अथ चतुर्विंशः पटलः आवाहनपात्रादीनां लक्षणम् अथ पात्रपरिच्छदानां लक्षणं वक्ष्ये - मानाऽङ्गुलेन, मात्राऽङ्गुलेन, ध्रुवबेरस्य देहलब्धाङ्गुलेन वा, सुवर्णरजतकांस्यानामन्यतमेन चतुरङ्गुलविस्तारं, तदर्धोत्सेधं, सुवृत्तं, षडङ्गुलास्यतारं, पृष्ठे त्र्यङ्गुलपादं मध्ये नासिकायुक्तं, ताभ्यां वियुक्तं वापि, एवमावाहनपात्रम्, तथा पाद्याचमनपात्रोदकपात्रम्, प्रत्येकं शङ्खं वाऽऽहरेत्॥
चतुर्विंशः पटलः [[१३४]] पुष्पपात्रस्य लक्षणम् पुष्पपात्रस्य विस्तारं चतुर्विंशत्यङ्गुलं, द्व्यङ्गुलभित्युत्सेधम्, अर्धाङ्गुलमोष्ठं, पादं षण्मात्रं, सुवर्णाद्यैरेवं कारयेत्, अलाभे नालिकेरपत्रैस्तालपत्रैर्वा फेलावत्कारयेत्।
गन्धपात्रम्
गन्धपात्रस्य विस्तारं वेदाऽङ्गुलं, तस्योदरविशालं पञ्चाङ्गुलं, आस्यतारं वेदाङ्गुलं, तत्पिधानं यथोचितं कारयेत्॥
धूपपात्रम्
धूपपात्रं ताम्रेण पित्तलेन वा षडङ्गुलविस्तारं, तावदेवोत्सेधं, ओष्ठमर्धाङ्गुलं, बाह्येऽष्टदलान्वितम् अधस्ताद्द्विपादं, तदुत्सेधं द्व्यङ्गुलम् अष्टाङ्गुलायतं दण्डं, द्व्यङ्गुलपरिणाहं द्विवक्त्र, तद्दण्डपुछे द्व्यङ्गुलेनेभपादवदेकपादं वा कुर्यात्। अथवा पादं त्र्यङ्गुलोत्सेधं, पञ्चाऽङ्गुलविस्तारं पद्माकारं, तदूर्ध्वे सप्ताङ्गुलायामं, षडङ्गुलपरीणाहं, तदूर्ध्वे पूर्ववत्पात्रं कृत्वा तद्विधानं यथार्हमग्न्यङ्गुलोच्छयं मुकुलाकारमनेकसुषिरयुक्तं शेषं युक्त्यैव कारयेत्॥
दीपपात्रम्
दीपपात्रं शराङ्गुलविस्तारम्, अर्धाऽङ्गुलोष्ठम्, अश्वत्थपत्राकारम्, अष्टदिक्षु चतुर्दिक्षु एकस्यां दिशि वा वर्त्याधारयुतं धूपपात्रवत् दण्डं, पादं वा कुर्यात्॥
घण्टा
घण्टाऽऽस्यविस्तारं षडङ्गुलं, तत्समोत्सेधं तन्मूलविस्तारं विषयाऽङ्गुलम्, एकाङ्गुलं शिखरं, चुतुर्यवं गलोत्सेधं, जिह्वा वेदाङ्गुलायता, वर्त्तिवत् षडङ्गुलं दण्डोच्छ्रयं, दण्डाग्रे चक्रं वीशं वा कृत्वा शेषं युक्त्यैव कारयेत्॥
[[१३५]]
महाघण्टा
महाघण्टास्यविस्तारमष्टाङ्गुलं, तत्समोत्सेधं, तन्मूलविस्तारं षडङ्गुलं, गलं त्र्यङ्गुलोन्नतं षडङ्गुलपरिणाहं, पट्टिकाद्वयसंयुक्तमोष्ठमेकाङ्गुलं, शिखरोच्चं द्व्यङ्गुलं, नाहं सप्ताङ्गुल, सुषिरयुक्तं, चतुर्नाडिसमायुक्तं, तारार्धवर्तिताऽऽनाहं, जिह्वा नवाऽङ्गुलायता, तच्छिखरे वलयोपेतं, शेषं युक्त्यैव कारयेत्।
