०२८ अधिवासत्रयविधिः

अथ अष्टाविंशः पटलः

अधिवासनम्

अथाधिवासनम् - अधिवासं कृत्वैव स्थापनं करोति। अनधिवासितं बेरं यत्र स्थापितं चेत् तद्ग्रामयजमानस्थापकादीनामाशु विनाशाय भवति।

अतो देवालयस्य उत्तरे, पुरस्ताद्वा, प्रपां, कूटं वा, कृत्वा तन्मध्ये तद्बिम्बार्धाऽधिकायामविस्तारां बिम्बदघ्ननिम्नां जलद्रोणीं, भूम्यामवटं वा, कृत्वा संशोध्य वितानध्वजदर्भमालातरङ्गस्तम्भवेष्टनाद्यैरलङ्कृत्य परितः प्रावरणं कृत्वा पञ्चगव्यानि यथायोगं संयोज्य ’वसोः पवित्र’मिति पञ्चगव्यैरापूर्य अधिदेवमीशानमभ्यर्च्य नव वस्त्राण्यास्तीर्य तत्प्राच्यामौपासनाग्निकुण्डं कृत्वा आघारं हुत्वा तस्योत्तरे देवेशं सप्तभिः कलशैस्संस्नाप्य पुण्याहं वाचयित्वा नववस्त्रोत्तरीयाद्यैरलङ्कृत्य अभ्यर्च्य ’विष्णोर्नुकादीन्’ जपन् तिष्ठन् तस्मिन् प्राक्शिरः शाययित्वा अग्निं परिस्तीर्य ’विष्णवे, विश्वेशाय, जनार्दनाय, सर्वभूतात्मने, अव्यक्ताय, अचलाय, देवेभ्यो, भूतेभ्यो, नागेभ्यो, देवेभ्यो लोकपालेभ्यः, विमानपालेभ्यः, स्वाहे’ति व्याहृत्यन्तं हुत्वा वैष्णवं, ब्राह्मं, रौद्रं, प्राजापत्यं, वारुणं वैघ्नं, गारुडं, वैष्वक्सेनं, दिग्देवत्यं च, हुत्वा अग्निं विसृज्य, तद्रात्रौ तदालयगतदेवेभ्यस्सर्वेभ्यो मौद्गिकं बलिं निर्वाप्य, प्रभाते स्नात्वा आलयमावेश्य, अधिवासगतं देवमुद्धृत्य, सप्तभिः कलशैः संस्नाप्य, वस्त्रोत्तरीयाद्यैरलङ्कृत्य, अभ्यर्च्य, द्रोणीमवटं वा संशोध्य, नववस्त्रा- [[१५७]] ण्यास्तीर्य, ’शन्नोदेवी’रिति गव्येन क्षीरेणाऽऽपूर्य, अधिदैवमथर्ववेदमभ्यर्च्य, पुण्यपुष्पाणि निक्षिप्य, ’क्षीरं क्षीरोदधि’रिति स्मृत्वा, तस्मिन्देवं पूर्ववच्छाययेत् पूर्ववद्धोमं हुत्वा, तद्रात्रौ पूर्ववद्बलिं निर्वाप्य, प्रभाते स्नात्वा, विष्णोर्नुकादीनि जप्त्वा, बिम्बमुद्धृत्य, सप्तभिः कलशैः संस्नाप्य, नववस्त्रोत्तरीयाद्यैरलङ्कृत्य अभ्यर्च्य नदीं, ह्रदं, शुद्धतटाकं वा, आश्रित्य तज्जले प्रपां कूटं वा कृत्वा, वितानध्वजदर्भमालाधूपदीपाद्यैरलङ्कृत्य, परितः प्रावरणं कृत्वा, तत्तीरे अग्निशालां कृत्वा अग्निं निधाय, परिस्तीर्य, परिषिच्य, वैष्णवं हुत्वा, पश्चात्सघृतं पायसमादाय, ’योगेशाय शेषपर्यङ्कशायिने शब्दब्रह्मणे समुद्रेभ्यः पर्वतेभ्यो देवेभ्य ऋषिभ्यः पितृभ्यो नागेभ्यो भूतेभ्यः स्वाहे’ ति हुत्वा, तत्तीर्थम् ’इदमापःशिवा’ इत्यभिमृश्य अधिदैवं ’वरुणं, पुण्यतीर्थं, (शिव,) पुण्यं, देवावास’ मिति चतुर्भिर्मन्त्रैरर्घ्यान्तमभ्यर्च्य, नववस्त्राण्यास्तीर्य, देवं नववस्त्रोत्तरीयाद्यैरलङ्कृत्याऽभ्यर्च्य, वैष्णवैर्मन्त्रैः प्राक्शिरः शाययित्वा, अग्निं परिस्तीर्य, धातादिपञ्चवारुणं मूलहोममाग्नेयं च हुत्वा, ततःपरिषेकं कृत्वा, तद्रात्रौ प्रभूतं बलिमाहृत्य, मुद्गनिष्पावतिलतिल्वलाजमाषाऽपूपसंयुक्तं कटाहे प्रक्षिप्य, पूर्ववत्तदालये ग्रामे च प्रदक्षिणक्रमेण दिग्देवताभ्यो बलिं निर्वाप्य, रात्रिशेषं व्यपोह्य, प्रभाते स्नात्वा, देवमुत्थाप्य, शुद्धोदकैः संस्नाप्य, गन्धोदकैरभिषिच्य, अग्निं विसृज्य, नववस्त्रोत्तरीयाद्यैरलङ्कृत्य, अभ्यर्च्य, यानमारोप्य, ग्राममालयं वा प्रदक्षिणं कारयित्वा, आलयमाविश्य, अलयाभिमुखे, यज्ञालयस्य पश्चिमे वा, देवं संस्थापयेत्। एवं त्रयाणामधिवासानां प्रत्येकमहोरात्रं दिवा चैकं वा अधिवासयेत्।

एवमसम्भवे पूर्वे अहनि चेत् पूर्ववत्पञ्चगव्याधिवासं, क्षीराधिवासं जलाधिवासं च पृथगेव सङ्कल्प्य, देवं वस्त्रोत्तरीयाद्यैरलङ्कृत्य, अभिषिच्य, प्रत्येकं याममात्रमधिवासयेत्। सद्यश्चेत् पृथक्पृथक् मुहूर्तं यथालाभकालम् अष्टाविंशः पटलः [[१५८]] वा अधिवासयेत्। अलाभे त्रीन् कुम्भान् द्रव्यैर्जलैरापूर्य, पृथक् पृथक् सङ्कल्प्य, अभिषेचयेत्। एकहोमे सर्वं तन्त्रयित्वा, एकदा बलिं निर्वाप्य, कारयेत्। होमं बलिं च विना सर्वत्र जलाधिवासनमेवं कारयेदिति विज्ञायते॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे अधिवासत्रयविधिर्नाम अष्टाविंशः पटलः ॥ २८ ॥