०२१ प्रादुर्भावविधिः

अथ एकविंशः पटलः अथ प्रादुर्भावाऽऽविर्भावानां वर्णवाहनादीन् व्याख्यास्यामः - मत्स्य कूर्म वराह नारसिंह वामन राम राम राम कृष्ण कल्किन इति दशप्रादुर्भावान् प्रथमावरणे, द्वितीये वा, पृथक् पृथक् भित्तिपार्श्वे, प्रसादाभिमुखं चित्रं चित्रार्धमाभासं वा, सङ्कल्प्याऽभिमुखे तत्तत्कौतुकं च सन्न्यस्याऽर्चयेत्॥

मत्स्यस्य चतुर्नामादि पूर्वद्वारोत्तरे मत्स्यरूपं श्वेताभं रक्तास्यं रक्तनेत्रं कृष्णपक्षयुतं सङ्कल्प्य अभिमुखे कौतुकं चतुर्भुजं सन्न्यस्य ’मत्स्यं प्रळयसंहारं स्रष्टारं वेदमय’मिति॥

कूर्मस्य

तद्दक्षिणे कूर्मरूपं श्वेताभं पञ्चवर्णयुतं सङ्कल्प्याऽभिमुखे कौतुकं चतुर्भुजं सन्यस्य ’कूर्मरूपं सुधाकारं महाशक्तिं महाबल’मिति॥ मत्स्यकूर्मयोर्वाहन केत्वादीन् आदिमूर्ते््रिव समाचरेत्॥

वराहस्य

दक्षिणे वराहं पूर्ववत्सङ्कल्प्याभिमुखे कौतुकं चतुर्भुजं विष्णुरूपं समर्चयेत्॥

नृसिंहस्य

पश्चिमे नृसिंहः प्राङ्मुखः सिंहासनोपरि द्वौ पादौ व्यत्यस्य उत्कुटिकमासीनो बद्धयोगपट्टिकश्चतुर्भुजः शङ्खचक्रधरो जानूपरि प्रसारितहस्तः भवेदेष विशेषः अन्यत्सर्वं पूर्ववत् कौतुकं तद्रूपं, चतुर्भुजं विष्णुरूपं वा, सङ्कल्प्याऽर्चयेत्॥

वामनस्य

उत्तरे वामनं पूर्ववत् सङ्कल्प्य कौतुकं चतुर्भुजमेव कृत्वार्चयेत्॥

[[१०७]]

परशुरामस्य

आग्नेयां परशुरामः पश्चिमाभिमुखः उत्तराभिमुखो वा रक्ताभः श्वेताम्बरधरो दक्षिणकरेण परशुधरः उद्देश्यवामकरो जटामकुटयुतः सोपवीतः कमलेशः, अन्यत्सर्वमादिमूर्ते््रिव ’राममृषिसुतं विष्णुं परशुपाणि’मिति॥

तद्देव्याः कमलायाः तद्दक्षिणे कमलां सीतावत्कारयेत्॥

राघवस्य

र्नैऋत्यां राघव उत्तराभिमुखः, प्राङ्मुखो वा, श्यामाभो रक्ताम्बरधरो मकुटादि सर्वाभरणयुक्तः श्रीवत्सवक्षाः द्विभुजो दक्षिणकरेण शरधरो वामकरेण धनुरालम्ब्य त्रिभङ्ग्यास्थितो माघमासे पुनर्वसुजातः सीतानाथोऽन्यत्सर्वम् आदिमूर्ते््रिव ’रामं दाशरथिं वीरं काकुत्स्थ’मिति॥

सीतायाः

तद्दक्षिणे सीता हेमाभा शुक्लाम्बरधरा धृतपद्मवामहस्ता प्रसारित दक्षिणकरा सुस्थितदक्षिणपादा आकुञ्चितपादा उद्भद्धकुन्तळा करण्डकामकुटियुता वा नामाद्यक्षरबीजा अन्यत्सर्वं श्रीवत्, ’सीतामयोनिजां लक्ष्मीं वैदेही’मिति॥