अर्घ्यपात्रम्
अर्घ्यपात्रस्य विस्तारं युगाऽङ्गुलं द्व्यङ्गुलोत्सेधं, तत्पृष्ठपादं त्रिमात्रोत्सेधं, तद्धीनं वा कारयेत्॥
हविःपात्रम्
हविःपात्रं सौवर्णं, रजतं, ताम्रं, कांस्यं वा, द्वादशाङ्गुलं समारभ्य षट्त्रिंशदङ्गुलान्तं त्र्यङ्गुलवृद्ध्याा नवधा पात्रविस्तारम् अर्धाङ्गुलभित्युन्नतं द्वियवमोष्ठविस्तारं, शेषं युक्त्यैव कारयेत्॥
पानीयपात्रम्
पानीयपात्रं सौवर्णं, राजतं, ताम्रं, कांस्यं वा, विस्तारं षडङ्गुलं, सप्ताङ्गुलं वा, भित्युत्सेधं द्व्यङ्गुलं, चतुरङ्गुलं वा, उदरवलयं दशाङ्गुलं, एकादशाङ्गुलं वा, दर्शनीयं कारयेत्॥
ताम्बूलपात्रम्
मुखवासपात्रं सुवर्णेन, रजतेन, ताम्रेण, दारुणा वा, द्वादशाङ्गुलविस्तारं, समवृत्तं, घनं द्वियवम्, अर्धाऽङ्गुलं भित्युच्चं, दण्डायामं द्वादशाङ्गुलम्, अष्टाङ्गुलं तद्विस्तारं, मूलादारभ्य मध्ये द्व्यङ्गुलमष्टाङ्गुलायामविस्तारं, चतुरङ्गुलोत्सेधं, पद्माकारं पादं कारयेत्।
चतुर्विंशः पटलः [[१३६]]
दर्वी
चतुर्विंशत्यङ्गुलायामा दर्वी, तदायामं पञ्चधा कृत्वा द्व्यंशमग्रायतं, वस्वङ्गुलविस्तारम्, एकांशं पुच्छायामम्, अग्रार्धविस्तारम्, अग्राच्च मूलादारभ्य मध्ये द्व्यङ्गुलक्षयं शेषं युक्त्यैव कारयेत्॥
त्रिपादिका
त्रिपादिका चतुर्धा शङ्खपादिका बकपादिका त्रिपादिका स्थालिपादिका चेति, शङ्खपादिकोच्चं युगाङ्गुलं, तत्समं मुखविस्तारं त्रिपादयुता त्रिवक्रा; बकपादिका मुखतारं षडङ्गुलं, तच्चतुर्गुणं पादायामम् ईषत्त्रिभङ्गिका त्रिपादसहिता; तन्मूले सिंहपादवत् पात्रपादिका चतुष्षडष्टाङ्गुल विस्तारा समोत्सेधा त्रिपादयुताऽधस्तात् द्व्यङ्गुलेन शरावपृष्ठाकारं कारयेत्; स्थालिपादिका विस्तारमष्टाऽङ्गुलं, तत्समोत्सेधं पादादधस्तात्पादाकारं कारयेत्।
स्थालिपादिकामायसीं कारयेदिति केचित्।
पादोदकपात्रम्
पादोदकपात्रमूलं षोडशाङ्गुलं, मुखतारं विंशतिमात्रं, भित्युच्चं सप्ताङ्गुलम्, ओष्ठद्व्यङ्गुलविस्तृतं, तच्छरावाकृति, तस्योभयोः पार्श्वयोः मकरास्यवत्, तत्पृष्ठे युगाऽङ्गुलोत्सेधं, द्विवक्रपादत्रयं, सिंहपादवत् सहजं, शेषं युक्त्यैव कारयेत्॥
आचमनपात्रम्
आचमनपात्रम् आचमनतोयाधारं, द्वादशाङ्गुलोत्सेधं, तन्मूलं षडङ्गुलायामविस्तारम्, आस्यतारमादित्याऽङ्गुलम्, ओष्ठमेकाऽङ्गुलविस्तारं, धुत्तूरकुसुमोपमं, दण्डायामं चतुरङ्गुलं, तदधस्ताच्चतुरङ्गुलायामविस्तारं, त्र्यङ्गुलोन्नतं, सुवृत्तं, पीठं च, शेषं युक्त्यैव कारयेत्॥
