०२० वर्णवाहनकेतुध्वजरवर्क्षप्रियाऽयुधादिवर्णनम्

अथ विंशः पटलः अथ देवस्य देव्यादीनां च वर्णवाहनकेत्वादीन्वक्ष्ये। वर्णवाहनकेतुनामनक्षत्रपत्नीबीजाऽक्षरादीनि ज्ञात्वाऽर्चयेत्। अन्यथा चेदसुरा गृह्णीयुः।

देवस्य वर्णनिर्णयः देवः कृतयुगे श्वेतवर्णः, त्रेतायां रु(क्मा)ग्माभः, द्वापरे रक्ताभः, कलौ श्यामवर्णः, सर्वेषु श्यामवर्णो वा, सर्वेषां वर्णानां श्यामं मुख्यम्।

प्रथमावरणदेवाः

तस्मात् श्यामवर्णः पीताम्बरधरः किरीटकेयूरहार प्रलम्बयज्ञोपवीती श्रीवत्साङ्कश्चतुर्भुजः शङ्खचक्रधरोऽभयकट्यवलम्बितहस्तो गरुडध्वजवाहनो अकारबीजः पञ्चशब्दरवो दक्षिणवामयोः श्रीभूमिसहितो विष्णुः (तं) ’विष्णु महाविष्णुं सदाविष्णुं व्यापिनमिति चतुर्मूर्तिमन्त्रैरर्चयेत्। अथवा पञ्चमूर्तिमन्त्रैरर्चयेदिति केचित्।

तत्प्राच्यां पुरुषः प्राङ्मुखः श्वेताभः पीतवासाश्चतुर्भुजश्शङ्खचक्रधरस्सर्वाभरणभूषितः श्रीमेदिनीभ्यां युक्तः पुरुषः ’पुरुषं पुरुषात्मकं परमपुरुषं धर्ममय’मिति।

आग्नेय्यां कपिलः प्राङ्मुखः श्वेताभः अष्टहस्तः दक्षिणे चैकहस्तेनाभयप्रदोऽन्यैश्चक्राऽसिहलधरः वामे चैकहस्तेन कटिमवलम्ब्य अन्यैः [[७७]] शङ्खचापदण्डधरः रक्तवासा मकुटादिसर्वाभरणभूषितः गायत्रीसावित्रीसंयुक्तः कपिलः ’कपिलं मुनिवरं शुद्धं वेदरूपिण’मिति॥

दक्षिणे दक्षिणाभिमुखोऽञ्जनाभः रक्ताम्बरधरश्चतुर्भुजः शङ्खचक्रधरस्सर्वाभरणभूषितो धृतिपौष्णीभ्यां सहितः सत्यः ’सत्यं सत्यात्मकं ज्ञानमयं संहार’मिति॥

र्नैऋत्यां पश्चिमाभिमुखः तप्तचामीकराभश्चतुःश्रृङ्गः द्विशीर्षः सप्तहस्तः शङ्खचक्राज्यस्थालीस्रुक्स्रुवजुहूपजुहूपभृद्धरं त्रिपादो रक्तवस्त्रधरः सर्वाभरणभूषितो दक्षिणवामयोः स्वाहास्वधाभ्यां युक्तो यज्ञो ’यज्ञं सर्वदेवमयं पुण्यं क्रतु’मिति॥

पश्चिमे पश्चिमाभिमुखश्चतुर्भुजः सर्वाभरणभूषितः कनकाभः श्यामाम्बरधरः पवित्रीक्षोणीभ्यां सहितः अच्युतः ’अच्युतम् अपरिमितमैश्वर्यं श्रीपतिमिति॥’ वायव्ये पश्चिमाभिमुखः स्फटिकाभः श्यामाम्बरधरः शङ्खचक्रधरोऽ भयवरदहस्तः श्रीवत्साङ्कस्सर्वाभरणभूषितः कमलेलाभ्यां युक्तो नारायणः ’नारायणं जगन्नाथं देवदेवं त्रयीमय’मिति॥

उत्तरस्यामुत्तराभिमुखः प्रवालाभो नवसप्तपञ्चफणान्वितानन्तोत्सङ्ग आसीनः पुष्पाम्बरधरः सर्वाभरणभूषितः चतुर्भुजः शङ्खचक्रधरः प्रमोदायिनी महीयुक्तोऽनिरुध्दः ’अनिरुध्दं महान्तं वैराग्यं सर्वदेव(तेजो)मय’मिति॥

ऐशान्यां प्राङ्मुखस्तरुणादित्यसङ्काशश्चतुर्भुजः शङ्खचक्रधरः श्रीवत्सवक्षाः सर्वाभरणसंयुक्तः श्वेतवस्त्रोत्तरीयोपवीतः दक्षिणवामयोरिन्दिराधरणीभ्यां युक्तः पुण्यः ’पुण्यं पुण्यात्मकं पुण्यमूर्तिं पुण्यदायिन’मिति॥

विंशः पटलः [[७८]]

द्वितीयावरणदेवाः

द्वितीयावरणे प्राच्यां वराहः प्राङ्मुखः श्यामाभश्चतुर्भुजः शङ्खचक्रधरः सर्वाभरणसंयुक्तः रक्ताम्बरधरः वराहाननः श्रीभूमिभ्यां सहितः ’वराहं वरदं भूमिसन्धारणं वज्रदंष्ट्रिण’मिति।

आग्नेय्यां प्राङ्मुखः इन्दीवराभो हेमाम्बरधरः चतुर्भुजः शङ्खचक्रधरः सर्वाभरणभूषितः कमलाऽवनीभ्यां सहितस्सुभद्रः ’सुभद्रं सुमुखं सुखप्रदं सुखदर्शन’मिति।

दक्षिणे दक्षिणाभिमुखो नारसिंहः श्वेताभः रक्तवस्त्रधरः चतुर्भुजः शङ्खचक्रधरः अभयकट्यवलम्बितकरः सिंहाननः श्रीभूमिसहितः नारसिंहः ’नारसिंहं तपोनाथं महाविष्णुं महाबल’मिति।

र्नैऋत्यां पश्चिमाभिमुखो हेमाभः श्यामाम्बरधरः चतुर्भुजः शङ्खचक्रधरः किरीटहाराद्याभरणान्वितः पद्मास्थिराभ्यां युतः ईशितात्मा ’ईशं वरदं सर्वेश्वरम् ईशितात्मान’मिति।

पश्चिमे पश्चिमाभिमुखो वामनो ब्रह्मचारी वकुलफलाभो द्विभुजः छत्रधरः दण्डधरस्समेखलः कौपीनवासाः सोपवीतः कृष्णाजिनधरः पवित्रपाणिः ’वामनं वरदं काश्यपमदितिप्रिय’मिति।

वायव्ये पश्चिमाभिखो नीलाभः पीताम्बरधरो लक्ष्मीधरणीभ्यां युक्तः सर्वोद्वहः ’सर्वेशं सर्वाधारं सर्वज्ञं सर्वोद्वह’मिति॥

उत्तरे चोत्तराभिमुखस्त्रिविक्रमः श्यामाभः चतुर्भुजः शङ्खचक्रधरः पीताम्बरधरो हारादिभूषितस्सुस्थितवामपादो ललाटान्तोद्धृत दक्षिणपाद उद्धृतपादप्रसारितदक्षिणहस्तः कट्यवलम्बितवामहस्तः ’त्रिविक्रमं त्रिलोकेशं सर्वाधारं वैकुण्ठ’मिति।

[[७९]] ऐशान्यां प्राङ्मुखो रक्ताभः श्यामाम्बरधरः कनकाश्यामाभ्यां सहितः सर्वविद्येश्वरः ’सर्वविद्येश्वरं पुण्यं शुद्धं ज्ञान’मिति। पुरुषादीनामनुक्तं सर्वं विष्णोरिवेति विज्ञायते॥

तृतीयावरणदेवाः

तृतीयावरणे प्राच्यां श्यामाभः अभ्यन्तरमुखो जपाम्बरधरो ज्येष्ठाजो द्विभुजो धृतकुलिशदक्षिणहस्तः कट्यवलम्बितवामहस्तः किरीटाद्याभरणान्वितो मेघनादरवो वेणुध्वजो गजवाहनः शचीपतिः जका(राद्यक्ष)रबीजः ’इन्द्रं शचीपतिं पुरुहूतं पुरन्दर’मिति॥

आग्नेय्यां वह्निजातः किंशुकपुष्पसदृशः शक्तिपाणिः कुण्डलाङ्गदहारवान् शुकपिञ्छाऽम्बरधरः कपिध्वजवाहनः स्वाहापतिरिकारबीजस्सर्वदेवमुख आसीनोऽग्निः ’अग्निं जातवेदसं पावकं हुताशन’मिति॥

दक्षिणे श्यामाभो रक्तवस्त्रधरो गदी व्यालध्वजो महिषवाहनो भरणीजः फकारबीजः शुकाङ्गाीशो घण्टानादरवो यमो ’यमं धर्मराजं प्रेतेशं मध्यस्थ’मिति॥

