०२६ अङ्कुरार्पणविधिः

अथ षड्विंशः पटलः अङ्कुरार्पणविधिः तत्पात्रस्वरूपं च अथ अङ्कुरार्पणविधिं व्याख्यास्यामः - भूपरीक्षादिकर्माणि यस्मिन्नहनि कारयेत् तद्दिनात्पूर्वं नवमे, सप्तमे, पञ्चमे, (तृर्ताये वा) त्र्यहे वा अङ्कुरार्पणं कुर्यात् अङ्कुरार्पणपात्राणि पालिकाकुम्भशरावान् सुवर्णरजतताम्म्रमृण्मयान्वा; ब्राह्मणो यजमानश्चेत् प्रत्येकं षोडश, क्षत्रियश्चेत् द्वादश, वैश्यश्चेत् अष्टौ, शूद्रश्चेच्चत्वारः, सर्वेषां चतुरो वा गृह्णीयात् पालिकोत्सेधं मात्राङ्गुलेन चतुर्विंशत्यङ्गुलं, समवृत्तं, तदुत्सेधं षडंशं कृत्वा एकांशं पादं, त्र्यंशं नालं द्व्यंशं पालिकापादोदरविष्कम्भं दशाङ्गुलम्, अर्धाऽङ्गुलिभित्तिकं पद्माकारं, नालस्योदरविष्कम्भं चतुरङ्गुलम् अर्धाऽङ्गुलभित्तिकं, मुखस्योदरविष्कम्भं षोडशाङ्गुलमर्धाङ्गुलभित्तिकं, नालान्तं क्रमात् सङ्क्षिप्तम्, ओष्ठतारत् एकाऽङ्गुलम्, एवं पालिका; कुम्भस्योदरविष्कम्भं षोडशाऽङ्गुलमर्धाङ्गुलभित्तिकं, मुखस्योदरविष्कम्भं पञ्चाङ्गुलमर्धाङ्गुलभित्तिकं, कण्ठोत्तुङ्गमेकाऽङ्गुलम्, ओष्ठवलयमेकाऽङ्गुलं कुम्भाकारं, चतुर्दिक्षु भागविस्तृतं द्वारयुतम् अन्यत्सर्वं पालिकावत् कारयेत्, शरावाणामोष्ठमेकाङ्गुलम्, एतदेव विशेषः अन्यत्सर्वं पालिकावत्कारयेत्, अशक्तश्चेद्यथालाभमानेन कारयेदित्येके, सद्य एवासन्ने पालिकादीनामलाभे शरावादिपात्राणि सङ्गृह्य पालिकादिवत्कृत्वा कारयेत्, अथवोपयुक्तां जलेन प्रक्षाल्य पर्यग्निं कृत्वा कारयेदित्येके॥

धान्यानि

धान्यानि - शालिव्रीहियवमुद्गमाषप्रियङ्गुगोधूमसर्षपचणकतिलतिल्वकमसूराणि; एतेषामलाभे यथालाभमाहृत्य संशोष्य सारं सङ्गृह्य तस्मिन्दिने पूर्वाह्ने तोये निक्षिप्य आलयाभिमुखे च उत्तरे वा, ऐशान्यां वा, मण्टपादीन् सङ्कल्प्य, वितानध्वजदर्भमालातरङ्ग स्तम्भवेष्टनाद्यैरलङ्कृत्य गोमयेनोपलिप्य पैष्ट्याभूमिमलङ्कृत्य दीपानुद्दीप्य आचार्यः शिष्टैस्सार्धं सायं सन्ध्यामुपासीत॥

षड्विंशः पटलः [[१५०]] यजमानप्रार्थना मण्डलं तत्कोष्ठदेवताः यजमानआचार्यं सम्पूज्य कार्यमावेद्य कर्मेदं मे कुरुष्वेति याचयेत्।

आचार्यः तत्तत्कर्मकरिष्यामीति सङ्कल्प्य आरभेत्, देवेशं प्रणम्य विशेषतोऽभ्यर्च्य अलङृ्कते मण्टपे यथेष्टमानेन सपिष्टैः प्रागग्रैरुत्तराग्रैरष्टभिस्सूत्रैरेकोनपञ्चाशत्पदं कृत्वा मध्यपदे (पाठे) ब्रह्माणमभ्यर्च्य तत्परितश्चतुर्विंशतिपदं विसृज्य बाह्यपदे च ऐशानादि ’ईशं पर्जन्यं जयन्तं माहेन्द्रम् आदित्यं सत्य (क) म् अग्निं वितथं गृहक्षतं यमं गन्धर्वं भृङ्गराजं र्निऋतिं द्वौवारिकं सुग्रीवं सरित्पतिम् असुरं शोषण जवनं नागं मुख्यं सोमम् अर्गलम् अदितिमिति चतुर्विंशतिदेवान् प्रणवादिनमोऽन्तं पूर्वं तोयं पुष्पमन्नं पश्चात्तोयं च प्रक्षिप्य अभ्यर्च्य पुष्पादीन् संशोध्य मध्यपदे तालोन्नतं त्रिवेदिसहितं ब्रह्मणः पीठं कृत्वा बाह्यपदे चेन्द्रादिषु पदत्रयं द्वारं विभज्य ईशानादिकोणेषु पदत्रयं द्व्यङ्गुलोन्नतं तण्डुलैर्व्रीहिभिर्वा, यथालाभं दण्डवत्पङ्क्तिं कृत्वा जयन्ते शेषस्य आदित्ये वक्रतुण्डस्य गृहक्षते गरुडस्य गन्धर्वे चक्रस्य सुग्रीवे पङ्क्तीशस्य असुरे भूतेशस्य मुख्ये शङ्खस्य सोमऽङ्कुराधिप (सोम) स्य अर्गले शान्तस्य च यथा लाभमानेन पीठानि कुर्यात्; मध्ये पदे(पीठे) ब्रह्माणं प्राङ्मुखमभ्यर्च्य शेषादीश्चार्चयित्वा ब्रह्मणः परितोऽष्टसु पदेषु प्रागाद्यैशानान्तं जयां, विजयां, विन्दां, नन्दां, पुष्टिकां, कुमुद्वतीम् उत्पलिकां, विशोकाम्, इत्यष्टावप्सरसोऽभ्यर्च्य तद्बाह्यपदे च एैन्द्रादिषु दिग्देवान् तत्तद्दिक्षु समर्चयेत्, एतेषां यथालाभं हविर्निवेदयेत्, हविषोऽलाभे बलिं वा दद्यात्॥

