०२३ दशतालादिनिर्णयः

अथ त्रयोविंशः पटलः देवस्योत्तमतालवशात् मानकथनम् अथ देवेशस्योत्तमदशतालवशान्मानं वक्ष्ये।

त्रियवाधिकैकाङ्गुलमुष्णीषं केशान्तं त्र्यङ्गुलं दृक् सूत्रं त्रियवाधिकं चतुरङ्गुलं तत्समं पुटान्तं तत्समं हन्वन्तं गळमर्धाङ्गुलं हिक्का यवोनं (न) चतुरङ्गुलं हिक्कायाहृदयान्तं, हृदयान्नाभ्यन्तं, नाभेर्मेढ्रान्तं, तत्त्रियवाधिकत्रयोदशाङ्गुलं; मेढ्रादूर्वायामं त्रियवोनसप्तविंशत्यङ्गुलं जानु त्रियवाधिकचतुरङ्गुलं जङ्घाचोरुसमायामा पादं स त्रियवचतुरङ्गुलं पादायामं सप्तदशाङ्गुलं हिक्कासूत्रादधस्ताद्बाहुस्सप्तविंशत्यङ्गुलः कूर्परं द्व्यङ्गुलं प्रकोष्टमेकविंशत्यङ्गुलं सप्तदशाङ्गुलं (वा) (नलं सप्ताङ्गुलं) मध्यमाङ्गुलायामं षडर्धाङ्गुलं; तर्जनी यवाधिकपञ्चाङ्गुला अनामिका तद्यवाधिका अङ्गुष्ठं द्वियवाधिकभागं कनिष्ठाङ्गुलं तद्यवाधिकं स्यात्।

उष्णीषादीनां प्रमाणम् अथ प्रमाणं वक्ष्ये - उष्णीषात्पूर्वकेशान्तं नवाङ्गुलं पार्श्वयोस्तस्समं पृष्ठकेशान्तं द्वादशाङ्गुलं मुखस्य विस्तारं चतुर्दशाङ्गुलं द्विचत्वारिंशदङ्गुलं नाहं शिरसः पृष्ठतः कर्णयोरन्तरं त्रयोदशाङ्गुलं पूर्ववत् पृष्ठतः षड्विंशत्यङ्गुलं शेषं कर्णयोः स्थानं भ्रुवोर्मध्यमेकाङ्गुलं केशान्ताद् भ्रुवोर्मध्यं त्र्यङ्गुलम् अष्टाङ्गुलार्धं तिर्यगुपक्षेपमध्यम् अष्टार्धाङ्गुलं ग्रीवाग्रविस्तारं नवार्धाङ्गुलं ग्रीवामूलविस्तारं बाह्वोः पर्यन्तं चतुश्चत्वारिंशदङ्गुलं स्तनयोरन्तरं चतुर्दशाङ्गुलं मध्योदरं षोडशाङ्गुलं श्रोणीविस्तारम् अष्टादशाङ्गुलं कटिविशालं विंशत्यङ्गुलम् ऊरुमूलविशालं त्रियवाधिकत्रयोदशाङ्गुलम् ऊरुमध्यविस्तारमेकादशाङ्गुलं जानुनवार्धाङ्गुलं जङ्घामूलमष्टाङ्गुलं जङ्घामध्यविस्तारं सप्ताङ्गुलं नलकाविस्तारं सार्धचतुरङ्गुलं त्रयोविंशः पटलः [[१२२]] अक्षगुल्फान्तरं पञ्चाङ्गुलं प्रपदविस्तारं सार्धपञ्चाङ्गुलं सार्धवेदाङ्गुलोत्सेधं पार्ष्णिविस्तारं सार्धत्रिमात्रं पादाङ्गुलविस्तारम् अङ्गुष्ठायामं चतुरङ्गुलं तर्जनी तत् यवाधिका तद्यवोनं मध्यमाङ्गुलं त्रिमात्रार्धानामिका कनिष्ठायामं त्रिमात्रं कनिष्ठाद्यङ्गुष्ठान्तं क्रमात्सप्ताष्टा अष्टार्धनवषोडशभिर्यवैरङ्गुलानां विस्तारं शेषं विवरम्।