र्नैऋत्यां नीलाभो रक्ताम्बरधरः शूली भौतिकाख्येभवाहनः कृकलासध्वजो मूलजः सम्मोहिनीपतिः पकारबीजः पणवरवो र्निऋतिः ’आरम्भाधिपतिं नीलं र्निऋतिं सर्वरक्षोऽधिपति’मिति॥

वारुण्यां नीलवर्णो रक्तवस्त्रधरः पाशी सिंहध्वजो वारुणजः सुप्रतीकेभवाहनः अञ्जनापतिः वकारवीजः दर्दुररवो वारुणो ’वरुणं प्रचेतसं रक्ताम्बरधरं यादसां पति’मिति॥

वायव्ये कनकाभस्सिताम्बरधरो गजवाहनः वायुजो वेणुध्वजः कुमुद्वतीपतिः दण्डभृत् यकारबीजः शङ्खरवो वायुः ’जवनं भूतात्मकं वायुमुदान’मिति॥

विंशः पटलः [[८०]] उत्तरे सितवर्णः श्यामाम्बरधरो दण्डी पुष्पकवाहनः कृकलासध्वजः ककारबीजो यवनलापतिर्धनिष्ठाजो मृदङ्गरवः कुबेरः ’कुबेरं धन्यं पौलस्त्यं यक्षराज’मिति॥

ऐशान्यां पाटल्याभस्सिताम्बरधरो वृषध्वजवाहनः जटामौलिश्चतुर्भुजः त्रिनेत्रः शूलपाणिः शकारबीजः आर्द्राजः पार्वतीशो डमरुध्वनिरीशानः ’ईशानमीश्वरं देवं भव’मिति॥

इन्द्रादयो वाष्टावभ्यन्तरमुखा एतेष्वनिरुध्दं त्रिविक्रमं वामनं, च विना ध्रुवे स्थिते स्थितान् आसीनेत्वासीनान् शयने, यानके च तत्तत्कौतुकवत् ध्यायन् अर्चयेत्॥

देवस्य दक्षिणे रुग्माभा क्षौमाम्बरधरा पद्महस्ता कक्ष्याबद्धघनस्तनी ललाटोपरि पुष्पचूडान्विता मकुटहारादिसर्वाभरणभूषिता श्रीवत्सादिबीजा फल्गुनोत्तरजा ध्वनिरवाश्रीः ’श्रियं धृतिं पवित्रीं प्रमोदायिनी’मिति॥

वामे श्यामाभा रक्ताम्बरधरा रक्तोत्पलधरा मकुटादिसर्वाभरणसंयुक्ता वैशाखे रेवतीजाता लक्ष्मीपूर्वाक्षराधिपा शङ्खरवाभूमिः ’हरिणीं पौष्णीं क्षौणीं मही’मिति॥

पुरुषादीनां देवीनां श्रीभूम्योरिवेति विज्ञायते॥

कर्मार्चास्थाने प्रथमावरणदेवाः कर्मार्चास्थाने पीठे प्राच्यां प्राङ्मुखस्सुभद्रः पूर्ववत्॥

आग्नेय्यां प्राङ्मुखस्सुवर्णपीताम्बरधरः सकला विश्वाभ्यां युक्तस्सर्वः ’सर्वं विश्वं सर्वाधारं सर्वेश्वर’मिति।

दक्षिणे दक्षिणाभिमुखो हयात्मकः श्वेताभः पीतवासा हयाननः इलाविश्वाभ्यां सहितो ’हयात्मकं देवेशं सर्वानन्दं सनातन’मिति॥

[[८१]] र्नैऋत्यां पश्चिमाभिमुखस्सितवर्ण श्यामाम्बरधरः शुद्धाविमलाभ्यां युक्तस्सुखावहः ’सुखावहं सुकेशं सुमुखं सुरप्रिय’मिति।

पश्चिमे पश्चिमाभिमुखो रामदेवः कनकाभो नालाम्बरधरः ब्राह्मीविजयाभ्यां युक्तो ’रामदेवं महाबलं महाभद्रं परशुपाणि’मिति॥

वायव्ये पश्चिमाभिमुखः किंशुकपुष्पाभः सिताम्बरधरः सुभगासुमुखीभ्यां युक्तस्सुवहः ’सुवहं सर्वतेजोमयम् आनन्दं सर्वरूपिण’ मिति॥

उत्तरे च उत्तराभिमुखः पुण्यः पूर्ववत्।

ऐशान्यां प्राङ्मुखोऽग्निवर्णस्सिताम्बरधरः सुमता जननीभ्यां युक्तस्सुवहः ’सुवहं सुकृतं विज्ञानं वेदमय’मिति।

सुभद्रादीनामनुक्तं सर्वं विष्णोरिवेति विज्ञायते॥

द्वितीयावरणदेवाः मित्रादीनां लक्षणं च द्वितीयावरणे गजवाहनः श्वेताभः स्रुवध्वजो मित्रेशो मित्रः, रुरुवाहनोऽग्निवर्णो जुहूध्वजः सतीशोऽत्रिः, गजवाहनः कनकाभस्सवारिकलशध्वजः शुभेश्वरः शिवः, वायुवाहनः प्रवालाभो वेदध्वजः शुद्धेशो विश्वः, सर्वे रक्ताम्बरधरा भेरीरवा रोहिणीजा तन्नामाद्यक्षरबीेजाश्च एतान् पीठान्ते प्रागादिबहिर्मुखान् अर्चयेत्।

हेमाभस्सनातनः, कुन्दाभः सनन्दनः, गुञ्जाभः सनत्कुमारः, स्फटिकाभस्सनकश्च, सर्वे श्यामाम्बरधराः पद्मवाहनाः कूर्चध्वजाः ब्रह्मचारिणः नामाद्यक्षरबीजाः शङ्खनादरवाश्च, एतानाग्नेयादिकोणेषु बहिर्मुखानर्चयेत्॥

मित्रं लोकहितं विश्वात्मानं कपि(वि)वरम्, अत्रिं त्रिधागतिं तृतीयात्मकं वेदमूर्तिम्, शिवं मुनिवरं शुद्धं सुयोक्तारम्, विश्वं भूतनायकं जगद्वीक्षणं विंशः पटलः [[८२]] सर्वमातृकम्, सनातनं मुनीन्द्रं ब्रह्मसम्भवं निष्टानकम्, सनन्दनं गुरुं सर्वपूज्यं मन्त्रज्ञम्, सनत्कुमारं ज्योतिरीशं निरुद्वेगमक्रोधम्, सनकं नियन्तारं धर्मज्ञं धर्मचोदितमिति॥

तृतीयावरणदेवाः

तृतीयावरणे इन्द्रादीन् दक्षिणे श्रियं वामे हरिणीं च, पूर्ववदर्चयेत्॥

ब्रह्मादिलक्षणम्

दक्षिणे भित्तिपार्श्वे रुग्माभो हंसवाहनः कमण्डलुध्वजोऽभिजिज्जातस्सावित्रीपतिः उकारबीजो वेदरवो ब्रह्मा ’ब्रह्माणं प्रजापतिं पितामहं हिरण्यगर्भ’मिति॥

सुवर्णाभो ब्रह्मचारी रक्ताम्बरधरः पद्मवाहनः कूर्चध्वजः शङ्खरवः मकारबीजः मार्कण्डेयः ’मार्कण्डेयं पुण्यं पुरातनममित’मिति॥

वामे भित्तिपार्श्वे श्वेताभो व्याघ्रचर्माम्बरधरः परशुमृगधरः चतुर्भुजो वृषध्वजवाहनो डमरु(क)ध्वनिः मकारबीजः आर्द्राज उमापतिर्गङ्गाधरो ’गङ्गाधरं वृषवाहनम् अष्टमूर्तिमुमापतिमिति।

अग्निवर्णः शुक्लाम्बरधरः पद्मवाहनः कमण्डलुध्वजो रोहिणीजः शङ्खरवो नामाद्यक्षरबीजः ख्यातीशः पद्मापिता ’पद्मापितरं धातृनाथं ख्यातीशं भृगु’मिति॥

धात्रादीनां लक्षणं दक्षिणे गन्धर्वस्थाने वेणुवर्णो रथकेतुस्सन्धिनीश उदङ्मुखो धाता, वामे गन्धर्वस्थाने शुकपत्राभो गजवाहनस्सर्पध्वजो ऊर्ध्वेशो दक्षिणामुखो विधाता, द्वारदक्षिणशिरा ऊर्ध्वमुखो नीलवर्णो वृषभवाहनोऽग्निकेतुः प्रीतीशो भृतिः पूजकादिभिरर्चनाकालादन्यत्राऽनलङ्घ्यः उपरिस्थाने पूजयेत्। तदुपरि [[८३]] शुक्लाभस्तुरङ्गवाहनः श्वेतकेतुः भरणीश उदारः अधोमुखः पतङ्गः, द्वारदक्षिणभागे सुवर्णाभो गजवाहनो वृषध्वजो बलेशः पतिरः, वामे सुवर्णाभो रथवाहनः शङ्खध्वजो धरणीशोऽवाक्शिरा वरुणः एते नामाद्यक्षरबीजाश्शङ्खरवाश्च॥

