०३२ पारमात्मिकानुक्रमणम्

अथ द्वात्रिंशः पटलः

होमत्रैविध्यम्

एवं कृत्वा पश्चात्सर्वेषां परिवाराणामालयं परितो होममाचरेत्, अथवा श्रीभूम्योः ब्रह्मेशानयोर्भृगुमार्कण्डेययोर्वीशशेषयोः होममधमम्। विमानपालानामिन्द्रादिलोकपालानामादित्यशेषयोर्होमं मध्यमम्। द्वारपालानां चक्रध्वजशङ्खमहाभूतपाकोऽर्जुनानां होममुत्तममित्येके।

वेदिं परितः देवार्चनक्रमः यज्ञशालां महावेदिं वा, परितः सर्वान् देवान् समभ्यर्च्य महावेद्युपरिष्ठात् प्रागादिचतुर्दिक्षु ध्रुवकौतुकयोरावरणत्रयदेवान् गर्भालयाधिपान् दक्षिणे ब्रह्माणं मार्कण्डेयम्, उत्तरे शङ्करं ख्यातीशं, द्वारेषु धात्रादिद्वारपालान् विमानापालादीन् सर्वान् देवान् प्रथमावरणाद्यावरणक्रमेण तत्तद्दिक्षु समर्चयेत्॥

प्रथमावरण एव सर्वावरणदेवानां निवेशपक्षः अथवा इन्द्रं न्यक्षं श्रियं हविःपालमग्निं भौमं जगद्भुवं विवस्वन्तं यमं दुर्गां सप्तरोहिणीः सप्तमातॄः नीलं च महाकालिं पुरुषं वरुणं मित्रं बुधं [[१७१]] ज्येष्ठं पुष्पेशं वायुं शुक्रं सप्तर्षीन् गङ्गां धन्यं क्षत्तारं निशाकरं पाञ्चभौतिकं शान्तमीशानं वह्निरक्षकं वाग्देवीं च, एवं पूर्वादिप्रदक्षिणं, प्राङ्मुखे श्रीभूतगरुडचक्रध्वजशङ्खयूथाधिपविष्णुभूतान् यथाक्रमेण एकादशोपचारैरभ्यर्च्य, तत्तन्नाम्नार्चयेदिति केचित्॥

हौत्रप्रशंसनम्

प्रभूतबलिमाहृत्य बलिनिर्वापं च कारयेत्। पश्चाद्धोतारमाहूय वस्त्रोत्तरीयाभरणैरभिपूजयेत्। स होता सभ्यस्य पुरतस्तिष्ठेत् सभ्याध्वर्युरग्निं प्रज्वाल्य ’होतरेही’ति वदेत्। स होता ’अध्वर्य्वोर्देवते’ त्युक्त्वा आचम्य प्रणवपूर्वं ’नमःप्रवक्र’ (वै॰म॰प्र॰८) इति वदन् तिष्ठन् सोच्चं (उच्चैः) वैखानससूत्रोक्तविधिना हौत्रं प्रशंसयेत्। अध्वर्युस्तेनोक्तम् ओङ्कारं श्रुत्वा सप्तदशपालाशेध्मान् पद्ममुकुलाग्रान् घृताक्तान् गृहीत्वा, अग्नौ ’ओं स्वाहे’ति क्षिपेत; होता ब्राह्मणभारते (वै॰म॰प्र॰८) त्यन्तमुक्त्वा यजमानस्य गोत्रप्रवरं क्रमेण वदेत्। ग्रामो यजमानश्चेत् काश्यपप्रवरं वदेत्। ’आया’ (वै॰म॰प्र॰८)त्विति मन्त्रान्ते ’विष्ण्वादिमहाभूतान्तम् आवहे’ ति वदेत्॥