बाहुमूलविस्तारं दशाङ्गुलं बाहुमध्यं नवाङ्गुलं कोर्परं सार्धसप्ताङ्गुलं प्रकोष्ठमध्यं सप्ताङ्गुलं मणिबन्धं चतुरङ्गुलं सार्धतलं सार्धषण्मात्रं (तल) मध्यं सप्ताङ्गुलम् अग्रं षण्मात्रं रुद्राष्टनवसप्तषड्यवविपुलान्यङ्गुष्ठादिकनिष्ठान्ताङ्गुल्यग्राणि तद्यवार्धहीनं सप्तवेदेषु तुर्याग्नियवमङ्गुष्ठादिनखानां विशालं द्वियवाधिकायामं द्विपर्वाङ्गुष्ठम् अन्यानि त्रिपर्वाणि अङ्गुष्ठमूलपर्वार्धाधिकाङ्गुलं द्व्यर्धाङ्गुलम् अग्रपर्व तर्जनीमूलपर्व चतुर्दशयवं मध्यमपर्व त्रयोदशयवम् अग्रपर्वद्वादशयवं मध्याङ्गुलीमूलपर्वाष्टादशयवं मध्यमपर्वषोडशयवम् अग्रपर्वसार्धपञ्चदशयवम् अनामिकमूलपर्व सार्धचतुर्दशयवं मध्यमपर्व सार्धत्रयोदशयवम् अग्रपर्वद्वादशयवं कनिष्ठाङ्गुलिमूलपर्व द्वादशयवं मध्यमपर्वैकादशयवम् अग्रपर्व दशयवम् अङ्गुळीनामग्रे द्वियवाधिकं नखाग्रं पार्षि्णहस्तघनं वेदाङ्गुलं तलमध्यघनं द्व्यर्धाङ्गुलम् अग्रमङ्गुलीवत् क्षीणं शुकोदरघनं द्व्यर्धाङ्गुलं मणिबन्धात्तदायामं सद्वियवं भागं शुकोदरविशालं द्वियवोनं त्र्यङ्गुलं पार्षि्णहस्तविस्तारं द्वियवोनचतुरङ्गुलं तस्याग्रे तर्जन्यादिकनिष्ठान्तानामङ्गुळीनां मूलतलं मांसलं द्रव्यर्धमात्रेण शेषतलं निम्नमङ्गुष्ठतर्जनीमूलयोस्सार्धत्र्यङ्गलमङ्गुलीनामधोमूलसन्धिरङ्गुलमेकाग्रोच्चनीचार्धाङ्गुलम्।

कनिष्ठिका देशमूलादेकदशात्तर्जनीमूलपार्श्वगा आयुरेखा मध्याङ्गुलयोः द्व्यङ्गुलं तस्य षड्यवाधस्ताद्विद्यारेखा तलमूलादाकराग्रं ब्रह्मरेखा दक्षिणादक्षिणे करतले चक्रशङ्खसमारेखा भवेत्।

[[१२३]] उपक्षेपनिम्नं द्वियवान्तरावर्तं द्व्यङ्गुलम् उपक्षेपविशालमर्धार्धाङ्गुलं त्रियवोन्नतं हस्तिमस्तकवद्विस्तीर्णमस्तकं सोन्नतमङ्गुलम्।

भ्रूतलं (भ्रूः) पञ्चचतुर्यवा सार्धपञ्चाङ्गुलायामा सार्धाष्टयवविस्तारमात्रा आनता च अर्धमात्रान्तर्याचक्रपुछा चापवत् भ्रूलता स्निग्घरोमसञ्चिता।

द्व्यङ्गुलं नेत्रतारं भ्रुवस्तलादर्धाधिकाङ्गुलायामम् एवमक्षिमण्डलमूर्ध्वाधोवर्मछन्नम् ऊर्ध्ववर्म द्वादशयवम् अधोवर्म चतुर्यवम् एतयोर्योगं नयनसूत्रमूर्ध्ववर्मविस्तारं द्वियवम् अक्षिमोचनविस्तारमेकाङ्गुलम् ऊर्ध्ववर्मणासंस्पृशत्।

षङ्यवं कृष्णमण्डलं तस्योभयोः पार्श्वेयोस्तदर्धाधिकायतौ शुक्लभागौ कनीनिका विस्तारायामं यवं नेत्रान्तरक्तं यवार्धं ज्योतिर्यवप्रमाणं दृष्टिर्यूकमात्रा ऊर्ध्ववर्मततं यवार्धकं द्वियवमधोर्वर्मनतं वर्मणोघनमर्धं यवं नवतिः पक्ष्मरोमाणि शेषं पक्ष्म नासिकापुटमध्यमूलान्तं क्रमादष्टादश दशषड्यवविस्तृतम्।

नासिकाग्रमङ्गुळिविस्तारं गोजीमूलाग्रं द्व्यङ्गुलोच्छ्रयं पुष्करम् अष्टयवोत्सेधं तन्मूलविस्तारं द्वियवं मध्यविस्तारं द्व्यर्धयवम् अग्रविशालं त्रियवं पुटस्रोतोङ्गुलं तिर्यग्यवपञ्चकं पुटस्य बहळं यवमात्रायत ततान्वितं द्विनिष्पावबीजसदृशं तिलपुष्पसमाकारं नासिकापुटसूत्रान्नासाग्रं द्वियवार्धं लम्बितं सार्धचतुर्यवं गोजीपुटं द्वियवं विस्तारं त्रिवर्गा चोत्तरपाली सार्धयवविस्तृता त्रियवार्धतता।

सार्धयववेदाङ्गुलायतमुत्तरोष्ठम् आस्यतारं तदेवं चत्वारः पुरोदन्ता स्त्रियवायामविस्तृतास्तावन्तोऽधरदन्ताः द्वियवार्धानतायताश्चतुर्यवायता दंष्ट्रासदंशमुकुळोपमा ऊर्ध्वाधोदंष्ट्रे अर्धयवाधिके पुरोदन्तात् यवार्धोनायतास्तत्समविस्ताराः पञ्चोपदंष्ट्राः द्विपार्श्वेगा द्वात्रिंशद्दन्तसङ्ख्या अधरोत्तरयोर्दन्तायामसमौ अन्तस्तदधौ दन्तरोपणौ।

त्रयोविंशः पटलः [[१२४]] जिह्वा षडङ्गुलयामा तदर्धविस्तारा घृतजिह्वा अङ्गुलं बाहुस्कन्द(कर्ण) रन्ध्रं कलाङ्गुलं षडङ्गुलायतं तालुविस्तारं त्र्यङ्गुलमास्यं नवयवान्तरं द्विगुणायतं षड्यवं तस्या(स्यायतार्धोत्सेधं)मुत्सेधं सार्धद्वियवं पालिकारक्तभागं ततं शेषमायामद्विगुणम्।

