अथाष्टादशः पटलः
शूलस्थापनविधिः
अथ शूलस्थापनविधिं वक्ष्ये - अयनं चोत्तरं श्रेष्ठं, दक्षिणे मार्गशीर्षमाघौ विवर्ज्य शुक्लपक्षे कृष्णान्त्यत्रिभागं मुक्त्वा कर्तु््रनुकूलर्क्षे स्थिरराशौ स्थापनं कारयेत्। तद्दिनात्पूर्वं नवमे, सप्तमे, पञ्चमे, तृतीये वाहन्यङ्कुराऽर्पणं कुर्यात्।
आलयात्प्रमुखे दक्षिणे वा यागशालां तोरणाद्यैरलङ्कृत्य तन्मध्ये शय्यावेदिं तद्भित्तिसमायामविस्तारां तुरीयांशोत्सेधां कृत्वा तां परितः सभ्यादिपञ्चाग्निकुण्डानि कृत्वा पूर्ववदालयादुत्तरे वास्तुहोमं हुत्वा पर्यग्निपञ्चगव्याभ्यां संशोध्य अग्निकुण्डेष्वाघारं हुत्वा शय्यावेद्याम् ऐशान्यां द्विहस्तायतविस्तारां भागोन्नतां धान्यवेदिं कृत्वा उत्तराग्रान् दर्भानास्तीर्य वस्त्रोपरि बेरशूलान् सन्न्यस्य वंशवक्षः कटीदण्डास्त्रयः पार्श्वदण्डौ द्वौ बाहुदण्डाश्चत्वारः प्रकोष्ठअष्टादशः पटलः [[६२]] दण्डाश्च तथैव पाददण्डौ द्वौ मौलिदण्ड एक एते अष्टादशदण्डाः स्थानके च, आसने विंशतिदण्डाः, शयने चतुर्भुज एकोनविंशति दण्डाः द्विभुजे सप्तदशदण्डाः, मौळिदण्डस्सहजश्चेत् एकोनमेतांश्चैवं सं(समाऽऽ)हृत्य असङ्करार्थं चिह्नं कृत्वा शुद्धोदकैः पवमानैः (नाद्यै;) प्रक्षाल्य धान्यवेद्यां विष्णुगायत्र्या शूलान्विन्यस्य ’वसोःपवित्र’मिति पञ्चगव्यैस्समभ्युक्ष्य ’शन्नोदेवी’रिति गव्येन पयसा प्रक्षाल्य तैलाभ्यञ्जनं कृत्वा देव्यादीनामेवमेव कृत्वा तत्प्राच्यां दण्डवेद्यां यथाविधि चतुर्दशकलशान्विन्यस्य तत्तद्रव्यैस्सोपस्नानैश्शूलान् समभ्युक्ष्य देव्यादीनां पृथक्पृथगेवं कारयित्वा शय्यावेद्यां धान्योपरि पञ्चशयनानि, पञ्चवस्त्राणि वाऽऽस्तीर्य शूलान् स्वस्तिसूक्तेनासङ्कुलानारोप्य तन्मध्ये वंशदण्डं, तत्पार्श्वयोः पार्श्वदण्डौ, तदूर्ध्वे वक्षोदण्डं, तदधस्तात् कटिदण्डञ्च सन्न्यस्य, अथवा वंशदण्डेन एतान् संयोज्य सन्न्यसेदिति केचित्।
तद्दक्षिणपार्श्वे दक्षिणाङ्गानि वामपार्श्वे वामाङ्गानि सन्यस्य यद्दिग्द्वारं तद्दिशि वंशदण्डाऽग्रं कृत्वा पुण्याहान्ते प्रकोष्ठदण्डे प्रतिसरं बध्वा ’अस्थिभ्यो नम’ इत्यभ्यर्च्य ’वैष्णव’मिति शूलान् शाययेत्। देव्यादीनां तत्तन्मन्त्रेण शाययित्वा उत्तराच्छादनं कृत्वा चतुर्दिक्षु चतुर्वेदानध्यापयेत्।
