अथ द्वाविंशः पटलः
कौतुकद्रव्याणि
अथ कौतुकादीनां लक्षणं वक्ष्ये - दारुशिलाताम्ररजत हेमरत्नानि कौतुकद्रव्याणि॥
तेषु गुणाधिक्यं दारवाच्छतगुणं शैलं, शैलात्ताम्रं सहस्रगुणं, ताम्राद्रजतमयुतगुणं, रजताद्धेममर्बुदगुणं, रुक्मजं सर्वसाधनं, रत्नजमनन्तफलं भवति॥
फलविशेषकामनया द्रव्यविशेषः पुत्रार्थी दारवं, आयुष्कामः शैलं, समृद्धिकामस्ताम्रजं, श्रीकामो राजतं, ऐहिकामुष्मिककामस्सौवर्णं, सद्यः सायुज्यकामो रत्नजं कारयेत्॥
द्वाविंशः पटलः [[११२]] रत्नजस्य रूपमात्रं रत्नजं रूपमात्रमेव॥
उत्सवबलिबेरयोर्द्रव्यनिषेधः
शिलया दारुणाचोत्सवं बलिबेरं च न कारयेत्॥
कौतुकोत्सवयोः स्थितिविशेषः ध्रुवे स्थिते स्थितम्, आसीने चासीनं, स्थितं वा, शयने कौतुकमासीनं स्थितं वा, ध्रुवे स्थितेप्यासीनं कौतुकमौत्सवं चेति केचित्। यानके यानकं, स्नापनं सर्वत्र स्थितमेव कुर्यात्॥
कौतुकस्य रूपविशेषः प्रादुर्भावानां कौतुकं तत्तद्रूपं, विष्णुं चतुर्भुजं वा, मत्स्य कूर्म वराह वामानानां तत्तद्रूपं नैव कुर्यात्॥
देवदेवीप्रभापीठानां द्रव्यैक्यं येन द्रव्येण देवोनिर्मितस्तेन द्रव्येण देव्यौ, प्रभां, पीठं च कारयेत्।
अन्यथा महत्तरो दोषो भवेत्॥
कौतुकोत्सवयोर्देवीयोगे फलविशेषः ध्रुवे देवीवियुक्तेऽपि कौतुकं देवीयुक्तं सर्वसमृद्धिदं कौतुके देवीवियुक्तेप्यौत्सवं देवीसहितमुत्तममित्यन्ये वदन्ति॥
ध्रुवबेरस्योत्सेधं त्रिधा कृत्वा एकांशमुत्तमम्, द्विभागं त्रिधा कृत्वा एकांशं मध्यमम्, तद्द्विभागं त्रिधा कृत्वा एकांशमधमम्, ध्रुवबेरं दशांशं कृत्वा एकांशं तालं, तत्तालं द्वादशभागं कृत्वा एकांशमङ्गुलं तदङ्गुलेनैकादशाऽङ्गुलं समारभ्य त्र्यङ्गुलाधिक षष्ट्यङ्गुलान्तं द्व्यङ्गुलवृद्ध्या सप्तविंशति- [[११३]] तुङ्गानि कौतुकादीनि, तद्विमाननिर्देशहस्ताङ्गुलेन सप्ताङ्गुलं समारभ्य त्रयोविंशत्यङ्गुलान्तं तद्द्वयङ्गुलवृद्ध्या नवधा भवति, एतेष्विष्टमानं विनिश्चित्य एकद्वित्रिचतुर्यवहीनाधिक्यं समन्तान्नयेत् तन्न दोषाय भवति। तस्मात् कौतुकस्नपनोत्सवबलिबेराणि तत्तद्यो (गे) ग्येनैव कारयेत्॥
आयव्ययनक्षत्रयोनिवारांशानयनम्