ओष्ठादधस्ताच्चुबुकं सार्धाष्टयवं हनुस्तत्समं तस्माद्धनुचक्रं स द्वियवं तदुन्नतं रुद्राक्षियवं चुबुकनिम्नम्।

हनोर्गळ गळालीकं तदङ्गुळार्धं गळरेखाद्व्यर्धकलायामा चापसन्निभा कर्णबन्धाद्धनोर्मध्य दशार्धाङ्गुलं तस्माच्चतुष्कलं सृक्कम्॥

नेत्रादधस्तादपाङ्गमङ्गुलम् अपाङ्गात्कर्णमूलं षडङ्गुलं कर्णकलाततं नेत्रसूत्रसमं कर्णप्रोतं तत्कर्णतुङ्गततं कर्णनाळमूलं कलासार्धयवं कर्णवर्तीसार्धयवतता पाली चतुर्यवा कर्णपिप्पली चतुर्यवविस्तारा द्विगुणायता यवार्ध द्व्यङ्गुलायामा षड्यवाङ्गुळविशाला कर्णवर्तीपिञ्चुषि चलिकायतवर्तुला तुरीययवार्धविस्तारा पिञ्चुषीकर्णचलिका कर्णवर्त्युन्नतञ्चूल्पं तावदद्यर्धयवमर्धाङ्गुलं कर्णचूली पिञ्चुषीकोन्न तीर्यवान्तरं पिप्पलीफाल्योः बालिबालेन्दुसन्निभा यवनिष्पावबीजसदृशा पिप्पलीषड्यवायता चतुर्यवविशाला स्रोतोधोनेत्राप्तिञ्चुष्यधः कर्णनालमात्राधघनयुक्तौ नालौ पूर्वापरौ विवरं षड्यवं तयोर्नाहं मात्रं स्यात्॥

कर्णमूलादधोबिन्दुः (वपुः) कार्यं कृकाटीसार्धाङ्गुलानतां तस्यावयवं भागं तद्ग्रीवायामं तत्रार्धाङ्गुलं तारं दशाङ्गुलं स्कन्धयोः समे कर्णबन्धादधस्कन्धसन्धि सार्धं षडङ्गुलं, सप्ताङ्गुलं, स्कन्धौ शोभान्वितौ॥

हिक्कासूत्रात् स्कन्धसन्ध्युच्चं चतुरङ्गुलं तन्मध्ये द्व्यर्धाङ्गुलं जतृ बाहुशिरस्सन्धिरंसान्तं स्कन्धमूलतो नवाङ्गुलं द्वियवं तस्मात् द्वियवं षडङ्गुलं बाहुशिरो जतृसमाहित कौर्परांसं ’बाह्वंसं’ पञ्चाङ्गुलायतं त्र्यङ्गुलायतोत्क्षेपसमोद्दण्डिते भुजं समासन्नं (स) मापयेत् एवं नीत्वा द्विभुजं नयेत्॥

[[१२५]] कण्ठादधस्तात् ककुत् भागायता अष्टगोलकं ककुदः कटिसन्ध्यन्तं वंशं ’विंशति’ नागाधिकं तत्समं ककुदोधस्तात् षड्भागे ककुत् द्वारे कक्षाधरां तरं तस्माद्बाहुपर्यन्तं द्वियवं नवाङ्गुलं स्कन्धं स्कन्धे अधस्तात् अंसपीठं सार्धेन्द्रियाङ्गुलं तस्माद्वियवा अंसफलका स्तनसूत्रसमा तत्रान्तरयोर्दशाङ्गुलककुदोधरां त्रिमात्रतारं सप्ताङ्गुलम्॥

तद्वक्षसोंसं मांसलं तयोस्सम्भिन्नं वंशतारं कलानतं वंशदण्डपार्श्वे चाऽंसफलकाया अधो नवाङ्गुलं बृहत्योस्तनान्तरं, वंशात्सुप्रतिष्टा कला तयोर्बृहति स्तनयोर्मध्यं सप्तदशाङ्गुलं घनं बृहत्या कटिसन्ध्यन्तरं तन्मध्यं सप्ताङ्गुलायतं तद्धनं स्यात् चतुर्भागं तदर्धाङ्गुलाधिकं कटि(बन्ध)विशालं जघनस्य बहिः पृष्ठवंशपार्श्वे द्वयोः ककुन्दरं षडर्धाङ्गुलविशालं निम्नौ ककुन्दरस्यान्तं द्व्यङ्गुलं बिन्दुखण्डिकं, बिन्दुखण्डिकयोस्तिर्यक्कटी बेदार्धमात्रका खण्डं द्व्यङ्गुलान्तरं सार्धतुरीयाङ्गुलं स्फिक्॥

बिन्दुलम्बितं नवाङ्गुलं सुवृत्तं, कन्दः, कं(ठ)बुसमोवृत्तो द्विरेखावृतस्तनार्धका सद्वादशयवं मुखं कक्षाद्धिक्कान्तं तावत् स्तनं कक्षादष्टाङ्गुलं नवाङ्गुलनम्रमुरो हृद्यवाधिकं हृदयात् स्तनपीठतुङ्गमर्धाङ्गुलं कक्षात् कक्षाधरावलम्बमन्त्युक्तयवकोलकं स्तनपीठस्योन्नतं कक्षस्याङ्गुलं तत्पुरस्तान्मुखं विप्राङ्गलं(बं) यवं वृत्तं स्तनं यवोन्नतं स्तनाद्दक्षं द्वियवतारं तदधस्तात् द्व्यङ्गुलं स्तनम्॥