’धातारं डम्भिनं सनिलं गन्धनं, विधातारं कीनाशं मूरुण्डं न्यर्णं, भृतिं भुवङ्गम् उत्सङ्गं पीठं, पतङ्गम् उत्करम् अपदानं कपर्दिनं, पतिरं बल्लिदं मध्यगं वङ्खरं, वरुणं तेजिनं दंसिनं तरस्विन’मिति षडेतान् कवाटं यत्राऽस्ति तत्रार्चयेत्॥

आलयबाह्ये न्यक्षादिदेवाः आलयस्य बहिःपार्श्वे प्राग्द्वारमध्ये प्राङ्मुखो दूर्वाङ्कुरवर्णो हेमाम्बरधरः प्रज्ञा(पूजा)प्तीशो दण्डपाणिः श्येनध्वजवाहनो रोहिणीजो न्यक्षाद्यक्षरबीजो ’न्यक्षं दधीत्यकं पीवरमार्यक’मिति।

दक्षिणे दक्षिणामुखो रक्तवर्णस्सिताम्बरधरः उत्साधिनीपतिर्दण्डधरः पिण्डिपालध्वजो हयवाहनः मखोद्भवः स्रुक्ध्वजो विश्वाद्यक्षरबीजो विवस्वान् ’विवस्वन्तं भरतं विश्वकर्माणं मरीचिमन्त’मिति॥

पश्चिमे पश्चिमाभिमुखः शरभान्तध्वनिः पुष्पाम्बरधरः कपोतवाहनः धूमकेतुर्ज्वालायुधो विशाखाजो मेघरवो नामाद्यक्षरबीजो मित्रो ’मित्रं त्वरं राजिष्वन्तं रमणक’मिति॥

उत्तरे च उत्तराभिमुखो हेमाभः पुष्पाम्बरधरो मृगवाहनो महिषध्वजो मूलाजो दण्डपाणिर्वाणीपतिः वेदरवः क्षत्ताऽऽद्यक्षरबीजः क्षत्ता ’क्षत्तारं महीधरम् उर्वरोहं शेवधि’मिति॥

विंशः पटलः [[८४]]

प्रथमद्वारदेवाः

प्रथमद्वारदक्षिणे श्वेतवर्णः शुक्लाम्बरधरः स्त्रुक्ध्वजो गजवाहनो रोहिणीजस्सन्ध्यानाथश्शङ्खरवो यन्त्रिकायुधः मकाराद्यक्षरबीजो मणिको ’मणिकं महाबलं विमलं द्वारपालक’मिति॥

वामे तस्य पत्नी कनकाभा सिताम्बरधरा पुष्पहस्ता सौम्यजा शुकस्वररवा सकारबीजा सन्ध्या ’सन्ध्यां प्रभावतीं ज्योतिरूपां दृढव्रता’मिति॥

मुखमण्डपद्वारदेवाः

मुखमण्डपद्वारदक्षिणे - स्फटिकाभो हेमाम्बरधरो रुरुवाहनः कुशध्वजो विधिजो दिव्येशो नामाद्यक्षरबीजो दण्डधरश्चतुर्भुजो वेदरवो विखना ’विखनसं तपोयुक्तं सिद्धिदं सर्वदर्शन’मिति॥

वामे रुरुवाहनः कूर्चध्वजः ताराद्यक्षरबीजस्सन्धिनीशो वेदरवो दण्डधरो द्विभुजः पुष्यसम्भवस्तापस ’स्तापसं सिद्धिराजं सर्वदोषविवर्जितं सहस्रा श्वमेधिन’मिति॥

प्रथमावरणद्वारदेवाः

प्रथमावरणद्वारदक्षिणे अग्निवर्णः शुक्लां (कां) बरधरः कूर्मवाहनः शरध्वजः सम्मोदिनीपतिः (ध्रुवा) द्यक्षरबीजः प्रोष्टपाज्जातो दण्डपाणिस्िंसहरवः किष्किन्धः ’किष्किन्धं बहुमर्दिनं बहुसेनं दृढव्रत’ मिति।

वामे श्वेताभो रक्ताम्बरधरः कूर्मवाहनः शरध्वजो विशोकापतिर्वेणुदण्डायुधस्तीर्थाद्यक्षरबीजो आर्द्राजो मेघरवः तीर्थः ’तीर्थम् उद्वाहकं सर्वयोग्यम् उदावहमिति॥’ [[८५]]

द्वितीयावरणद्वारदेवाः

द्वितीयावरणद्वारदक्षिणे च - उत्तराभिमुखः प्रवालाभः एकदन्तः कर्णादूर्ध्वं गजाकारो वामनः कुशध्वजो वेणुकङ्कतवाहनः शङ्खरवः चतुर्भुजः कदळीफलहस्तः आर्द्रापतिः श्रविष्ठाजो वक्रतुण्डः ’वक्रतुण्डम् एकदंष्ट्ं विकटं विनायक’मिति॥

उत्तरे शङ्खवर्णो नीलाम्बरधरः किरीटी सिंहासने समासीनः द्विभुजो जवनीपतिः सार्पजो हस्तताळरवः शेषाद्यक्षरबीजः सागरध्वजवाहनो नवभिः सप्तभिः पञ्चभिर्वा पृष्टोद्गतैः फणैस्समाच्छादितमौळिः नागराजः ’नागराजं सहस्रशीर्षमनन्तं शेषमिति॥’

तृतीयावरणद्वारदेवाः

तृतीयावरणे द्वारदक्षिणे शङ्खाभो नीलाम्बरधरो भूताकारः शुद्धापतिः पद्मध्वजवाहनो हस्ताभ्यां शङ्खं दधानो वारुणः शङ्खादिबीजः शङ्खः शङ्खनिधिः ’शङ्खनिधिं वरं धनदं मौक्तिकोद्भव’मिति॥

वामे रक्ताभो जपाम्बरधरो विशुद्धेशो हस्ताभ्यां पद्मं दधानः पद्मध्वजवाहनः प्रोष्टपाज्जातः सिंहनादरवः पद्माद्यक्षरबीजः पद्मनिधिः ’पद्मनिधिं वरं रक्ताभं भूतनायक’मिति।

चतुर्थावरणद्वारदेवाः

चतुर्थावरणे द्वारदक्षिणे - रक्ताभः श्वेताम्बरधरो नागचूळिकमस्तकः उद्देश्यकरो भामिनीशस्तुरगवाहनोऽहिध्वजो भेरीरवस्तुकारबीजो हस्तजस्तुहिणः ’तुहिणं दैत्यराजं विष्णुभक्तं गदाधर’मिति॥

वामे श्यामाभो रक्ताम्बरधरो नागचूळिकमस्तकः उद्देश्यकरस्सुधापतिः व्याघ्रवाहनस्सर्पध्वजो झल्लरीरवो हस्तजो बल्यादिबीजो बलिन्दो ’दैतेयं महावीर्यं बलिन्दं शूलपाणि’मिति॥

विंशः पटलः [[८६]]

पञ्चमावरणद्वारदेवाः

पञ्चमावरणे द्वारदक्षिणे - रक्ताभो नीलाम्बरधरः शिरसि खड्गधरो वायुवाहन अनलध्वजो घोररवः स्वातीजो बलेशः खकारबीजो नन्दको ’नन्दकं खड्गं पापहरं दैत्यनाशन’मिति॥

वामे पञ्चवणैर्युक्तं श्वेताम्बरधरं नपुंसकं शिरसि चापधरं मेघवाहनं शरध्वजं महानादरवं विशाखाजं शकारबीजं शार्ङ्गः ’शार्ङ्गं धनुर्वरं शत्रुहन्तारं वरायुध’मिति॥

षष्ठावरणद्वारदेवाः

षष्ठावरणे द्वारदक्षिणे श्वेताभो नीलवासाश्शिरसि शङ्खभृत् दण्डायुधो नन्देशो रोहिणीजो वियद्गतिध्वजो हंसवाहनः कण्ठशब्दरवो नामाद्यक्षरबीजः शङ्खचूली ’शङ्खचूलिनं वृक्षदण्डं श्वेताभं घोररूपिण’मिति।

वामे रक्ताभः श्वेताम्बरधरः शिरसि चक्रधरः पाशदण्डभृन्मेघनादरवो धूमकेतुस्तुष्टीशः प्रवृत्तवाहनश्चकारबीजश्चक्रचूली ’चक्रचूलिनं महानादम् उग्रतापं भयानक’ मिति॥

सप्तमावरणद्वारदेवाः

सप्तमावरणे द्वारदक्षिणे हेमाभो रक्तवस्त्रधरः चतुर्भुजः उद्देश्यदण्डधर दक्षिणहस्तः अपसव्यकट्यवलम्बितवामहस्तः उग्रवेगसमन्वितो दंष्ट्राभ्यां युक्तः किञ्चिद्वारं समीक्ष्य स्थितः प्रियापतिः सिंहवाहनो मेघरवो धूमकेतुः मूलोद्भवो नामाद्यक्षरबीजः चण्डः ’चण्डम् उग्रं भयानकं द्वारपालक’ मिति।