पश्चादायव्यय नक्षत्रयोनिवाराऽंशकैष्षड्भिः शुभाशुभं परिक्षेत। तदुत्सेधं त्रिगुणीकृत्य वसुभिर्हरेत्, तच्छेषमायम्, उत्सेधं चतुर्गुणीकृत्य पञ्चभिर्हरेत्, तच्छेषं व्ययम्, उत्सेधे वसुभिर्गुणिते सप्तविंशतिभाजिते शिष्टं च नक्षत्रम्, तुरगाद्यं यजमानानुकूलर्क्षमाहरेत्, उत्सेधं त्रिगुणीकृत्य वसुभिर्हरेत्, ध्वज धूम सिंहश्ववृष गर्दभगजवायसा एतेऽष्टयोनयः, पूर्वः शुभोऽपरोऽशुभः उत्सेधे नवगुणिते मुनिभिर्हृते शिष्टं वारम्, उत्सेधे चतुर्भिर्गुणिते नवभिर्हृते शिष्टमंशकम्, तस्करभुक्तिशक्ति वित्ताऽवनीपालक्लीब निर्भीतिदरिद्रप्रेष्या नवाऽंशकाः॥
एषां शुभांशकं चेत् शुभावहं भवति। एतैस्सर्वैः शुभं चेत् शुभावहं भवति। तस्माच्छुभाधिकमशुभहीनं बेरमाहरेत्॥
आयादीनां फलम् बेरस्योद्देशमानेन हीने तद्ग्रामयजमानयोराशु विनाशाय भवति, निर्देशमाने विहीने राजराष्ट्रविनाशाय भवति, बेरमायविहीनं व्ययाधिकं यजमानस्याऽर्थहानिं, राज्ञः शत्रुवृद्धिं च, कुर्यात्। आयाधिकं व्ययक्षीणं सर्वसम्पत्करं भवति। नक्षत्रं यजमाननक्षत्रादिबेरनक्षत्रान्तं बेरनक्षत्रादियजमाननक्षत्रान्तं वा गणयेत् तृतीयपञ्चमसप्तमानि हित्वा अन्यानि शुभानि भवन्ति।
ध्वजः कीर्तिं दीप्तिं वृद्धिं, धूमोऽर्थनाशं, सिंहः शत्रुजयं, श्वाव्याधिं, वृषोऽर्थलाभं, गर्दभो बन्धुवियोगं, गजस्सर्वसिद्धिं, वायसोऽपत्यहानिं कुर्यात्।
द्वाविंशः पटलः [[११४]] वारेषु आदित्याङ्गारकशनैश्चरान् हित्वा अन्ये शुभा भवन्ति। अशुभश्च योगबलयुक्ताश्चेन्मुख्या भवन्ति। अंशकेषु तस्करं षण्डं दरिद्रं प्रेष्यं च त्यक्त्वान्ये शुभावहा भवन्ति॥
मानाधिक्यन्यूने फलं षण्मानसहितं मुख्यं, मानहीनं धनधान्यनाशनं, मानाधिकं रोगवर्धनं, प्रमाणाधिकं हीनं च दृष्टाऽदृष्टफलविनाशनम्, उन्मानविहीनम् अधिकं वा पुत्रविनाशनं, परिमाणविहीनम्, अधिकं वा भार्याविनाशनं, लम्बमानविहीनमधिकं वा, ग्रामविनाशनम्, उपमानविहीनम् अधिकं वा नृपनाशनं स्यात्॥
तेजो हीने फलं तेजोहीनं चक्षुःप्रीतिहानिं, कृशाऽङ्गस्थूलाऽङ्गः, तिर्यग्गतम्, ऊर्ध्वाननं, कुञ्चितं च राजग्रामविनाशनं स्यात्। किरीटाद्याभरणेषु लक्षणहीनेषु धनधान्यविनाशः, अम्बरे विरुद्धे लक्षणहीने च दारिद्य्रं; शङ्खचक्राद्यायुधेषु लक्षणहीनेषु चोरशत्रुवृद्धिः; पीठे लक्षणहीने स्थाननाशो, धनक्षयश्च; प्रभामण्डले लक्षणहीने कीर्तिदीप्तिविनाशश्च भवति॥
ध्रुवबेरपीठम्
