०३३ रत्नन्यासप्रतिष्ठाविधिः

अथ त्रयस्त्रिंशः पटलः पीठावटे रत्नादिन्यासः दक्षिणादानं च ततःप्रभाते स्नात्वा आचम्य सन्ध्यामुपास्य देवादीनद्भिस्तर्पयित्वा ब्रह्मयज्ञं कृत्वा देवालयं प्रविश्य ’प्रतद्विष्णु’रिति सद्मप्रदक्षिणं कृत्वा यज्ञालयं प्रविश्य अर्चापीठे कृतेऽवटे पञ्चविंशतिभागं कृत्वा अधिवासितरत्नान्यादाय तस्मिन् ब्रह्माणम् इन्द्रादिदिग्देवांश्चाभ्यर्च्य पुष्पादीन् संशोध्य ’तमेकनेमि’ (वै॰मं॰प्रं॰८) मित्युक्त्वाऽभिमृश्य तेनैव ब्रह्मस्थाने गजं प्रतिष्ठाप्य ’शतधार’ (वै॰प्रं॰८) मिति गरुडं तस्मिन् ’इन्द्रं प्रणवन्त’ (वै॰प्रं॰) मिति ऐन्द्रे वज्रमणिम्, ’अग्नावग्नि’ (वै॰प्रं॰८)रिति आग्नेय्यां मौक्तिकं ’यमोदाधारे’ (वै॰म॰६, तै॰आ॰८) ति याम्ये वैडूर्यम्, ’वसवः प्रथम’ (वै॰म॰प्र॰८) इति र्नैऋत्यां शङ्खजं, ’एते शत’ (वै॰प्र॰८) मिति वारुण्यां स्फटिकम् ’मरुतः परमात्मे’ (वै॰प्र॰६) ति वायव्यां पुष्यकं, ’सोमं राजान’ (वै॰प्र॰१) मिति सौम्ये चन्द्रकान्तं, ’ईशान’ (वै॰म॰८) मित्यैशान्यां नीलं च, इन्द्राग्न्योरन्तरे ’शन्न्नो निधत्ता’ (वै॰प्र॰८) मिति अमृताश्स्मकं ’धाता धातृणा’ मिति (वै॰म॰८) यमाग्न्योरन्तरे लोहिताश्मकं, यमनीलयोर्मध्ये ’विश्वेदेवस्ये’ (वै॰म॰३) त्युत्पलमणिं, नीलवरुणयोर्मध्ये ’अधिब्रह्मायतता’ (वै॰प्र॰८) मिति प्रवाळं, वरुणवाय्वोरन्तरे ’इमां मूर्धन्या’ (वै॰म॰प्र॰८) मिति मनःशिलां, वायुसोमयोर्मध्ये ’अप्सर’ (वै॰प्र॰८) स्विति शुक्तिजं, सोमेशानयोरन्तरे यं ’काद्रवेय’ (वै॰प्र॰८) इति विमलमणिं, ईशानेन्द्रयोर्मध्ये ’अर्यम्णःकुम्भी’ (वै॰प्र॰८) ति कुर्विदं, सन्यस्य अभ्यन्तरे पदे च ऐन्द्रादीन्विदिक्षु गैरिक, हरिताळ, मनःशिलाञ्जनश्यामकासीस, पारद, सौराष्ट्र, गोरोचनाऽन्तं तत्तद्दिगीशानां मन्त्रेणऽसङ्करं सन्यस्य तथा शालि, व्रीहि, यव, निष्पाव, नीवार, षाष्टिका, माष, मुद्ग, तिल, तिल्वादीनां रूपं सुवर्णेन कृत्वा श्रीवत्सादीनि मङ्गलादीनि [[१७७]] च सन्यस्य पञ्चायुधानि मध्ये चतुर्दिक्षु सन्यस्य मध्ये पदे सौवर्णचिह्नानि कूर्मरूपमेघविद्युल्लताश्च विन्यसेत्, एवं कर्तुमशक्तश्चेन्नवरत्नाष्टमङ्गळपञ्चायुधवर्णचिह्नानि सन्यस्य तच्छ्वभ्रं दुकूलेनाऽऽछाद्य सुधया पूरयित्वा सुदृढं कृत्वा ’विष्णुस्त्वां रक्ष’त्विति उक्त्वा (वै॰प्र॰३) अभ्युक्ष्य पौण्डरीकाग्निं विसृज्य गर्भालयं संशोध्य उपलिप्य पैष्ट्या भूमिमलङ्कृत्य उपरिष्ठाद्वितानपताकमुक्तादामपुष्पमालाद्यैरलङ्कृत्य अधस्तात्कुसुमाक्षतानाकीर्य, अगरुधूपैः कर्पूरदीपैर्द्वारपार्श्वे दीपाङ्कुरोपकुम्भाद्यैरलङ्कृत्य यज्ञशालामागत्य देवेशं प्रणम्य यजमानो गुरुमभिवन्द्य अनुज्ञाप्य वस्त्रोत्तरीयोष्णीषाभरणैर्गन्धमाल्यैश्च अभिपूज्य देवसन्निधौ सोदकं सुवर्णं दद्यात्।

