अथ पञ्चविंशः पटलः पात्रपरिच्छदादीनां संस्कारः अथ पात्रपरिच्छदादीनां संस्कारं वक्ष्ये। यजमानानुकूले शुभे नक्षत्रे देवेशं प्रणम्य अङ्कुरानर्पयित्वा आलयाभिमुखे चौपासनाग्निकुण्डं कृत्वा आघारं हुत्वा अग्नेःपश्चिमतो देवेशं संस्थाप्य सप्तविंशतिविग्रहैरभ्यर्च्य देवाभिमुखे धान्यस्थण्डिलं कृत्वा नववस्त्राण्यास्तीर्य पात्रादीनि पञ्चगव्येन प्रोक्ष्य प्रक्षाल्य अभ्युक्ष्य स्थण्डिले सन्यस्य वास्तुहोमं हुत्वा पर्यग्निं च कारयेत्; अग्निं परिस्तीर्य वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं तत्तदधिदेवत्यं मूर्तिमन्त्रं च जुहुयात्; तत्तदधिपान्, देवेशं च, पात्रादिषु समावाह्य अभ्यर्च्य पुण्याहं वाचयेत्; यजमानः आचार्यं सम्पूज्य दक्षिणां दद्यात्, अतोदेवादीन् अष्टाक्षरं च, जपन् देवसन्निधौ तत्तत्कर्मणि संयोज्य देवमभ्यर्च्य यथाशक्ति हविर्निवेद्य ब्राह्मणान् भोजयेत्, अधिदैवते अज्ञाते सर्वत्र सेनेशमर्चयेत्।
एतत्सामान्यम्॥
आभरणादीनां विशेषविधिः अथ विशेषतो वक्ष्ये।मकुटाद्याभरणजालं नानारत्नयुक्तं सुवर्णेन तत्तदङ्गानां योग्यमानेन कारयेत्। देवमभ्यर्च्य अभिमुखे सभ्याग्निकुण्डं कृत्वा आघारं हुत्वा वास्तुहोमं हुत्वा पर्यग्निं कारयेत्, पञ्चगव्येन प्रक्षाल्य सप्तकलशैः पञ्चविंशः पटलः [[१४६]] संस्नाप्य पूर्ववत्स्थण्डिलं कृत्वा नववस्त्राण्यास्तीर्य सुवर्णपात्रे तानि सन्यस्य तत्तदधिदेवान्, देवेशं च, अभ्यर्च्य अग्रिं परिस्तीर्य तत्तद्देवत्यं, वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, सर्वदेवत्यं च, हुत्वा स्नपनोक्तविधिना देवेशं संस्नाप्य वस्त्रमाल्यैरलङ्कृत्य पुण्याहं वाचयेत्, आचार्यं सम्पूज्य दक्षिणां दद्यात्।
चतुर्दिक्षु चतुर्वेदैः स्तोत्रनृत्तगीत(जय)वाद्यैः स्तोत्रैर्जयशब्दैश्च संस्तूय आचार्यो देवेशं प्रणम्य ’आत्मसूक्तं’ जप्त्वा देवं ध्यायन् एकाऽक्षरादिपुरुषसूक्तं जप्त्वा ’भूतोभूते’ष्विति मकुटाद्याभरणादि तत्तत् अलङ्कृत्य आस्थानम(ण्ट)ण्डपे संस्थाप्य स्नपनोक्तविधिना देवेशं संस्नाप्य अभ्यर्च्य महाहविः, प्रभूतं वा, निवेद्य अर्चापीठे संस्थाप्याऽर्चयेत्। सहस्रधारां शङ्खपद्मनिधी च विधिना कृत्वा आलयाभिमुखे गोमयेनोपलिप्य औपासनाग्निकुण्डं कृत्वा आघारं हुत्वा अगे्नः पश्चिमतो देवं संस्थाप्याऽभ्यर्च्य अभिमुखे धान्यपीठं कृत्वा नववस्त्राण्यास्तीर्य