०१९ स्थानकादिध्रुवबेरविधानम्

अथ एकोनविंशः पटलः

ध्रुवबेरविधिः

अथ ध्रुवबेरविधिं वक्ष्ये। तत् त्रिविधं स्थानकमासनं शयनं चेति।

पुनस्तदेकैकं चतुर्विधं स्यात्। योगं वीरं भोगमाभिचारिकमिति। योगार्थं योगमार्गं भोगार्थं भोगं वी(रा)र्यार्थं वीरमार्गं शत्रुजयार्थमाभिचारिकं कारयेत्।

ग्रामाद्बाह्ये विविक्ते देशे नदीतीरे तत्सङ्गमे पर्वते वने वनपार्श्वे वा योगस्थानकं, तद्बाह्ये वा वीरस्थानकं, वनगिरिजलदुर्गे राष्ट्रान्ते शत्रुदिङ्मुखे चाऽऽभिचारिकं भवति।

विमानं नलि(न)कं विमलाकृतिं सर्वतोभद्रं, नन्द्यावर्तं, श्रीप्रतिष्ठितं स्वस्तिभद्रं, पद्माकारं, वृत्तगेहम्, उद्योगपद्मं, योगकान्तमित्यादिसमचतुरश्रमायताश्रं, वृत्तं, वृत्तायतं, स्थानकस्य।

अष्टाऽङ्गं सर्वतोभद्रं, महापद्मं, वृत्तभद्रं (पद्मं) चतुर्मुखदिशास्वस्तिकं, महापद्मं, चतुस्फुटं, पर्वताकारं खण्डहर्म्यमुद्योगपद्मं, समचतुरश्रं समवृत्तं वाऽऽसनस्य।

एकोनविंशः पटलः [[६८]] स्वस्तिकं वृत्तभद्रं वृत्तगेहमवेदिकं प्रेक्षागृहं महाराजच्छन्दं श्रीप्रतिष्ठितं, शनैर्योगं, मातृखण्डं, गणिकाविशालमेवमादीन्यायताश्राणि वर्तुलायतानि वा शयनस्य।

स्थानके विमाने स्थानकबेरम् आसने चासनं शयने शयनं सर्वत्र स्थानकमासनं यानकं वा, शयने शयनं कर्तव्यम्, अन्ययोः शयनं नैव कल्पयेत्। शयनागारद्वारविस्तारं पादयोरन्तरं तप्तादोदयाष्टांशोनं द्वारोत्सेधम् एवमासनागारे स्थानके वा कारयेदित्येके।

यानके सर्वविमानं ध्रुवबेरेष्विष्टं मानं विनिश्चित्य सलक्षणं बेरं कृत्वा गर्भागारे कृते पदे दैविके स्थानकं यानकं च किञ्चिन्मानुषमाश्रित्य दैविके चासनं किञ्चिद्दैवमाश्रित्य मानुषांशे शयनं संस्थापयेत्। प्राग्द्वारं सर्वसम्पत्करं पश्चिमद्वारं कीर्तिदं दक्षिणद्वारं जयदम् उत्तरद्वारं ज्ञानदं? प्राक्शीर्षकं शान्तिकं पश्चिमशीर्षं पौष्टिकं दक्षिणशीर्षं जयदम् उत्तरशीर्षमाभिचारिकम्। ग्रामाद्दक्षिणे शयानम् उत्तरद्वारं चेत् प्राक्शीर्षं पश्चिमे प्राक्द्वारं चेद्दक्षिणशीर्षम्, उत्तरे दक्षिणद्वारं चेत्पश्चिमशीर्षं प्राच्यां पश्चिमद्वारं चेत् दक्षिणशीर्षमेव कारयेत्।