अङ्कुराधिपस्थापनम् अङ्कुरार्पणप्रकारः तदुत्तरे सोमस्याऽभिमुखे धान्यपीठे षोडशप्रस्थसम्पूर्णं कालविहीनं नवकुम्भं समादाय तन्तुना परिवेष्ट्याऽद्भिः प्रक्षाल्य तोयेनाऽऽपूर्य वस्त्रेण वेष्टयित्वा तस्मिन् सुवर्णं निक्षिप्य अङ्कुराधिपं सोमं ध्यात्वा तस्मिन् कुम्भे समावाह्याऽभ्यर्च्य हविर्निवेद्य मुखवासं दत्वा निवेदितं व्यवनीय अभ्युक्ष्य [[१५१]] पालिकादीन् मृदा वालुकाभिर्वा सकरीषमापूर्य तेषां मध्ये प्रत्येकं तन्तुना बध्वा वस्त्रेण वेष्टयेत्; वस्त्रालाभे दर्भेण बध्नीयात्, ईशानादि ईशपर्जन्यसप्तकेषु अग्निवितथभृङ्गराजेषु र्निऋतिदौवारिकशोषणेषु जवननागाऽदितिषु च क्रमेण पालिकाकुम्भशरावान् विष्णुगायत्र्या संस्थाप्य पालिकासु मेदिनीं, छिद्रकुम्भेषु राकां, शरावेषु सिनीवालीं, समभ्यर्च्य हविर्निवेदयेत्, (अलाभे बलिं दद्यात्) कांस्यपात्रे बीजानि निक्षिप्य क्षीरेणाऽभिषिच्य सोमस्याभिमुखे सन्यस्य तेषु सोममभ्यर्च्य पालिकादीनि वस्त्रेणाऽऽछाद्य पुण्याहं वाचयेत्, आचार्यादिभ्यो दक्षिणां दद्यात्, बीजानि ’सोमं राजान’मित्यभिमृश्य तूर्यघोषसमायुक्तम् आचार्यः प्राङ्मुख उदङ्मुखो वा ’वैष्णवं, विष्णुसूक्तं, सोमराजान’मिति जपन्नङ्कुरानर्पयेत्, ’एते शत’ मित्यादिवारुणमन्त्रैर्जलसेकं कुर्यात्, आचार्यादिभ्यो भक्तेभ्यश्च ताम्बूलं दद्यात्॥

अङ्कुरपात्रादीनां गुप्तदेशे स्थापनम्, तत्पूजा च अङ्कुरान् सोमकुम्भं च गुप्तप्रदेशे तथाविन्यस्य पालिकादीन् पिधाय नित्यं दीपयुतं त्रिकालं द्विकालम् एककालं वा, सोममभ्यर्च्य हविर्निवेदनमुत्तमम्, हविर्विना नित्यं दीपार्चनमेव कारयेन्मध्यमम्, सोमकुम्भार्चनं विना कारयेदधमम्॥

सद्योऽङ्कुरार्पणप्रकारादि

अङ्कुरार्पणस्य फलम् एवं कर्तुमशक्तः सद्य एवाऽऽसन्ने अङ्कुरार्पणोक्तक्रियाः सर्वाः कृत्वा श्वेततण्डुलैः, पद्माद्यैः श्वेतपुष्पैश्च पालिकादीन् तत्तन्मन्त्रेण पूरयित्वा आरभेत दिवाऽङ्कुरार्पणं न र्कुयात्, कुर्याच्चेद्विनाशाय भवति, एवमङ्कुरार्पणे कृते देवःप्रीतो भवेत्, अङ्कुरार्पणहीने कृतं कार्यं सर्वं निष्फलं भवति, तस्मात्सर्वप्रयत्नेन अङ्कुरार्पणं कृत्वा सर्वकर्म समारभेदित्याह मरीचिः॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे अङ्कुरार्पणविधिर्नाम षड्विंशः पटलः ॥ २६ ॥

षड्विंशः पटलः [[१५२]]