हिक्कादियवनिम्ना जतृरेखा द्व्यङ्गुला नाभिर्दक्षिणावर्ता षड्यवनिम्नायतेन्द्रियाङ्गुला नाभेः श्रोणीपार्श्वे त्रिकलाङ्गुला द्व्यर्धाङ्गुला कटी श्रोण्याशेषं मेढ्रपीठं सार्धपञ्चाङ्गुलायतं, लिङ्ग(गायाम)तारं द्विमात्रं मुष्कलम्बं तुरीयार्धाङ्गुलं तत्समविस्तारं वृषाननसदृशं मेढ्रम्॥

त्रयोविंशः पटलः [[१२६]] ऊरुबन्धं रुद्राक्षाङ्गुलं प्रतिष्ठाङ्गुलं द्वियवं जानुमण्डलं विष्कम्भं घनं द्व्यर्धमात्रं पार्श्वबन्धं तुरीयाङ्गुलं पृष्टाज्जानु त्रिमात्रार्धयवतारान्वितं कोलकं मध्यभागे शेषं पार्श्वयोरपि, जान्वन्ता(न्तरा)यिप्रस्त्यन्तं तालं मत्स्यवदुन्नत; पृष्टजङ्घाश्रितं मत्स्य(पार्ष्णिद्व्यङ्गुलविस्तारा)वद्द्व्यर्धकला विस्तारं नळकापृष्टपार्श्व द्वयान्तरं तद्बहिर्गतेऽक्षगुल्फयोस्तुङ्गं मनुपङ्तियवैर्विपुलं क्रमेणाष्टादशादिति जगतियवं प्रतिष्ठार्धाङ्गुलं पार्षि्णतारं तत्तुङ्गं क(श)राङ्गुलं सार्धप्रपदतुङ्गमङ्गुष्ठं द्व्यङ्गुलघनं शेषाणि विस्तारसमं तुङ्गान्यष्टयवविस्तारं दैर्घ्यम्॥

अङ्गुष्ठनखमुखे द्विपार्श्वे द्वयोस्तुरीययवं नीत्वा नखं नयेत्; चतु(स्तली)- रर्धचतुस्सार्धाग्निभिर्यवैः क्रमान्नखानां विस्तारं तर्जन्यादिकनिष्ठान्तं त्रियवं तदर्धोन नखायतास्तस्याङ्गुष्ठयोरन्तरं चतुर्यवं पर्वद्वयम् अङ्गुष्ठान्यानि त्रिपर्वाणि स्वतारसदृशमग्रपर्वान्तं यवाधिकमङ्गुष्ठपर्वमूलाग्रं ज्येष्ठा(शेषा)ङ्गुलीनां द्वियवाधिक्यमेकैकं सर्वाङ्गुलीमूलानां मूलतलं मांसलं पार्षि्णभागे तलं पञ्चाङ्गुलायामं शेषं वर्तु््लं कारयेत् पादौ द्वौ चक्रशङ्खरेखासमन्वितौ सर्वं सुव्यक्तं सुसम्पूर्णं बेरं सलक्षणं चक्षुर्नन्दनमूर्ध्वकायमथोकायं सममेव कृत्वा, सर्वत्र विष्कम्भात् त्रिगुणं वृत्तं तत्परिमाणं स्यात् सर्वेष्वङ्गेष्वेकयवादिषड्यवान्तं हीनाधिक्यं न दोषाय भवति तस्माद्यथोचितं युक्त्या कारयेत्॥

देव्योः मानम् अथ देव्योः मानम् - मध्यमं दशतालं सविंशतिशताङ्गुलं त्रिनतं द्विभुजं समभागं नतमानं चतुरङ्गुलं श्रीदेव्या दक्षिणपादं स्थितं वामपादं कुञ्चितं दक्षिणहस्तं प्रसारितं तदूरुमूलालम्बितं वामं पद्मधरं हेमाभाम्॥

महीदेव्यावामपादं स्थितं दक्षिणपादं कुञ्चितं दक्षिणहस्तम् उत्पलधरं वामं प्रसारितं तदूरुमूलालम्बितं श्यामाभां किरीटाद्याभरणान्विताम्॥

[[१२७]] मूर्धि्नकेशान्तं भागं तस्मान्नेत्रं षड्यवं भागं नेत्रात्पुटान्तं चतुरङ्गुलं पुटाद्धन्वन्तं षड्यवं त्रिमात्रं हनोः कण्ठं द्विकलं कण्ठाद्धृदयान्तं हृदयान्नाभ्यन्तं नाभेर्योनिमूलान्तं त्रयोदशाङ्गुलं, तस्मादूर्वायतं षड्विंशत्यङ्गुलं जानुद्विकोलकं जङ्घाचोरुसमापादं भागं तालायामं चतुर्भागमङ्गुष्ठायतं चतुरङ्गुलं तर्जनी तत्समा शेषाङ्गुल्यः क्रमादर्धाङ्गुलेनायताः॥