सौमित्रेः

वामे सौमित्रिः कनकाभः श्यामाम्बरधरो द्विभुजो रामवत् त्रिभङ्गस्थितश्चापधर उद्बद्धकुन्तळो वैशाखे रोहिणीजातो लक्षाद्यक्षरबीजोऽन्यत्सर्वं रामवत्, ’रामानुजं सौमित्रिं लक्ष्मणं लक्ष्मीवर्धन’मिति॥

एकविंशः पटलः [[१०८]]

भरतस्य

दक्षिणभागे भरतः श्यामाभो रक्ताम्बरधर उद्बद्धकुन्तलः शरचापौ, खड्गखेटकौ वा, दधानो द्विभुजः त्रिभङ्गस्थश्चैत्रे स्वात्युद्भवोऽमलेशो भगाद्यक्षरबीजो श्रीवत्सकौस्तुभौ विना अन्यत्सर्वं रामवत् ’भरतं कैकेयं रामानुजधर्मचारिण’मिति॥

शत्रुघ्नस्य

वामे शत्रुघ्नो हेमाभो रक्ताम्बरधरः उद्बद्धकुन्तळो ज्येष्ठमासे? धनिष्ठाजातो नामाद्यक्षरबीजो निर्मलेशः अन्यत्सर्वं लक्ष्मणवत्, ’रामप्रियं शत्रुघ्नं विजयं भरतानुज’मिति॥

हनुमतः

दक्षिणे पुरतोऽञ्जनाभः श्वेतवस्त्रधरः कपिरूपः सर्वाभरणभूषितः द्विभुजः दक्षिणहस्तेनाऽऽस्यं पिधाय वामहस्तेन वस्त्रं पिधाय अवनतगात्रस्थितो वार्ताविज्ञापनपरो मृगवाहनो दण्डध्वजो महानादरवः श्रावणेमासि श्रवणजातः कल्पाद्यक्षरबीजो हनुमान् ’कपिराजं हनुमन्तं शब्दराशिं महामति’मिति॥

शरस्य

दक्षिणे शरं नपुंसकं श्यामाभं श्वेताम्बरधरं त्रिणे(ने)त्रं रौद्रं समुद्रघोषरवं वायुवाहनं पक्षध्वजं शिरसि शरं माघमासे वारुणे जातं शराद्यक्षरबीजं शरं ’शरं महारवम् अमोघं तीक्ष्णधार’मिति॥

शार्ङ्गस्य

वामे शार्ङ्गं पूर्ववत्॥

[[१०९]]

सुग्रीवस्य

दक्षिणे सुग्रीवः श्वेताभो रक्ताम्बरधरो रक्तवसनो द्विभुजः प्राञ्जलिः पादावनतयुक्तो मृगध्वजवाहनो वैशाखे आश्लेषाजो मेघनादरवः सुराद्यक्षरबीजः तारेशः सुग्रीवं सुन्दरं महाबलमर्कसूनु’मिति॥

विभीषणस्य

वामे कृष्णवर्णो रक्ताम्बरधरो रक्तकेशस्सुदंष्ट्रो द्विभुजः शूलधरो हृदये अञ्जलिसंयुक्तो मूलजो मेघध्वजवाहनो मेघनादरवो विशुद्धेशो विद्याद्यक्षरबीजो विभीषणो ’विभीषणं राक्षसाधिपं सुमनस्कं रामप्रिय’मिति॥

अङ्गदस्य

अभिमुखे श्वेताभो रक्ताम्बरधरो रक्तवदनो द्विभुजः प्राञ्जलिः पादावनतस्थितः सिंहध्वजवाहनः सिंहरवो वैशाखे रोहिणीजोऽङ्गदः ’अङ्गदं वालिपुत्रं रामप्रियं देवभक्त’मित्यर्चयेत्॥

बलभद्रस्य

वायव्ये बलभद्ररामः श्वेताभः नीलवस्त्रधरो द्विभुजो दक्षिणहस्तेनाऽवलम्बितमुसलो वामेन हलधरः त्रिभङ्गास्थितउद्बद्धकुन्तलः अन्यत्सर्वम् आदिमूर्ते््रिव ’रामं, यदुवरं, विष्णुं, हलायुध’मिति॥

