०२९ यागोपकरणद्रव्यसञ्चयविधिः

अथ एकोनत्रिंशः पटलः

देवयजनफलम्

अथ देवयजनं व्याख्यास्यामः - ’अग्निहोत्रेण लभेत स्वर्ग’मित्याहुः ’सङ्गतं देवपूजानां यज्ञा’ इति सूरयो वदन्ति, यज्ञेष्वेतेषु देवयागो विशिष्यते, यजमानोऽपि भुवि शाश्वतं तिष्ठति तस्माद्राज्ञो राष्ट्रस्य यजमानवंशस्याभिवृद्धिं करोति॥

यागशालानिर्माणम्

तस्याऽग्निहोत्रयज्ञस्याऽऽधानं वक्ष्ये - उक्तमासतिथिवारनक्षत्रलग्नेषु यद्दिने कर्तुमुद्योगस्तद्दिनात्पूर्वस्मिन् दिने अङ्कुरार्पणं कुर्यात्। आलयात्पुरतो दक्षिणे वा यागशालां षोडशस्तम्भसंयुक्तां त्रिपङ्क्तिं चतुरश्रां कुर्यात्॥

शय्यावेदिः प्रपादिश्च तद्विमाननिर्देशहस्तेन त्रिहस्तादिपञ्चहस्तान्तं पादहस्तविवृद्ध्या नवधा भित्तिमानं तस्य स्थले तालं द्वि(लवि)भागं, तदर्धं वा, पादोच्चं, भित्तिमानसमं पादाधिकमर्धाधिकं, पदोनद्विगुणं द्विगुणं वा शय्यावेदिविस्तारं; भित्तिमानसमं पादोनमर्धं, बिम्बार्धाधिकं त्रिपादाधिक, द्विगुणं, अर्धाधिकद्विगुणं, त्रिगुणं वा, तच्चतुर्थांशमुत्सेधं; तदूर्ध्वे कूटं वर्षनिवारणं कृत्वा तत्परितः प्रपां चतुर्द्वारसमायुक्तां चतुस्तोरणभूषितां कृत्वा तत्सर्वं वितानध्वजदर्भमाला- [[१५९]] तरङ्गस्तम्भवेष्टनमुक्तादामाद्यैरलङ्कृत्य, दर्भमालारज्जुं पर्वणि पर्वणि द्विताललम्बदर्भद्वययुक्तां; मध्येऽरत्निमात्रत्रिशूलयुतानि तोरणानि कारयित्वा ’अग्निमीले’ (ऋ॰सं॰-१-१-१) इति प्राग्द्वारे चाश्वत्थम्; ’इषेत्वोर्जेत्वे’ ति दक्षिणे चौदुम्बरं; ’अग्न आयाही’ति पश्चिमे प्लक्षं; ’शन्नोदेवी’ रिति उत्तरे वटं चैव द्वारेषु संस्थाप्य तद्वारपार्श्वे कदलीक्रमुकोद कुम्भदीपाऽङ्कुराद्यैरलङ्कृत्य तन्मध्ये शय्यावेदिं परितश्चाऽग्निकुण्डानि कारयेत्॥

अरण्यादिमानम्

अरण्यर्थमश्वत्थ शमीजातमन्यं वा सङ्गृह्य द्वितालायामां षोडशा(षड)ङ्गुलविस्तृतां भागोत्सेधामरणीं तत्समां चोर्ध्वपलकां द्वितालायामं प्रादेशपरिणाह मूलाग्रयोरेकाङ्गुलिमात्रशिखायुक्तं मन्थदण्डञ्च कृत्वा मौञ्ज्या त्रिवृतां रज्जुं मन्थनाय समाहारेत्; खदिराश्वत्थबिल्वाद्यैर्यज्ञवृक्षैर्यज्ञपात्राणि कुर्यात्।

स्रुवादिस्वरूपम्

स्रुवस्याऽऽयामं द्विप्रादेशं, मूलं प्रादेशपरिणाहं, तदर्धमग्रनाहं, मूलाग्रयोः एकाऽङ्गुलमात्रशिखायुक्तं, बिलादर्वागानुपूर्व्येण सङ्क्षिप्तम्, अग्रे प्रादेशपरिमण्डलं, गोळकं बिलविस्तारं, माषाच्छादनगर्तद्वययुतमेवं स्रुवं कारयेत्, अग्निहोत्रहवणी षड्विंशत्यङ्गुलायामा अधस्तात् षोडशाङ्गुलदण्डा द्वादशाङ्गुलपरिणाहा तदूर्ध्वं पञ्चाङ्गुलायामं वृत्तं मध्ये निम्नं भागं, परितोभित्तिरेकाङ्गुला, तस्मादग्रान्तं घृताधारायुतमेकाङ्गुलविस्तारं त्र्यश्रम्, अग्रादधस्तात् पञ्चाङ्गुलमानुपूर्व्येण सङ्क्षिप्तं घृतधारापार्श्वयोरेकाङ्गुलं, भित्तिरर्धाङ्गुला उपरिछत्राकारं घनं भागमेवं कारयेत्। जुहू प्रमाणं द्वितालायामं, द्वादशाङ्गुलपरीणाहं मूलं पद्ममुकुळाकारं, अग्रे चाष्टाङ्गुलायामं, चतुरङ्गुलविस्तारं, द्वादशाऽङ्गु(षडङ्गु) लोन्नतं, मध्ये निम्नमर्धाङ्गुलम्, भित्तिरेकाङ्गुला, घृतधारायुतम्, ऊर्ध्वे मुकुळाकारम्, अधस्ताद्दण्डाकारं कारयेत्। उपजुहूप्रमाणं द्वितालायामं, द्वादशाङ्गुलएकोनत्रिंशः पटलः [[१६०]] परिणाहम्, अगे्र अष्टाङ्गुलायामं, समवृत्तं, भित्तिरर्धाङ्गुला, घृतधारायुतमेवं कारयेत्। दर्वी तालद्वयायामा, अग्रे पञ्चाङ्गुलायामविस्तारा, मूले भागविस्तारायामा, अग्राच्च मूलादरभ्य मध्ये क्रमात् गोळकं क्षीणं, घनमेकाङ्गुलमेवं कारयेत्।