राजा चेत् चतुष्षष्ठिनिष्कं गुरवे, ग्रामश्चेदष्टचत्वारिंशत्, इतरे त्वाद्या एकविंशतिनिष्कं दद्युः,। अन्येषामप्यशक्तानां दक्षिणादानं नवधा उच्यते पादाधिकं नवनिष्कमुत्तमोत्तमं, तथाष्टनिष्कमुत्तममध्यमं, तथा सप्तनिष्कमुत्तमाधमं, पादाधिकं षण्णिष्कं मध्यमोत्तमं तथा पञ्चनिष्कं मध्यममध्यमं, निष्कचतुष्टयं मध्यमाधमं, पादाधिकत्रयनिष्कमधमोत्तमं, तथा निष्कद्वयमधममध्यमं तथैकनिष्कमधमाधममिति तस्माछक्तिं न वञ्चयेत्। अज्ञानादर्थलोभाद्वा शक्तिवञ्चने कृते ते पदार्थिन एव तत्फलमाप्नुयुः यजमानो रौरवमायाति।

स्थापकानां सभ्याध्वर्योर्होतुः पौण्डरीकाध्वर्योश्च आचार्यदक्षिणाचतुर्थांशं, तदर्धमाहवनीयाध्वर्यूणां, तदर्धम्, अन्यपदार्थिनां च, दद्यात्। यज्ञस्य दक्षिणा जीवो भवेत् अल्पदक्षिणायागो यजमानं ब्रूणहत्यां प्रापयति इत्येके। तस्मादवश्यं दक्षिणादानं यथोक्तं कुर्यात्। द्रव्यहीने तद्ग्रामयजमानस्यापि द्रव्यहानि; क्रियाहीने पुण्यक्रियाहानिर्मन्त्रहीने स्वाध्यायायुष्यहानिः श्रद्धाभक्तिहीने सर्वहानिर्भवति, तस्मात् शास्त्रं संलक्ष्य यथाविधि समाचरेत्।

त्रयस्त्रिंशः पटलः [[१७८]] व्याहृतिहोमादि कुम्भादिनयनं च अथाध्वर्युस्सभ्याग्निकुण्डं परिस्तीर्य वैष्णवं व्याहृत्यन्तं चतुष्कृत्वा हुत्वा स्विष्टकृदादिपूर्णाहुतिपर्यन्तं कृत्वा आलयदक्षिणे प्रथमावरणे महानसे र्नैऋते पूर्ववत्सभ्याग्निकुण्डं कृत्वा प्रोक्षणोल्लेखनादिकं कृत्वा अग्निं नित्यहोमार्थं निधाय पश्चात् दैवज्ञमभिपूज्य मुहूर्ते समनुप्राप्ते देवेशं प्रणम्य ’भूप्रपद्ये’ (वै॰प्र॰८) इति कुसुमाञ्जलिं दत्वा ततादिवाद्यैर्घोषयित्वा वितानैः, ध्वजैः, छत्रैः, पिञ्छैः, चामरै, र्हेमादिपरिछदैर्धूपैर्दीपैरष्टमङ्गलैः, पञ्चायुधैर्भक्तैश्च, परितो नृत्तगेयवाद्यसंयुक्तं, शकुनसूक्तं समुच्चार्य, तोयधारापुरस्सरम् आचार्यः शिरसा कुम्भं धारयन्, अग्रतो गच्छेत् ततोऽनुस्थापका देवमादाय पार्श्वयोरुभयोर्देव्यौ स्नपनोत्सवबलिबेराणि च क्रमेणैव आलयं प्रदक्षिणं कृत्वा भक्ताभिर्ब्राह्मणपत्नीभिः दीपाङ्कुरोदकुम्भैः प्रत्युत्थानं कारयित्वा आलयमाविश्य आचार्यो ध्रुवस्य दक्षिणे धान्यपीठे कुम्भं सन्न्यसेत्। स्थापकाः ’प्रतद्विष्णु’रिति कौतुकं ब्रह्मस्थाने प्रक्षिप्य (प्रतिष्ठाप्य) पार्श्वयोरुभयोर्देव्यौ तद्दक्षिणे स्नापनम् उत्तरे चोत्सवं बलिबेरं च स्थापयेयुः, अथवा दक्षिणे चोत्सवम् उत्तरे स्नापनमित्येके। देवस्य पादौ स्पृष्ट्वा विष्णुसूक्तं, पुरुषसूक्तम्, एकाक्षरसूक्तं च (वै॰प्र॰१-) जप्त्वा दक्षिणे श्रीदेव्याः पादौ स्पृष्ट्वा श्रीसूक्तं, वामे महीदेव्याः पादौ स्पृष्ट्वा महीसूक्तं जपेत्। ध्रुवस्य दक्षिणे च उत्तराभिमुखस्तिष्ठन् आत्मसूक्तं जप्त्वा समाहितो देवं ध्यायन्। सुवर्भुवर्भूरिति बिम्बस्य मूर्धनाभिपादेषु क्रमेण विन्यस्य प्रणवैरावेष्टयेत्।