प्रणिधावावाहानं, सभ्ये उक्तहोमः तथैवाऽध्वर्युः आदिमूर्त्यादिशर्वान्तं’ दक्षिणे प्रणिधौ धात्रादिमहाभूतान्तम् उत्तरप्रणिधौ समावाह्य आवाहनक्रमेण जुष्टाकारं कृत्वा तत्क्रमेणाऽऽज्याहुतीर्जुहोति। सभ्याग्निं परिषिच्य पालाशेध्मान् गृहीत्वा मूलाग्राभ्यां घृतं स्पर्शयित्वा देवं ध्यायन्विष्णुगायत्र्या जुहोति। अग्निहोत्रहविण्या आज्यं गृहीत्वा अतोदेवादिना हुत्वा पश्चादुपभृताऽऽज्यमादाय विष्णुसूक्तैश्च हुत्वा जुह्वा पक्कं समादाय वैष्णवं षोडशद्वादशपर्यायतो जुहोति स्रुवेणाज्यमादाय पञ्चवारुणं मूलहोमं यद्देवादिकूष्माण्डं च सकृत् हुत्वा पश्चात् ’स्वस्ति चैवेह स्वाहा, प्रजापतये स्वाहा, आदित्येभ्यः स्वाहा, विश्वेभ्यो देवेभ्यः स्वाहा, द्वात्रिंशः पटलः [[१७२]] मरुद्गणेभ्यः स्वाहा, भूरग्नये च पृथिव्यै च महते च स्वाहे’त्यन्तैर्मन्त्रैर्दशभिः शतशो जुहुयात्। एषा सहस्राऽऽहुतिः एनाम् उपांशु यजेत। वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, ध्रुवकौतुकयोःपुरुषाद्यावरणत्रयदेवानां, वैष्णवं, तत्तन्मन्त्रैः जुहुयात्॥