सभ्याग्िन्न परिस्तीर्य हौत्रं प्रशंस्याऽऽहवनीयादीनि कृत्वा वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तम्, आत्वाहार्षादीन् श्रीदेवत्यं भूमिदेवत्यं च हुत्वा ’अस्थिभ्यः स्वाहे’त्यष्टोत्तरशतमावर्त्य हुत्वा सर्वदेवत्यं च हुत्वा आहवनीयादिषु पूर्ववद्धोमं हुत्वा सभ्यं विनाऽन्तहोमं जुहुयात्। अथवा सभ्याग्निमेकमेव कारयेदित्येके।
रात्रिशेषं व्यपोह्य प्रभाते स्नात्वा आलयं प्रविश्य गर्भालये पदविभागं कृत्वा तद्योग्यपदे पीठे रत्नानि विन्यसेत्। यजमान आचार्यादिभ्यो दक्षिणां [[६३]] दद्यात्। अग्िन्न विसृज्य मुहूर्ते समनुप्राप्ते शय्यावेदिमासाद्य आचार्यः स्थापकैस्सह शूलानसङ्करमाहृत्य शकुनसूक्तं समुच्चार्य वाद्यघोषपुरस्सरं सर्वालङ्कारसंयुक्तम् आलयं प्रदक्षिणीकृत्याऽभ्यन्तरं प्रविश्य विष्णुसूक्तं विष्णुगायत्रीं च जप्त्वा ब्रह्मदण्डं स्थाप्य देव्यादीनां तत्तन्मन्त्रेण तत्तत्स्थाने स्थापयेत्।
वंशवक्षः कटीपार्श्वोरुदण्डान् संस्थाप्य कटीदण्डाद्वक्षोदण्डादधस्ताच्च द्वयोराधारभित्तिमाश्रित्य पृष्ठतस्तथा योजयेत्। आसने वक्षोदण्डादधस्तादेकमाधारं योजयेत्।
अथवा भित्तिशूलं मौलिबन्धे संयोज्याऽऽसने चाऽऽसनोपरि वंशदण्डं संस्थापयेत्।
स्थानके पाददण्डौ शिलोपरि दृढं संस्थाप्य तयोः कटिदण्डं वंशदण्डं च संस्थाप्य यावत् दृढतरं तावद्योग्यं शूलं कृत्वा युक्त्या समूह्य कारयेत्।
शयने स्थानकवत् द्वयोराधारं शयनोर्ध्वे संस्थाप्य तस्मिन् स्थापयेत्।
पश्चाच्छिल्पिनमाहूय पूजयित्वा शिष्टं सर्वं कारयेत्। पश्चात् दृढबन्धनार्थं ताम्रपट्टैः पञ्चषट्सप्ताष्टयवविस्तारैः विस्तारात् षड्भागघनान्वितैस्तावदायतै -रतिदृढं बध्वा अष्टबन्धं निदध्यात्।
चतुर्विंशतिभागं कृत्वा श्रीवेष्टकं चतुरंशं, मृदुरुष्टं पञ्चांशं, गुग्गुल्वेकांशं, गुडमष्टांशं, सज्जरसं त्र्यंशं, धातुचूर्णं त्र्यंशम्, एतैस्सह गव्यं घृतं तैलं च संयोज्य शुद्धपात्रे सङ्गृह्य पाचयेत्।
आलयाभिमुखे वा आहवनीयाग्निकुण्डं कृत्वा आघारं हुत्वा अग्नेः पश्चिमतो धान्यपीठे वस्त्रोपरि अष्टबन्धं सन्यस्य ’मेदसे नम’ इत्यभ्यर्च्य अधिवास्य विष्णुसूक्तं, पुरुषसूक्तं, वैष्णवं च हुत्वा ’मेदसे स्वाहे’त्यष्टोत्तरशतं हुत्वा अग्िन्न विसृज्य शकुनसूक्तं जपन् आलयं प्रदक्षिणीकृत्य गर्भागारम् अष्टादशः पटलः [[६४]] प्रविश्य ’अतो देवादिना’ अष्टबन्धं शूलेष्वालिप्य पश्चाच्छिल्पिना लेपयेत्।