न्यासमन्त्रस्वरूपम्

एषां त्रयाणां न्यासमन्त्रस्वरूपं वक्ष्ये - षण्डपुँस्त्रीरूपानृग्यजुस्साममयान् सितहेमश्यामनिभान् रक्तश्यामशुक्लवस्त्रान् खड्गदण्डपद्मधरान् प्रसन्नशीतसौम्यलोचनान् स्मृत्वा न्यसेत्। एषां त्रयाणामास्तिकऋषिः, त्रिष्टुप् छन्दः [[१७९]] विष्णुर्देवतेति च स्मरेत्। यकारं पादयोरन्तरे पीठे हृदये अकारं च न्यस्य तौ प्रणवैर्वेष्टयेत्। तयोःस्वरूपं वक्ष्ये यकारं पुंरूपं कनकाभं सिताम्बरं द्विभुजं पुष्पदण्डधरं स्मृत्वा न्यसेत्। अस्य ऋषिरन्तर्यामी। छन्दोदेवीगायत्रं वायुर्देवतेति च स्मरेत्। अकारं पुंरूपं कदम्बकुसुमप्रभं पीताम्बरधरं वैभवीशक्तिसंरूढं चतुर्भुजम् अभयकट्यवलम्बितहस्तं चक्रशङ्खधरं स्मृत्वा न्यसेत् अस्य ऋषिर्ब्रह्मा देवीगायत्रीछन्दः परमपुरुषो देवता इति च स्मरेत्। एतानेवं ध्यात्वा अक्षराणि संस्कृतरूपेण विलिखेत्। अक्षराणि पृथक् पृथक् प्रणवैर्वेष्टयेत्। प्रणवस्वरूपमुत्तरतो वक्ष्यामः।

आवाहनक्रमः

’इदं विष्णु’रिति मन्त्रेण कुम्भस्थमाधावं शक्तियुतं कूर्चेनादाय ’आयातु भगवान् इति बिम्बस्य मूर्ध्निं विष्णुमावाहयामीति संस्राव्य आवाहयेत्।

तत्पीठं परितः पुरुषाद्यावरणत्रयदेवानां तत्तन्नाम्ना समावाह्य श्रीदेव्या दक्षिणे श्रीकारं, वामे भूमेर्लकारं च, हृदये सन्यस्य तत्तन्मन्त्रेणाऽऽवाह्य, ततो ब्रह्मणो मकारं, शङ्करस्य शकारं, पुण्यस्य मकारं भृगोश्च लकारं बीजाक्षरं, सन्यस्य तत्तन्मन्त्रैस्तत्तन्नाममन्त्रं संयोज्याऽऽ(वै॰म॰८)वाहयेत्। ’संयुक्तमेतदिति ध्रुवकौतुकयोस्सम्बन्धकूर्चं प्रक्षिप्य कौतुकादीनां पूर्वोक्तन्यासं च कृत्वा सौवर्णादिपात्रे शङ्खे वा पूतवारिणाऽऽपूर्य पुष्पाक्षतकुशकूर्चान्विन्यस्य दीपाद्दीपमिव ध्रुवबेरात् शक्तिं प्रणिधिजले तथा ध्यायन्, कौतुके बिम्बे समावाह्य, तद्दक्षिणे देवीं श्रियं, वामे हरिणीं चाऽऽवाहयेत्। तथैव स्नपनोत्सवबलिबेरेषु क्रमेणाऽऽवाहयेत्। कुम्भस्थोदकेन कौतुकं परितः सुभद्राद्यावरणत्रयदेवानावाह्य अन्येषु परिवारबिम्बेषु तत्तद्बीजं विन्यस्य तत्तन्मन्त्रै तत्तन्नाममन्त्रैस्संयोज्याऽऽवाहयेत्।

