०३१ कुम्भध्यानस्नपनशयनादिविधिः

अथ एकत्रिंशः पटलः

ऋत्विग्वरणम्

अथ गुरुर्यजमानम् ’अणोरणीया’नित्यभ्युक्ष्य, सघृतं पयः प्राशयित्वा, द्विजं मन्त्रवद्गृह्णीयात्। वर्णात् परमन्त्रमृते शिष्यत्वेनाहरेत्। तेन शिष्यः पापात्प्रमुच्यते। ऋत्विजश्चाऽहूय ’अथावनीद’(वै॰म॰०प्र॰३-)मिति मण्डलान्युपलिप्य ’अस्त्वासन’ (वै॰म॰प्र-३) मित्यासनानि सदर्भयवानि निधाय तेष्वासीनाँस्तान् देववत्स्मृत्वा पवित्रं यज्ञसंयुक्तं ’अग्निमील’ (ऋ॰स॰१- १-१) इति दधि प्राशयित्वा आचामेत् आचर्यस्तान् पूर्वेद्युरपराह्ने यथाकर्मणि नियुञ्जीत॥

अग्निप्रणयनम्

पश्चादधिवासगतदेवमासाद्य शुद्धोदकैस्संस्नाप्य अभ्यर्च्य नववस्त्रोत्तरीयाद्यैरलङ्कृत्य यानमारोप्य ग्राममालयं प्रदक्षिणं कारयित्वा यज्ञालये पश्चिमे [[१६५]] अलङ्कृते देवं बैल्वफलकोपरि प्राङ्मुखं संस्थाप्य तत्काले मथितमग्निं समाहृत्य तस्याऽऽलयस्योत्तरे वास्तुहोमं हुत्वा आलयं संशोध्य पश्चाद्वैखानससूत्रोक्तविधिना गार्हपत्याग्निकुण्डे आघारं हुत्वा आघारान्ते तमग्निं वर्धयित्वा तस्मादन्वाहार्याग्निकुण्डे ’जातवेदो भुवनस्ये’ (वै॰म॰प्र॰१-) त्यग्निं प्रणीय।

पश्चादाहवनीयाऽग्निकुण्डे ’अग्नआयाही’ (सा॰स १-१-१) ति मन्त्रेणाऽग्निं प्रणीय पश्चादावसथ्याग्निकुण्डे ’अयं ते योनि’रित्यग्निं प्रणीय ततस्सभ्याऽग्निकुण्डे ’मयि गृह्णामी’ (वै॰म॰प्र॰१-) त्यग्निं प्रणीय ततः पौण्डरीकाग्निकुण्डे ’तप्रतीक’ (वै॰म॰प्र-१) इति अग्निं प्रणीय अन्येषु ’जातवेद’(वै॰म॰प्र॰१) इत्यग्निं प्रणयेत्॥

आघारविशेषः

पश्चादाघारान्तरे विशेषो वक्ष्यते - अग्निकुण्डानामूर्ध्ववेद्यामिन्द्रादिदिग्देवान् तत्तत्स्थाने दक्षिणवेद्यधस्तात् ब्रह्माणम्, उत्तरे सोमभ्यर्च्य गार्हपत्योत्तरप्रणिधौ अग्न्यादिदेवानामावाहनान्ते गार्हपत्ययज्ञं यज्ञदैवतविश्वान् देवान्, ’ओं भूः पुरुषमच्युत’मिति; अन्वाहार्ये अन्वाहार्ययज्ञं यज्ञदैवतविश्वान्देवान्, ’ओं भुवः पुरुषं, सत्य’मिति; आहवनीये आहवनीययज्ञं यज्ञदैवतविश्वान् देवान् ’ओं सुवः पुरुषं पुरुष’मिति; आवसथ्ये आवसथ्ययज्ञं यज्ञदैवतविश्वान्देवान् ’ओं महः पुरुषमनिरुद्ध’मिति; सभ्ये सभ्ययज्ञं यज्ञदैवतविश्वान्देवान् ’ओं जनः पुरुषं विष्णु’मिति; पौण्डरीके पौण्डरीकयज्ञं यज्ञदैवतविश्वान् देवान् ओं तपः पुरुषं वासुदेव’मिति; श्रामणके श्रामणकाग्नियज्ञं यज्ञदैवतविश्वान् देवान् ’ओं सत्यं पुरुषं नारायण’मित्यावाह्य परिवाराणां होमेषु औपासनयज्ञं यज्ञदैवतविश्वान् देवान् आवाहयामीत्यावाह्य, तथैवाज्यं निरूप्याऽऽहुतीर्हृत्वा, षड्होमेषु वैष्णवं हुत्वा, एवमेव आघारं जुहुयुः॥