स्थानकासनशयनानि ग्रामप्रेक्षाण्येव कारयेत्।

योगत्रैविध्यम्

देवेशं श्यामवर्णं, चतुर्भुजं, शङ्खचक्रधरम् अभयदक्षिणहस्तं, वरदकट्यवलम्बितवामहस्तं, दक्षिणे चैकजानुना समासीनं भृगुं, तथा मार्कण्डेयं, तथैव भूमिपुण्यौ वा, दक्षिणे भित्तिपार्श्वे हेमाभं चतुर्भुजमक्षमाला कमण्डुलुधराभयकट्यवलम्बितहस्तं, स्थितं, ब्रह्माणमुत्तराभिमुखम्, उत्तरे भित्तिमूले पार्श्वे श्वेताभं चतुर्भुजं मृगपरशुधरम् अभयं कट्यवलम्बितहस्तं शङ्करं दक्षिणाभिमुखं, स्थितमेव कारयेत्। तदुत्तमं योगस्थानकम्। ब्रह्मशङ्कराभ्यां हीनं मध्यमं, पूजकमुनिभ्यां हीनमधमम्॥

[[६९]]

भोगत्रैविध्यम्

देवं चतुर्भुजं श्यामाभं शङ्खचक्रधरमभयवरददक्षिणहस्तं कट्यवलम्बित सिंहकण्ठ(र्ण)वामहस्तं, तथा ब्रह्मेशै दक्षिणे श्रियं देवीं रुक्माभां सुस्थिरदक्षिणपादां किञ्चित्कुञ्चितवामपादां धृतकमलदक्षिणहस्तां प्रसारितवामकरां देवं किञ्चित्समीक्ष्य स्थितां, वामे हरिणीं श्यामाभां प्रसारितदक्षिणहस्तां धृतोत्पलवामहस्तां संस्थितवामपादां किञ्चिकुञ्चितदक्षिणपादां देवं किञ्चित्समीक्ष्य स्थितां कारयेत्। देव्योर्हस्तपादौ विपरीतौ वा कारयेत्। कुड्यकौतुकयोर्मध्ये दक्षिणे भृगुं दक्षिणेन जानुनासीनं वामेनोत्कटिकमासीनं सपद्मवामहस्तं दक्षिणोरुनिहितदक्षिणकरं, वामे पुराणं वामेन जानुनासीनं दक्षिणेनोत्कटिकमासीनं सपद्मदक्षिणहस्तं वामोरुविन्यस्तवामकरं कारयेत्। एवमासयित्वा हस्तौ सम्पुटौ वा कारयेत्। भित्यूर्ध्वभागे मायासंह्लादिनीभ्यां व्याजिनीभ्यां तुम्बुरुनारदाभ्यां किन्नरमिथुनाभ्यां यक्षविद्याधराभ्यां सनकसनत्कुमाराभ्यां सूर्यचन्द्राभ्यां युक्तमुत्तमं भोगस्थानकम्, तुम्बुरुनारदाभ्यां यक्षविद्याधराभ्यां हीनं मध्यमम्, सनकसनत्कुमाराभ्यामादित्यचन्द्राभ्यां पूजकमुनिभ्यां हीनमधमम्।

वीरत्रैविध्यम्

देवं श्यामाभं चतुर्भुजं शङ्खचक्रधरं कारयेत्। दक्षिणवामयोःब्रह्मेशानाभ्यां भृगुपुण्याभ्यां किष्किन्धसुन्दराभ्यां व्याजकाभ्यां सनकसनत्कुमाराभ्यां सूर्यचन्द्राभ्यां युक्तमुत्तमम्, वीरस्थानकम्, किष्किन्धसुन्दराभ्यां सनकसनत्कुमाराभ्यां हीनं मध्यमम्, आदित्यचन्द्राभ्यां पूजकक्षिति (मुनि) भ्यां हीनमधमम्॥