[[१३७]]
गण्डिका
गण्डिकायाः द्वादशागुलं कुक्षिविस्तारं; तस्मादध्यर्धमुत्सेधम्, अधस्तात् षडङ्गलविस्तारं, त्रिगुणपरिणाहं, कण्ठं चतुरङ्गुलविस्तारम्, ओष्ठं द्व्यङ्गुलम्, आस्यतारं चतुरङ्गुलं, तत्पार्श्वे नासिका द्विमात्रोत्तुङ्गुातद्वृत्तं कनिष्ठाङ्गुल्यग्रसमं, तत्पृष्ठं चतुरङ्गुलविस्तारायामं पादं द्व्यङ्गुलोत्सेधं, शेषं युक्त्यैव कारयेत्॥
सहस्रधारापात्रम्
नित्यनैमित्तिकाभिषेकार्थं सहस्रधारायुतं पात्रं, सुवर्णाद्यैः चतुर्विंशतिषोडशद्वादशाऽङ्गुलविस्तारायामं, समवृत्तं, भित्युत्सेधमङ्गुलम्, ओष्ठमेकाङ्गुलं, तन्मध्ये चतुरङ्गुलविस्तारायामं कर्णिकाकारं, तन्मध्ये रत्नं सुवर्णं वा निक्षिप्य तत्परितोऽष्टदलोपेतं पार्श्वयोस्तालमात्रोन्नतं, त्र्यङ्गुलविस्तृतं, गण्डिकाद्वयम् अग्रं मुकुलाकारं समुष्टिकं वा कारयेत्। गण्डिका रहितां वा कारयेत्॥
शङ्खनिधी पद्मनिधी शङ्खपद्मसमाकारे पात्रे द्वे आढकसम्पूर्ण तदर्धसम्पूर्णे वा पार्श्वे षड्विंशत्यङ्गुलायतं, षडङ्गुलपरिणाहं, तज्जलनिर्याणमार्गयुतं नालं कृत्वा शेषं युक्त्यैव कारयेत्॥
दीपाधारपात्रम्
दीपाधारं ताम्राद्यैः एकहस्तादि नवहस्तान्तमुत्सेधं नवधा भवति; तच्छरांशैकांशं पादविस्तारं, तदर्धमुत्सेधं, समवृत्तं, पद्माकारं, तदष्टांशोनमाज्यधाराविस्तारं, तदूर्ध्वे मुकुलमष्टांशैकांशं, मध्ये च एकत्रिपञ्चसप्तनवैकादशत्रयोदशपञ्चदशसङ्ख्यैराज्यधारैर्युक्तं, मध्ये नानापट्टिकाभिर्नानाकुम्भैर्युक्तं, शेषं युक्त्यैव कारयेत्॥
चतुर्विंशः पटलः [[१३८]]
दीपाधारप्रतिमा
आज्यस्थालीं शिरसा पाणिभ्यां वा वहतो नम्रकायान्पुरुषान् स्त्रियो वापि कारयेत्॥
दीपमाला
द्वारपार्श्वयोः ताम्रेण अयसा दारुणा वा दीपमालदण्डं द्वारसमोत्सेधं, चतुरङ्गुलविस्तारं, त्र्यङ्गुलघनं; वेदाऽङ्गुलायतान्, त्र्यङ्गुलविस्तारान्, द्व्यङ्गुलनालान्, दीपाधारान् दण्डेन सङ्घट्टितान् कारयेत्॥
करदीपपात्रम्
अयसा हस्तमात्रमेकाङ्गुलपरिणाहं, वक्रसहितम्, अग्रे दीपाधारां धुत्तूरपुष्पोपमाम् आस्यतारं त्र्यङ्गुलं, चतुरङ्गुलं वा गर्तं चतुरङ्गुलं यवमात्रघनम्, अधस्ताद्दारुणामुष्टियमं, यमद्वयं वा संयोज्य एवं हस्तदीपं कारयेत्॥
नीराजनपात्रम्