एकत्रिंशः पटलः [[१६६]] एकाध्वर्युपक्षे अन्तरागमने विशेषः आघारान्ते पक्कहोमात्पूर्वं तेषामन्तरं न व्रजेत्, अध्वर्यूणामभावे चैकाध्वर्युश्चेत् ’प्रासावी’रित्यन्तैः प्रवहणं कृत्वा पुनःपरिस्तीर्य होममाचरेत्, अस्य प्रायश्चित्तं वैष्णवं यजेत्॥

प्रधानकुम्भलक्षणादि

पश्चात् कुम्भपूजां समाचरेत्। द्वात्रिंशत्प्रस्थसम्पूर्णं सौवर्णं राजतं ताम्रं मृण्मयं वा मृण्मयं चेत् खण्डस्फुटित कालरहितं पक्कालर्कफलाकारं सम्यग्दग्धं नवं कुम्भं समादाय यज्ञालये वायव्ये सम्भारस्थाने प्राङ्मुखमास्थाय ’इषेत्वोर्जेत्वा’ (यजु-सं-१-१-१)दि जपन् त्रिवृतेनैकेन वा सूत्रेण तिलान्तरं यवान्तरमङ्गुल्यन्तरं वा, परिवेष्ट्य ’शुचीवोहव्या’ (ऋसं ५-४-२४) इति प्रक्षाल्य नादेयं जलं दिवा सङ्गृह्य रात्रौ चेदग्निसन्निधावेव सङ्गृह्य ’इदमापःशिवा’ (वै॰म॰प्र॰ १) इति वस्त्रेणोत्पवनं कृत्वा ’धारा’ (वै॰म॰प्र॰१) स्विति कुम्भं जलेनापूर्य उशीरादिगन्धैर्वासयित्वा, दुकूलाभ्यां क्षौमाभ्यां सूक्ष्मकार्पासवस्त्राभ्यां वा कुम्भमावेष्ट्य।

कुम्भे निक्षेप्यद्रव्याणि तस्मिन् कुशकूर्चाक्षतान्विन्यस्य; पल्लवानि विन्यस्य पद्मरागवज्रवैडूर्यमौक्तिकमरतकपुष्यरागचन्द्रकान्तगोमेधिकेन्द्रनीलानी’ति एतानि नवरत्नानि, रत्नानामलाभे प्रत्येकं सुवर्णं वा, श्रीवत्साद्यष्टमङ्गलानि, गरुडगजकूर्मरूपं च वर्णचिह्नानि, स्रुक्स्रुवकमण्डलुजूहूपजुहूपभृत् छत्रचामराऽङ्कुशध्वजतुलातोदयुगलाङ्गुलादीनि च, मेघविद्युल्लतां च, सुवर्णेन एकाङ्गुलादहीनानि कृत्वा अलाभे सुवर्णशकलानि वा तत्तद्रूपं ध्यात्वा, पृथक्पृथक् विष्णुगायत्र्या प्रक्षिप्य, आलये बालागारे देवोग्र धान्यराशौ कुम्भं सन्यस्य, धान्यराशिस्त्रिविधो भवति षड्द्रोणमुत्तमं द्रोणत्रयं मध्यमं, द्रोणद्वयमधमं, बालागारं चेत् तं देवमाराध्य, निवेद्य॥

[[१६७]] कुम्भे आवाहनक्रमः आचार्यस्तस्य दक्षिणे चोत्तराभिमुखो भूत्वा, ब्राह्ममासनमास्थाय, ’विष्णुर्मां रक्ष’ (वै॰म॰३-) त्वित्यात्मसूक्तं जप्त्वा, समाहितो ध्यानमारभेत्॥

आवाहनाङ्गासनादि

स्वस्तिकासनं कुर्यात्, दक्षिणपादमूर्ध्वं वामपादमधश्च कृत्वा जान्वन्तरे तदङ्गुष्ठौ निगुह्य, शिश्नवृषणावपीडयन्, निवातगतदीप इव ऋजुकायः किञ्चिदुन्नमितवक्त्रो, दन्तैर्दन्तानसंस्पृशन्, नासाग्रस्थेक्षणश्चैवाऽऽसनमासीनो यथाबलं प्राणायामं कुर्यात्॥