वामे श्यामाभः श्वेताम्बरधरस्सुमुखीपतिरन्यत्सर्वं चण्डवत् प्रचण्डः ’प्रचण्डं भीमं घोररूपं द्वाराधिप’मिति॥

[[८७]] विष्वक्सेनस्य रूपं स्थलनिर्णयः उदक्प्राकारपार्श्वे, विमानपार्श्वे वा, कुबेरैशान्ययोर्मध्ये दक्षिणाभिमुखः सिंहासने समासीनोऽग्निवर्णः पीतवासाः श्रीवत्सं च, ब्रह्मसूत्रं च, विना हरिवत् भूषणैर्युक्तो द्विभुजः पुष्पपाणिः, शक्तिदण्डभृद्वा, जयापतिः श्रृङ्गकेतुः पुष्परथवाहनः पूर्वाषाढोद्भवः पुष्परवो विद्यादिबीजो विष्वक्सेनो ’विष्वक्सेनं शान्तं हरम् अमित’मिति॥

श्रीभूतस्थानादि

प्रथमावरणस्य चातुर्भागात् त्रिभागे सोपानमध्ये वा श्वेताभो रक्ताम्बरधरः बहिर्मुखः ब्रह्मचारी दण्डायुधः सिंहध्वजवाहनः फाल्गुने भरणी (रोहिणी) जातः कुम्भशब्दरवो भूताद्यक्षरबीजो श्रीभूतः ’श्रीभूतं श्वेतवर्णं वैष्णवं मुखपालिन’मिति॥

गरुडस्थानादि

द्वितीयावरणे हाटकाभः शुकपिञ्छाम्बरधरः झल्लरीमेखलायुक्तः किङ्किणीजालयुतस्सर्वाभरणभूषित उपर्युपरिछन्नाभिर्बन्धूकनिभाभिस्तिसृभिश्चूडाभिर्युक्तः श्यामः त्रिशीर्षसुमुखभुजगेनकृतछन्नवीरः किरीटवान् पञ्चवर्णमिश्रितः भुजगाभ्यां युक्तः छन्दोमयः पक्षद्वययुतो गुञ्जाभनेत्रो हृदये अञ्जलिसंयुक्तोऽभयदो वा द्विभुजः स्वात्युद्भवश्चूडध्वजो विशोकेशो वायुवाहनः तुण्डायुधः पक्षघातरवो गणाद्यक्षरबीजो गरुडो ’गरुडं पक्षिराजं सुवर्णं खगाधिप’मिति॥

चक्रस्थानादि

तत्पूर्वे चक्राङ्गारवर्णो रक्ताम्बरधरः शिरसि चक्रभृत् पुष्टिकेशो धूमकेतुः प्रवृत्तवाहनः तज्जनितरवः चकारबीजोऽनलस्सुदर्शनः ’सुदर्शनं चक्रं सहस्रविकचमनपायिन’मिति॥

विंशः पटलः [[८८]]

शङ्खस्थानादि

तत्पूर्वे पाञ्चजन्यो दुग्धाभो रक्तवस्त्रधरो भूताकृतिः शिरसि शङ्खभृत् वियद्गतिध्वजो वियद्गात्रायुधो हंसवाहनः कण्ठशब्दरवो वारुणीपतिः शकारबीजो नलजः ’पाञ्चजन्यं शङ्खम् अम्बुजं विष्णुप्रिय’मिति॥

ध्वजस्थानादि

तत्पूर्वे हाटकाभः शुक्लाम्बरधरः ऊर्ध्वकेतुः शङ्खकेतुः वायुवाहनः सहारवो स्वातीजातो जकारबीजो जयप्रियापतिर्द्विभुजः पद्मधरः आसने दक्षिणं पादं प्रसार्य वाममाकुञ्च्याऽऽसीनस्सर्पयुक्तो हृदयेऽञ्जलिसंयुक्तो जयो ’जयम् अत्युछ्रितं धन्यं ध्वज’मिति॥

यूथाधिपस्थानादि

तत्पूर्वे यूथाधिपः पीठे बहिर्मुखः श्वेताभो रक्तवस्त्रधरो भूताकारो द्विभुजो दण्डधरो भूतकेतुर्महाचातकवाहनः रविजेशो गतिशब्दरवः श्रविष्ठाजो भूताद्यक्षरबीजो महाभूतो ’यूथाधिपतिं नित्यमुग्रं महाभूत’मिति॥

अक्षहन्तृस्थानादि

तत्पूर्वे पीठे पाकार्जुनो रुक्माभः पद्मनेत्रः कृष्णकुञ्चितमूर्धजः भूताकारः कृष्णवस्त्रधरः कुण्डोदरो द्विभुजो दण्डहस्तो स्वातीजातस्िंसहनादरवस्सिंहध्वजवाहनो भूताद्यक्षरबीजः स्सुमुखीपतिर्विष्णुभूतः पाकः ’अर्जुनं हस्तम् अक्षहन्तारं विष्णुभूत’मिति॥

चक्रादीनां स्थाने मतान्तरम् एते अनपायिनः एतेषु श्रीभूतगरुडौ प्रासादपार्श्वे चक्रशङ्खध्वजयूथाधिपपाकोर्जुनान् बलिपीठपार्श्वे च संयोज्यार्चयेदिति केचित्॥

[[८९]]

आवरणबलिदेवाः

प्रथमावरणे, द्वितीये वा, पूर्ववदिन्द्रादीनर्चयेत्। प्रागादिद्वारदक्षिणपार्श्वे तत्तद्दिगीशानर्चयेत्॥

द्वितीयावरणे नवग्रहाणां चतुर्नामादिकं द्वितीयावरणे प्राग्द्वारादुत्तरे पश्चिमाभिमुखो रक्तवर्णः शुक्लाम्बरधरो द्विभुजः पद्महस्तस्सप्ताश्ववाहनो हयध्वजो रेणुकासुवर्चलापतिः खकारबीजोऽब्धिघोषणरवस्सहस्रकिरणो मण्डलावृतमौलिः श्रावणे मासि हस्तजः आदित्यः ’आदित्यं भास्करं सूर्यं मार्ताण्डं विवस्वन्त’मिति।

तद्दिगीशस्य दक्षिणे पश्चिमाभिमुखः श्वेताभो रक्ताम्बरधरो द्विभुज इक्षुचापभृत् मण्डलावृतमौलिः हिरण्मयोऽष्टाश्ववाहनः कुलीरध्वजो हंसरवो रोहिणीशः सकारबीजस्सौम्यजश्चन्द्रो ’वसिष्ठं सोमं यज्ञाङ्गम् इन्दुं चन्द्र’मिति।

दक्षिणे च उत्तराभिमुखो बन्धूकवर्णो नीलाम्बरधरः शक्तिपाणिः शरभध्वजः शुकजुष्टापतिः अश्वनीजातः अश्ववाहनः शङ्खरवो नामाद्यक्षरबीजः अङ्गारक ’अङ्गारकं वक्रं रक्तं धरासुत’मिति।

तस्य पश्चिमे च उत्तराभिमुखः श्यामवर्णो रक्ताम्बरधरो द्विभुजो रथवाहनः सिंहध्वज शङ्खरवो नामाद्यक्षरबीजस्सुशीलापतिः श्रविष्ठाजातो बुधो ’बुधं श्यामं सौम्यं श्रविष्ठाज’मिति॥

पश्चिमे दिगीशस्य दक्षिणे प्राङ्मुखः पीताभः श्यामाम्बरधरो दर्भहस्तः पूरितमकुटः कृष्णाजिनधरः कुशध्वजो हंसवाहनः तिष्यजस्तारापतिः नामाद्यक्षरबीजः बृहस्पतिः ’पीतवर्णं गुरुं तैष्यं बृहस्पति’मिति॥

तस्योत्तरे प्राङ्मुखो रजतवर्णो वल्कलाम्बरधरोऽजिनजटाधरो मेघवाहनः स्रुवध्वजो रोहिणीजो नामाद्यक्षरबीजस्सुमदापतिः शङ्खरवः शुक्रः ’शुक्रं भार्गवं काव्यं परिसर्पिण’मिति।

विंशः पटलः [[९०]] उत्तरे दिगीशस्य पश्चिमे दक्षिणामुखः अञ्जनाभः द्विभुजः कुशचीराम्बरधरो रेवतीजः कुमुदापतिः वराहध्वजवाहनः शङ्खरवो नामाद्यक्षरबीजो मन्दः ’सूर्यपुत्रं मन्दं रैवत्यं शनैश्चर’मिति।

तत्प्राच्यां दक्षिणामुखः श्यामाभो जपाम्बरधरो द्विभुजो नागचूलिकमस्तकः पाशायुधो मण्डलावृतमौलिस्सर्पध्वजवाहनो आश्लेषाजो जरापतिः नामाद्यक्षरबीजः राहुः ’राहुं दैतेयमुरगेशं ग्राहक’मिति॥

प्राच्यां पश्चिमाभिमुखो धूमवर्णः श्वेताम्बरधरो नारीशः अन्यत्सर्वं राहोरिव केतुः ’केतुं कृष्णं रौद्रं प्रकाशिन’ मिति। यद्दिग्द्वारं तद्दिग्द्वारपार्श्वे अर्चयेत्॥