अङ्गुष्ठादिविशालं षोडशाष्ट (सार्धसप्त) सप्तषड्यवं नखायामं स्वतारार्धं पादाग्रतलविस्तारं षडङ्गुलं प्रपदस्य विस्तारम् उन्नतं पञ्चाङ्गुलं पार्षि्णद्विकोलकमक्षिगुल्भान्तरं पञ्चाङ्गुलं नलकाविपुलं भागं जङ्घामध्यं त्रिकोलकं सप्ताङ्गुलं जानुविस्तारम् ऊरुमूलं द्वादशाङ्गुलं गजहस्तसमवृत्तमूरुमूलं नलकाङ्घ्रिकटीतारं द्विमुखं पीठं सप्ताङ्गुलविस्तारं चतुरङ्गुलायतमूरु, अश्वत्थदलबाह्यवद्विपुलं मांसलं गुह्यं श्रोणीतारं तारा(कला)द्दश श्रोणीनेत्रायामविस्तारं सप्ताङ्गुलं नाभ्यधः॥

नाभिः षड्यवविस्तारं गम्भीरोदरकुक्षिमध्ये चक्रा(रुद्रा)ङ्गुलीविशालं (स्तनादधो) हृदयं त्रयोदशाङ्गुलतारं स्तनतारं नवाङ्गुलं चूचुकं त्र्यङ्गुलविस्तारं स्तनाच्च चतुरर्धाङ्गुलं (अर्धाङ्गुलं) स्तनमध्यं कक्षयोरन्तरमष्टादशाङ्गुलम्॥

छन्दोङ्गुलं बाहुदीर्घं कोर्परं द्व्यङ्गुलायतं प्रकोष्ठकं तारं धृक्कलाङ्गुलं तलं सप्ताङ्गुलायामं मध्यमाङ्गुलं त्रिकलं पञ्चाङ्गुलीनामेकातर्जनी अनामिकासमा अङ्गुष्ठकनिष्ठकेतारा(द्विकला)यतेनवसप्ताष्टसप्तर्तु््यवविस्तारं क्रमादङ्गुष्ठाद्यङ्गुलीनां षडंशैकांशं चतुरंशैकांशं स्वाग्राङ्गुलतारं नखदीर्घं यवाधिकषडग्निवेद्भूतऋतुसप्ताङ्गुलविस्तारं क्रमान्मणिबन्धतलं प्रकोष्ठमध्यकोर्परदोर्मध्यभुजमूलं च कर्णविस्तारं सप्ताङ्गुलं मुखं द्वादशाङ्गुलं कुक्कुटाण्डसमाकारं केशान्तात् भ्रूद्विमात्रार्धं ततोऽक्षिद्वियवं त्र्यङ्गुलं; पुटादास्यं यवाङ्गुलं तदर्धाङ्गुलायतमधरं यवाङ्गुलं शेषं हनुः॥

त्रयोविंशः पटलः [[१२८]] कर्णाद्धनुस्त्रिमात्रार्धतुङ्गं शेषं पूर्ववत्। कटकाङ्गुलस्य चोत्तुङ्गं स्तनाक्षिसमं तन्मणिबन्धान्नाभेरन्तरं सार्धत्रयोदशाङ्गुलं तत्पार्श्वे मध्यं बाह्वन्तरं सप्ताङ्गुलं तथा प्रसारितहस्तस्य पार्श्वबाह्वन्तरं रसाङ्गुलं मणिबन्धादूरुमूलान्तरं वेदाङ्गुलं तदर्धं कराग्रादूरुमध्यान्तरं नीत्वा मूर्धि्नपार्श्वे वामनेत्रसिते वामपुटेधरे हनौ सव्यस्तने सव्यपार्श्वे नाभेर्मध्ये वामोरुदक्षिणे वामाङ्घ्रिपार्ष्णिपार्श्वे च सूत्रं प्रलम्बयेत् एवं श्रीदेव्याः॥

महीदेव्याः तद्विपरीतमार्गेण सूत्रं प्रलम्बयेत् अङ्गुष्ठान्तरं सार्धत्रयोदशाङ्गुलं त्रिभागैकभागं पार्ष्ण्यन्तरं शेषं युक्त्या कारयेत्॥

पूजकादीनां तालम् पूजकमुन्योः वीशशौषिकयोरिन्द्रादिलोकपालानामन्येषां परिवाराणां त्रयस्त्रिंशद्देवानां चाधमं दशतालं षोडशाधिकशताङ्गुलम्॥

मूर्ध्नो मात्रात्रयं केशान्तं तस्मात् दृक्सूत्रं द्वियवं भागं पुटान्तं सयवं भागं तत्समं हनोरन्तरं गलमर्धाङ्गुलं कण्ठं भागं कण्ठाद्धृदयं हृदयात् नाभ्यन्तं नाभेर्मेढ्रान्तं सार्धाङ्गुलं मुखम् ऊर्वायामं पञ्चभागं (पञ्चविंशत्यङ्गुलम्) जानुजङ्घाचोरुसमा चरणं भागम्; ऊरुसमोबाहुः कोर्परं द्व्यङ्गुलं प्रकोष्टं सार्ध धृति सार्धषट्कलाङ्गुलं तलाङ्गुलं सार्धपञ्चाङ्गुलं त्र्यङ्गुलं वक्त्रतारं कण्ठः सार्धचतुष्कलं वक्षः कुक्षिश्रोणीकटिविस्तारं मध्यमदशतालस्योक्ततारर्धाङ्गुलहीनम् ऊरुजानुजङ्घातलविपुलं भुजमूलं कण्ठततं दोर्मध्यादिविशालं द्वियवोनाङ्गुलयवार्धोनविशालं शेषं प्रत्यङ्गोपाङ्गविस्तारं मध्यमदशतालोक्तमानेन कारयेत्॥

