०१७ दारुसङ्ग्रहणविधिः

अथ सप्तदशः पटलः बेरार्थं दारुग्रहणम् अथ बेरार्थं दारुसङ्ग्रहणं वक्ष्ये - खदिराऽसनतिमिशमीचन्दन चम्पक मधूक जातिवृक्षाश्चाऽन्ये स्निग्धास्साराः शुभवृक्षाश्च सस्यक्षेत्रसमीपोत्पन्नाः पद्मोत्पल कुमुदवत्तटाकसमीपजाता याज्ञिकाद्रुमाः, तुलसीवृक्ष (कुशपुष्प) समीपजाताश्च वृक्षास्सङ्ग्राह्याः।

पुष्पफलविस्तीर्णाः क्रिमिदष्टाः जन्तुयुता अग्निदग्धा वाताहताजीर्णाः कोटरास्त्वचाहीना भिन्ना अनेक पक्षिनिवासा वल्मीकसङ्कटाः सर्पवासा देवायतनस्था श्मशानचण्डालवाससमीपस्था अनुक्तस्थानस्थाश्चाऽग्राह्याः।

लिङ्गभेदेन दारुत्रैविध्यं वृक्षास्त्रिविधाः पुंस्त्रीनपुंसका इति आमूलाग्रमार्जवयुतं सुवृत्तं शाखानेकयुक्तं पुंवृक्षं, स्थूलमूलं कृशाग्रं स्त्रीवृक्षं, कृशमूलं नपुंसकं वृक्षं न गृह्णीयात्। पुंवृक्षेण पुम्बेरं, स्त्रीवृक्षेण स्त्रीबेरं कारयेत्।

पूर्वपक्षे कर्तुरनुकूलर्क्षे तदर्थमाचार्यो यजमानश्च साधनैर्होमसम्भारैः शिल्पिभिस्सार्धं प्राङ्मुख उदङ्मुखो वा वनं गत्वा निमित्तानि संलक्षयेत्।

क्रौञ्चचक्रिवायसपिङ्गळाऽक्ष चकोर कपोतहंस कृकलासादयो दक्षिणगाःशुभाः, अभ्युदयकराश्च, चाषःशयेनश्च टिट्टिभाः वामगाः सिद्धिदाः गृहगौळीकौशिकक्रोष्टु पिङ्गलाक्षवनकुक्कुटाद्या वामतस्सर्वे सिद्धिप्रदाः, प्रभामिनीवैष्णवध्वजच्छत्रपूर्ण कुम्भशुक्लवसनपुष्पगजवृषगोमिथुनदधिपयो रुधिरमांस मधुभाण्डगर्भिणी सुरावेश्या यदि दृश्यन्ते तच्छुभकरं भवति। इत्येवं शिलाग्रहणकालेऽपि ज्ञेयम्।

[[५९]] शुभे मुहूर्ते्् तं वृक्षमासाद्य परितस्तृणगुल्मलतादीन् संशोध्य अस्मिन् देशे ’वसन्तउद्वसते’ त्युक्त्वा शान्तिं वाचयित्वा वृक्षस्योत्तरपार्श्वे वास्तुहोमं हुत्वा वृक्षमूले पर्यग्निकरणं कृत्वा पञ्चगव्यैस्समभ्युक्ष्य पुण्याहं वाचयित्वा चरुं पक्त्वा तिलचूर्ण सक्तुमुद्गनिष्पावयुतं, वृक्षमूले वनराजाये’ति परितः प्रागादीशानान्तं ’वनस्पतिभ्यो, वनदेवताभ्यो, भूतेभ्यो, यक्षेभ्यः, पिशाचेभ्यो, नागेभ्यो, विद्याधरेभ्योऽष्टादशगणेभ्यश्चे’ति पूर्वमुदकं पुष्पं बलिमुदकं च दद्यात्। अस्तु तृप्तिरित्युक्त्वा आचार्यं सम्पूजयेत्। आचार्यः प्राङ्मुख उदङ्मुखो वा ’इदं विष्णु’रिति हस्ताभ्यां द्रुमं सङ्गृह्य श्रीभूम्यादीनां तत्तन्मन्त्रेण दारुं सङ्गृह्य परशुमादाय विष्णुगायत्रीं, ’सोमं राजानं’ च जपन् प्रागादिचतुर्दिशं छित्वा पश्चात्तक्षकमाहूयाऽभिपूज्य सर्वं छेदयेत्। महादिक्षु पतनं श्रेष्ठं विदिक्षु पतनं मध्यमम् अन्यासु दिक्षु अधमं यथोचितं छित्वा ऊर्ध्वभागमुखं पार्श्वादि चाऽङ्कयेत्।

यजमान आचार्यादिभ्यो दक्षिणां दत्वा तं वृक्षं शकटे समारोप्य नरैर्वाहयित्वा आलयमाविश्य कर्ममण्डपे संस्थाप्य शोषयित्वा प्रतिमा विधानेनाऽत्वरेण कारयेत्। ध्रुवबेरोक्तमानेष्विष्टमानं विनिश्चित्य तन्मानं चतुर्विंशतिशतभागं विभज्य एकांशं देहलब्धाङ्गुलं तच्छूलानामग्रं पादं विदित्वा तल्लक्षणोपेतं तनुकरणं कृत्वा शूलानाहृत्योर्ध्वकायमधःकायं च समं कुर्यात्।