कृष्णस्य

ऐशान्यां कृष्णः पश्चिमामुखो, दक्षिणामुखो वा, श्यामाभो रक्ताम्बरधरस्सर्वाभरणभूषितः सौन्दर्ययुक्तः कुन्तलयुक्तः बर्हिबन्धयुतः त्रिनतो द्विभुजो दक्षिणहस्तेन क्रीडायष्टिधरो वामकूर्परेण सत्यभामाङ्गरूढं वाऽलम्ब्य सुस्थितः क्रीडारससमाविष्टो रुक्मिणीसत्यभामयोरीशः श्रावणेमासि रोहिणीजातोऽन्यत्सर्वम् आदिमूर्ते््रिव ’कृष्णं, पुण्यनारायणं, वटपत्रशायिनं, त्रिदशाधिपमिति’॥

एकविंशः पटलः [[११०]]

रुक्मिण्याः

दक्षिणे रुग्माभा शुक्लाम्बरधरा धम्मिल्लकुन्तला, उद्बद्धकुन्तला वा, नामाद्यक्षरबीजा अन्यत्सर्वं श्रीरिव रुक्मिणी ’रुक्मिणीं, सुन्दरीं, प्रकृतिं कृष्णवल्लभा’मिति॥

सत्यभामायाः

वामे सत्यभामा धम्मिल्लकुन्तला उद्बद्धकुन्तला वा, नामाद्यक्षरबीजा अन्यत्सर्वं महीवत् सत्यभामा ’सत्यभामां, सतीं, सन्नतीं, क्षमा’मिति॥

गोपीनाथस्य

दक्षिणे रक्ताभः श्वेताम्बरधरो वंशहस्तो माघमासि वारुणे जातो हयध्वजवाहनो हंसरवो गोपीनाथो गवाद्यक्षरबीजो गोपालो ’गोपालं, सर्वनाथं, कृष्णं, सर्वाध्यक्ष’मिति॥

श्रीदाम्नः

वामे श्रीदामा श्यामाभः श्वेताम्बरधरः द्विभुजः अञ्जलिसंयुक्तः प्रोष्ठपदे पूर्वाषाढाजो नामाद्यक्षरबीजः अश्वध्वजवाहनो वेणुरवो गोपीनाथः ’श्रीदामानं, पुण्यरूपं, पुण्यात्मकं, देवसख’मिति॥

सुन्दरस्य

प्रमुखे गरुडांशस्सुन्दरो विहगाद्यक्षरबीजोऽन्यत्सर्वं गरुडवत् ’सुन्दरं, विहङ्गं, पतङ्गं, तार्क्ष्य’मिति समर्चयेत्॥

कल्किनः

पश्चिमे चोत्तरभागे कल्की हयाननः अन्यत्सर्वमादिमूर्ते््रिव समाचरेत्॥

[[१११]]

कौतुकस्य

अभिमुखे कौतुकं चतुर्भुजं संस्थाप्यार्चयेत्॥

प्रादुर्भावानाम् अनुकल्पम् प्रादुर्भावानां प्राकाराभ्यन्तरे विस्तीर्णे मनोरमे देशे विमानं, मण्डपं, कूटं वा, कृत्वा ध्रुवबेरं चित्रं, चित्रार्धं, चित्राभासं वा, तदभिमुखे कौतुकं संस्थाप्य अभावे पीठं वा सङ्कल्प्य अर्चयेत्। अथवा प्रासादपार्श्वे अलीन्द्रं कृत्वा प्रासादभित्याश्रितान् बहिर्मुखान् संस्थाप्याऽर्चयेत्। अशक्तश्चेत्प्राकारपार्श्वे अभिमुखे दक्षिणोत्तरयोः प्राकाराभ्यन्तरे मुखमण्डपे अन्तराले वा दक्षिणे दाशरथिं वामे कृष्णं सकलं कौतुकमेव कृत्वा संस्थाप्याऽर्चयेदिति केचित्॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे प्रादुर्भावविधिर्नाम एकविंशः पटलः ॥ २१ ॥