सीतारुक्मिणीसत्यभामानां मानं सीतारुक्मिणीसत्यभामानां नवार्धतालं मुखं सद्वियवं तालं मुखायामात् त्रिगुणं कायम् ऊरुद्विमुखं जानुभागं जङ्घाचोरुसमा पादं कण्ठशिरोयुगं [[१२९]] मुखायामसमं कण्ठबाह्यतारं युगद्वयं दशाङ्गुलं मुखं तिर्यक्कण्ठसद्वियवं शेषाङ्गविपुलमुत्तमनवतालविस्तारा द्वियवाधिकं दोर्दीर्घं सार्धसङ्कृतिः कोर्परा द्व्यङ्गुलं सार्धधृत्यङ्गुलं प्रकोष्ठतलं षडङ्गुलायामं मध्यमाङ्गुलिष्षडङ्गुला केशान्ता दृक् दृशोना सा यवं भागं हनुर्युगं शेषमुत्तम नवतालोक्तवत् कारयेत्।

नवतालं त्रिविधं मूर्धामात्रं त्रिमात्रं केशान्तं केशान्तात् दृक् ततो युगं पुटं पुटाद्धन्वन्तं भागं गळमर्धाङ्गुलं गळात् सार्धत्रिमात्रं हिक्का हिक्काया हृदयान्तं हृदयान्नाभ्यन्तं नाभेर्मेढ्रान्तं मुखत्रयम् ऊरुद्विमुखं जानुभागं जङ्घाचोरूसमा पादं तुरीयाङ्गुलम्।

तलायामं चतुर्भागं बाहुदीर्घमश्विमुखं द्व्यङ्गुलं कोर्परं सार्धमुखं प्रकोष्ठं तलं षडङ्गुलं मध्यमाङ्गुलिः तथैवाष्टत्रिंशद्यवा अनामिकातर्जनी तत्समभागायते अङ्गुष्ठकनिष्ठे दशबन्ध्वनुष्टुबुष्णिक् षड्यवविस्तारं क्रमाद्यङ्गुष्ठाद्यङ्गुलीनां तलम्।

पञ्चाङ्गुलं मणिबन्धं त्रिमात्रं प्रकोष्ठं पञ्चाङ्गुलं कोर्परं तारं षडङ्गुलम् अष्टाङ्गुलं बाहुतारं तिर्यक्शिरोदशाङ्गुलं केशान्ताद् भ्रूस्त्रिमात्रिका ततोऽक्षि तत्समन्नास्यम् आस्यं ततमङ्गुलम् अधरं हनुशेषं धृङ्मध्यं दशकलं दृशःकर्णाङ्तं सुप्रतिष्ठाङ्गुलं कर्णायामं भागं नाळालम्बं भागं तदेवपुटविस्तारं नालस्य कला तिर्यक् त्र्यर्धाङ्गुलमर्धाङ्गुलं तुगमधरम्। षङ्ययवोन्नतं हनोर्गलं गलात्कण्ठमङ्गुल द्व्यङ्गुलं नवतालं कर्णतारं द्विभागं बाह्वोस्सीमायवत्रयं वक्षो दशाप्तकोलविस्तारं श्रोणीभागं चतुर्भागं कटी चाष्टादशाङ्गुलं पञ्चाङ्गुलं लिङ्गदैर्घ्यं विपुलं द्व्यङ्गुलं मुष्कालम्बं भागम् ऊरुविशालं यमं जानु द्विभागं जङ्घाषण्मात्रा नळकावेदाङ्गुलं प्रपदं पञ्चाङ्गुलं तलाग्रततं त्रिकोलं कलाग्रतारम् अङ्गुष्ठं द्विगुणायामं सयवं भागं प्रदेशिन्यायामं तारमध्यर्धाङ्गुलं मध्यादिकनिष्ठान्तानामेकैकमर्धाङ्गुलहीनमायामं सप्तषट्पञ्चयवविपुलं यथाक्रमेण कारयेत्।

त्रयोविंशः पटलः [[१३०]]

नवतालत्रैविध्यम्

मध्यमं नवतालं - स त्र्यङ्गुलं नवतालमूर्धन्यङ्गुलहीनं नाभेरर्धाङ्गुलम् उरोरेकाङ्गुलं सक्थ्यङ्गुलं मध्यमनवतालविस्तारादीनि कारयेत्।

कनिष्ठं नवतालं हिक्कायानाभ्यन्तत्रिककृत् (त्र) द्वयम् उरुदीर्घं जङ्घायाममेकाङ्गुलहीनं कृत्वान्यत्सर्वं मध्यमनवतालवत् बाह्वादीनां विशालं द्वियवहीनं कक्षान्तरकुक्षिश्रोणीकट्यूरुजानुतले श्रेष्ठाङ्गुलहीनं शेषं पूर्ववदाचरेत्॥