तृतीयावरणे गङ्गादीनां चतुर्नामादि

गङ्गायाः

तृतीयावरणे प्राग्द्वारदक्षिणे पश्चिमाभिमुखा द्विभुजा पीताम्बरधरा श्वेताभा कृष्णकुञ्चिचतमूर्धजा हृदये अञ्जलिसंयुक्ता रेवतीजा गकारबीजा कूर्मध्वजवाहना शङ्खरवा गङ्गा ’नळिनीं जाह्नवीं गङ्गां लोकपावनी’मिति॥

यमुनायाः

दक्षिणे चोत्तरामुखा श्यामवर्णा रक्तवस्त्रधरा पीनस्थनी कृष्णकुञ्चितमूर्धजा द्विभुजा पुष्पहस्ता परपुष्टरवा मत्स्यवाहनकेतुका मूलजा यमाद्यक्षरबीजा यमुना ’यमुनां स्फटिकां नदीवरां पावनी’मिति॥

नर्मदायाः

पश्चिमे रक्ताभा प्राङ्मुखा श्वेतवस्त्रधरा सुखासीना द्विभुजा पुष्पमालाधरा कूर्मध्वजवाहना जलजकुक्कुटरवा अश्विनीजाता नद्याद्यक्षरबीजा नर्मदा ’नर्मदां नदीवरां विद्युद्रूपां विशाला’मिति॥

[[९१]]

सिन्धोः

उत्तरे दक्षिणामुखा कृष्णश्वेताभा पुष्पवस्त्रधरा पद्महस्ता द्विभुजा उद्बद्धकेशी पौष्णजा जलघोषरवा मकरध्वजवाहना सिताद्यक्षरबीजा सिन्धुः ’सिन्धुं नदीवरां मृद्वङ्गीं साधना’मिति॥

दुर्गायाः

प्राग्द्वारादुत्तरे श्यामवर्णा सिताम्बरधरा अष्टभुजा चतुर्भुजा वा शङ्खचक्रधरा सर्वाभरणसंयुक्ता कक्ष्याबद्ध घनस्तनी कृत्तिकोद्भवा घण्टारवा नामाद्यक्षरबीजा सिंहध्वजवाहना दुर्गा ’दुर्गां कात्यायनीं वैष्णवीं विन्ध्यवासिनी’मिति॥

सरस्वत्याः

आग्नेय्यां रक्तवर्णा श्वेतवस्त्रधरा चतुर्भुजा अक्षमाला कमण्डुलुज्ञानमुद्रा पुस्तकयुता हंसवाहना नामाद्यक्षरबीजा अश्विनीजाता प्रणवरवा सिद्धिः ’सिद्धिं विश्वां भृगुपत्नीं सरस्वती’मिति॥

श्रियः

र्नैऋत्यां श्रियं पूर्ववत्॥

ज्येष्ठायाः

वायव्यां रक्ताभा पुष्पाम्बरधरा पीनस्तनी पुष्पनिधिभाजनधरा दक्षिणे पीतगदाधरा, वृष(भ)युता वा रक्तनीलपरीताङ्गाी मौञ्जलिकाञ्चियुता ज्येष्ठानक्षत्रजाता खरयुक्ता श्यामाम्बरधरा रथवाहना काकध्वनियुता काकध्वजा नामाद्यक्षरबीजा ज्येष्ठा ’भूर्ज्येष्ठायिनीं भुवर्ज्येष्ठायिनीं सुवर्ज्येष्ठायिनीं कलिराजायनीं कलिपत्नी’मिति॥

विंशः पटलः [[९२]]

धात्र्याः

ऐशान्यां रक्ताभा श्यामाम्बरधरा उग्रनयना महारौद्री दंष्ट्राभ्यामलङ्कृता बालमौल्युत्तरासङ्गा त्रिशूला षड्भुजा भ्रूभङ्गविकटा कपालपाशहस्ता रक्तकुञ्चितमूर्धजा अट्टहाससहिता अवग्रपीठसमासीना डमरुकध्वनियुता नामाद्यक्षरबीजा पिशाचध्वजवाहना आर्द्रानक्षत्रजाता धात्री ’धात्रीं महोदरीं रौद्रीं महाकाली’मिति॥

सुरायाः

अन्तराले प्राच्यां पश्चिमाभिमुखा रक्तवर्णा जपाम्बरधरा पुष्पहस्ता ललाटोपरिपुष्पचूडा कृष्णकुञ्चितमूर्धजा वीणावेणुरवा स्वात्युद्भवा कपोतध्वजवाहना सुराद्यक्षरबीजा सुरा ’सुरां सुमुखीं’ विद्युद्रूपां सुभगा’मिति॥

सुन्दर्याः

तद्दक्षिणे पश्चिमाभिमुखा कनकाभा सिताम्बरधरा पुष्पहस्ता द्विभुजा कृष्णकुञ्चितमूर्धजा वीणावेणुरवा स्वात्युद्भवा हंसध्वजवाहना नामाद्यक्षरबीजा सुन्दरी ’सुन्दरीं विशालां पद्माक्षीं पद्मवर्णिनी’मिति॥

स्वाहायाः

दक्षिणे च उत्तराभिमुखा रुग्माभा रक्तवस्त्रधरा पुष्पहस्ता द्विभुजा कृष्णकुञ्चितमूर्धजा हंसरवा विशाखाजाता नामाद्यक्षरबीजा स्वाहा ’स्वाहां शुभाङ्गीं मृद्वङ्गीं साधना’मिति॥

स्वधायाः

तत्पश्चिमे च उत्तराभिमुखा सितश्यामा कृष्णाम्बरधरा पुष्पहस्ता द्विभुजा कृष्णकुञ्चितमूर्धजा शुकध्वजवाहना नामाद्यक्षरबीजा अग्निरवा याम्यजा स्वधा ’स्वधां समृद्धिं कुलवर्धिनीं सन्नति’मिति॥

[[९३]]

संह्लादिन्याः

पश्चिमे प्राङ्मुखा कनकाभा सिताम्बरधरा पुष्पहस्ता द्विभुजा कृष्णकुञ्चितमूर्धजा वीणावेणुरवा हंसध्वजवाहना मूलोद्भवा नामाद्यक्षरबीजा संह्लादिनी ’संह्लादिनीं वरारोहां मायाङ्गीं मुदवर्धिनी’मिति॥

राकायाः

उत्तरे दक्षिणाभिमुखा हेममिश्रसिताभा रक्ताम्बरधरा पुष्पहस्ता द्विभुजा कृष्णकुञ्चितमूर्धजा वीणावेणुरवा हंसध्वजवाहना मूलोद्भवा नामाद्यक्षरबीजा अभिजिज्जाता राका ’राकां मुख्यां रत्नाङ्गीं वरानना’मिति॥

सिनीवाल्याः

तत्पूर्वे दक्षिणाभिमुखा सितश्यामा शमीपुष्पनिभाम्बरधरा पुष्पहस्ता द्विभुजा कृष्णकुञ्चितमूर्धजा घनस्तनी पृथुश्रोणी हंसध्वजवाहना शुकस्वररवा अभिजिज्जाता पुण्याद्यक्षरबीजा सिनीवाली ’सिनीवालीं हितदां गभस्तिनीं पुण्यदा’मिति॥

हवीरक्षकस्य

पचनालये च उत्तराभिमुखः कृष्णवर्णः शुक्लाम्बरधरो विकटकश्शूलपाणिः कुशेशयाक्षो नामाद्यक्षरबीजस्सुरगणेशः शङ्खरवोऽश्ववाहनः सिंहध्वजो रोहिणीजो हवीरक्षको ’हवीरक्षकम् आग्नेयं पचनं शैलूष’मिति॥

पुष्परक्षकस्य

षुष्पसञ्चयस्थाने पश्चिमाभिमुखः कनकवर्णः श्यामाम्बरधरो गजवाहनः पुष्पध्वजो रेवतीजश्शङ्खरवः शुद्धाङ्गीशो नामाद्यक्षरबीजः पुष्परक्षकः ’पुष्परक्षकं हरितम् अधिवासं फुल्ल’मिति॥

पुरुषस्य

स्नानोदकसञ्चयस्थाने पुरुषं पूर्ववत्॥

विंशः पटलः [[९४]]

प्लोताधिपस्य

प्लोतवस्त्रोत्तरीयादिसञ्चयस्थाने हेमाभः शुकपिञ्छाम्बरधरः चतुर्भुजः कलशाक्षमालापाणिः जटाधरो हंसवाहनो रूपाद्यक्षरबीजस्सावित्रीपतिः अभिजिज्जातः कमण्डलुध्वजो हुङ्काररवः त्वष्टा ’त्वष्टारं रूपजातं निधिजं प्लोताधिप’मिति॥

शयनस्थाने गदायाः शयनस्थाने पश्चिमाभिमुखा हेमाभा रक्ताम्बरधरा पद्महस्ता द्विभुजा शिरसि गदाधरा सिंहध्वजवाहना घोररवा श्रविष्ठाजा गकारबीजा गदा ’गदां कौमोदकीं पुण्यां प्रबला’मिति॥