अथ नीराजनपात्रं हेमरजतताम्रकांस्यानामन्यतमेन चतुर्विंशतिषोडशद्वादशाऽङ्गुलविस्तारं, समवृत्तम्, अर्धाऽङ्गुलभित्युच्चं, तत्समसीमाविस्तारं, पात्रमध्ये त्रिभागैकभागेनाऽब्जदलयुतम्, एकाऽङ्गुलोन्नतं तत्कर्णिकामध्ये त्र्यङ्गुलोत्सेधम्, एकाऽङ्गुलं परिणाहं, मध्या(ध्यमा)दिनवदिक्षु दीपाधारयुक्तं, मध्ये मध्ये यमम् एवं संयोज्य तत्पृष्ठे षट्चतुरङ्गुलाऽऽयतविस्तारं पादं योजयेत्॥
दर्पणम्
दर्पणं शुद्धेन कांस्येन नवैकादशत्रयोदशाऽङ्गुलविस्तारायामं, पूर्णचन्द्राकारं, नालमष्टाऽङ्गुलं, द्वादशाऽङ्गुलं वा, नानापट्टिका सहितं कारयेत्।
[[१३९]]
पादुका
पादुकां सुवर्णरजतताम्राणामन्यतमेन त्रिमात्रादि सप्तमात्रान्तम्, अर्धाङ्गुलवृद्ध्या त्रित्रिभेदं पादुकायामं, तदर्धमग्रविपुलं, तन्मध्यं तत्पादहीनं, तदुत्सेधम्, आयामतुरीयांशं, तत्त्रितभागद्विभागं खुरं, शेषमूर्ध्वदलम्, अङ्गुष्ठोच्चं, तलोच्चं, चतुर्भागं, तच्छरांशयुगांशनालं, शेषं पुष्पम्; अङ्गुष्ठोच्चसमं, पुष्पविस्तारं, शेषं युक्त्यैव कारयेत्॥
जलद्रोणी
जलद्रोणीं सौवर्णीं राजतीं ताम्रमयीं वा भारजलैः द्विभारजलैः त्रिभारजलैर्वा सम्पूर्णां सुदृढां, निर्विवरां सुवृत्तां, चतुरश्रां वा, ग्रीवाहीनां, पार्श्वयोर्वलयसंयुक्तां मृण्मयीं वलयविहीनां सुग्रीवां शेषं युक्त्यैव कारयेत्॥
यवनिका
यवनिकां द्वारविस्तारसमविस्तारां तदर्धायामां श्वेतवस्त्रेण कारयेत्॥
तरङ्गम्
तरङ्गं क्षौमपट्टदुकूलपटकार्पासैर्वा द्वादशहस्तायतैः पञ्चभिः द्वादशभिः नवभिर्वा नवाऽम्बरैर्युक्तम्, आस्यरज्वा समायुक्तं नानारूपान्वितं श्वेतं वा कारयेत्॥
स्तम्भवेष्टनम्
स्तम्भवेष्टनं तत् स्तम्भायामसमं, तदर्धविस्तारं, क्षौमाद्यैः कारयेत्॥
वितानम्
वितानं तत्पङ्क्त्यायामविस्तारसमं, नानारूपान्वितं वा कारयेत्॥
चतुर्विंशः पटलः [[१४०]]
ध्वजः
ध्वजं त्रिपञ्चसप्ताष्टादशद्वादशकरायतं, षट्पञ्चचतुस्त्रितालविस्तारं, श्वेतपीतश्यामरक्ताभं; हस्तमात्रायामं शिखरं, हस्तायामैर्द्वित्रिपास्संयुक्तं, तिर्यग्वेत्रद्वययुतं, घण्टासहितं, तद्विगुणायतयष्टिसंयुक्तं कारयेत्॥
पताका
पताकां तथैव विंशत्यङ्गुलविस्तारां, त्रिंशदङ्गुलायतां क्षुद्रध्वजं पञ्चाङ्गुलविस्तारं, द्वादशाङ्गुलायतवेत्रद्वययुतम्, अन्यत्पूर्ववत्, शिखरे रज्जुयुक्तं कारयेत्॥
छत्रम्
