अथ सप्तविंशः पटलः
प्रतिष्ठामासादिकम्
अथातो भगवतो नारायणस्य प्रतिष्ठाविधिं व्याख्यास्यामः - उदगयने फाल्गुन, चैत्र, वैशाख, तैष्य, ज्येष्ठेषूत्तमम्; दक्षिणायने श्रावणाश्वयुजकार्तिकेषु मध्यमम्; प्रौष्ठपदाषाढयोरधमम्, मार्गशीर्षमाघौ विवर्जयेत्, उत्तरारोहिणीश्रवणपुष्य पुनर्वसु स्वाती हस्त चित्ताऽनूराधाऽश्विनीषु, सितेपक्षे पक्षछिद्रां विवर्ज्य, कृष्णपक्षे प्रथमाद्वितीयापञ्चमीषु, सोमगुरुसौम्यकाव्यवारेषु, करणेषु विशिष्टेषु ध्रुवेषु चरेषु वा, विष्टिमष्टविधां त्यक्त्वा, चरराशिं विहाय, स्थिरराशौ, उभयराशौ वा, श्रेष्ठे विष्णोः प्रतिष्ठां कुर्यात्; आर्द्राऽऽश्लेषमूलनक्षत्रे, कृष्णाष्टम्यामुल्कापातेऽशनिपाते दिग्दाहे पांसुलोहितो पलवर्षव्यतीपातभूकम्पाऽतिमारुतराजमरणचन्द्रसूर्योपरागयुक्तेषु ऋक्षेषु रात्रौ च परिवर्जयेत्।
आचार्यलक्षणम्
वैखानससूत्रेण निषेकादिसंस्कारक्रियायुक्तान् विप्रान् वेदविदः शुद्धान् शुद्धित्रयोपेतान् वैष्णवान् वयस्सम्पन्नान् सुमनस्कान् अर्चनादिसर्वप्रयोगज्ञान् मन्त्रकल्पविदः श्रोत्रियान् अग्निसम्पन्नान् आहूय तेषु ज्ञानोत्कटं शुभदर्शनं श्रुतवृत्तशीलसम्पन्नम् एकं गुरुं वरयेत्, हीनदीर्घाऽतिरिक्ताऽगकाल(ण)- मत्सराऽपस्मारकुष्ठोन्मादोदरशर्करामधुमेहादिव्याधियुतान् कुनखश्यावदन्तशिपिविष्ट विद्धशेफपाषण्डान् राजपितृगुरु देवब्राह्मणप्राज्ञ वेददूषकान् कुपितान्धबधिरकुब्जवामनायाज्ययाजककुलटापुत्रहीना ऽतिवृद्धाऽतिबालान् अर्थलुब्धान् विरूपकान् अन्यशास्त्रपारङ्गतान् पाषण्डभक्तान् अस्तमितोदितशयनान् अन्यदेवताभक्तान् नास्तिकभ्रान्तचित्तशठादीन्वर्जयेत्।
[[१५३]] ऋत्विग्लक्षणं तद्वरणं च उक्तलक्षणसम्पन्नान् षोडश ऋत्विजश्च, अक्ष्युन्मोचनहोमार्थमेकं, वास्तुहोमस्यैकं, पञ्चाग्नीनां पञ्च, अब्जहोमस्यैकं, ब्रह्मसोमऋत्विजौ द्वौ, होतारमेकं, स्नानार्थमेकं, सर्वदेवार्चनार्थं द्वौ, स्थापनार्थं द्वौ च, एवं वरयेत्; परिवारदेवहोमानामध्वर्यूंश्च वरयेत्, अशक्तश्चेत् यथालाभं वरयेत्, ताननुज्ञाप्य तैरनुज्ञातः सर्वकार्यं तन्त्रयित्वा करोति, ते सर्वे सुलुप्तकेशश्मश्रुकेशनखाः शुद्धदन्ताःस्नात्वा अघमर्षणं कृत्वा सावित्रीपूर्वं द्वादशसूक्तानि जप्त्वा प्राजापत्यं, पादकृछ्रम्, एकाहं वोपोष्य पापं सर्वं सदह्य यावत्प्रतिष्ठान्तं तावद्धविष्यभोजनो दर्भाऽस्तरणशायिनः स्त्रीशूद्रादिसम्भाषणपरिवेषणान्वर्जयित्वा त्रिषवणस्नायिनो जितेन्द्रिया भवेयुरिति विज्ञायते॥