चामुण्डस्य

हविर्द्रव्यादिसञ्चयस्थाने पश्चिमाभिमुखो मेघवर्णः श्वेताम्बरधरो विकटदण्डपाणिः भूतभावनः शूलध्वजो नामाद्यक्षरबीजः कुम्भशब्दरवः सर्वेशः आर्द्राजातः चामुण्डः ’सर्वेश्वरं जगन्नाथं चामुण्डं सर्वतश्चर’मिति॥

बलिरक्षकस्य

होमस्थाने पश्चिमाभिमुखः श्यामवर्णः पीताम्बरधरो द्विभुजो दण्डायुधो रथवाहनः सिंहध्वजो नामाद्यक्षरबीजः शङ्खरवः श्रविष्ठाजः सुमनसापतिः बलिरक्षको ’बलिरक्षकं दण्डं सर्पजं सम’मिति॥

तुर्यावरणदेवेषु गविष्ठस्य चतुर्थावरणे प्राग्द्वारोत्तरे खड्गसङ्काशः पीतवासाः दण्डपाणिः खगध्वजो रथवाहनः सत्यलोचनापतिः श्रवणजो नामाद्यक्षरबीजो नाग(द)रवो गविष्ठो ’गविष्ठं त्रैष्टुभं गुह्यमाकाश’मिति॥

[[९५]]

हरिण्याः

द्वारदक्षिणे पूर्ववत् हरिणीम्॥

तोयस्य

पश्चिमे प्राङ्मुख उत्पलाभः शुकपिञ्छाम्बरधरः पाशभृत् गजवाहनस्सिंहध्वजः पकारबीजो दर्दुरशब्दः कनकाधिपतिस्तोयः ’पवित्रममृतं तोयं गह्वर’मिति॥

अग्नेः

दक्षिणे च उत्तराभिमुखः पिङ्गलाभो नीलवासाः शक्तिभृत् गजवाहनः कपिलध्वजः सङ्ख्यापतिश्शङ्खखरवो (ना) (र) माद्यक्षरबीजः अनलजोऽग्निः ’वीतिहोत्रमाभुरण्यं शुद्धमग्नि’मिति॥

वायोः

उत्तरे दक्षिणाभिमुखः श्यामवर्णः पीतवासाः असिपाणिः गजवाहनो रेणुध्वजो यकारबीजश्चलिकापतिः स्वातीजः शङ्खरवो वायुः ’असुं समीरणं वायुं पृषदश्व’मिति॥

ऋग्वेदस्य

आग्नेय्यां पश्चिमाभिमुखः स्फटिकाभो रक्ताम्बरधरो द्विभुजः पुष्पहस्तः षडृतुध्वजवाहनो विद्येशो ऋताद्यक्षरबीजो याम्यज ऋग्वेदः ’ऋचं मधुं सोमं क्रतु’मिति॥

यजुर्वेदस्य

र्नैऋत्यां प्राङ्मुखः पीतवर्णः श्वेताम्बरधरः कुलिशहस्तो द्विभुजः कांस्यतालरवो अग्निकेतुः बुद्धीशः स्वरवाहनः इडाद्यक्षरबीजः पुनर्वसूजातो यजुर्वेदो ’यजुर्वेदं दधि मिश्रम् इष्टिमिति॥

विंशः पटलः [[९६]]

सामवेदस्य

वायव्यां प्राङ्मुखो रक्ताभः पीतवासाः द्विभुजः सप्तस्वरवाहनध्वजो मूलोद्भवो मतीशो गानरवः सामाद्यक्षरबीजः सामवेदः ’साम घृतं वज्रं यज्ञ’मिति॥

अथर्ववेदस्य

ऐशान्यां पश्चिमाभिमुखः अञ्जनाभः श्वेतवस्त्रधरो द्विभुजः कूर्चहस्तः स्रुवध्वजो हंसवाहनो हंसरवः कलेशः प्रोष्ठपाज्जातो अथर्वाद्यक्षरबीजः अथर्ववेदः ’अथर्वणं पवित्रं क्षीरं पुण्य’मिति॥

शिवस्य

अन्तराळे प्राच्यामुत्तरे शिवं पूर्ववत्॥

विष्णोः

तद्दक्षिणे पश्चिमाभिमुखस्सुवर्णः शुकपिञ्छाम्बरः श्रीपतिः खगध्वजवाहनश्चतुर्भुजः शङ्खचक्रधरः पाञ्चजन्यरवः श्रवणोद्भवः अजाद्यक्षरबीजो विष्णुः ’विष्णुं पुरुषं व्यापिनं रत्नं विश्व’मिति॥

काश्यपस्य

दक्षिणे चोत्तराभिमुखः कृष्णवर्णः पुष्पवस्त्रधरो वेणुदण्डधरो द्विभुजः शङ्खरवस्त्रिपदावाहनः कमण्डलुध्वजो विश्वाद्यक्षरबीजो हस्तजः क्षमेशः काश्यपः ’काश्यपं विश्वमूर्तिम् अक्षतं तक्षक’मिति॥

गुहस्य

तत्पश्चिमे चोत्तराभिमुखः पलाशपुष्पाभः षड्भुजः षण्मुखः सर्वाभरणभूषितो बालमौलियुतो देवयानीपतिर्नामाद्यक्षरबीजः शङ्खरवो मयूरध्वजवाहनो गुहो ’जगद्भुवं यजद्भुवं विश्वभुवं रुद्रभुवं ब्रह्मभुवं भुवद्भुव’मिति॥

[[९७]]

पङ्क्तीशस्य

पश्चिमे दक्षिणभागे प्राङ्मुखः श्यामवर्णः सिताम्बरधरो द्विभुजः खड्गकेटकसंयुक्तः किरीटी भूतध्वजवाहनो नन्दितापतिः उत्तरोद्भवो वराद्यक्षरबीजो वंशरवः पङ्क्तीशः’पङ्क्तीशं मित्रं वरदं भूतनायक’मिति॥

पवित्रस्य

उत्तरे प्राङ्मुखः अञ्जनाभः श्वेताम्बरधरो नपुंसको वृषभवाहनो गलकाध्वजः उग्ररवः ऊर्म्यायुधः सौम्यजः पराद्यक्षरबीजः पवित्रः ’पवित्रं मन्त्रं जप्यं शुद्ध’मिति॥

पावनस्य

उत्तरे दक्षिणाभिमुखः पिङ्गाभः श्यामाम्बरधरः अन्यत्सर्वं पवित्रवत्, पावनः ’सर्वतीर्थजलं पुण्यं पावनं पुण्यपूजित’मिति॥

तक्षकस्य

तत्पूर्वे दक्षिणाभिमुखः श्यामवर्णः हेमाम्बरधरः पञ्चसप्तफणायुक्तो जरापतिः हस्ततालरवः आश्लेषाजोऽजगरध्वजवाहनः तटाद्यक्षरबीजस्तक्षकः ’तक्षकं सर्पराजं क्षितिजं धराधर’मिति॥

कुह्वोः

पञ्चमावरणे पूर्वद्वारोत्तरे पश्चिमाभिमुखा श्यामाभा पुष्पवस्त्रधरा पद्महस्ता द्विभुजा कृष्णकुञ्चितमूर्धजा शुकस्वररवा खगध्वजवाहना नामाद्यक्षरबीजा कुहूः ’मेदिनीं कुहूं सुदंष्ट्रां क्षमा’मिति॥

विंशः पटलः [[९८]]

अनुमत्याः

तद्दक्षिणे पश्चिमाभिमुखा सितश्यामा जपाम्बरधरा पुष्पहस्ता द्विभुजा खड्गध्वजवाहना शुकस्वररवा तताद्यक्षरबीजा अभिजिज्जाता अनुमतिः ’अनुमतिं स्वरूपां तन्वङ्गीं सुभगा’मिति॥

सप्तमातॄणाम्

तद्दक्षिणे च उत्तराभिमुखा ब्रह्माणी चतुर्मुखी रुग्मवर्णा रक्तवस्त्रधरा कलशाक्षमालायुता; सरित्प्रिया श्वेतवर्णा कृष्णाम्बरधरा त्रिणेत्रा शूलपाणिः; वैशाखिनी रक्तवर्णा श्वेताम्बरधरा षण्मुखी शक्तिपाणिः; वैष्णवी श्यामलाङ्गी पीताम्बरधरा शङ्खचक्रधरा वाराही कृष्णश्यामनिभा रक्तवस्त्रधरा शस्त्रपाणिः; इन्द्राणी श्यामाभा रक्ताम्बरधरा वज्रपाणिः; काळी श्यामाभा रक्ताम्बरधरा सुदंष्ट्रा शूलपाशकपालिनी च, एता एकप्रासादे समासीना नामाद्यक्षरबीजाः पिशाचध्वजवाहनाः आर्द्रोद्भवा गणध्वनियुताः सप्तमातरः, ’ब्रह्माणीं पिङ्गळां गौरीं सर्वतोमुखीं; सरित्प्रियां विश्वरूपाम् उग्रां गणेश्वरीं; वैशाखिनीं शिखण्डिनीं गायत्रीं षण्मुखीं; विश्वगर्भां विषोर्मिणीं कृष्णां रोहिणीं; वाराहीं वरदाम् उर्वीं वज्रदंष्ट्रां; जयन्तीं कौशिकीम् इन्द्राणीं घनाघनां; काळीं नाळिकां दंष्ट्रां विषहां वेदधारिणी’मिति॥

