द्वारपालानां तत्तत्पार्श्वेऽभिमुखे वा होमं कुम्भपूजनं च।

अन्येषां परिवाराणां तत्तदालयाभिमुखे सर्वेषां पृथगेव वास्तुहोमं हुत्वा, चतुस्त्रिंशः पटलः [[१८२]] अभिमुखे शय्यावेदिं द्विहस्तायतविस्तारां तत्तद्बिम्बार्धाधिकमानां वा, तत्तुरीयांशोत्सेधं सङ्कल्प्य, तत्तन्मन्त्रेण पूर्ववदक्ष्युन्मेषणाधिवासनादीनि कृत्वा, पश्चादौपासनाग्नावाघारं हुत्वा, कुम्भांश्चतुराढकसम्पूर्णान् खण्डस्फुटितकालरहितान् सङ्गृह्य, तन्तुना परिवेष्ट्य, अद्भिरापूर्य, वस्त्रयुग्मेनावेष्ट्य, रत्नं सुवर्णं वा, तत्तदायुधसहितं, तत्तन्मन्त्रेण तत्तत्कुम्भे प्रक्षिप्य, सप्तभिः कलशैः संस्नाप्य, शय्यावेद्यां धान्योपरि पञ्चवस्त्राण्यास्तीर्य, प्रतिसरं बध्वा, तत्तन्मन्त्रेण शाययित्वा, उत्तराछादनं कृत्वा, हौत्रं प्रशंस्य तत्तन्मूर्तिमन्त्रेण आवाहन जुष्टाकारस्वाहाकारन् हु(कृ)त्वा, सर्वेषां परिवाराणां तत्तन्मन्त्रान् सवैष्णवान् षोडशकृत्वो द्वादशकृत्वो वा जुहुयात्, रात्रिशेषं व्यपोह्य, प्रभाते स्नात्वा, आलयमाविश्य, कुम्भं बिम्बं च समानीय, तत्तन्मन्त्रेण रत्नन्यासं कृत्वा, तत्तन्मन्त्रेण तत्तद्बेरहृदये तत्तद्बीजाक्षरं न्यस्य, तत्तन्मन्त्रेणाऽऽवाह्य, अभ्यर्च्य, हविर्निवेदयेदित्याह मरीचिः॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे परिवाराणां पृथक्प्रतिष्ठाविधिर्नाम चतुस्त्रिंशः पटलः ॥ ३४ ॥