स्त्रीणां केशान्तं समं भ्रूलतासङ्गमं सार्धयुगं भागं पुटान्तं पुटान्ताद्धनुस्त्रिमात्रार्धं सर्वासाङ्गलं नेष्यते शेषं पुंरूपवद्विस्तारायामं ग्रीवादोर्विपुलं वह्निकल कोर्परं पञ्चाङ्गुलमणिबन्धं त्रिमात्रं षड्यवयुगं तलं यवोनविपुलाः शेषाङ्गुल्यः शेषाङ्गुलिविस्तारं कक्षानवार्धं तालवत् स्त्रीमूरुतदर्धाङ्गुलं हीनं पादाङ्गुलिविपुलं यवोनं शेषं विपुलं पूर्ववत्कारयेत्॥

अष्टतालत्रैविध्यम्

अष्टतालं त्रिविधं - उत्तमादिक्रमेण शिरोमानं द्विमात्रार्धं मुखमेकांशाङ्गुलं ग्रीवायतं त्रिमात्रार्धं मुखत्रयं कायं द्वाविंशत्यङ्गुलम् ऊरूजानुत्रिमात्रं जङ्घाचोरुसमायामातलं त्रिमात्रमूरुर्दीर्घसमोबाहुः कोर्परं द्व्यङ्गुलं प्रकोष्ठं सप्तदशाङ्गुलं द्वितयं मध्यं मध्या(मा)त्पञ्चमात्रानामिका चतुर्यवा मात्राधिका तर्जनी त्र्यर्धमात्रायामा कनिष्ठा तत्सममङ्गुष्ठं तासामन्तरं क्रमान्नवाद्रिवस्वब्धिपञ्चयवास्तेनालम्बघनं तलाबाह्वोरधस्तात् हस्ततारं नवतालवत्सप्ताङ्गुलविशालं दोर्मूलं मुखस्य विपुलं नेत्रान्मुखान्तं हन्वन्तरं चतुर्दशयवार्ध कर्णविसृतिः केशान्ताद् भ्रूद्विमात्रं दृक्सूत्रं द्व्यङ्गुलं पुटं पुटाद्धनुस्सार्धरुद्राक्षी कण्ठमानं त्रियवङ्गलं कण्ठविस्तारं सप्तमात्रं नेत्रायामसमं कर्णतारं द्विगुणायामं नालं शरार्धाङ्गुलं कर्णनेत्रान्तयोः कण्ठाद्धनुर्द्वाविंशतियवमेकोनविंशत्यङ्गुलमुत्तरतारं चतुर्यवं त्रयोदशाङ्गुलं मध्यश्रोणी तस्मात्कालाधिकं लिङ्गायामं यवाङ्गुलं [[१३१]] रुद्राङ्गुलम् ऊरुविस्तारं जानुनवाङ्गुलं जङ्घाघापञ्चाङ्गुला नलका सार्धवेदं प्रपदं ना(ता)लविस्तारं सार्धपञ्चाङ्गुलम् एवमङ्गप्रत्यङ्गं कारयेत्॥

नरनारीणां मध्यमाष्टतालेन शिरस्यर्धाङ्गुलं हीनं मुखं कण्ठं च पूर्ववत् तौ सार्धाङ्गुलहीनं कायं त्रितालमूरू त्रिसप्तमात्रं जानुत्र्यङ्गुलं जङ्घा प्रकृत्यङ्गुला चरणं जानुसमं विस्तारादीनि पूर्ववत्॥

स्त्रीणामपि समं दीर्घं ग्रीवोर्ध्वविस्तारं सार्धपञ्चाङ्गुलं कर्णतारं दोर्विसृतिस्सार्धवेदाग्निनेत्राणि कोर्पराद्याकण्ठान्तं पञ्चाङ्गुलायामं वेदार्धं मध्यमाङ्गुलिस्सप्तयवान्तरं क्रमादेवं तदायतम् अन्याङ्गुलीनां तलं तुर्याङ्गुलविस्तारं पञ्चदशाङ्गुलिं वक्षस्तनौ सप्ताङ्गुलौ स्तनादधोरुद्राङ्गुलं श्रोणी सप्तदशाङ्गुला कटीचैकोनविंशतिः सार्धपङ्त्यङ्गुला नाभ्यूरूजानुजङ्घास्विन्द्रियाङ्गुलं नलका त्र्यङ्गुला सार्धपञ्चाङ्गुलं तलं शेषं युक्त्या कारयेत्॥

मुखेप्येकाङ्गुलं हीनं नाभावेकाङ्गुलं क्षीणम् ऊरावेकाङ्गुलं जङ्घायामध्यर्धविस्तारं भवेत्॥

सप्ततालत्रैविध्यम्

सप्ततालविभागं शिराङ्गुलं मुखं रुद्राङ्गुलं कण्ठं त्रिमात्रं नाभ्यन्तरं विंशत्यङ्गुलं योनिर्नवकला दशनाभिकला जङ्घोरुतुल्या तलं नवत्यष्टाम्भोष्टभागावहेश्विन्पङ्गुलैः स्तनस्कन्धोरोर्मध्यश्रोण्योरुजङ्घातलान्येवं विशालरूपं कारयेत्॥

षट्तालत्रैविध्यम्

षट्तालैरेकतालमात्रो मुखं पञ्चतालायतं कण्ठ तस्मातन्योन्यन्तद्दशकलाचोरूरष्टादशाङ्गुलायतो जानुत्रिमात्रं जङ्घोरुसमायामा तलं जानुसमं नरोक्तविपुलोन्नतं वंशदण्डोन्नतं प्रकोष्टककुदौ नवमात्रमुरोनासासमोन्नतम् उग्रवदनं शेषाङ्गुलं नराकारवत्कारयेत्॥