ध्रुवबेरस्य पीठोत्सेधं द्वारोत्सेधस्याऽष्टांशैकांशं, षड्भागैकांशं वा, भुवङ्गोत्सेधसमम्, अध्यर्धं, द्विगुणं वा, समवृत्तं, पद्माकारं, चतुरश्रं, त्रिमेखलं वा, कारयेत् अथवा कौतुकपीठात्पश्चिमभागं पीठोत्सेधमानेन समस्थलं कृत्वा देवीभ्यां सह देवं संस्थापयेत्॥
कौतुकादीनां पीठलक्षणं कौतुकादीनां पीठं तत्तद्रव्येण बेरायामस्य त्रिचतुःपञ्चषट्सप्ताऽष्टनवभागैकभागं तस्योर्ध्वपद्मोच्चं, तृतीयभागैकभागं (भिन्नमभिन्नं)वा तस्यार्धांशोन- [[११५]] मूर्ध्वदलोत्सेधं, तस्य विस्तारम्, अधः पद्मविस्तारात् पञ्चभागोनं, तत्पीठोत्तुङ्गाध्यर्धं, पादोनद्विगुणं, द्विगुणं वा, पीठविस्तारं; जगत्यां बाह्यतत्तद्दशोनम्, ऊर्ध्वपट्टिकायातदष्टाशोनम्, अधः पद्माग्रदलाग्रविस्तारम् अथवा बेरोदयं षडंशं कृत्वा तद्विभागं, पञ्चभागद्विभागं वा, पीठविस्तारं कारयेत्। पीठोत्सेधं द्वादशभागं कृत्वा एकांशं पादुकं सार्धत्र्यंशा जगती द्व्यर्धांशं कुमुदम्, अर्धांशं कपं द्व्यर्धांशं कण्ठम् अर्धांशं कम्पं सार्धांशा महापट्टिका चैवं पीठं कारयेत्॥
उपपीठोत्सेधं द्वादशभागं कृत्वा एकांशं पादुकं, द्व्यंशं पद्मं, एकांशं कम्पं, त्र्यंशं कण्ठं, एकांशं कम्पं, द्व्यर्धाशां महापट्टिकां कृत्वा संयोजयेत् ।
आसनपीठोत्तुङ्गं बेरोत्तुङ्गं त्रिधा कृत्वा एकांशं, तदष्टांशाधिकं, तदष्टांशोनं वा, विस्तारं, द्विगुणं दैर्घ्यं त्रिगुणं वा, अन्यत्सर्वं पूर्ववत्। एवमासनपीठं कल्पयेत्॥
प्रभामण्डललक्षणम्
पार्श्वयोरुभयोः शङ्कुसुषिरं वा कारयेत्। प्रभामण्डलमेकं द्वित्रिचतुष्पञ्चयष्टिकं, प्रत्येकं, देहलब्धाङ्गुलेन चतुस्त्रिद्व्येकाङ्गुलविस्तारं, तत्प्रभाविस्तारं, चतुरष्टद्वादशषोडशाङ्गुलं, रश्मिमालासहितं कारयेत्। रश्मीन् त्रिनतान् सर्वत्र समां दक्षिणे दक्षिणावर्ता््न्, वामे वामार्वर्तांश्च युक्त्या तक्ष्णा तु कारयेत्। मौलिशिखामणेरूर्ध्वं चतुरङ्गुलं पार्श्वयोश्शङ्खचक्रयोरन्तरं भागं हित्वा शङ्कोस्सुषिरयोर्वा प्रभामण्डलं संयोजयेत्॥
मधूच्छिष्टक्रियासंस्कारः
अथ बेरार्थं मधूच्छिष्टक्रियां वक्ष्ये - शुक्लपक्षे कर्तु््रनुकूलर्क्षे कारयेत् तद्दिनात्पूर्वमङ्कुरानर्पयित्वा आलयाभिमुखे यजमानगृहे वा प्रपां कृत्वा अलङ्कृत्य तन्मध्ये गोचर्ममात्रमुपलिप्य पञ्चवर्णैरलङ्कृत्य तस्मिन्नौपासनाग्निकुण्डं कृत्वा द्वाविंशः पटलः [[११६]] आघारं हुत्वा वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, श्रीभूमिदैवत्यं, पाञ्चभौतिकं, वैघ्नं