सर्वदैवत्यमन्त्रक्रमः

’श्रियेजाता, हिरण्यवर्णा’मिति श्रियै, ’मेदिनीदेवी, भूमिर्भूम्ने’ति मह्यै; ’ब्रह्म जज्ञानं, हिरण्यगर्भ’ इति ब्रह्मणे; ’रुद्रमन्यं, त्र्यम्बक’मिति रुद्राय; ’चिरायुषाय, पुण्यौघनिष्ठाये’ति मार्कण्डेयाय; ’पद्मापित्रे, भृगव’ इति भृगवे, ’द्यावापृथिव्योः, यस्याः श्रिया तस्थुषोधृत्या, य एष बिभ्रति, वितत्यविश्वः योनोभिरक्षती’ति षट् च द्वारदेवत्याः, ’मुनीन्द्रमिति मणिकाय, ’सन्ध्याये’ति सन्ध्यायै, ’तापस’मिति तापसाय ’वैखानसाये’ति विखनसे, ’किष्किन्धाय, ’तीर्थाये’ति तीर्थाय, ’त्रातारमिन्द्रं, महा ँ्इन्द्रः, महा ँ्इन्द्रो नृवत्, भुवस्त्वम्, एन्द्रसानसिं, प्रससाहिषम्, अस्माकम्, इन्द्रोभूतस्य, इन्द्रोद्यौः, इन्द्रं प्रणवन्तम्, इन्द्रोवृत्रम्, इन्द्रोबभूवुः, इन्द्रोऽस्माकमिति त्रयोदश इन्द्राय, ’अग्निर्मूर्धा, अयमग्नि’रित्यग्नये; ’यमोदाधार, नमस्ते र्निऋते’ इति द्वौ याम्यौ, ’वसवः प्रथम, सहस्राक्ष इति र्निऋतये, ’येते शतं वरुणः, उदुत्तमम्, अयाश्चाग्ने, आपः सृजन्तु स्निग्धानी’ति चत्वारो वरुणाय मरुतः परमात्मा मरुतो गणानामिति वायवे, ’मिश्रवासस, एतान् घ्नतैता’निति द्वौ कुबेराय, ’ईशानः, ईश ईशते’ इति द्वावीशानाय, ’उदुत्यं चित्र’मित्यादित्याय, ’ममाग्ने, अहमग्ने, अग्नआयाही’ति त्रयो भौमाय, ’प्रभुर्देवो, ग्रहाधिपतिरिति शनैश्चराय, ’बृहस्पतिर्देवानां, बृहस्पतिस्सोमो, बृहस्पतेऽतियत्, उपयामगृहीत’ इति चत्वारो बृहस्पतये, ’श्रविष्ठजो यः, तद्विष्णोः परमं, तद्विप्रास’ इति (त्रयः) बुधाय, ’प्रजापतेनत्वत्, सुभूः स्वयम्भू’रिति द्वौ शुक्राय, ’भूगामिनी, [[१७३]] इष्टगामिनी’ति द्वौ गङ्गायै ’सोमयास्ते, या ते धामानी’ति चन्द्राय, ’रुद्रमन्यं, त्रियम्बक’मिति द्वौ रुद्राय; ’जगद्भुवं, जगद्भुवोऽधिपतिः, सुब्रह्मण्यो, बृहस्पते, सुब्रह्मण्यो रुद्रभुवो, जगद्भवोयायज’ इति षट् कुमाराय; ’अतोदेवा, इदं विष्णुरिति द्वौ पुरुषाय; ’या ब्रह्मचारिणी, सा चारुजन्मनीति द्वौ धात्र्यै; ’येषामराणां, याम्ये’ ति द्वौ ज्येष्ठायै; ’जातवेदसे, तामग्निवर्णां, अग्ने त्वं पारया, विश्वानिनो, प्रतनाजितं, प्रतोषिक’मिति षट् दुर्गायै; नन्दिन्यामूल, आपोविवेश, शाखाभूत, देवीप्रवाहिनी, बिसिनीभूता, प्रविद्युता; गङ्गावाणी, विद्यां नो, माताह्यमेया, आयामहं त्वां, ययासतीस्सत्यं, प्रसव्यनङ्गे, याभ्योहि यो मानसा, इति चतुर्दश मन्त्रान् रोहिणीभ्य;ः ’यतस्त्वमासीत्, तस्मदस्मा’ दिति भृगवे; ’कस्याङ्गिरोऽभूत्, विस्मापयतीति मरीचये; ’व्यावर्धतेयो, सस्मारेति पुलहाय; ’य एषो दानं, आनन्दरोद, इति पुलस्त्याय; ’प्रप्रायशो, पेनिष्पन्ता, इति क्रतवे; ’योनो वसिष्ठः सप्तोत्तमा, इति वसिष्ठाय; ’यआनसूयेशः, य एष विभूद्यः, इत्यत्रये; ’स एको भूत्, यत् त्रैष्टुभश्चे’ त्याकाशाय; ’प्रक्रम्या, योमातरिश्वे ति वायवे ’वृषारतो, जोऽभिमानीत्यग्नये; ’आपोविश्वं, चातुर्य’मिति तोयाय; ’तयादित्या, तन्त्रोण्येषे’ति पृथिव्यै; ’पावकानो, महोर्ण’ इति सरस्वत्यै; शंसानि यच्छ, भूयाम’ इति श्रियै; य उत्तमः, अग्नेः पन्थाय’मिति न्यक्षाय; ’यमर्पयन्ति, यस्संहरती’ति विवस्वते; ’ऋचामधीशो, नीतं धृत’ मिति मित्राय; ’येनायुष्टे, समूह्यतेऽम्बेति महीधराय; ’चरुं पचेद्य, श्चुल्यां ही’ति हवीरक्षकाय; चतुर्मुखी, या लोकेति ब्रह्माण्यै, ’त्रिणेत्रधारी, चिन्नं चे’ति गणेश्वर्यै, ’ज्वालामाला, बालान् हरी’ति षण्मुख्यै, ’युगेयुगे, सर्वं रमे’ति वैष्णव्यै, ’कल्पेषु अन्तेष्विति वाराह्यै, ’सा सर्वदेवेषु, मालाधरी’ति इन्द्राण्यै, चण्डी, मोही’ति काल्यै, ’धातास्य, फुल्लानी’ति पुष्परक्षकाय, विश्वान् बले, सौरी’ ति बलिरक्षकाय, ’अग्नेयो, प्रेक्षामधीश’ इति विष्वक्सेनाय, ’शतधारं, कदा विसृजते’ति गरुडाय, ’धर्मोघमादौ, यो द्वात्रिंशः पटलः [[१७४]] गन्धर’न्निति विघ्नाय, ’यमर्पयन्ति, शन्न’ इत्यनन्ताय, ’भूमाननोऽग्रे, वन्ध्यान’ इति सुदर्शनाय, ’आसाग्र, ओजो बलाये’ति ध्वजाय, ’तं मायशोग्रे, अस्मादुपास्य’ इति शङ्खाय, भूतानां, भूतोभूते’ष्विति महाभूताय; ’अक्षहन्त ये भूता’ इति विष्णुभूताय, हुत्वा व्याहृतीर्जुहोति, यस्य देवस्य स्वको मन्त्रो न विद्यते तस्य नाम मन्त्रं वैष्णवान्तं जुहोति॥

तत्तदग्नौ होमे मन्त्रविशेषः अथाहवनीये पुरुषसूक्तं, भृगुमार्कण्डेययोर्मन्त्र ऐन्द्रं, आग्नेयम्; अन्वाहार्ये विष्णुसूक्तं, ब्राह्मं याम्यं नैऋतं; गार्हपत्ये ’अतोदेवा’ इति वैष्णवं, श्रीभूमिदेवत्यं वारुणं, वायव्यम्; आवसथ्ये एकाक्षरादिसूक्तं, रौद्रं, कौबेर, ईशानदेवत्यं द्वादशाऽष्ट चतुरो वा पर्यायतो जुहोति। पौण्डरीके विष्णुगायत्र्याऽब्जं, बिल्वपत्रं वा, घृताक्तम् अष्टाशतं जुहुयात्। विष्णुसूक्तं, ब्राह्मं, ’विष्णुस्सर्वेषा’ मित्यादि पारमात्मिकं, वैष्णवान्तं जुहुयात्॥