त्रयोविंशः पटलः [[१३२]] मुखमेकाङ्गुलं क्षीणमूरावेकं जङ्घायामाङ्गुलं मध्यतलं जानुतनुग्रीवास्वङ्गुलानां तु मध्यतो मध्यस्य विस्तारं तुल्यं कारयेत्॥

पञ्चतालत्रैविध्यम्

पञ्चतालविभागम् अङ्गुलं शिरोभागमङ्गुलं शिरोभागकेशान्तं दृक्त्रिमात्रा सार्धं पुटान्तं पुटाद्रुद्राक्षी हन्वन्तं ग्रीवाऽश्विन्यायता नवाष्टसप्ताङ्गुलायतं क्रमाद्धृदयनाभिमेढ्रान्तम् ऊरुरुद्राङ्गुलं जानुकला जङ्घोरुसमा पादं कलाङ्गुलं पञ्चकलायामं तलं चन्दोङ्गुलं बाहुप्रकोष्ठं पञ्चकोलकं तलं भागयुगं मध्याङ्गुलायामं प्रदेशिनीतर्जनीद्विमात्रार्धं कनिष्ठाङ्गुष्ठे त्र्यङ्गुलं त्रियवार्धं त्रिचतुष्पञ्चमात्राभिः क्रमाद्विस्तारं तलं प्रकोष्ठकोर्परबाहूनां मुखविस्तारम् अष्टाङ्गुलार्धं कण्ठस्य विस्तारं सप्ताङ्गुलं जगति त्रिंशदङ्गुलम् उरःश्रोणी कटीनां यथासङ्ख्यम् ऊरुजानुजङ्घानलका तलविस्तारं षडष्टगायत्रीवेदाग्निषण्मात्राभिर्यथाक्रमं हिक्कानाभ्यन्तरे मात्रार्धं द्वियवमूर्वायाममङ्गुलं जङ्घायाममङ्गुल ग्रीवामध्यविस्तारायामम् पूर्ववत्तत्तत्सार्धाङ्गुलहीनम् ऊरावेकं चतुर्यवं जङ्घायामं मध्यमाद्धीनं हृषीकतालं पञ्चाङ्गुलानां तत्र चतुर्यवोनविपुलं कायार्धेन कारयेत्॥

चतुस्तालत्रैविध्यम्

चतुस्ताले स्यादङ्गुलं शिरः कण्ठं द्वादशाङ्गुलं मुखं तालं कर्णान्तं युगं ध्रुवं कलानाभिः पञ्चा(दशा)ङ्गुलं वृद्धोदरं भूतानां मेढ्रनाभिश्रोण्यालम्बं त्रिमात्रम् ऊरुःपञ्चाङ्गुलायामं जानु त्रिमात्रं जङ्घोरुतुल्या जानुसमं तलं मुखायामं भुजं सप्ताङ्गुलायामं प्रकोष्ठतलायामभागाङ्गुलं कलाङ्गुला पञ्चदशाङ्गुला तलं षडङ्गुलतारं तलायामम् एवं श्रेष्ठम्, अतोवक्त्रम् अङ्गुलं कलाङ्गुलद्वयं पादाङ्गुलोनं विस्तारे अर्धाङ्गुलं मध्यमं, ततः कण्ठोऽङ्गुलोनं (अङ्गुष्ठौ) असेम् अङ्घ्रौ चाधमेन कारयेत्।

[[१३३]]

त्रितालत्रैविध्यम्

त्रिताले शिराङ्गुलं मुखं रुद्राङ्गुलं कण्ठं द्व्यङ्गुलं तस्माद्धृदयं हृदयान्नाभिस्तत्समं मेढ्रे वसुकलम् एव श्रेष्ठं द्विकोलकं तनौ हीनं मध्यमं मुखेऽङ्गुलं त्रितयमं गुलं कलाहीनं किन्नराणां त्रितालं मेढ्रादूर्ध्वं पादं कुक्कुटवद्भागमूरुः पञ्चाङ्गुलायतं जङ्घापादमात्रोनदीर्घं त्रिमात्रं प्रकोष्ठमध्यमं तावत्पक्षायामं गरुडवत्स्वायामार्धकायास्सर्वे किन्नरा बहवो द्विचतुर्बाहुमूलं चेत् अध्यर्धद्विगुणघनं द्विगुणाधिकं नेत्रतालपत्रस्य मूलवदेकद्वित्रियवाङ्गुलैकत्रिकाकाराः परबाहवो यावन्तो बाहुवो मूलास्तावन्तः परिकीर्तिताः॥

कूष्माण्डानां मुखं तालं कण्ठं द्व्यङ्गुलमानं युगमूर्धायतं जङ्घा द्विकोलाङ्गुला चरणं कण्ठाद्बहिर्मुखायतं चतुस्त्रिमात्रं दोः प्रकोष्टतलं दीर्घविस्तारं युक्त्या दक्षिणबाहुस (पक्षौ) मायतौ कारयेत्॥

कबन्धमुखमेकपादं कुक्कुटवद्दीर्घं किन्नरपादार्धविस्तारं पुच्छायामं चतुर्मात्रं पक्षं तद्गुणायतं कारयेत्॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे दशतालादिनिर्णयो नाम त्रयोविंशः पटलः ॥ २३ ॥