०३० अग्निकुण्डविधिः

अथ त्रिंशः पटलः

अग्निकुण्डलक्षणम्

अथाऽग्निकुण्डलक्षणं व्यख्यास्यामः ब्रह्माग्निं पञ्चधा सृष्ट्वा पञ्चलोकेषु व्यभजत्। आहवनीयं स्वर्गलोके, अन्वाहर्यामन्तरिक्षलोके, अस्मिन् लोके गार्हपत्यम् आवसथ्यं महर्लोके, सभ्यं जनोलोके, इति चतुरश्रो वै स्वर्गलोकः आहवनीयम्, अन्तरिक्षलोकोऽर्धचन्द्राकृतिस्तद्वदन्वाहार्यं, भूमिर्मण्डलाकृतिस्तद्वद्गार्हपत्यं, त्र्यश्रो वै महर्लोकस्तद्वदावसथ्यं चतुरश्रो वै जनोलोकस्तद्वत् सभ्यं, पुण्डरीकवत्तपोलोकः कुर्यात् तद्वत् पौण्डरीकम्। यज्ञशालां नवधा विभज्य मध्ये ब्राह्मे शय्यावेदिम्, ऐन्द्रपदे सभ्यम् आहवनीयं च, आहवनीयं चौपासनाग्निकुण्डवत् कुर्यात्; याम्ये अन्वाहार्यमर्धचन्द्राकृति (र्दक्षिणे) भागमूर्ध्ववेदिविस्तारं, दक्षिणोत्तरं त्रिंशदङ्गुलं, प्राक्पश्चिमं षष्ट्यङ्गुलं द्विवेदिसहितम्, एकैकं भागविस्तारोत्सेधं, मध्ये निम्नं त्रिकोलकं; तत्पश्चिमे त्रिंशः पटलः [[१६२]] गार्हपत्यं पूर्णचन्द्राकृतिम् ऊर्ध्ववेदिविस्तारं सप्ताधिकत्रिंशदङ्गुलं द्विवेदिसहितम्, एकैकं भागविस्तारोत्सेधं, मध्ये निम्नं षडङ्गुलम्, उत्तरे चावसथ्यं त्रिकोणं, षड्यवाधिकाष्टचत्वारिंशदङ्गुलं तदेकभुजयुतोर्ध्ववेदिकं, द्विवेदिसहितम् एकैकं भागविस्तारोत्सेधं, मध्ये निम्नं त्रिकोलकं प्रागग्रं कारयति; शय्यावेद्याः प्राच्यामाहवनीयस्य पश्चिमे सभ्याग्निकुण्डं त्रिवेदिसहितम्, एकैकं भागविस्तारोत्सेधम्, ऊर्ध्ववेद्यायामं द्वात्रिंशदङ्गुलं, मध्यवेदिविस्तारं पञ्चाङ्गुलं द्विचत्वारिंशदङ्गुलमधोवेद्यायामं, पञ्चदशाङ्गुलं मध्ये निम्नम् अष्टाङ्गुलं, दशाङ्गुलं, द्वादशाङ्गुलं वा कारयेत्। आग्नेय्यां पौण्डरीकं त्रिवेदिसहितम् ऊर्ध्ववेदिविस्तारं सप्ताधिकत्रिंशदङ्गुलम्, एकैकं भागविस्तारोत्सेधम्, अधोवेदिविस्तारं षडङ्गुलं, प्रागादिषोडशदलैर्युतं, मध्ये निम्नमष्टाङ्गुलं, दशाङ्गुलं वा करोति॥

स्नानाद्यर्थं श्वभ्रादिकरणम् ऐशान्यामाहवनीयवत् द्विवेदिसहितं, तद्बेरपीठात् प्रतिदिक् चतुरङ्गुलाधिकविस्तारं स्नानाय श्वभ्रं च उत्तरे वारिमार्गं कारयेत्। र्नैऋतपदे देवस्याऽलङ्कारार्थं द्विहस्तायतविस्तारां, चतुरश्रां वेदिं कृत्वा, वायव्ये यागोपकरणद्रव्यविन्यासार्थं चतुर्हस्तायतविस्तारां, भागोन्नतां, वेदिं कुर्यात्॥

परिवारदेवानां पृथगालये आहवनीयकुण्डकरणं सर्वेषां परिवाराणां तत्तदालयाभिमुखे दक्षिणे वा आहवनीयाग्निकुण्डं, कुम्भपूजनं, हौत्रशंसनं मूर्त्यावाहनादिकं च (चा) चरेत्। अथवा देवेशस्य मूर्त्यावाहनकाले परिवारदेवानाम् अध्वर्यवश्च तत्तन्मन्त्रान् जप्त्वा, तत्तद्धोमे दक्षिणप्रणिधावावाहनादि कृत्वा, तत्तन्मन्त्रं तत्तत्क्रमेण षोडशद्वादशपर्यायतो जुहुयुः, परिवाराणामालयप्रतिमाहीनं चेत् सभ्याग्निकुण्डे तत्तद्देवत्यं सवैष्णवं च हुत्वा, देवेशस्याऽऽवाहनान्ते तं कुम्भं नीत्वा, तत्तत्स्थाने पीठे तत्तद्देवं ध्यात्वा, आवाहयेत्॥