आभिचारिकस्थानकम्

एवं द्विभुजं चतुर्भुजं वा धूम(म्र)वर्णं श्यामाऽधरं(म्बर) शुष्काङ्गं तमोगुणान्वितमूर्ध्वनेत्रं, ब्रह्मादिदेवैर्विवर्जितं, पैशाचपदस्थम्, आर्द्राद्यनुक्तनक्षत्रे एकोनविंशः पटलः [[७०]] शर्वर्यां चरराशौ स्थापितं विमानं च लक्षणहीनं कारयेत्। एतदाभिचारिकस्थानकं स्यात्॥

पीठपरिमाणम्

स्थानकस्य पीठोच्चं, बेरोदयं द्वारोदयं वा अष्टभागं षट्भागं वा कृत्वैकांशं भुवङ्गसमम् अध्यर्धं द्विगुणं वा समवृत्तं पद्माकारं देवपादं परितश्चतुरङ्गुलं षडङ्गुलमष्टाङ्गुलं वा देहलब्धाङ्गुलेन नीत्वा तदू(दूधऊ)र्ध्वं षोडशदलैर्युक्तं कारयेत्। तस्मादेकाङ्गुलहीनं देव्योः पीठं कारयेत्। अथवा कौतुकस्यार्चापीठस्य पश्चिमभागं देवमानुषपैशाचपदान्तं पीठोत्सेधमानेन समस्थलं कृत्वा तदूर्ध्वं देवीभ्यां सह देवं यथोक्तदेशे संस्थाप्य तत्स्थले कौतुकादीन् संस्थापयेत्॥

योगासनस्योत्तमत्वादिकम्

अथ योगस्थानं वक्ष्ये - देवं श्वेताभं चतुर्भुजं पीतवाससं जटामौलिं श्वेतपद्मे समासीनम् ऊर्ध्वस्थ दक्षिणपादम् अधस्ताद्वामपादम्, अङ्कविन्यस्तवामकरं शङ्खचक्ररहितापरभुजं श्वेतवस्त्रोत्तरीयं सोपवीतं कुण्डलाङ्गदहाराद्याभरणान्वितम् ईषन्निमीलितलोचनं च भित्तिपार्श्वे दक्षिणे ब्रह्माणम् उत्तरे शङ्करम् ऊर्ध्वभागे चन्द्रादित्यौ सनकसनत्कुमारौ कौतुकाद्दक्षिणवामयोर्भृगुमार्कण्डेयौ तथा महिमार्कण्डेयौ वा कारयेत्, एतदुत्तमं योगासनम्॥

चन्द्रादित्याभ्यां सनकसनत्कुमाराभ्यां हीनं मध्यमम्, भृगुमार्कण्डेयाभ्यां हीनमधमम्॥

भोगासनस्योत्तमत्वादिकम्

देवं सिंहासने समासीनं श्यामाङ्गं चतुर्भुजं शङ्खचक्रधरम् अभयवरदक्षिणहस्तं स्वाङ्ककटिविन्यस्तसिंहकर्णवामहस्तं प्रसारितदक्षिणपादं कुञ्चित- [[७१]] वामपादं दक्षिणे श्रियं देवीं वामपादमाकुञ्च्य दक्षिणं प्रसार्य सिंहासने समासीनां वामपार्श्वे महीं देवीं दक्षिणं पादम् आकुञ्च्य वामं प्रसार्य सिंहासने समासीनाम् एतयोर्वामदक्षिणकरौ पद्मोत्पलधरौ अन्यौ सिंहासने निहितौ सिंहकर्णौ वा तद्विपरीतौ वा देवं देव्योरन्तरभागं तालं यवद्वयं तत्तुरीयांशाधिकं हीनं वा दक्षिणोत्तरयोर्ब्रह्मशङ्करौ तथाऽऽसीनौ भृगुमार्कण्डेयौ च एकजानुक्रमेणाऽऽसीनावन्यत्सर्वं भोगस्थानकवत्, अपरभित्तिपार्श्वे मायासंह्लादिनीभ्यां व्याजिनीभ्यां तुम्बुरुनारदाभ्यां किन्नरमिथुनाभ्यां यक्षविद्याधराभ्यां सनकसनत्कुमाराभ्यां सूर्यचन्द्राभ्याम्, एवं क्रमेण समायुक्तमुत्तमम्॥