छत्रं चतुस्तालं, समवृत्तमधोमुखं, वैणवेन तन्तुना बन्धनं कृत्वा वस्त्रेणाऽऽछाद्य कल्कं प्रलिप्य मुक्तादामयुतं, सरत्नहेमसञ्छन्नं, हेममकुटोपेतमुत्तमं; वस्त्रेणाऽऽछाद्य धवलं कृत्वा ताम्रपित्तलमकुटोपेतं मध्यमं; दारुमकुटोपेतमधमं; यथार्हं नालं दण्डं च कारयेत्॥
पिञ्छम्
पिञ्छं चतुस्तालविस्तारायामं, सुवृत्तं, किञ्चिदूर्ध्वमुखं, छत्रवद्वस्त्रेणाऽऽछाद्य मयूरपिञ्छैर्बाह्यमभ्यन्तरं तत्समं चाऽऽछाद्य पूर्ववन्मकुटनालदण्डं च कारयेत्॥
जिनच्छत्रम्
जिनच्छत्रं षट्तालविस्तारं, समवृत्तम्, अधोमुखं वैणवेन तन्तुना सङ्क्षेपविस्तीर्णयोग्यं, वस्त्रेण बन्धनं कृत्वा तदुपरि क्षौमाद्यैस्सञ्छाद्य परितस्तालमात्रं लम्बनं कृत्वा पूर्ववन्मकुटयन्त्रनालदण्डैस्सहैव कारयेत्॥
[[१४१]]
वर्षच्छत्रम्
वर्षछत्रमष्टतालविस्तारायामं, वृत्तं, चतुरश्रं वा वैणवेन तन्तुनाऽऽबध्य वस्त्रेणाऽऽछाद्य मधूच्छिष्टेनालिप्य अलाभे तालपत्रैराछाद्य पूर्ववन्नालं, शुकनासिकां वा, संयोज्य दण्डाऽग्रे संयोजयेत्॥
चामरदण्डः
चामरदण्डं सरत्नहेमताम्रजं, दारवं वा, चतुर्विंशत्यङ्गुलायामं, पञ्चाऽङ्गुलनाहं, नानापट्टिकाकुम्भसंयुक्तं, नानामण्डनसंयुक्तं च कृत्वा चमरीश्वेतवालैः यथायोगं यथाशोभं संयोजयेत्॥
मयूरव्यजनदण्डः
मयूरव्यजनस्य दण्डायामं पूर्ववद्विचित्रितं युक्त्या कृत्वा पिञ्छैः छन्नं छन्नं कृत्वा यथाशोभं यथायोगं कारयेत्॥
क्षौमादिव्यजनम्
क्षौमादिव्यजनविस्तारायामं चतुर्विंशतिषोडशद्वादशाऽष्टाङ्गुलं समवृत्तं वेणुना कृत्वा क्षौमाद्यैर्वेष्टयित्वा दण्डायामं त्रिगुणं, यथार्हं नाहं कृत्वा दण्डाग्रे संयोज्य नानातन्तुभिर्विचित्रितं कारयेत्॥
शिबिका
शिबिकाविस्तारद्वि(त्रि)गुणं कूटोत्सेधं तद्विधा कृत्वैकांशं पादायामम् एकांशं शिखरं युक्त्या संयोज्य सुवर्णेन बर्हिपिञ्छैर्वा सञ्छादयेत्॥
रथलक्षणम्
रथलक्षणं पञ्चसप्तनवैकादशतालविस्तारायामं तद्द्विगुणोत्सेधं मण्टपाकारं, कूटाकारं वा, रथायामत्रिगुणमाधारं, चक्रस्याऽऽयामविस्तारं चतुर्विंशः पटलः [[१४२]] उत्सेधार्धं, समवृत्तं, स्थलस्यालङ्कारं शिबिकालङ्कारवत् कारयेत्, आधारे पूर्वाऽपरस्थलं कृत्वा पूर्वे मुकुलं नालं च संयोज्य रथोत्सेधं पञ्चधा कृत्वा सार्धांशमधिष्ठानं, कुमुदकुम्भपट्टिकाद्यैरुपशोभितं, शिबिकावदलङ्कारैर्युक्तं, द्व्यंशं पादं, सार्धांशं शिखरं कारयेत्, अत्रानुक्तं सर्वं रङ्गडोलादीनि च शिल्पिशास्त्रोक्तविधिना कारयेत्॥