स्विष्टाकारं च, हुत्वा; पश्चाच्छिल्पिनमाहूय अङ्कणे गोमयेनोपलिप्य तन्मध्ये त्रिपदीं चुल्लीं वा, सन्यस्य अग्निं निधाय शुद्धे पात्रे मधूच्छिष्टं प्रक्षिप्य चुल्यामारोप्य प्राङ्मुखेन शिल्पिना समेनाग्निना पाचयित्वा नववस्त्रेणोत्पूय तत्सिक्थमादाय प्रोक्ष्य आचार्यः प्राङ्मुखो भूत्वा ’इदं विष्णु’रिति मन्त्रेणाऽभिमृश्य उत्तमाङ्गं कृत्वा देव्यादीनां तत्तन्मन्त्रेणाऽभिमर्शनादि कारयेत्।
पुण्याहं वाचयित्वा यजमान आचार्यादिभ्यो दक्षिणां दद्यात्। पश्चाच्छिल्पिनमाहूय सम्पूज्य तेन सिक्थेन बिम्बं सलक्षणं कृत्वा तद्बहिर्मृत्तिकां शनैरालिप्य संशोष्य तद्बहिरयः पट्टैर्बन्धयित्वा पुनः शुभे दिने पूर्वव(द्धोमं हु)द्धुत्वा तद्बिम्बगर्भं प्रताप्य मधूच्छिष्टं संस्राव्य पुनस्तद्बिम्बगर्भं प्रताप्य सन्तप्तलोहेन शिल्पिभिस्तज्ज्ञैर्बिम्बगर्भमत्वरेण पूरयेत्। प्रभाते स्नात्वा आचार्यो यजमानश्च शिल्पिना शनैश्शनैः मृद्भेदं कारयित्वा बिम्बशुद्धिं च कारयेत्। तद्बिम्बस्रावितमपूर्णं खण्डितं स्फुटितं यदि भवेत् तद्बेरं लोहवत् स्मृत्वा पूर्ववद्धोमं हुत्वा बिम्बमाहरेत्॥
अङ्गुलसञ्ज्ञा
अथ विमानबेरादिमानविभागार्थमङ्गुलानां सञ्ज्ञां वक्ष्ये - मानाङ्गुलं, मात्राङ्गुलं देहलब्धाङ्गुलमिति त्रिविधं भवति। दिने आदित्यरश्मौ जालकान्तः प्रविष्टे तद्गोचरा अत्यन्तक्षुण्णा लवा अणवः प्रोक्ताः, त एव परमाणवः, परमाणुभिरष्टाभिरधरेणुः, अधरेण्वष्टगुणितं रोमाग्रं, रोमाग्राऽष्टगुणिता लिख्या, लिख्याऽष्टगुणितं यूकं, यूकाऽष्टगुणितं यवं, यवाष्टगुणितं मानाङ्गुलम् मानाङ्गुलमुत्तमं, तदष्टाऽंशोनं मध्यमं, तत्तुरीयांशमधमम्। मध्यमपुरुषस्य दक्षिणहस्तस्य मध्यमाङ्गुलेर्मध्यमपर्वणो विस्तारायामं वा मात्राङ्गुलं, बेरोत्सेधं तत्तालवशेन विभज्यैकाऽंशं देहलब्धाङ्गुलं, तदष्टाऽंशं यवमिति।
[[११७]] एकाङ्गुलादीनां सञ्ज्ञा मात्रातत्वमूर्तीन्दुविष्ण्वम्बरमोक्षोक्ता इत्येकाङ्गुलस्य, कालगोलकाऽश्विनीयुग्मब्राह्मणविहगाक्षिपक्षा इति द्व्यङ्गुलस्य, अग्निरुद्राऽक्षिगुणगणकालशूलरामवर्गमध्या इति त्र्यङ्गुलस्य, भागवेदप्रतिष्ठा जातिकराऽब्जजाऽऽननयुगतुर्यतुरींयाम्भसी’ति चतुरङ्गुलस्य, विषयेन्द्रियभूतेषु सुप्रतिष्ठा पृथिव्या इति पञ्चाङ्गुलस्य, कर्माङ्गरससमयगायत्रीकृत्तिकाकुमाराननकौशिकर्तवः