भोगासनं तुम्बुरुनारदाभ्यां किन्नरमिथुनाभ्यां यक्षविद्याधराभ्यां हीनं मध्यमम्, सनकसनत्कुमाराभ्याम् आदित्यचन्द्राभ्यां पूजकमुनिभ्यां हीनमधमम्।

वीरासनस्योत्तमत्वादिकम्

सिंहासनोपरिष्टात्पद्मासने वामपादं समाकुञ्च्य दक्षिणं किञ्चित्प्रसार्य समासीनं चतुर्भुजं शङ्खचक्रधरमभयदक्षिणहस्तं सिंहकर्णवामहस्तं प्रवालाभं श्यामाम्बरधरं पूजकस्थाने दक्षिणे श्रियं देवीं वामे महीं देवीमेकजानुक्रमेणासीने दक्षिणे ब्रह्माणं मनुं च वामे शङ्करं भृगुं च रतिं वाणीं च चामरधारिण्यौ च कारयेत्। सनकसनत्कुमाराभ्यां तुम्बुरुनारदाभ्यां सहितम् उत्तमं वीरासनम्।

तुम्बुरुनारदाभ्यां सनकसनत्कुमाराभ्यां व्याजिनीभ्यां हीनं मध्यमम्, ब्रह्मशङ्कराभ्यां सूर्यचन्द्राभ्यां पूजकस्थाने देवीभ्यां हीनमधमम्।

आभिचारिकासनस्योत्तमत्वादिकम्

देवं वेदिकासने समासीनं चतुर्भुजं द्विभुजं वा नीलाभं श्यामवस्त्रधरं तमोगुणान्वितमूर्ध्वनेत्रं देव्यादीन्विना लक्षणहीने विमाने शत्रुदिङ्मुखे कृष्णाष्टम्यामग्न्याद्यनुक्तनक्षत्रे शर्वर्यां चरराशौ गर्भालये पैशाचपदे स्थापयेत्, एतदाभिचारिकासनं भवति॥

एकोनविंशः पटलः [[७२]] सिंहासनोत्सेधं द्वारोत्सेधं बेरोत्सेधं वा द्वादशभागं कृत्वा षडंशमुत्तमम्, पञ्चांशं मध्यमम्, चतुरंशमधमम्, द्विपञ्चाशदङ्गुलमुत्तमम्, षट्चत्वारिंशदङ्गुलं मध्यमम्, चत्वारिंशदङ्गुलमधमम्॥

पद्मासनम्

सिंहासनस्य तुरीयांशं पद्मासनस्योत्सेधं षडंशं कृत्वा एकांशं तदाधारं कम्पं त्र्यंशम् अधोदलं द्व्यंशम् ऊर्ध्वदलमूर्ध्वाधः शतपत्रैस्संयुक्तम् एवं पद्मासनं स्यात्॥

पद्मसिंहासनम्

सिंहासनस्योत्सेधं त्रयोविंशतिभागं कृत्वा एकांशं पादुकं दळमेकांशं कम्पमेकांशं चतुरंशा जगती एकांशं पद्मं (धृ) ध्रुगेकांशम् एकांशं दळं त्र्यंशं कुमुदम्, अम्बुजमेकांशम् एकांशं कम्पं चतुरंशं कण्ठं सिंहैर्युक्तं तदूर्ध्वे चैकांशं कम्पं पद्ममेकांशं द्व्यंशा महापट्टिका चेत्येतत् पद्मसिंहासनं स्यात्।