विष्ण्वादिमूर्तीनां प्रधानमन्त्राः अथातः पारमात्मिकाऽनुक्रमणम् ’विष्णुस्सर्वेषां, सुसूक्ष्म, ज्योतिर्वा, ईशो यस्मात्, रायामीशो, यो ब्रह्मशब्द, यो वा त्रिमूर्तिः, यद्वा कृतं, कः कोशमङ्गे यं यज्ञै’रिति प्रथमं; ’यो वा गविष्ठो, यो वा वायुः, त्वमग्ने, त्वं जीवो, भूमेर्वितन्वन्’ मनस्त्वं, त्वं बुद्धिः, यत्सूक्ष्मान्, यस्य वा भयात्, यं त्वां सर्व’मिति द्वितीयं; ’यस्त्वं, कामो भूत्वा, अङ्गादङ्गात्, यो मोहयन्, यो वा दशात्मा, यो ब्रह्मा; सारस्वतो वा, यो वा परञ्ज्योतिः, यो दोष, यस्यैता ब्रह्मे’ति तृतीयं, ’वाको वा, द्वावेतौ, यो वा आयुः, यो वा तेजः, सा सम्पायाः, यो वा संयोगः, सहस्रं वा, स्वातिका, सत्वं वा उद्रेकं, सत्योज्योति’ रिति चतुर्थ; ’सर्वं सत्यं, सत्वोद्योगः, कामीमिमा’ आरणी वा, तत्सत्वो वा विष्णुः, तत् भूर्भूस्थम्, आपो वा आपः, त्रयी वा काम, द्वौ वा मुख्यौ, स [[१७५]] एकैक’ इति पञ्चमं, ’स्वयमादिः, यस्स्वयं सृष्टं, स्वौजसा सर्वं, क्ष्मामेकां, यः कुन्धरमाणो, यो वा पृथां, यां गामुशन्तीं, प्रजापतेनत्वत्, यो धूर्धुरं, यो वा व्यहिंसी’ रिति षष्ठम्, ’तपोनिधिं, यो वा नृसिह्मो, रयिं ककुद्मान् राकामहं, वेदाहमेतं, दिग्दोषा यस्य, पद्मास्यवक्षो, यः पुण्डरीकः, रयीणां पतिं, रायां पतत्रेति सप्तमं यत्सारभूत, फलो वा एषः धूर्नोवहन्तां, विश्वं बिभर्षि, सो वा स्वरूपः, भूर्भुवं वा, दाक्षायण्यै, आशास्समस्ता, यो जङ्गमानां, यो वा दशाना’मित्यष्टमं, चत्वारो दोषा, वक्षोवसत्यस्य, अणोरणीयान्, विष्णुर्वरिष्ठो, अब्जो जुषन्तां, मामात्मगुप्तां, यं चिन्तयन्तो, पुण्यां च पुण्यः, सोनो भूतं, सत्वैव नित्य’मिति नवमं, ’या गा वरिष्ठा, वाय्वन्तरात्मा, सर्वोपरिष्ठात्, तमस्सर्वभूत, ज्योतिर्ज्योतिः, सत्वं सत्वात्मकं, अनिर्भिण्णं, यस्येच्छालोके, यो वेदादिः, यो वा व्यक्त’मिति दशमं, यो वा भूतिः, सत्यस्सत्यस्थं, ऋतं सत्यं, अंराजिमन्तं, मामात्मगुप्तां, इत्येकादशम्, इति ’विष्णुस्सर्वेषामित्यादि पञ्चोत्तरशतं, पारमात्मिकमिति विज्ञायते॥

वैष्णवान्तहोमानन्तरं कर्तव्यम् परिवाराणां त्तत्तद्धोमेषु तत्तन्मन्त्रं वैष्णवं द्वादशाऽष्ट चतुःपर्यायतो जुहोति विष्णुसूक्तेन पञ्चस्वग्निषु दधिक्षीरघृतलाजैर्युक्तम् उपजुह्वा हुत्वा सभ्याऽग्निं पौण्डरीकाग्निं च विना सर्वेष्वग्निषु अन्तहोमं हुत्वा अग्नीन् विसृज्य नृत्तगेयवाद्यैश्च रात्रिशेषं व्यपोहयेत्॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे हौत्रशंसनादिसर्वदेवत्य पारमात्मिकानुक्रमणं (णिका) नाम द्वात्रिंशः पटलः ॥ ३२ ॥

द्वात्रिंशः पटलः [[१७६]]