पञ्चगव्येन प्रक्षाल्य सन्यस्य वास्तुहोमं हुत्वा पर्यग्निं च कृत्वा वैष्णवं, विष्णुसूक्तं सौम्यं निध्योर्मूर्तिमन्त्रं च; हुत्वा पात्रे चन्द्रमण्डलं ध्यात्वा पद्मे पद्मनिधिं शङ्खे शङ्खनिधिं समभ्यर्च्य पुण्याहं वाचयित्वा अग्निं विसृजेत् आचार्यं पूजयित्वा दक्षिणां दद्यात् देवेशं संस्नाप्य अष्टोपचारैरभ्यर्च्य वस्त्रमाल्यगन्धाद्यैरलङ्कृत्य नृत्तगेयवाद्यैः स्तोत्रैर्जयशब्दैश्च घोषयित्वा आचार्यः प्राङ्मुख, उदङ्मुखो वा स्थित्वा हस्ताभ्यां पद्ममुद्धृत्य मकुटोपरि धारयन् शङ्खपद्माख्यपात्रस्थजलं सहस्रधारापात्रस्थपद्मे समर्पयेत्, वसोःपवित्रं, पुरुषसूक्तं वा, समुच्चार्याऽभिषिच्य पश्चादाचमनं दत्वा प्लोतेन विमृज्य अभ्यर्च्य हविर्निवेद्य नित्यनैमित्तिकादिष्वेवं कारयेत्, एतत् स्नपनं सर्वदोषोपशमनं सर्वसम्पत्करमिति विज्ञायते॥
रक्षादीपविधिः
रक्षादीपविधिं वक्ष्ये - नीराजनपात्रं कृत्वा पूर्ववत्संस्कृत्य तत्पात्रे तदाधारे घृतेन, तैलेन वा, पिचुवर्तियुतं दीपं, ’शुभ्राज्योति’ (वै॰म॰६-) [[१४७]] रिति सन्दीप्य दिक्पिण्डार्थं हरिद्राचूर्णितेनाऽन्नेन दशपिण्डान्, पञ्चपिण्डान्वा, मुष्टिमात्रं दृढतरं कृत्वा अलाभे अक्षतं पुष्पं वा गन्धद्रव्यं च पृथक् पात्रे सङ्गृह्य देवेशं सम्पूज्य शङ्खध्वनियुतं सर्ववाद्यैः, स्तोत्रैः, स्वस्तिघोषैः, सह यजमानो, देवदासी वा, तत्पात्रं शिरसा धृत्वा शनैश्शनैर्गत्वा आलयं प्रविश्य अभिमुखे संस्थापयेत्; आचार्यः पात्रे चन्द्रं दीपे श्रियं चाभ्यर्च्य देवस्य पादयोः पुष्पाञ्जलिं दत्वा तत्काले शङ्खनादसमन्वितं, नृत्तगेयवाद्यैर्युक्तं, ’श्रियेजात’ (ऋ॰सं॰७-४-४) इति बिम्बस्य मूर्धादिपादपर्यन्तं प्रणवाऽऽकारं त्रिःप्रदक्षिणं कारयित्वा पूर्वस्थाने न्यस्य देवेशं प्रणम्य ’अतोदेवा’ (ऋ॰ सं॰१-२-७) दिना प्रागादिदिक्पिण्डान् विसृज्य पाद्याचमनं दत्वा ’तद्विप्रासः, (ऋ॰स॰१-२-७) इमे गन्धा’ (वै॰म॰प्र॰६) इति गन्धेनोर्ध्वपुण्ड्रं कृत्वा अष्टाक्षरेण पुष्पाञ्जलिं दद्यात्; पूर्ववत्तमाहृत्य आलयाद्बहिर्गत्वा भूतपीठस्य दक्षिणपार्श्वे निक्षिपेत्; एवं साये प्रच्छन्नपटोद्धरणे च उत्सवे स्नपने बल्युत्सवे च अन्येषु पुण्यर्क्षेषु अर्चनान्ते कारयेत्॥
पादुकासंस्कारः