[[१६३]]

परिवाराग्निकुण्डादिकम्

अथवा देवेशस्याऽस्य यज्ञस्य पञ्चाग्नीन्; पौण्डरीकाग्िन्न च, कृत्वा यागशालां परितश्चैकभक्तियुतां प्रपां कृत्वा, इन्द्रेशानयोर्मध्ये वीशस्य, इन्द्राग्न्योर्मध्ये चक्रस्य, यमपावकयोर्मध्ये श्रीभूतस्य, यमानिलयोर्मध्ये ब्रह्मणः, नीलवरुणयोर्मध्ये पुण्यस्य, वरुणोदानयोर्मध्ये ख्यातीशस्य, वायुसोमयोर्मध्ये शङ्खस्य, सोमेशानयोर्मध्ये शान्तस्य, प्राग्द्वारादुत्तरे मणिकसन्ध्ययोर्दक्षिणे न्यक्षस्य, दक्षिणद्वारपूर्वे विखनसतापसयोः पश्चिमे विवस्वतः, पश्चिमद्वारदक्षिणे किष्किन्धतीर्थयोरुत्तरे मित्रस्य, उत्तरद्वारपश्चिमे विकटशेषयोः पूर्वे क्षत्तुः, प्राच्यां दक्षिणोत्तरयोर्नित्याऽक्षयोर्दक्षिणोत्तरयोर्ध्वजशङ्खयोश्चौपासनाग्निकुण्डानि (कृत्वा) कुर्यात्, तदुत्तमोत्तमम्। विमानपालद्वारपालाँश्च विना कारयेदुत्तममध्यमम्। महाभूतशङ्खध्वजपा (व)कोर्जुनान् विना कारयेदुत्तमाधमम्। ब्रह्मेशपुण्यभृगून्विना कारयेन्मध्यमोत्तमम्। श्रीभूतचक्रवीशान्विना कारयेन्मध्यममध्यमम्, लोकपालान्विना कारयेन्मध्यमाधमम्। देवेशस्यैव पञ्चाग्नीन् कारयेदधमोत्तमम्। त्रेताग्निविधानेन गार्हपत्याहवनीयाग्नीन् कल्पयित्वा एतेषां प्रधाने गार्हपत्याग्नौ सभ्यवत् सर्वं कुर्यात् एतदधममध्यमम्। सभ्याऽग्निमेकमेव कृत्वा सर्वहोमानस्मिन्नग्नौ जुहुयादेतदधमाधमम् आचक्षते। सर्वत्र पौण्डरीकाग्निं कारयेदिति केचित्। एवं नवधा भवति, अन्यत्सर्वं समानम्॥

बेरपञ्चकस्य युगपत्प्रतिष्ठायामेककुम्भादिविधानं ध्रुवकोतुकस्नपनोत्सवबलिबेराणां सह प्रतिष्ठा चेत् एकशालामेकवेदिं सहैव होममेककुम्भं च कुर्यात्। तेषां पृथक् चेत् पृथगेव होमाद्यं सर्वं कर्तव्यम्। प्रादुर्भावानामाविर्भावानां च, भक्त्याऽस्मिन् विमाने स्थापनं यदि चेत् मानाङ्गुलेन सप्ताङ्गुलं समारभ्य, द्व्यङ्गुलवृद्ध्या एकोनषष्ट्यङ्गुलान्तं सप्तविंशतिभेदा भवन्ति। एतेष्विष्टमानं विनिश्चित्य प्रतिमाकृत्वा, मुखमण्डपे, त्रिंशः पटलः [[१६४]] निर्मले अन्यस्मिन्यथेष्टे देशे वा, रत्नानि सन्यस्य, एकबेरस्थापनामार्गेण प्रतिष्ठाप्य, तत्तन्मूर्तीः मन्त्रेण विभवानुरूपमर्चयेत्। आलयाभ्यन्तरे सह प्रतिष्ठा चेत् स्नपनं शयनं च पृथगेव कृत्वा, एककुम्भे तत्तद्रूपं तथैव ध्यात्वा, सभ्ये सर्वेषां तदुक्तहोमं हुत्वा, कौतुकादीनामावाहनान्ते तत्तन्मन्त्रेणाऽऽवाह्यऽर्चयेदिति केचित्। सर्वपदार्थिनः स्नात्वा, सायं सन्ध्यामुपास्य, स्वकीयानग्नीन् जुहुयुः। स्थापकास्सव्याहृतिकां गायत्रीं सशिरस्कां दशप्रणवसहितां त्रिः पठेयुः, आयतप्राणाः सहस्रं शतं वा संयुक्तं रेचकपूरककुम्भकप्रकारैरुद्ध(द्भू)तैः, एकद्वित्रिविधं मध्यमोत्तमैः क्लान्ति सुषुप्त्यादिनिर्वेदक्षुधाकम्पनादन्यत्र यथाविधि श्रद्धया अनालस्यं यथाबलं प्राणायामं धारयेत्॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे अग्निकुण्डविधिर्नाम त्रिंशः पटलः ॥ ३० ॥