यजमान आचार्याय दक्षिणां दद्यात्। शिल्पिनं च पूजयेत्।
पश्चाद्रज्जुबन्धं कारयेत्। नाळिकेर फलत्वक्तूलसारैर्यवद्वयसमस्थूलमायतं रज्जुद्वयं समाहृत्य दक्षिणाग्निकुण्डं कृत्वा आघारं हुत्वा पूर्ववद्धान्यपीठे रज्जुं सन्यस्य ’सिराभ्यो नम’ इत्यभ्यर्च्य अधिवास्य पूर्ववद्धोमं हुत्वा ’सिराभ्यःस्वाहे’त्यष्टोत्तरशतमावर्त्य हुत्वा अग्निं विसृज्य पूर्ववत् आलयं प्रदक्षिणीकृत्याऽभ्यन्तरं प्रविश्य ’अतोदेवा’दिना नाभिस्थानमारभ्य सुषुम्नादि चतुर्दशनाडीनां स्थानेषु रज्जुं सन्यस्य पश्चात् शिरावन्मूर्धादि पादपर्यन्तम् उभौ पार्श्वौ समावेष्ट्य ताम्रपट्टेन हस्तपादतलौ कृत्वा कार्पासतन्तुना सर्वाङ्गं समावेष्ट्य पुनस्तथा रज्जुमावेष्टयेत्।
आचार्याय दक्षिणां दद्यात्। शिल्पिनं च सम्पूज्य पश्चात्संस्कारं कारयेत्।
नादेयां सस्यक्षेत्रजां ह्रदजां देवायतनसमीपतटाकजां पुण्यतीर्थजाम् अशोष्य जलाशयजां मृदं सुप्रशस्ते दिने गृहीत्वाऽभिमुखे नववस्त्रे कटे वा प्रक्षिप्य संशोष्य शोधयित्वा नवे मृद्भाण्डे गृहीत्वा शुचौ देशे अतिवातरहिते संस्थाप्य गन्धसहितां वालुकां चाऽऽक्षिप्य खदिरककुभ त्वक्तोयकषायेनाऽऽलोड्य एकमासं तोये परिवासयेत्।
अश्वत्थोदुम्बरप्लक्षन्यग्रोधत्वक्कषायाम्बुना सेचयित्वाऽर्धमासं वासयित्वा त्रिफलोदकेनाऽलोड्य मृत्तुरीयांशपाषाणचूर्णयुतं तथाऽर्धमासं वासयित्वा यवसारगोधूममाषचूर्णसंयुक्तं श्रीवेष्टकं गुग्गुलुकुन्दुकुष्टसज्जरसानां षोडशांशं संयोज्याऽऽलोड्य दधिमधुसर्पिभिः अतसीस्नेहेन सहितं तिलजेन सार्धं बिल्वफलसारं यथाभागं संयोज्याऽर्धमासं वासयेत्। तस्मिन् रजनीकटुकत्रयचूर्णं तद्दशांशं संयोज्य श्लक्ष्णं कृत्वा तदर्धं कपित्थनिर्यासचूर्णं हरिताळकोष्टरोचनाकृष्णचन्दनागरुचूर्णं च यथालाभं सुवर्णरजतचूर्णयुक्तं कदळीफल- [[६५]] नाळिकेरसलिलं गोक्षीरं च संयोज्य सम्मर्द्य नदीपर्वतसस्यक्षेत्र वल्मीकसमुद्रजलगजवृषश्रृङ्गोद्भेदकुळीरावटजां मृदं च किञ्चित्समादाय शोधयित्वा चूर्णीकृत्य संयोज्य त्रिरात्रं वासयित्वा सुनक्षत्रे सुमुहूर्ते चाऽऽलयाभिमुखे गार्हपत्याग्निकुण्डं कृत्वा आघारं हुत्वा अग्नेः पश्चिमस्यां (मायां) पूर्ववत् धान्यपीठे नववस्त्रे मृदं सन्न्यस्य ’मांसेभ्यो नम’ इत्यभ्यर्च्य अधिवास्याऽग्िन्न परिस्तीर्य महीसूक्तं, भूमिदेवत्यं, विष्णुसूक्तं, पुरुषसूक्तं, वैष्णवं, मुन्योर्मन्त्रांश्च हुत्वा ’मांसेभ्यःस्वाहे’ त्यष्टोत्तरशतं जहुयात्। आचार्यं पूजयेत्।