आचार्यः स्थापकाद्यैस्सहितः पुण्याहं वाचयित्वा ब्रह्मघोषं च कारयेत्।

तत्कुम्भेनाऽभ्युक्षणं यः कुर्यात्, तस्य मनोवाक्कायकृतं पापं तत्क्षणादेव त्रयस्त्रिंशः पटलः [[१८०]] नश्यति। देवं नित्यार्चनाविधानेनाऽभ्यर्च्य पायसादि हवींषि निवेद्य होमं हुत्वा बलिं निर्वाप्य, विधिना बलिबेरमाराध्य बलिं बलिबेरं वा (च) आलयं प्रदक्षिणं कारयित्वा पश्चाद्ब्राह्मणानन्नेन तर्पयित्वा वैष्णवान् सम्पूज्य तद्रात्रौ ध्वजारोहणं कृत्वा उत्सवोक्तक्रमेण उत्सवं कारयेत्, अशक्तश्चेत्तद्रात्रौ ग्राममालयं वा प्रदक्षिणं कारयित्वा स्नपनोक्तक्रमेण स्नपनं कुर्यात्। अस्य

यज्ञस्य

देवयज्ञस्य पञ्चविंशतिक्रियानिरूपणम् प्रथमम् अङ्कुरार्पणं, द्वितीयं सम्भारहरणं, तृतीयमक्ष्युमोचनं, चतुर्थं बिम्बशुद्धिः पञ्चममग्निमथनं, षष्ठं वास्तुशुद्धिः, सप्तममग्निप्रणयनम्, अष्टमं कुम्भपूजा, ध्यानं नवमं; कलशस्थापनं, प्रतिसरं, शयनास्तरणं च, दशमं; शयनाधिवासनम् एकादशं; वेदाध्ययनं सर्वदेवार्चनं द्वादशं; हौत्रशंसनादित्रयोदशं; प्रधानहोमं चतुर्दशं; देवस्योत्थापनं, स्नानं, पञ्चदशं; रत्नन्यासं षोडशं; दक्षिणादानमग्निसङ्ग्रहणं सप्तदशं, सद्मप्रदक्षिणम् अष्टादशं, चलाचलस्थापनं तयोरावाहनं च एकोनविंशं; अन्यदेवानामावाहनं विंशतिकं; पुण्याहम् एकविंश; देवार्चनं द्वाविंशतिकं; ब्राह्मणभोजनं वैष्णवपूजनं त्रयोविंशम् उत्सवं चतुर्विंशं; स्नापनं पञ्चविंशं; महाहविर्निवेदनम् इति क्रमेण एतेषां विपर्यासं न कारयेत्।

एवं यः कुरुते भक्त्या विष्णोस्थापनं ब्राह्मणः श्रद्दधानस्तस्य मनोवाक्काय कृतं पापं क्षिप्रं नश्यति। सर्वयज्ञफलं लब्ध्वा सर्वान् कामानवाप्य दशपूर्वान् दशापारन् आत्मानं चैकविंशतिकं विष्णोर्लोकं गमयित्वा तद्विष्णोः परमं सायुज्यपदं प्राप्नोति। क्षत्रियो विजयं श्रियं कीर्तिं च लब्ध्वा अन्यूनाऽनेककोशाक्षयबलः सर्वक्षत्रियाभिवन्द्यः सागरान्तां महीं प्राप्य चक्रवर्ती भूत्वा विष्णोस्सारूप्यपदं प्राप्नेति। वैश्योधनधान्यसम्पूर्णस्तेजस्वी यशस्वी पुत्रवान् [[१८१]] पशुमान् पुण्यमनोरधपुरस्य सामीप्यपदं प्राप्नेति। शूद्रः स्वकुलकेतुः प्रजावान् तेजस्वी यशस्वी पशुमान् ऐहिकान् भोगानवाप्य विष्णोः सालोक्यं पदं प्राप्नोति। ग्रामस्य राष्ट्रस्य राज्ञश्च शान्तिमारोग्यधनधान्यायुर्विवृद्धिं च कुर्यात्।

तस्माद्देवयजनं यष्टव्यामिति विज्ञायते॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे रत्नन्यासप्रतिष्ठाविधिर्नाम त्रयस्त्रिंशः पटलः ॥ ३३ ॥