षडङ्गुलस्य, पातालमुनिधातुलोकोष्णिग्रोहिणीद्वीपगाम्भोनिधय इति सप्ताङ्गुलस्य, लोकपालनागोरगवस्वनुष्टुब्गणा इत्यष्टाङ्गुलस्य, बृहतीगृहरन्ध्राऽऽनन्दसूत्राणि इति नवाङ्गुलस्य, दिक्प्रादुर्भावनाडीपङ्कतय इति दशाङ्गुलस्य, रुद्रत्रिष्टुबित्येकादशाऽङ्गुलस्य बितस्तिर्मुखतालं यमं राशिर्जगती चेति द्वादशाङ्गुलस्य, अतिजगतीति त्रयोदशाङ्गुलस्य, मनुः शक्करी च चतुर्दशाङ्गुलस्य, अतिशक्करीतिथिश्चेति पञ्चदशाङ्गुलस्य, क्रियाऽष्टीन्दुकला इति षोडशाङ्गुलस्य, अत्यष्टिः सप्तदशाङ्गुलस्य, स्मृतिः धृतिश्चेति अष्टादशाङ्गुलस्य, अतिधृतिरेकोनविंशतेः, कृतिर्विंशतेः, प्रकृतिरेकविंशतेः, आकृतिर्द्वाविंशतेः, विकृतिस्त्रयोविंशतेः, सङ्कृतिश्चतुर्विंशतेः, अभिकृतिः पञ्चविंशतेः, उत्कृतिः षड्विंशतेः, नक्षत्रं सप्तविंशतेरित्येवं सञ्ज्ञा भवन्ति॥
षण्मानानि, तेषां सञ्ज्ञा च मानं प्रमाणम् उन्मानं परिमाणम् उपमानं लम्बमानमिति षण्मानानि।
आयामम् आयतं दीर्घं मानमित्येकार्थवाचकाः, विस्तरं विस्तारं तारं विस्तृति विसृतिः विस्तृतं ततिः विसृतं व्यासं विसारं विपुलं ततं विष्कम्म्भं विशालमिति प्रमाणस्य, बहुलं नीव्रं घनमिति वा उच्छ्रयं तुङ्गम् उन्नतमुदयम् उच्छ्रायमुत्सेधम् ऊर्ध्वमित्युन्मानस्य, निष्क्रमं निष्कृतिर्निगमं निर्गतिरुद्गममिति च, मार्गं प्रवेशं नतं परिणाहं नाहं वृतिरावृतमिति परिमाणस्य, नीव्रं विवरम् अन्तरमित्युपमानस्य, सूत्रलम्बनान्मितं यत्तल्लम्बमानम्। इत्येतैः षड्भिर्मानैर्युक्तं बेरं कारयेत्॥
द्वाविंशः पटलः [[११८]] देवानां तालविभागः अथ देवानां तालविभागं वक्ष्ये - देवेशस्योत्तमं दशतालं, तथा ब्रह्मणः शङ्करस्य च, श्रीभूम्योरुमासरस्वत्योश्च मध्यमं दशतालम्, इन्द्रादिलोकपालानामादित्यचन्द्रयोश्च द्वादशादित्यानाम् एकादशरुद्राणां वसूनाम् अश्विन्योर्भृगुमार्कण्डेययोः वीशशैषिकयोश्च दुर्गागुहसप्तर्षीणामपि अधमं दशतालम्, यक्षेश नवग्रहाद्यन्यदेवानां नवार्धतालम्; दैत्यरक्ष उरगेशसिद्धगन्धर्वचारणभवनानामुत्तमं नवतालम्।
निशाचराणामसुराणां च नवतालं मर्त्यानामष्टतालं, बेतालानां सप्ततालं, प्रेतानां षट्तालं, कुब्जानां पञ्चतालं, वामनानां चतुस्तालं, भूतानां किन्नराणां च त्रितालं, कूश्माण्डानां द्वितालं, कबन्धानामेकतालम् एतेषां प्रत्येकमुत्तममध्यमाऽधमभेदाः भवन्ति॥