देवं ध्यायन् ’नेक्षरादिना’ मृदमभिमृश्य मेदिन्यादीन् पारमात्मिकं च जपन् रज्जुबन्धादुपरिष्टादुत्तमाङ्गादि महाङ्गेषु मृदमालिप्य पश्चाच्छिल्पिनमाहूय पूजयित्वा हस्तेन विना सर्वाङ्गेषु करण्डिकयाऽऽलिप्य पुनरपि रज्जुं तथाऽऽबध्य शोषयित्वा पश्चान्मृदं संयोज्य तदूर्ध्वे रज्जुं न योजयेत् तदूर्ध्वे रत्नानि सन्यसेत्। हृदये पद्मरागं ग्रीवायां मौक्तिकं बाह्वोर्वैडूर्यं नाभौ ब्र्रह्ममणिं मेढ्रे सौवर्णं पादयोः पुष्पकं दक्षिणनयने सूर्यकान्तं वामे चन्द्रकान्तं दक्षिणे कर्णे वज्रं वामे शङ्खजं नासिकापुटयोरमृताश्मकम् आस्ये प्रवाळं च पारमात्मिकं च जप्त्वा सन्न्यसेत्। मासेऽतीते शर्कराकल्कलं संलेपयेत्।
अथ शर्कराग्रहणं वक्ष्ये पुण्यनक्षत्रे समीपे नदीतीरे वाऽन्यस्मिन्मनोरमे शुद्धे देशे खनित्वा आहृत्य प्रक्षाल्य संशोध्य चूर्णीकृत्य त्रिफलोदकेन सिञ्चन् शनैःशनैः शोषयित्वा कपित्थनिर्यासतोयेनाऽऽलोड्य कार्पासतूलसंयुक्तमतिसूक्ष्मं सुश्लक्षणम् आलोड्य आवसथ्याग्निकुण्डं कृत्वा आघारं हुत्वा पूर्ववद्धान्यपीठे नववस्त्रोपरि शर्करां विन्यस्य ’रुधिराय नम’ इत्यभ्यर्च्य अधिवास्य अग्निं परिस्तीर्य वैष्णव, विष्णुसूक्त, पुरुषसूक्तं, श्रीसूक्तं, शान्तिहोमं; हुत्वा ’रुधिराय स्वाहे’त्यष्टोत्तरशतं जुहुयात्। ’विष्णवे’ श्रियै, हरिण्यै, चिरायुषे, ख्यातीशाय, गरुडाय, चक्राय, शङ्खाय, भूतेभ्यः सर्वाभ्यो देवताभ्यः, स्वाहेति व्याहृत्यन्तं जुहुयात्। ’एतत्परिषद’मिति अग्निं विसृजेत्।
अष्टादशः पटलः [[६६]] आचार्यदक्षिणां दद्यात्। शर्कराम् ’अग्निरिन्द्रा’दिनाऽभिमृश्य पुरुषसूक्तेन आलेपयेत्। पश्चाच्छिल्पिनमाहूय सम्पूज्य तत्कल्कं सर्वाङ्गेषु समालिप्यैवं मासं प्रतिशुष्कं संलक्ष्य अच्छिद्रमभेद्यं तत्कल्केन तन्निर्यासाम्बुना अङ्गोपाङ्गप्रत्यङ्गानि यथा सम्पूर्णानि तथा कुर्यात्। पुनः शुद्धं कार्पासतन्तुना कृतं सूक्ष्मं वस्त्रं समाधृत्य पूर्ववत्सभ्याग्निकुण्डं