भद्रासनम्

अथवा भद्रसिंहासनोत्सेधं षोडशभागं कृत्वा एकांशमुपानत् चतुरंशा जगती त्र्यंशं कुमुदम् एकांशं कम्पं चतुरंशं कण्ठं सिंहैर्युक्तं तदूर्ध्वे चैकांशं कम्पं द्यंशा महापट्टिका च एतद्भद्रासनं स्यात्। द्वयोरुभौ पार्श्वौ सिंहौ समुद्वहन्तौ च कारयेत्। आसनस्थस्य देवस्य जानूपरिष्टात् कोशान्तं मध्यगं जान्वोः पार्श्वयोः बाह्वोश्च मध्यगं सूत्रमृजुं प्रसारयेत्। तत्रानुक्तं सर्वं शिल्पिशास्त्रोक्तविधिना कारयेत्॥

योगशय्या तदुत्तमत्वादि अथ योगशय्याक्रमं वक्ष्ये देवं द्विभुजम्, अर्धार्धशयानं पीतश्यामं दक्षिणहस्तमुपधाने न्यस्य मौल्यग्रं समुद्धृत्य सम्यक् प्रसार्य वा अन्यं [[७३]] समाकुञ्च्य तत्कूर्परमूर्ध्वं कृत्वा कटिमवलम्ब्य अथवा तदूरौ प्रसार्य वामपादं दक्षिणं प्रसार्य वाममाकुञ्च्य (वा) शयानं सर्वाभरणभूषितं किञ्चिदुन्मीलितलोचनं भृगुपुण्याभ्यां भूमिपुण्याभ्यां वाऽर्चितं पादपार्श्वे मधुकैटभसंयुक्तं च नाभ्यम्बुजसमासीनं ब्रह्माणं, पञ्चायुधान् गरुडं विष्वक्सेनं सप्तर्षींश्च अपरभित्यूर्ध्वे प्राञ्जलीकृत्य स्थितान् दक्षिणभित्तिपार्श्वे ब्रह्माणं वामे शङ्करं च समासीनावेव कारयेत्। एतदुत्तमं योगशयनं, सप्तर्षीन् विष्वक्सेनं च विना मध्यमम्, पूजकमुनिभ्यां मधुकैटभाभ्यां हीनमधमम्॥

भोगशयनं तदुत्तमत्वादि देवं श्यामलाङ्गं दर्शनीयं सुपुष्टाङ्गं चतुर्भुजं द्विभुजं वा अर्धार्धशयनं चापवद्गात्रं हस्तं दक्षिणमुपधाने निधाय मकुटमवलम्ब्य किञ्चित्प्रसार्य वा वामोरौ प्रसार्य दक्षिणं पादं प्रसार्य वाममाकुञ्च्य शयानं कारयेत्। पादयोरन्तरं विंशत्यङ्गुलं पार्ष्ण्यन्तरं भागं जान्वोश्चतुर्दशाङ्गुलं ब्रह्मसूत्राद्दक्षिणे मुखं त्र्यङ्गुलं तिर्यग्गतं भवति। शिरःपार्श्वे श्रियं देवीं देवस्य बाहुसंस्पृशां सपद्मदक्षिणहस्तां कटिकन्यस्ताऽन्यहस्तां पादपार्श्वे महीं देवीं देवस्य वामाङ्घ्रिसंस्पृशां धृतोत्पलदक्षिणहस्तां कटिकन्यस्तवामहस्तां कौतुकाद्दक्षिणे मार्कण्डेयं वामे भृगुं तद्दक्षिणे भित्तिपार्श्वे चासीनं ब्रह्माणं वामे शङ्करं च दक्षिणे वक्रतुण्डं वामे विन्ध्यवासिनीं पादपार्श्चे मधुकैटभावुग्रवेगसमन्वितौ समुद्रतरङ्गाच्छादितजानू अनन्तविषज्वालाभिर्दह्यमानौ च कारयेत्। नाभिदेशे पद्मे समासीनं ब्रह्माणं तद्दक्षिणे पञ्चायुधान् गरुडम्, उपरिष्टाद्दक्षिणे भास्करं तद्दक्षिणे निशाकरं तथा बालरूपौ तुम्बुरुनारदौ तद्दक्षिणे अश्विनौ अष्टलोकपालान् तथाऽप्सरसश्च कारयेत्। एतदुत्तमं भोगशयनम्, तुम्बुरुनारदाभ्याम्, अश्विभ्यां लोकपालैश्च विना मध्यमम्, पूजकमुनिभ्याम् अप्सरोभिश्च विना अधमम्॥