अक्ष्युन्मोचनम्
अथातो नवबिम्बानामक्ष्युन्मोचनम्। प्रतिष्ठादिवसात्पूर्वस्मिन् नवमे सप्तमे पञ्चमे त्र्यहे (तृतीये) द्वितीये वा अह्नि अमन्त्रकमक्ष्युन्मोचनं शिल्पिना कारयित्वा पश्चात्समन्त्रकं च कुर्यात्; अर्कराहुसौराणामुदयं त्यक्त्वा (हित्वा) द्विलोचने नक्षत्रे अक्ष्युन्मोचनं कारयेत्।
कौतुकादीनां पीठसङ्घातः ब्रह्मादिस्थानेषु रत्नन्यासः कौतुकादिबिम्बानामक्ष्युन्मोचनं चेत् पूर्वेद्युस्तद्दिने वा पीठसङ्घातं कुर्यात्, आलयाभिमुखे गोमयेनोपलिप्य पैष्ट्या भूमिमलङृ्कत्य तन्मध्ये धान्यराशौ पीठं सन्यस्य तन्मध्ये ब्रह्माणमिन्द्रादिदिग्देवान् तत्तन्नाम्नाऽभ्यर्च्य पुष्पादीन् संशोध्य ’ब्रह्मादेवाना’ (वै॰ म॰ प्र॰ ६) मिति ब्रह्मस्थाने ब्रह्ममणिम्, ’इन्द्रं प्रणवन्त’ मिति इन्द्रे वज्रमणिम्, (वै॰ म॰ प्र॰ ८) ’अग्नावग्नि’ (वै॰ म॰ प्र॰ ८) रिति आग्नेय्यां मौक्तिकम्, ’यमोदाधारे’ (वै॰ म॰ प्र९ अ॰ ४) ति याम्ये वैडूर्यम्, ’वसवः प्रथम’ इति र्नैऋत्यां शङ्खजम्, (वै॰ म॰ प्र॰ ९) सप्तविंशः पटलः [[१५४]] ’एते शत’ (वै॰ म॰ प्र॰ ८) मिति वारुण्यां स्फटिकम्, ’मरुतः परमात्मा’ (वै॰ म॰ प्र॰ ९) इति वायव्यां पुष्यकम्, ’सोमं राजान’ (वै॰ म॰ प्र॰ ९) मिति सौम्ये चन्द्रकान्तम्, ’ईशान’ (वै॰ म॰ प्र॰ ९) इति ऐशान्यां नीलं च क्रमेण विन्यसेत्, अथवा चतुर्दिक्षु पञ्चरत्नानि निक्षिप्य रत्नालाभे सुवर्णं निक्षिप्य ’भूरसि भू’ (वै॰ म॰ प्र॰८-) रित्यादिना पीठे बेरं संयोज्य पश्चाच्छिल्पिनमाहूय सुदृढं कारयित्वा अक्ष्युन्मोचनं कारयेत्।
अक्ष्युन्मोचनं दर्शनद्रव्यं च आलयाभिमुखे मण्टपं, प्रपां वा, अलङृ्कत्य बिम्बं संस्नाप्य तन्मध्ये विष्टरे संस्थाप्य उत्तरे चौपासनाग्निकुण्डं कृत्वा वास्तुहोमं हुत्वा बिम्बस्याऽतीवपार्श्वतःपर्यग्िन्न कृत्वा पञ्चगव्यैर्बेरमभ्युक्ष्य दक्षिणे अभिमुखे मनोरमे चौपासनाग्निकुण्डं कृत्वा आघारं हुत्वा दद्भ्यः स्वाहाद्यङ्गहोमं, मौलिमालादींश्च जुहुयात्, महाभूतदेवत्यसूक्तं, विष्णुसूक्तं, पुरुषसूक्तं, वैष्णवं, श्रीभूमिदेवत्यं, ब्राह्मं, रौद्रं च, हुत्वा विमानं च नवं चेत् तस्य स्थूप्याद्युपानान्तम् अङ्गनामभिर्हुत्वा विमानप्रतिष्ठाविधानेन विमानदेवानामक्ष्युन्मोचनादीनि कारयेत्, आचार्यं स्रग्वस्त्रोत्तरीयाभरणैरलङ्कृत्य देवाभिमुखे सुवर्णश्रृङ्गां, रूप्यखुरां, सवत्सां, वस्त्रबन्धां, कांस्यदोहां, पुष्पादिभिरलङ्कृतां, गामेकां संस्थाप्य तृणादिकबलं दत्वा गोदानसूक्तेनाऽभिमृश्य