कृत्वा आघारं हुत्वा पूर्ववद्धान्यपीठे नववस्त्रे अम्बरं सन्यस्य ’त्वचे नम’ इत्यभ्यर्च्य अधिवास्य अग्निं परिस्तीर्य विष्णुसूक्तं, पुरुषसूक्तं, सहस्राहुतीर्हुत्वा ’त्वचे स्वाहे’ ति अष्टोत्तरशतं हुत्वा सर्वदेवत्यं च हुत्वा अग्िन्न विसृजेत्। आचार्यदक्षिणां दद्यात्। विष्णुगायत्र्या अम्बरं प्रोक्ष्य ’सोमस्य तनुरसी’ त्याच्छादयेत्। शिल्पिना सुदृढं निर्विवरं समाच्छाद्य कल्कं प्रलेप्य पश्चाद् भूषणैर्भूषयेत्। बेरे शैले दारवे च शर्करादिनैव योजयेत्। बाह्ये मौक्तिकं मृदमालिप्य तद्बेरोपरि चक्षुः श्रोत्रास्य घ्राणादिमार्गेष्वभेद्यं महाङ्गोपाङ्गेष्वभेद्यं नहीनं नाधिकं यथापूर्वं तथैव कल्केन परिकल्पयेत्। अन्यथा तद्बेरे देवो न वसेत्। चक्षुश्छिद्रे यजमानस्यान्धत्वं कर्णच्छिद्रे बधिरत्वम्, आस्यच्छिद्रे मूकत्वं घ्राणदिमार्गच्छिद्रे प्रमेहकुष्टादिव्याधयो धान्यादिनाशश्चाचिरादेव भवेयुः महाङ्गोपाङ्गप्रत्यङ्गभेदैः स्थानभ्रंशो भवेत्। तस्मात् सर्वं परिहृत्यैव कारयेत्॥
अथ वर्णसंस्कारं वक्ष्ये। देवं युगानां क्रमेण श्वेतस्वर्णश्यामाञ्जनवर्णं सर्वेषु श्यामवर्णमेव कारयेत्। सर्ववर्णान् सङ्गृह्य पृथक्पृथक्पात्रे कपित्थनिर्यासाम्बुना सम्पेष्य गृहीत्वा पौण्डरीकाग्निकुण्डं कृत्वा आघारं हुत्वा पूर्ववत् धान्यपीठे नववस्त्रोपरि वर्णान् सन्यस्य ’जीवाय नम’ इत्यभ्यर्च्य अधिवास्य अग्निं परिस्तीर्य वैष्णवं विष्णुसूक्तं, पुरुषसूक्तं, पारमात्मिकं पार्षदं, हुत्वा ’जीवाय स्वाहे’त्यष्टोत्तरशतं (हुत्वा) जुहोति। ’हिरण्यगर्भ’ इति वर्णमभिमृश्य आत्मसूक्तं जप्त्वा अतोदेवादिना हेमपात्रे वर्णं गृहीत्वा तूर्यघोषणं कारयित्वा विष्णुसूक्तं, पुरुषसूक्तं च जप्त्वा तूलिकाग्रे वर्णमादाय [[६७]] ’सहस्रशीर्ष’मिति देवस्य ललाटे संलेपयेत्। आचार्यं सम्पूजयेत्। पुण्याहं वाचयित्वा अग्निं परिस्तीर्य शान्तिहोमं हुत्वा अग्निं विसृज्य पश्चात् शिल्पिनं सम्पूज्य तेन तत्तदङ्गिनं वर्णं संलेपयेत्। अत्यन्तं दर्शनीयं यथोक्तविधिना संले(प्य)ख्य पश्चादेवमेव संस्कारं कृत्वा सुवर्णसहितं वर्णं संलेपयेत्।
तस्माच्छक्तियुतं भवतीति विज्ञायते॥
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे शूलस्थापन(वर्ण) विधिर्नामाष्टादशः पटलः ॥ १८ ॥