देवतालेषु उत्तमत्वादिभेदः स चतुर्विंशतिशताङ्गुलमुत्तमं दशतालम्, स विंशतिशताङ्गुलं मध्यमं दशतालम्, षोडशाधिकशताऽङ्गुलमधमं दशतालम्॥
प्रादेशिन्यादीनां लक्षणम् अङ्गुष्ठप्रदेशिनीभ्यां मितं प्रादेशम्, अङ्गुष्ठमध्यमाभ्यां मितं तालम्, अङ्गुष्ठाऽनामिकाभ्यां मितं वितस्तिः, अङ्गुष्ठकनिष्ठिकाभ्यां मितं गोकर्णम्’ मानाऽङ्गुलेन चतुर्विंशत्यङ्गुलं किष्कुः, पञ्चविंशत्यङ्गुलं प्राजापत्यम्, षड्िंवशत्यङ्गुलं धनुर्ग्रहम्, सप्तविंशत्यङ्गुलं धनुर्मुष्टिः, इत्येतच्चतुर्गुणो दण्डः, तेन दण्डेन ग्रामादीनां विन्यासं कारयेत्॥
प्रलम्बफलकलक्षणम्
अथ प्रलम्बफलकां वक्ष्ये बेरस्य लम्बमानं पूर्वमेव परीक्षयेत्।
अष्टषष्ट्यङ्गुलाऽऽयतां चतुर्विंशत्यङ्गुलविस्तारां द्व्यङ्गुलघनां लघ्वीं श्लक्ष्णां [[११९]] फलकां गृहीत्वा परितस्त्र्यङ्गुलं नीत्वा मानसूत्रं विन्यस्य प्राक्पश्चिमभागस्थानि सूत्राणि प्रसारयेत्। मध्ये सूत्रं विन्यस्य मध्यसूत्रादेकाङ्गुलं पुटपर्यन्तसूत्रं तदेव दृगन्तरं स्यात्। तस्मात् त्र्यर्धाङ्गुलं नेत्रपर्यन्तं तस्माद्व्यर्धाङ्गुलं मुखपर्यन्तं तस्मात् द्व्यङ्गुलं कर्णपर्यन्तं तस्मात् त्र्यङ्गुलं कक्षपर्यन्तं तस्माद्दशाऽङ्गुलं बाहुपर्यन्तम्; एवं त्रयोदशसूत्राणि विन्यस्य परभुजस्य मणिबन्धाऽवसानं मानसूत्रद्वयमेव तत्तारं नीत्वाऽभ्यन्तरं भूवेत्, पुरतो मध्यसूत्रयोगं (मध्यसूत्रं) तस्मात् द्व्यङ्गुलं पुटसूत्रं, तस्माद्वियवाधिकं द्व्यङ्गुलं नेत्रसूत्रं, तदेव वक्त्रबाह्यं, तस्मात् त्र्यङ्गुलमन्तर्भुजावधि, तदेव कक्षपर्यन्तं तद्द्वये वा चतुरङ्गुलं बाहुपर्यन्तं तदेव पार्श्वयोर्मध्यमे पार्श्वमध्यसूत्रं स्यात् तस्मात् द्व्यङ्गुलं कर्णावर्तं तस्मात् त्र्यङ्गुलं शिरः पृष्ठवसानं तदेव परभुजावधि भवति इत्येवं दक्षिणोत्तरगतानि सूत्राणि षट् च विन्यस्य तत्तत्सूत्रसङ्गे सुषिरं कृत्वा तन्तुना यवमात्राणि सूत्राणि सुषिरे संयोज्य अग्रे प्रोत कुण्डलं लोहमयं मृण्मयं वा सम्बध्य सूत्राणि लम्बयेत्।