एकोनविंशः पटलः [[७४]] वीरशयनं तदुत्तमत्वादि देवं श्यामाभं चतुर्भुजं शङ्खचक्रधरं सव्यहस्तं शिरोपधानं कृत्वा वामहस्तं प्रसार्य शयानं पादपार्श्वे श्री भूमिभ्यां पादमर्दिनीभ्यां मधुकैटभाभ्यां संयुक्तं कौतुकाद्दक्षिणे मार्कण्डेयं वामे भृगुं तद्दक्षिणे भित्तिपार्श्वे चा (नाभि पद्मे समा) सीनं ब्रह्माणं पञ्चायुधान् गरुडं चन्द्रादित्यौ सप्तर्षीन् द्वादशादित्यान् एकादशरुद्रान् जयाद्यप्सरसस्तुम्बुरुनारदौ सनकसनत्कुमारौ ब्रह्मेशौ च कारयेत्।

एतदुत्तमं वीरशयनम्, रुद्रैरादित्यैरप्सरोभिश्च विना मध्यमम्, किन्न्नरमिथुनाभ्यां सनकसनत्कुमाराभ्यां पूजकमुनिभ्यां हीनमधमम्॥

आभिचारिकम्

शेषं लक्षणहीनं द्विफणं द्विवलयमनुन्नतशिरः पार्श्वं देवं नीलाभं द्विभुजं चतुर्भुजं वा समशयनं महानिद्रासमायुक्तं शुष्कवक्त्रं शुष्काङ्गं श्यामवस्त्रधरं सर्वदेवैर्विहीनं कारयेत्। एतदुत्तममाभिचारिकं शयनम्, एकफणम्, एकवलयं मध्यमम्, सर्पदेहं विना समस्थलशयनमधमम्॥

अनन्तशयनलक्षणम्

अनन्तस्योत्सेधं बेरायामं द्वारोत्सेधं वा त्रिधा कृत्वा एकांशं मध्यमम्, तदष्टांशाधिकमुत्तमम्, तदष्टांशोनमधमम्, षट्त्रिंशदङ्गुलमुत्तमम्, त्रिंशदङ्गुलं मध्यमम्, चतुर्विंशत्यङ्गुलमधमं शिलालये, शिलाभिः मृण्मये इष्टकाभिः कुर्यात्। तस्योत्सेधमष्टधा कृत्वा द्विभागं शिरोभागोच्चं तन्मध्यानतं त्र्यङ्गुलमेवं योगशयनस्य कारयेत्। उत्सेधं षड्भागं कृत्वा द्विभागं शिरोभागोच्चं तन्मध्यानतं पञ्चाङ्गुलमेवं भोगशयनस्य कारयेत्। उत्सेधं सप्तधा कृत्वा द्विभागं शिरोभागोच्चं तन्मध्यानतं चतुरङ्गुलमेवं वीरशयनस्य कारयेत्। त्रिपञ्चसप्तवलयैस्तल्पितं कृतं (तल्पीकृतं) स्यात्। फणान् सप्त पञ्च नव च हेमाभान् समाहितान् अधस्ताच्छ्वेतवर्णं मकुटोपरि सञ्छाद्य स्थितान् व्यालसिंहमुखान् शृङ्गमध्ये [[७५]] शिखामणिं च कुर्यात्। तेषामुत्सेधं शयनोत्सेधमनन्तस्य व्यासं देवमुभयोः पार्श्वयोः पादे च यथोचितं स्यात् एवं शयनं परिकल्पयेत्॥