रेचकादिस्वरूपं कुम्भे न्यासः त्रिविधः प्राणायामः रेचकपूरककुम्भक इति निश्वासविसर्गो रेचको, निःश्वासध्यानं पूरको, निःश्वासनिरोधः कुम्भकः, इत्येवं प्राणायामं योगशास्त्रोक्तमार्गेण कृत्वा, हृदये बीजाक्षरं न्यस्य प्रणवेन वेष्टयित्वा, कुम्भजले अर्धचन्द्राकारं शुद्धस्फटिकसङ्काशं मध्येऽष्टदलोपेतं पद्मं तन्मध्ये श्यामवर्णं द्विभुजम् इकारबीजान्वितं माहेन्द्रमण्डलं ध्यात्वा, तन्मध्ये पद्मे सितोत्पलवर्णं द्विभुजं पद्मधरं वकारबीजं वरुणमण्डलं ध्यात्वा, तन्मध्ये तप्तहाटकसङ्काशं चतुर्भुजं शङ्खचक्रधरम् आदिबीजं सन्यस्य, दिक्ष्वष्टसु प्रणवैरावेष्ट्य, सर्वानेकप्रणवेन वेष्टयेत्। विष्णुसूक्तं, प्रणवशतं, सहस्रशीर्षमिति च, जप्त्वा, समाहितो ज्ञानयोगमार्गेण ध्यानमारभेत्॥

ध्यानप्रकारः

सर्वाधारं, सनातनमप्रमेयमचिन्त्यं, निर्गुणं, निष्कलं, क्षीरे सर्पिः, तिले तैलं, पुष्पे गन्धं, फले रसं, काष्ठेग्निमिव, सर्वव्यापिनं; परमात्मानं मनसा सङ्कल्प्यावाहयेत्। आवाहनोद्वासनं विष्णोरयुक्तमिति यथाह्यरण्यां व्याप्तो एकत्रिंशः पटलः [[१६८]] हि वह्निर्मथनात्सन्निहितो भवति तथैव ध्यानमथनेन भक्तस्य हृदि विष्णुस्सन्निहितो भवति, हृदये विष्णुं सकलं सङ्कल्प्य, सुवर्णवर्णं रक्तास्यनेत्रपाणिपादं सुखोद्वहं शुकपिञ्छाम्बरधरं विष्णुं प्रणवात्मकं किरीटकेयूरहारप्रलम्बयज्ञोपवीतिनं श्रीवत्साङ्कं चतुर्भुजं शङ्खचक्रधरम् एवं परमात्मानं परात्परतरं देव्यादिसर्वपरिषद्युक्तं ध्यात्वा मनसा कुम्भेऽम्भसि समावाह्य पुष्पाद्यर्घ्याचमनान्तैरर्चयति॥

चतुर्दशकलशस्नपनविधिः

ततो देवं कुम्भं च समादाय सर्वालङ्कारसंयुक्तं शकुनसूक्तं जप्त्वा, यज्ञालये स्नानश्वभ्रे देवं प्रतिष्ठाप्य, दक्षिणे धान्यराशौ कुम्भं सन्यस्य, देवस्य दक्षिणे श्रियं, वामे हरिणीं च, संस्थाप्य; पुरस्ताद्व्रीहिभिस्तण्डुलैर्वा दण्डवत्पङ्क्तिं कृत्वा, दक्षिणाद्युत्तरान्तं देव्योश्च पृथक् पङ्क्तिं कृत्वा, तस्यां सप्तकलशान् विन्यस्य, क्षीर घृतमधुसिद्धार्थोदकाक्षतोदककुशोदकचन्दनोदकसम्पूर्णान् कलशान् उत्तरादीन् सन्यस्य, अन्तरेषूपस्नानकलशान् शुद्धोदकसम्पूर्णान् सन्यस्य, क्षीरे अथर्ववेदम्, उपस्नानेऽश्विनौ, घृते सामवेदम्, उपस्नाने वत्सरान्, मधुनि यजुर्वेदम्, उपस्नाने वायुं, सर्षपोदके चाऽऽदित्यम्, उपस्नाने अप्सरसः, अक्षतोदके काश्यपम्, उपस्नाने मरूतः, कुशोदके मुनीन्, उपस्नाने तक्षं, चन्दनोदके ऋतून्, उपस्नाने बृहस्पतिं च, एकादशोपचारैरभ्यर्च्ययेत्। अथवा जलपुष्पैरेवार्चयेत्। देवेशं प्रति द्रव्यं पाद्याद्यैरर्चयेत्।

’शन्नोदेवी’रिति क्षीरेण ’अग्नआयाही’ति घृतेन ’अग्निमील’ इति मधुना ’पूततस्य’ (वै॰म॰प्र॰८) इति सर्षपोदकेन ’इमाश्चोषधय’ (वै॰म॰प्र८) इति अक्षतोदकेन ’अभित्वाशूर’ (ऋ॰सं॰५-३-२१) इति कुशोदकेन ’चत्वारिश्रृङ्गे’ (ऋ॰स॰३-८-१०)ति गन्धोदकेन च संस्नाप्य, ’वारिश्चतस्रे’ (वै॰म॰प्र॰८)ति सर्वोपस्नानैस्संस्नापयेत्। (द्रव्यं प्रति पूर्वं कुम्भं समभ्युक्ष्य?) ’आपोहिष्ठाद्यै’रुष्णोदकेन च संस्नाप्य, शुद्धोदकैश्चाभिषिच्य, प्लोतेन [[१६९]] विमृज्य, नववस्त्रोत्तरीयाद्यैरलङ्कृत्य, अभ्यर्च्य, र्नैऋते विष्ठरे देवीभ्यां सह देवं कुम्भं च संस्थाप्य, स्नपनोत्सवबलिबेराणि च पृथगेवं संस्नाप्याऽर्चयेत्॥