मध्यसूत्रं शिखामणेरूर्ध्वसंस्पर्शमेव कृत्वालम्बयेत् स्थानकस्य मध्यसूत्रं मौलिशिखामणेर्मध्ये मूर्ध्वोभ्रूसङ्गस्य नासाग्रस्य च मध्ये कण्ठस्य हृदयस्य कुक्षेर्नाभेर्योनेः पादयोश्च मध्ये प्रलम्बं तत्तत्सूत्रसंस्पर्शं नासाग्रं कुक्षिमध्यं च सूत्रात् मौल्यग्रपर्यन्तं षडङ्गुलं, हनुमध्यं यवाधिकचतुरङ्गुलं, हिक्कान्तं चतुरङ्गुलं, हृन्मध्यं द्व्यर्धाङ्गुलं, नाभिः षड्यवा, योनिमूलमेकाङ्गुलम्, ऊरुमध्यं द्व्यङ्गुलं, जान्वन्तरं त्र्यङ्गुलं जङ्घान्तरं षडङ्गुलं, नळीकान्तरमष्टाङ्गुलं, सूत्रात्पश्चार्धं सार्धाष्टाङ्गुलम्, अङ्गुष्ठाग्रं सूत्रात्पुरतो द्व्यर्धाङ्गुलम्, एवं मध्यसूत्रवशात् मानयेत्।
बाहुपर्यन्तमेव पार्श्वसूत्रं स्यात् चूडामणौ मूर्ध्निकर्णपाल्यन्तरे कूर्परयोः पार्श्वे जानुजङ्घां गुल्फानां मध्ये प्रलम्बयेत्, मौलिमूर्धकृकाटिककुद्वंश स्फिक्पार्ष्णीनां मध्ये पृष्ठमध्य सूत्रं प्रलम्बयेत्, शिरः पार्श्वे वक्त्रबाह्ये द्वाविंशः पटलः [[१२०]] कर्णौ चूचुकाग्रमध्ये श्रोणिपार्श्वे चोरुजङ्घयोर्मध्ये वक्त्रबाह्यसूत्रं प्रलम्बयेत् तानि षट् च पीठावलम्बानि अन्यानि तत्तदङ्गसंस्पर्शान्येवावलम्बयेत् आसनस्योर्ध्वकायस्योक्तं पूर्ववन्मध्यसूत्रादीनि षट् सूत्राण्यासनोपरि लम्बयेत् मध्यसूत्रं जानोरुपरिष्टात्केशान्तं तन्मध्यगं जानोः पार्श्वाभ्यां बाहुभ्याञ्च मध्यगं सूत्रं प्रलम्बयेत् सूत्राद्वामजान्वन्तमूर्ध्वकायार्धसमं दक्षिणजान्वन्तरं तदेव चतुरङ्गुलं त्र्यङ्गुलं यवोनं वा अन्यत्सर्वं पूर्ववत्कारयेत्।
उपमानम्
अथोपमानं वक्ष्ये - परभुजस्य मणिबन्धान्तरमष्टाङ्गुलमुष्णीषा शङ्खचक्रान्तरं मुखं मध्योदरात् कूर्परान्तं षडर्धाङ्गुलमभयहस्तस्य मध्याङ्गुलाच्चूचुकान्तं त्रयोदशाङ्गुलं स्वागतस्य मध्यान्नाभ्यन्तरं दशाङ्गुलमुदरमध्याच्छ्रोण्यन्तरं नवाङ्गुलं वामहस्तस्य मध्यमाङ्गुलाग्रान्मेढ्रान्तरं षडङ्गुलमूरुमूलान्तरमेकाङ्गुलमूरुमध्यान्तरं द्व्यङ्गुलं जान्वन्तरं चतुरङ्गुलं जङ्घयोर्मध्यं पञ्चाङ्गुल नलकान्तरं षडङ्गुलं कक्षयोरन्तरं पञ्चाङ्गुलं पार्ष्ण्यन्तरं चतुरङ्गुलं तलमध्यान्तरं षडङ्गुलमङ्गुष्टान्तरमष्ठाङ्गुलं; शयनस्य तिर्यग्गत ब्रह्मसूत्रस्य दक्षिणतो मुखं त्र्यङ्गुलं पादाङ्गुष्ठयोर्मध्यमं विंशत्यङ्गुलं पार्ष्ण्यन्तरं भागं जान्वन्तरं चतुर्दशाङ्गुलं स्यात् एवमुपमानं लक्षयेत्। अत्रानुक्तं सर्वं शिल्पशास्त्रोक्तमार्गेणैव कारयेत्।
इति श्री वैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे कौतुकादिलक्षणं नाम द्वाविंशः पटलः ॥ २२ ॥
[[१२१]]