ब्रह्मादीनां स्थानप्रमाणवर्णादिनिर्णयः नाभिसूत्राद्दक्षिणे चोपरिष्टाद्धस्तमात्रे भित्तिमाश्रित्य नाभ्यम्बुजं स्यात्, तद्विस्तारमष्टादशाङ्गुलं तद्दशांशोनमूर्ध्वदल विशालमधोदलनतं चतुरङ्गुलम् ऊर्ध्वदलनतं त्रिमात्रं कर्णिकायुतम्, ऊर्ध्वाधः शतपत्रैर्युक्तं नाळमध्यर्धाङ्गुलपरिणाहं नालस्य दक्षिणे तद्दक्षिणे च बालाऽबालपर्णयुतं बालपर्णस्य विशालं तत्पद्मोर्ध्वदळविशालसमम्, इतरपरपर्णविशालमधोदळविस्तृतसमं तयोर्नाळम् एकाङ्गुल परिणाहं कुर्यात्। तत्पद्मकर्णिकामध्ये ब्रह्माणं चतुर्मुखं जटामकुटधरं हिरण्यवर्णं पुष्पाम्बरधरं सर्वाभरणभूषितमुत्तरीयोपवीताभ्यां युक्तं ब्राह्मासने समासीनम्, अक्षमालाकमण्डलुधरं दक्षिणमालोड्यकरं वामं कटिविन्यस्तं चतुर्हस्ताभ्यां प्राञ्जलीकृत्य वा समासीनम् अथवा स्वाङ्के वामाऽवामकरौ प्रसृतौ कारयेत्॥

ध्रुवबेरायामस्य दशांशैकांशं तालं तस्याऽऽदित्यैकांशमङ्गुलं तेन ब्रह्मादिदेवान् कारयेत्। ब्रह्माणं त्रितालेन, गरुडं पञ्चायुधान् षण्मात्राधिक द्वितालेन, द्विभुजं करं(ड)टिकामकुटादिभूषणयुतं (द्रु) धृतवेगेन उद्देश्यकरवामं दक्षिणकरतलप्रहरणं गरुडं, सुवर्णाभं, चक्रं पुंरूपं रक्ताभं, शङ्खं पुण्डरीकरूपं (भूताकारं) वृत्ताकारं श्वेताभं, शार्ङ्गं नपुंसक पीताभं, गदां रक्ताभां स्त्रीरूपां, खड्गं श्वेताभं पुरूपं, तत्तन्मूर्धसु तत्तच्चिह्नानि च द्विषट्तालेन च मधुकैटभौ चन्द्रादित्यावतिश्वेताऽतिरक्तौ, त्रितालेन सनकसनत्कुमारौ बालरूपौ बकुळफलाभौ, द्वितालेन तुम्बुरुनारदौ, त्रितालेन पीतरक्ताभौ, किन्नरमिथुनौ पीताभौ, द्व्यर्धतालेन षट्तालेन विघ्नं रक्ताभं, तथा श्यामां दुर्गाम्, ऋषीन् त्र्यर्धतालेन, तथाऽप्सरसश्च त्रयस्त्रिंशद्देवान्, इन्द्रादिलोकपालान्, चतुस्तालेन एकोनविंशः पटलः [[७६]] कारयेत्। देवस्य बाहुमानं स्तनान्तं वा देव्योर्मानं, पूजकयोर्ब्रह्मेशयोश्च देवस्याऽंशोनम् एवं कारयेत्। अत्रानुक्तं सर्वं शिल्पिशास्त्रोक्तविधिना कारयेत्॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे स्थानकादिध्रुवबेरविधानं नाम एकोनविंशः पटलः ॥ १९ ॥