जयादीनामष्टानाम्

पश्चिमे प्राङ्मुखा अतिरक्ता शुकपत्रनिभाम्बरा जया, हाटकाभा शुकपत्रनिभाम्बरा विजया, हरिताङ्गी रक्तवस्त्रधरा विन्दा, कनकाभा श्वेतवस्त्रधरा पुष्टिका, धातकी पुष्पसङ्काशा झषपत्रनिभाम्बरा नन्दका, कुमुदाभा सस्यश्यामनिभाम्बरा कुमुद्वती, उत्पलनिभा नीलाम्बरधरा उत्पलका, अशोकपत्रनिभा शुकपत्रनिभाम्बरा विशोका च, एताः पद्महस्ताः द्विभुजाः कृष्णकुञ्चितमूर्धजाः वीणावेणुरवाः शुकध्वजवाहनाः नामाद्यक्षरबीजा [[९९]] धनिष्ठाजा जयाद्याः, ’जयां सुखप्रदां समृद्धिनीं भद्रां, विजयां विशोकां पुण्यां कामानन्दां, विन्दां लाभाम् अप्रमत्ताम् अजेयां; पुष्टिकाम् अमोघवतीं पुण्यां प्रमत्तां, नन्दकां मधुजननीं सुमुक्तां सुभगां, कुमुद्वतीं सुवहां सुसम्भरां निर्वृतिम्, उत्पलकां सुगन्धिनीं सर्वामोदां सर्वात्मिकां, विशोकां धनराशिं कामानन्दाम् अक्षताममिता’मिति॥

सप्तरोहिणीनाम्

उत्तरे दक्षिणामुखास्सर्वा मरतकप्रभाः पुष्पाम्बरधराः पुष्पहस्ताः द्विभुजाः कृष्णकुञ्चितमूर्धजाः मयूरध्वजवाहनाः मृदङ्गशब्दरवाः रोहिणीजाता नामाद्यक्षरबीजास्सप्तरोहिण्यः ’कुण्ठिनीं नन्दिनीं धरित्रीं रजतप्रियां, ग्रन्थिनीं वेगिनीं प्रजयां प्रबर्हिणीं, कृच्छ्रिणीं शाखिनीं वाहिनीं योक्त्रिणीं, कुण्डिनीं जारिणीं छर्दिनीं प्रवाहिनीं, विकारिणीं दामिनीं बैसिनीं विद्युतां, दद्रुणीम् इन्दुकरां सौमनसीं प्रविद्युताम्, इन्द्रियविकारिणीम् अर्वन्तीं गङ्गावाणीं सृजन्ती’मिति॥

वत्सरस्य

आग्नेय्यां पद्मपत्रनिभाः पुष्पाम्बरधरा द्विभुजाः दण्डहस्ताः शशध्वजवाहनाः शङ्खरवाः स्वातीजाता(नित्या)नित्यादिबीजास्सुगणानामीश्वरा वत्सरान्वसुसुतान् निधीन् धर्मसूनुकानिति॥

प्राणादीनाम्

र्नैऋत्यां कनकाभास्सिताम्बरधराः द्विभुजाः असिधराः प्लवङ्गवाहनाः शङ्खध्वजाः हंसरवाः स्वात्युद्भवा यकारबीजा दायिनीश्वराः प्राणादयः ’प्राणमपानमुदानं व्यानं समान’मिति॥

मरुताम्

वायव्यां धूमाभाः सिताम्बरधराः द्विभुजाः असिधराः प्लवङ्गवाहनाः शङ्खध्वजाः हंसरवाः उद्दधिनीशाः यकारबीजाः मरुतो ’मरुतो लोकधरान् सप्तसप्तगणान् मुरुद्वतीसुता’निति॥

विंशः पटलः [[१००]]

शतरुद्राणाम्

ऐशान्यां पश्चिमाभिमुखाः श्वेताभाः व्याघ्रचर्माम्बराः नीलग्रीवास्त्रिनेत्राः पिङ्गनेत्राः शकारबीजा अन्यत्सर्वं रुद्रवत् ’शतरुद्रान् ओषधीशान् त्र्यम्बकान् कपालपाणी’निति॥

एकादशरुद्राणाम्

तद्दक्षिणे अन्तराले पश्चिमाभिमुखाः श्वेतवर्णा व्याघ्रचर्माम्बरधरा नीलग्रीवास्त्रिणेत्राश्च अन्यत्सर्वं रुद्रवत्, एकादशरुद्राः ’अजैकपादम् अहिर्बुद्ध्निं पिनाकिनं पराजितं मृगव्याधं शर्वं र्निऋतिम् ईश्वरं कपालिनं भवं स्थाणु’मिति॥

द्वादशादित्यानाम्

तद्दक्षिणे पश्चिमाभिमुखा भास्करवत् द्वादशादित्याः, ’धातारम् अर्यम्णम् अंशुं मित्रं वरुणं भगम् इन्द्रं विवस्वन्तं पूषणं पर्जन्यं त्वष्टारं विष्णु’ेमिति॥

गन्धर्वाणाम्

दक्षिणे च उत्तराभिमुखाः पद्मकिञ्जल्कसन्निभाः पुष्पवस्त्रधरा दंष्ट्रामुखा द्विभुजाः पाशहस्ताः सिंहनादरवाः गजवाहनकेतुका रम्याद्यक्षरबीजा रक्तास्सक्तास्सौम्यजाता गन्धर्वाः ’गन्धर्वान् रम्यान् सुरजान् सोमजा’निति॥

मुनीनाम्

तत्पश्चिमे च उत्तराभिमुखाः कनकाभा जटामकुटधराः कुशाम्बरधराः कुशकृष्णाजिनधराः अनूराधाजा जलघोषरवाः तपोधिपाः तपाद्यक्षरबीजा मुनयो ’मुनीन् तपोऽधिपान् कृशान् पापविनाशना’निति॥

अप्सरसाम्

तत्पश्चिमे प्राङ्मुखा हेमाभाः पुष्पाम्बरधराः पद्महस्ता द्विभुजाः कृष्णकुञ्चितमूर्धजाः शुकस्वररवा हंसध्वजवाहनाः अमृताद्यक्षरबीजा उत्तरजाः अप्सरसः ’अप्सरसः अमृतजाः भोगवहाः स्वरजा’ इति॥

[[१०१]]

अश्विनोः

तदुत्तरे प्राङ्मुखौ गोक्षीराभा वशोकपुष्पवस्त्रौ द्विभुजौ मयूरवाहनौ काकपक्षध्वजौ हंसरवौ सुन्दरीशौ अश्वाद्यक्षरबीजौ अश्विनौ ’अश्विनौ यमजौ युग्मौ त्वाष्ट्रीपुत्रा’विति॥

वसूनाम्

उत्तरे दक्षिणामुखाः पद्माभाः पुष्पवस्त्रधराः पद्महस्ता द्विभुजाश्शशध्वजवाहनाः स्वात्युद्भवा वसुप्रियाणामीशा वकारबीजाः शङ्खरवा वसवो ’धरं ध्रुवं सोमम् अपोनलम् अनिलं प्रत्यूषं प्रभास’मिति॥

विद्याधराणाम्

तत्पूर्वे दक्षिणाभिमुखाः श्यामाभा रक्तवस्त्रधरा दंष्ट्रामुखा रक्तकेशा गदाधरा द्विभुजा डमरुकधरा महिषध्वजवाहना मेघरवा विद्याधरीणामीशा मन्त्रादिबीजा विद्याधरा ’विद्याधरान् मन्त्रबलान् पुष्पजान् भोगजा’निति॥

तुम्बुरोः

षष्ठावरणे पूर्वद्वारोत्तरे रक्ताभः श्वेताम्बरधरो जटाधरो द्विभुजो वीणाहस्तो गानरवः सङ्गाीतापतिः वायुवाहनः स्रवध्वजः अभिजिज्जातो नामाद्यक्षरबीजस्तुम्बुरुः ’तुम्बुरुं मुनिवरं स्वरेशं वेदरूपिण’मिति॥

नारदस्य

दक्षिणे पश्चिमाभिमुखः श्वेताभो रक्ताम्बरधरो द्विभुजो वीणाहस्तः ताळरवः स्वरेशो वायुवाहनः कूर्ञ्चध्वजोऽभिजिज्जातो नामाद्यक्षरबीजो नारदो ’नारदं मुनिवरं गानरूपं ब्रह्मसम्भव’मिति॥

विंशः पटलः [[१०२]]

ऋतूनाम्

दक्षिणे च उत्तराभिमुखाः अब्जाभाः श्वेतवस्त्रधराः पुष्पहस्ता द्विभुजाः पुष्परथवाहनाः विद्युत्ध्वजाः मेघरवाः श्वेतकृष्णापतयः मूलोद्भवाः गकारबीजाः षडृतवः ’ऋतून् भद्रराशीन् गन्धर्वान् तीर्था’निति॥