खट्वा
खट्वाविस्तारं दन्तैर्दारुसारैर्वा चतुर्विंशतिविंशति षोडशद्वादशाऽङ्गुलम्, अर्धाधिकपादोनद्विगुणं, द्विगुणं वा, आयामविस्तारार्धं पादोत्सेधं, तत्समं नाहं, चतुर्भिः षड्भिः अष्टभिर्वा पादैर्युक्तं, सिंहव्यालगजाकारैर्युक्तम् ईलिकाविस्तारं रसाऽङ्गुलं, तदर्धं बहलं, तत्तारं त्रेधा कृत्वा मध्ये पट्टिकां, तद्बाह्ये कपोताकृतिं कारयेत्, ऊर्ध्वतोऽधस्ताच्च गुलिकाद्यैरुपशोभितभित्तिकम्, अभ्यन्तरे चाऽऽधारमायसं सुषिकानाराचं संयोजयेत्, त्र्यङ्गुलविस्तारां यथार्हायामां कक्ष्यां कार्पासतन्तुना कृत्वा खट्वामावेष्टयेत् खट्वायामविस्तारसमं, दशाऽष्टषडङ्गुलोत्सेधम्, अण्डजाद्यैः क्षौमाद्यैर्वा सम्पूर्णं वा कारयेत्॥
उपधानम्
उपधानं त्रिंशदङ्गुलविष्कम्भं, त्रिगुणपरिणाहं, यथोचितायामं, पादोपधानं हस्तोपधानं युक्त्या कृत्वा युगपादं द्वादशद्वयाङ्गुलोत्सेधम्, अष्टाऽङ्गुलविष्कम्भं, पालिकाकारवत्कृत्वा संयोजयेत्॥
पुष्पफलकम्
पुष्पपलकां खदिराऽर्जुनमधूकाद्यैश्शुभवृक्षैः अष्टषट्चतुस्तालविस्ताराम् अष्टषट्चतुर्हस्तायतां चतुस्त्रिद्विमात्राबाहल्यां कृत्वा युगपादं द्वादशाऽङ्गुलोत्सेधम् अष्टाङ्गुलविष्कम्भं पालिकावत् कृत्वा संयोजयेत्॥ विष्टरं चतुर्विंशत्यङ्गुला- [[१४३]] यामविस्तारं समचतुरश्रं वृत्तं वा वेदाङ्गुलं बाहल्यम्, मुष्टिं षडङ्गुलायामं, सप्ताङ्गुलपरिणाहं, शेषं युक्त्या कारयेत्॥
आसनविष्टरम्
आसनविष्टरं शय्याविष्टरवत् पादहीनं समं वा कारयेत्॥
स्नानविष्टरम्
स्नानविष्टरं द्वात्रिंशदष्टाविंशतिचतुर्विंशतिषोडशद्वादशाष्टाङ्गुलविस्तारायामं, समचतुरश्रं विस्तारार्धं, त्रिपादं वा, पादायामं, यथार्हं नाहं, चतुष्पादैर्युक्तं, तस्योपरि चतुर्दिशां चतुरङ्गुलोत्सेधवेदिकां वामपार्श्वे वारिमार्गयुतं कारयेत्, विधिविहीनं वा स्नानविष्टरमेवं कारयेदिति केचित्॥
भेरिका
भेरिकां शुभैर्वृक्षैः, चतुस्तालमायामं, तत्पादोनद्विगुणं द्विगुणार्धं वा परिणाहं, मुखतारं, द्वादशत्रयोदश चतुर्दशाऽङ्गुलं, सुवृत्तं, अर्धाऽङ्गुलबाहलम्, उभेमुखे चाऽऽयसपट्टेन बन्धयित्वा नवसप्त वा कीलान् संयोज्य अग्रमूलं वामदक्षिणं च स्मृत्वा चन्द्रादित्यौ मुखद्वये वरुणं वलये वरुणं चर्मणि प्रजापतिं प्रहरणे अश्विनौ शब्दे ब्रह्माणं वा; ध्रायां नागान् कीलेषु सप्तर्षीन्, नवग्रहान् वा; भेरिकायां भूतेशं स्मृत्वा एवं कारयेत्॥