प्रतिसरबन्धः

आचार्यः स्थापकाद्यैस्सहितः पुण्याहं वाचयित्वा, सौवर्णं राजतं ताम्रं कांस्यं वा पात्रं द्रोणार्धैराढकैर्वा तण्डुलैः प्रत्येकमापूर्य तस्मिन्सौवर्णं प्रतिसरं विन्यस्य अलाभे क्षौमकार्पासतन्तुना त्रिवृतं वा ’कृणुष्वपाज’ (ऋ॰सं॰३- ४-२३) इति स्वस्तिसूक्तेनाऽभिमृश्य, ’स्वस्तिदाविशस्पति’ (वै॰म॰प्र॰३) रिति वदन् देवस्य दक्षिणहस्ते देव्योस्तत्तन्मन्त्रेण वामकरे बध्नीयात्।

पञ्चशयनविधिः

तथैव स्नपनोत्सवबलिबेराणां च कृत्वा ’ध्रुवबेरेऽपि पूर्वमेव प्रतिसरं बध्वा शय्यावेदिं समभ्युक्ष्य, षड्द्रोणादहीनैश्शालिधान्यैस्तदर्धयवतण्डुलैः तिलैर्वा उपर्युपर्यास्तीर्य, साग्रान् कुशान् प्रागग्रानास्तीर्य, ’वेदाह’ (तै॰ आ॰३-प्र॰१३-अ॰) मिति चर्मजं तल्पं प्रथमं विन्यस्य, द्वितीयं रोमजं विन्यस्य, तृतीयं मुण्डजं, चतुर्थमण्डजं पञ्चमं वामजं, क्रमेणैवोपरि विन्यस्य, उपरिवेष्टनं श्वेतं नववस्त्रेण कृत्वा उपधानद्वयं शिरोपधानं च विन्यसेत्।

चर्मजं सिंह्मव्याघ्रादिचर्मकृतं रोमजमजाऽऽविकादिरोमकृतम्, मुण्डजं कार्पासशल्मल्यादिफलतूलकृतम् ’अण्डजं पक्षिपिञ्छैः कृतं, वामजं कौशेयक्षौमादिना कृतं, सर्वालाभे यथालाभं वाऽऽहृत्याऽन्येषां प्रतिनिधिं द्वादशाष्टसप्तहस्तादहीनं नववस्त्रं समाहरेत्। तथैवोपरिवेष्टनमुपधानद्वयं च सङ्कल्प्य, प्रणवेनाभ्युक्ष्य, तुलसीपुष्पगन्धाद्यवकीर्य, अगरुधूपैः कर्पूरदीपैस्सहाऽङ्कुराऽष्टमङ्गलानि पञ्चायुधानि परितो विन्यस्य, वितानध्वजदर्भमालातरङ्गस्तम्भवेष्टनमुक्तादामाद्यैरलङ्कृत्य, सर्ववाद्यसमायुक्तं शकुनसूक्तं समुच्चार्य, आचार्यःस्थापकैस्सार्धं देवेशं शयने समारोप्य, ’यद्वैष्णव’(वै॰म॰प्र८)मिति एकत्रिंशः पटलः [[१७०]] मन्त्रेण देवं देव्यौ तत्तन्मन्त्रेण सहैव शाययेत्। यद्दिग्द्वारं विमानं तद्दिङ्मौलिं कृत्वा उत्तराच्छादनं गलादधस्तादाच्छाद्य देवेशस्य दक्षिणे पूर्ववत् कुम्भं सन्यस्य स्नपनोत्सवबलिबेराणां चैकवेद्यां प्रत्येकम्, एवं शयनं सङ्कल्प्य तथैव शाययेत्। तत्परितः प्रावरणं कृत्वा सम्भारवेद्यां धान्योपरि वस्त्राण्यास्तीर्य सौवर्णादिपात्रे रत्नादीनि विन्यस्य तस्मिन् रत्नेशं विष्णुमभ्यर्च्य विष्णुसूक्तेनाऽधिवासनं कृत्वा उत्तराच्छादनं निच्छिद्रं कृत्वा पश्चाद्यज्ञागारं परितः प्रागादिचतुर्वेदाध्ययनं कारयेत्।

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे कुम्भध्यानस्नपनशयनादिविधिर्नाम एकत्रिंशः पटलः ॥ ॥ ३१ ॥