प्रजापतेः

पश्चिमे प्राङ्मुखः श्वेताभः एकवस्त्रः एष विशेषः अन्यत्सर्वं विरिञ्चिवत् प्रजापतिः ’प्रजापतिं स्रष्टारं वेदमयं ब्रह्मरूपिण’मिति॥

मुद्गलस्य

उत्तरे दक्षिणाभिमुखः श्वेताभो रक्ताम्बरधरो जटाधरः कूर्मवाहनः कुशध्वजो वेदरवः सुरगणेशो नामाद्यक्षरबीजः श्रवणजो मुद्गलो ’मुद्गलं मुनिवरं शुद्धं सर्वज्ञ’मिति॥

हलेशस्य

आग्नेय्यां श्वेताभो नीलाम्बरधरो द्विभुजो हलधरः पद्मवाहनः पद्मकेतुः नामाद्यक्षरबीजो यामापतिर्मैत्रजो हंसरवो हलेशो ’हलेशं महाबलं मायाङ्गं वरदायिन’मिति॥

जाम्बवस्य

र्नैऋत्यां श्यामाभो रक्ताम्बरधरो बालमौळिसमायुक्तः छन्नवीरसमायुक्तो बालापतिर्मृगध्वजवाहनो जकारबीजो रेवतीजो मृदङ्गरवो जाम्बवो ’जाम्बवं बालरूपं दर्शनीयं सुन्दर’मिति॥

[[१०३]]

असुरस्य

ऐशान्यां श्यामाभो रक्ताम्बरधरो द्विभुजः शूलधरो रक्तकेशो दंष्ट्रामुखो नीलापतिः खरध्वजवाहनो घोरमूलः अमृताद्यक्षरबीजोऽसुरः ’असुरं दैतेयं घोररूपं भयानक’मिति॥

किन्नरमिथुनस्य

अन्तराळे प्राच्यां पश्चिमाभिमुखं पक्षिपादं पुंस्त्रीरूपोर्ध्वकायं पक्षयुतं वीणातालहस्तं नामाद्यक्षरबीजं वायुवाहनं नाळध्वजं स्वररवहस्तजं किन्नरमिथुनं ’किन्नरमिथुनं तीर्थं सङ्गीतं पक्षिरूपिण’मिति॥

प्रह्लादस्य

तद्दक्षिणे पश्चिमाभिमुखो रक्ताभस्सिताम्बरधरो जटाधरः पुष्पहस्तो द्विभुजः प्राणेशोऽश्वध्वजवाहनो रोहिणीजः शङ्खरवः प्रणामाद्यक्षरबीजः प्रह्लादः ’प्रह्लादं प्रजननं विष्णुभक्तं गदाधर’मिति॥

मदनस्य

तद्दक्षिणे च उत्तराभिमुखः श्यामाभो रुग्माम्बरधरो द्विभुजः इक्षुचापः पुष्पशरो रतिपतिः मकरध्वजवाहनः पुनर्वसुजातः स्वररवो वकारबीजो मदनो ’मदनं कामं सुन्दरं दिव्यरूप’मिति॥

विपायाः

तत्पश्चिमे च उत्तरामुखा पाटलिपुष्पनिभा रक्तवस्त्रधरा पुष्पहस्ता द्विभुजा कृष्णकुञ्चितमूर्धजा ललाटोपरिपुष्पचूडासमन्विता हंसध्वजवाहना शुकस्वररवा विद्यादिबीजा विपा ’विपां विद्युद्रूपां विशालाङ्गीं मेधा’मिति॥

विंशः पटलः [[१०४]]

व्याजिन्याः

पश्चिमे प्राङ्मुखा हेमाभा श्यामाम्बरधरा द्विभुजा पुष्पहस्ता कृष्णकुञ्चितमूर्धजा वीणावेणुरवा शुकध्वजवाहना चित्राजाता नामाद्यक्षरबीजा व्याजिनी ’व्याजिनीं सुभगां सुन्दरीं विशुद्धा’मिति॥

कामिन्याः

तदुत्तरे रक्ताभा श्वेताम्बरधरा च अन्यत्सर्वं व्याजिनीवत् कामिनी ’कामिनीं कान्तां शुभाङ्गाीं विमला’मिति॥

चन्द्राभायाः

उत्तरे दक्षिणामुखा श्वेताभा कृष्णाम्बरधरा पुष्पहस्ता द्विभुजा ललाटोपरि पुष्पचूडासमन्विता खगध्वजवाहना हंसरवा हस्तजा नामाद्यक्षरबीजा चन्द्राभा ’चन्द्राभां तन्वङ्गीं श्वेतरूपां दृढव्रता’मिति॥

सुन्दरस्य

तत्पूर्वे दक्षिणाभिमुखः श्यामाभो रक्ताम्बरधरो द्विभुजः पद्महस्तः सर्वाभरणभूषितो गजवाहनः खगध्वजः सुनन्दापतिः नामाद्यक्षरबीजः शतभिषग्जातस्सुन्दरः ’सुन्दरं सुरप्रियं शुभानन्दं सौम्य’मिति॥

मायायाः

पूर्वोक्तान्तराले स्वधासंह्लादिन्योर्मध्ये माया मयूरध्वजवाहिनी मयूरस्वररवा सौम्यजाता नामाद्यक्षरबीजा ’’मायां मातङ्गीं वराहीं वरानना’’मित्यथवा संह्लादिनीवन्नामान्यनुक्तं सर्वं संह्लादिनीवन्माया संह्लादिन्योरभेद इति वदन्ति।

ब्रह्मादिपददेवतानां स्थानं सप्तमावरणे पूर्वद्वारे ब्रह्माणं, तद्दक्षिणेऽर्यम्णं पश्चिमाभिमुखौ; दक्षिणे दण्डधरमुत्तराभिमुखं, पश्चिमे पाशभृतं प्राङ्मुखम्; उत्तरे धनदं दक्षिणाभिमुखम्; [[१०५]] आग्नेय्यां सवितारं; सावित्रं र्नैऋत्याम्; इद्रम् इन्द्राजं वायव्यां; रुद्रं रुद्राजम् ऐशान्याम्, आपम् आपवत्सं च अर्चयेत्॥

अन्तराले प्राच्यामुत्तरपार्श्वे च ईशं पर्जन्यं जयन्तं माहेन्द्रं नागं भूतं यक्षं च; तद्दक्षिणे पार्श्वे च आदित्यं सत्यकं भृशमन्तरिक्षं दुर्गां घोटमुखीं धात्रीं वपुषं च; दक्षिणे पूर्वभागे अग्निं वितथं गृहक्षतं राक्षसं जयं कृष्णं च; तत्पश्चिमभागे यमं गन्धर्वं भृङ्गराजं सुरुण्डं शिवं प्राणं च; पश्चिमे दक्षिणभागे र्निऋतिं दौवारिकं पुष्पदन्तं कविं चक्रं पुरुहूतं च; तदुत्तरभागे सरित्पतिमसुरं शोषणं रोगं विद्यां यशसं भद्रां च; उत्तरपश्चिमभागे जवनं नागं मुखं भल्लाटं वेदभृतं तापसं सन्धुषं च; तत्पूर्वभागे सोमम् अर्गलम् अदितिं सूरिदेवं विद्याम् अमितं पाञ्चभौतिकम् एतान् देवान् एकमूर्त्या अर्चयेत्॥

प्राकारबाह्ये महत्पीठं कृत्वा अत्रानुक्तदेवान् सर्वान् ’देवा’निति समर्चयेत् एषाम् उक्तानि वर्णवाहनादीनि ज्ञात्वा अर्चयेत्। अनुक्तास्सर्वे प्याकाशवर्णाः श्वेताम्बरधराः पुष्पहस्ताः द्विभुजाः खगध्वजवाहनाः शङ्खरवाः तत्तन्नाम्ना(मानः) प्रियायुक्ता नामाद्यक्षरबीजा अभिजिज्जाताश्च एवं ज्ञात्वाऽर्चयेत्। एवमेवं प्रकारेण परिवारैर्युक्तम् उत्तमोत्तमं सर्वसम्पत्करं चक्षुर्मनसोः प्रीतिकरं देवप्रियकरं च, भवेत्। तस्मात्सर्वप्रयत्नेन एतैः प्रकारैः परिवारैर्युक्तमालयार्चनमाचरेत्॥

सर्वप्राकाराणामभावे प्रथमावरणे तत्तत्प्राकाराश्रितदेवानर्चयेत्। परिवाराणामभावेऽपि द्वितीयावरणादिष्वावरणे तत्तत्सूत्रे तत्तदावरणस्थान् देवान् संयोज्याऽर्चयेदिति केचित्। अथवा विभवानुसारेण नवविधपरिवारोक्तमार्गेण परिवारार्चनमाचरेदित्याह मरीचिः॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे देवदेव्यादीनामप्यालयान्तर्गतानां वर्णवाहनकेतुध्वजरवर्क्षप्रियाऽयुधादिवर्णनं नाम विंशः पटलः ॥ २० ॥

विंशः पटलः [[१०६]]