सम्भाराहरणम्

पालाशाश्वत्थबिल्वशमीखदिरवटोदुम्बरसमिधो गृहीत्वा, कार्पासतन्तून् साग्रान् दशदर्भान् (कुशकाश) विश्वामित्रादीन्वाऽऽहृत्य, याज्ञिकैर्वृक्षैर्द्वितालायामास्तदर्धविस्ताराश्चतुरङ्गुलघनाश्चतुरश्राः फलकाः कारयित्वा, तन्मध्ये सप्ताङ्गुलोत्सेधान्, श्रीवत्सोदकुम्भभेर्याऽऽदर्शन मत्स्ययुग्माऽङ्गुशशङ्खाऽऽवर्तांश्च अष्टमङ्गलानि कृत्वा, तथा चक्रशङ्खगदाशार्ङ्गाऽसीन् पञ्चायुधानि कारयेत्।

वस्त्रं द्वादशाष्टसप्तषड्ढस्तानामन्यतमायामं, पञ्चचतुस्तालविस्तृतं, स्नापनार्थं, हविरर्थं च यानि द्रव्याणि तानि, होमार्थं घृतं (पयो) दधि च, अष्टधान्यानि, शालीयतण्डुलान्, दीपार्थं घृतं, तैलं वा; अक्ष्युन्मोचनार्थं सवत्सां गां, सुवर्णपात्रं, उलिकां सूचीं दृढकरीं च सुवर्णेन कृत्वा, कुम्भप्रक्षेपणार्थं पीठन्यासार्थं च रत्नधातुबीजानि चाऽऽहरेत्। सुवर्णेन प्रतिसरमङ्गुलीयकाद्याभरणानि च, आढकपूर्णान् कलशान्, द्रोणार्धपूर्णान् करकान् द्रोणपूर्णान् घटान्, द्रोणद्वयपूर्णं प्रधानकुम्भं, प्रस्थपूर्णान् शरावान्, प्रस्थार्धपूर्णाः प्रणिधीः, तथैवाज्यस्थालीः, प्रोक्षणपात्राणि, द्विप्रस्थपाकयोग्यां स्थालीं, द्रोणार्धपूर्णाः पात्रिकाश्च, अन्यान् सर्वान् खण्डस्फुटितकालरहितान् समाहरेत्।

अग्निमथनम्

अथ अग्निमथनार्थं यज्ञागारे चाऽऽग्नेय्यां गोमयेनोपलिप्य, पञ्चवर्णैरलङ्कृत्य, (तन्मध्ये) मण्डलं कृत्वा, दर्भानास्तीर्य, तत्राऽरणिं प्राङ्मुखं सन्यस्य अरण्यां महीं, मन्थे विष्णुम् उत्तरे पट्टिकायामग्निमभ्यर्च्य, आचार्यः प्राङ्मुखः [[१६१]] ’अग्न आयाहि’ इत्यरणिं सन्यस्य, ’आयुर्दा’ इति मन्थदण्डं संस्थाप्य, ’अग्निं दूत’मिति मन्थे रज्जुं समावेष्ट्य, ’अग्निर्मूर्धे’ति उत्तरपट्टिकां संयोज्य, ’जातवेदो भुवनस्ये’त्यग्निं मथित्वा उत्पन्नमग्निं ’आयुर्दा’ इति प्रणम्य, ’उपावरोह’ (वै॰म॰१-म॰) इति गोकरीषैः समुज्ज्वाल्य, ’घृतप्रतीक’ (वै॰म॰१-म॰) इति पात्रिकायामादाय, ’अग्निरिन्द्रे’त्यभिवादनं कृत्वा, अप्रमादं निधाय, स्थापनदिवसात्पूर्वरात्रादालयादुत्तरे च औपासनाग्निकुण्डं च कृत्वा, आघारं हुत्वा सूत्रोक्तविधिना वास्तुहोमं हुत्वा, आगारं पर्यग्निं कृत्वा पञ्चगव्यैः ’अणोरणीया’ (तै॰आ॰६-प्र॰) नित्यभ्युक्ष्य पुण्याहं वाचयेत् ॥ २९ ॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे यागोपकरणद्रव्यसञ्चयविधिर्नाम एकोनत्रिंशः पटलः ॥ २९ ॥