अथ पादुकासंस्कारं वक्ष्ये। अवटे, जलद्रोण्यां वा, वरुणमभ्यर्च्य जलाधिवासं कृत्वा पूर्ववदौपासनाग्निकुण्डं कृत्वा आघारं हुत्वा आस्थानमण्टपे धान्यराशौ वस्त्रोपरि पादुके सन्यस्य वास्तुहोमं हुत्वा पर्यग्निं च कारयेत्; शुध्द्यर्थं प्रोक्षणैः प्रोक्ष्य पुण्याहं कृत्वा अग्निं परिस्तीर्य वैष्णवं विष्णुसूक्तं पुरुषसूक्तं, शैषिकं च हुत्वा अग्निं विसृजेत्; आचार्यदक्षिणां दद्यात्।
सर्वालङ्कारसंयुक्तं स्वस्तिसूक्तेन आलयं प्रदक्षिणी कृत्य देवाभिमुखे सन्यस्य तयोर्मध्ये शेषमभ्यर्च्य विष्णुसूक्तेन देवस्य पादयोस्संयोज्य ततो देवं सप्तविंशतिविग्रहैरभ्यर्च्य महाहविः प्रभूतं वा, निवेदयेत्, ततःप्रभृति विष्णोरुत्सवकाले शिरसा धारयन् अग्रतो गच्छेत्, शिबिकायां, हस्ते वा पञ्चविंशः पटलः [[१४८]] समारोप्य नयेदिति केचित्; नित्यं बल्यन्ते बलिबेरपीठे सन्न्यस्य पाद्याद्यर्घ्यान्तं पूजयित्वा अभिमुखे पादुके सन्यस्य पूर्ववच्छेषमभ्यर्च्य पादुके संयोज्य देवेन सहाऽभ्यन्तरं प्रविश्य गर्भागारे सन्न्यसेत्॥
वाहनादीनां संस्कारः अथ वाहनादीनां संस्कारं वक्ष्ये - पञ्चगव्यैस्संशोध्द्य वास्तुहोमं हुत्वा पर्यग्निं कारयेत्; औपासनाग्निकुण्डं कृत्वा कुम्भं संसाध्य तत्तदधिदैवं, देवेशं च, ध्यात्वा आवाह्य सप्तभिः कलशैः संस्नाप्य मण्टपे, प्रपायां वा, धान्ये स्थण्डिलं कृत्वा नववस्त्राण्यास्तीर्य उपरि सन्न्यस्य नववस्त्राद्यैराच्छाद्य पुण्याहं वाचयेत्; अग्निं परिषिच्य वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, तत्तदधिदेवत्यं, मूर्तिमन्त्रांश्च व्याहृत्यन्तं हुत्वा अग्निं विसृजेत्; आचार्यं पूजयित्वा दक्षिणां दद्यात्; देवेशं प्रणम्य आचार्यः समाहितो देवं ध्यायन् वाहनेषु गरुडं, शयनेषु शेषं, आसनेषु शिवादीन् अन्येषु तत्तदधिदेवानावाह्य अभ्यर्च्य देवेशं प्रणम्य शकुनसूक्तेन देवमादाय ’भूरसि भू’ (वै॰म॰प्र॰६) रित्यादिना शयनादिषु प्रतिष्ठाप्य ’प्रतद्विष्णु’ (ऋ॰सं॰ २-२-२४) रिति पुष्पाञ्जलिं दत्वा देवेशं प्रणम्य अर्घ्यान्तमभ्यर्च्याऽलङ्कृत्य शकुनसूक्तं समुच्चार्य सर्वालङ्कारसंयुक्तं ग्राममालयं वा प्रदक्षिणं कृत्वा कारयित्वा आस्थानमण्टपे संस्थाप्य नृत्तगीतवाद्यैर्विनोदं कारयेत्; शुद्धस्नपनविधिना संस्नाप्य अभ्यर्च्य महाहविः, प्रभूतं निवेद्य अर्चास्थाने संस्थाप्याऽर्चयेदित्याह मरीचिः॥
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे पात्रपरिच्छदादिसंस्कारविधिर्नाम पञ्चविंशः पटलः ॥ २५ ॥
[[१४९]]