घृतदधिमधुक्षीरं च प्रस्थादहीनं सौवर्णे, राजते, ताम्रे, कांस्ये वा, पात्रे सुवर्णसहितं सङ्गृह्य अभिमुखे निधाय अधिदेवान् घृते सामवेदं, मधुनि यजुर्वेदं, दध्नि ऋग्वेदं, क्षीरे अथर्ववेदं च, आराध्य व्रीहियवमाषमुद्गतिलतिल्वप्रियङ्गुसर्षपान्यष्टौ धान्यानि प्रत्येकं भारम् अर्धं तदर्धं वा राशीकृत्य अधिदेवं वायुमभ्यर्च्य जयशब्दैः, स्तोत्रैश्च, संस्तूय स्तुत्य नृत्तगेयवाद्यैर्घोषयित्वा देवाभिमुखे निधाय प्रच्छन्नपटं कृत्वा आचार्यश्चोत्तराभिमुखः प्राणायामं कृत्वा ’विष्णुर्मां रक्ष’ [[१५५]] (वै॰म॰प्र॰८-) त्विति उच्चार्य दिव्यरूपं ध्यायन् सुवर्णसूचीधृढकरीभ्यामेव पक्ष्मवर्मरक्तशुक्लकृष्णज्योतिर्मण्डलानि यथाक्रमेण पृथिव्यादिमहाभूतपरमात्माधिदैवतानि स्मृत्वा अतोदेवादिना दक्षिणे नयने सहस्रशीर्षादिना वामे च अक्ष्युन्मोचनं कारयेत्, प्रच्छन्नपटं विसृज्य गोधान्याज्यादीनि दर्शनद्रव्याणि सन्दर्शयेत्।
ध्रुवस्याक्ष्युन्मोचनम्
ध्रुवबेराक्ष्युन्मोचनं चेत् हेमपात्रे वर्णं गृहीत्वा मेदिनीमभ्यर्च्य पक्ष्मादिमण्डलानि सङ्कल्प्य तथैवाक्ष्युन्मोचनं कारयेत्; एष विशेषः अन्यत्सर्वं समानम्।
देव्यादीनामक्ष्युन्मोचनम्
देव्योर्ब्रह्मेशयोर्दौवारिकादीनां च तत्तन्मन्त्रेणाक्ष्युऽन्मोचनं कारयेत्।
अक्ष्युन्मोचनान्ते जलाधिवासः कौतुकादिबेराणामक्ष्युन्मोचनान्ते बेराधिवासादीनि कारयेत्।
ध्रुवाक्ष्युन्मोचनान्ते बिम्बशुद्ध्यर्थं नवकलशस्नपनं ध्रुवबेराक्ष्युन्मोचनाऽन्ते तत्तद्बेरशुद्ध्यर्थम्, आढकपूर्णान् खण्डस्फुटितकालरहितान्नवकलशानाहृत्य तन्तुना परिवेष्ट्य अद्भिः प्रोक्ष्य नादेयैराधावैः सुगन्धैरुत्पूतैरापूर्य अक्षताश्वत्थकूर्चानि पुण्यपुष्पाणि शमीपलाशदूर्वाग्रं नवरत्नानि स्वर्णशकलान्वा प्रणवेनाऽऽक्षिप्य प्रत्येकं वस्त्रमावेष्ट्य देवाभिमुखे शालिव्रीहिभिः स्थण्डिलं कृत्वा नवभागं विभज्य मध्यमादिनवपदेषु नवकलशान्विन्यस्य च आचार्यस्तेषां दक्षिणे चोत्तराभिमुखो ब्रह्मासनमास्थाय मध्यमादिक्रमेण तत्तत्कूर्चेन ’इदमापःशिवा’ (वै॰म॰प्र॰९) विष्णुगायत्री (वै॰म॰प्र॰८) अग्निमीले (ऋ॰स १-१-१) इषेत्वोर्जेत्वा (कृ॰य १-१-१) सप्तविंशः पटलः [[१५६]] अग्न आयाहि (सा॰स॰ १ः१) शन्नोदेवीः (अथ॰ १-१) आप उन्दन्तु, वैष्णवम्, आपोहिष्ठा (ऋ॰सं-७-६) दिना अभ्युक्षणं कृत्वा पुण्याहं वाचयेत्॥
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे ध्रुवबेरादीनामक्ष्युन्मोचनविधिर्नाम सप्तविंशः पटलः ॥ २७ ॥