कर्त्रिकाफलकम्
कर्त्रिकाफलकायामम् अष्टादशाङ्गुलैर्वर्तुलं भ्रमीकृत्य अर्धं त्यक्त्वा अर्धं सङ्गृह्य अर्धचन्द्राकारस्य मध्ये रसाङ्गुलेन सुवृत्तं भ्रमीकृत्य तन्मध्ये तद्विस्तारोत्सेधभित्तियुतं गर्तं (वा) कृत्वा पार्श्वयोरुभयोस्त्र्यङ्गुलविस्तृतां द्व्यङ्गुल बाहल्यां पट्टिकां पुष्पवल्लियुतां कारयेत्; तद्गर्तभित्तिबाह्यं यवद्वयं तदग्रद्वये मकरास्यं तत्पृष्टे द्वादशाङ्गुलायामं द्विवक्त्रम् अष्टाऽङ्गुलपरिणाहम्, अश्वपादवत् एकमङ्घ्रिं कृत्वा संयोज्य शेषं युक्त्यैव कारयेत्॥
चतुर्विंशः पटलः [[१४४]]
उलूखलम्
उलूखलस्याऽर्जुनजम्ब्वाद्यैशुभैर्वृक्षैः मानाऽङ्गुलेन चतुर्विंशत्यङ्गुलं षोडशाङ्गुलायामं तत् त्रिगुणं नाहम् आयामार्धं पञ्चभागं, त्रिभागं द्विभागम् एकभागं वा गर्तम्, उत्सेधं पञ्चधा कृत्वा द्विभागं पादम्, ओष्टविस्तारं षट्पञ्चचतुरङ्गुलं शेषं गर्तम्, एवं कारयेत्॥
मुसलम्
खादिराद्यैर्वृक्षसारैः मात्राङ्गुलेन अष्टनवदशतालायामं द्वादशाऽङ्गुलपरिणाहम्, अवक्रं निर्व्रणं कृत्वा ऊर्ध्वाधश्चतुरङ्गुलमात्रेण अयःपट्टमचलं संयोजयेत्, एवं मुसलं कारयेत्॥
दात्रम्
दात्रायामं षोडशाऽङ्गुलं द्विमात्रविस्तारं यवबाहल्यमास्यं सुतीक्ष्णं दारुणामुष्टिं द्वादशाङ्गुलं तदर्धपरिणाहं कृत्वा संयोज्य अयःपट्टेन सुदृढं बन्धयेत्॥
खनित्रम्
खनित्रायामं त्रिपञ्चाऽङ्गुलमैकवक्रं त्रिमात्रविस्तारम् आस्यतारं चतुरङ्गुलं पञ्चाङ्गुलं वा तस्य मूलं सुषिरं त्र्यङ्गुलविष्कम्भं दारुणा मुष्टिं चतुस्तालमानेन कारयेत्॥
पेषणी
पेषणीं शिलामयीं चतुर्विंशति विंशति षोडशाङ्गुलायामां तदर्धविस्तारां त्रिपादविस्तारां वा विस्तारार्धसमोत्सेधां तदुत्सेधं सप्तधा कृत्वा त्र्यंशं पादं चतुर्भागम् ऊर्ध्वपट्टिकाम्; ऊर्ध्वपेषिण्यायामं तद्विस्तारसमं नाहम् आयामात् पादाधिकं षड्भागैकं मुष्ठिं शेषं युक्त्यैव कारयेत्।
[[१४५]]
यन्त्रिका
यन्त्रिकाम् अयसा मध्यमाङ्गुलिपरीणाहां द्विवक्रां कृत्वा तन्मूले मुकुळं वलयं वा, युक्त्या कारयेत्।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे पात्रपरिच्छदादिपूजोपकरणलक्षणं नाम चतुर्विंशः पटलः ॥ २४ ॥