वंशदण्डस्याऽऽयाम(मं) द्विषट्यङ्गुलं स्थानकासनशयनानां मेढ्राऽन्तं नाभ्यन्तं चतुरश्रं नाभेर्हिक्कान्तमष्टाश्रं हिक्काया उष्णीषान्तं वृत्तम् अन्येषां देवानां चतुरश्रं नियुञ्जीत।

वंशदण्डमूलविस्तारं भागार्धाङ्गुलम् अग्रभाग मूलादष्टांशोनं वा, आसनस्याऽष्टाङ्गुलमधिकं नीत्वा चतुरङ्गुलमवगाढप्रवेशं चतुरङ्गुलमासनोदयं भवति।

सप्तदशः पटलः [[६०]] वक्षोदण्डस्याऽऽयामं चतुस्त्रिंशदङ्गुलं सप्ताङ्गुलविस्तारं तदर्धं बाहुल्यं कटिदण्डायामं षोडशाङ्गुलमष्टाङ्गुलविस्तारं तदर्धबाहल्यं तत्पार्श्वयोर्मध्ये निम्नयुतं तन्निम्ने दक्षिणे दक्षिणपार्श्वयोः पार्श्वदण्डौ संयोज्य वक्षो दण्डस्य पार्श्वयोर्मध्ये निम्नं कृत्वा संयोजयेत्।

वक्षोदण्डस्य मूले चाऽग्रे च तन्माने शिखाचतस्रः कलाङ्गुलाऽऽयताः तत्समविस्तृतास्तदर्धघना एताश्चतुर्भुजे द्विभुजे द्वे शिखे कृत्वा कटिदण्डस्य माने शिखायामं त्र्यङ्गुलं, द्व्यङ्गुलविस्तृतं तत्समबाहुल्यं, तेन वंशदण्डेन योजयेत्।

ऊरुदण्डायामं सप्तविंशत्यङ्गुलं मूले शिखासंयोजनार्थं युक्त्या कारयेत्।

जानुभागं, जङ्घा चोरुसमायता, पादं भागमूलविशालं, चतुरङ्गुलं त्र्यङ्गुलं (वा,) जङ्घामूलं त्र्यङ्गुलम् अग्रं कलाङ्गुलं तलायामं सप्तदशाङ्गुलं, तस्य मूलं त्रिमात्रमग्रतारं चतुर्मात्रम् अथवा स्थानकस्य पाददण्डयोर्जानुसन्धिं नवाचरेत्, एकमेव कारयेदिति केचित्।

बाहुदण्डायामं सप्तविंशत्यङ्गुलं तन्मूलं वंशदण्डाग्रसमम् अग्रं तदष्टांशोनं युक्त्या वंशदण्डाग्रे संयोज्य ताम्रपट्टेन बन्धयेत्।

अथवा दण्डाग्रे अपरभागे चैकदारुणा कारयेदिति केचित्।

प्रकोष्ठदण्डस्याऽऽयाममेकविंशत्यङ्गुलं बाहुदण्डमूलं त्र्यङ्गुलं, तदग्रं द्व्यङ्गुलं प्रकोष्ठमूलं द्व्यर्धाङ्गुलं तस्याग्रमध्यर्धाङ्गुलमन्यान्यङ्गानि तत्तदङ्गेषु यथान्यायं संयोजयेत्।

प्रसारितपादयोर्हस्तयोर्जान्वोस्सन्धिं नवाचरेत्। इदं शास्त्रज्ञैः शिल्पिभिः सम्यक् प्रकल्पयेत्। देव्योश्शूलं चतुरश्रं किञ्चिद्वक्रं वंशदण्डस्याऽयामं षष्ट्यङ्गुलं, मूलभागविस्तारं, तदष्टांशोनमग्रं, वक्षोदण्डायामं पञ्चविंशत्यङ्गुलं [[६१]] षडङ्गुलविस्तारं तदर्धबाहुल्यं, कटिदण्डायामं यवार्धोनविंशत्यङ्गुलं सप्ताङ्गुलविस्तारं (तदर्धं) तदर्धबाहुल्यम्, ऊरूदण्डस्य तलविशालं तत्तुरीयांशोनं, जङ्घाकारं तत् त्रिभागैकोनं, तेषामग्रतारमष्टांशोनम् अन्यत्सर्वं समानं देव्योः पार्श्वदण्डं न योजयेत्। अवक्रमृजुकायस्य, वक्रतनोर्वक्रमेव कारयेत्। अत्राऽनुक्तं शिल्पिशास्त्रोक्तमार्गेण कारयेत्।

गर्भागारं पूर्ववत् षट्पञ्चाशत्द्विशतभागं कृत्वा तद्विहिते पदे स्थानकादि ध्रुवबेरं कारयेत्। शूलमस्थि, मेदोऽष्टबन्धं, सिरारज्जुः, मांसं मृत्, शोणितं घटिशर्करा, त्वक् पटः वर्णं जीव इति ज्ञात्वा एतैस्सप्तभिस्संस्कारैर्युक्तं सर्वसम्पत्करम् एतेष्वेकं विना कारयेच्चेत् आभिचारिकं भवतीति विज्ञायते॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे दारुसङ्ग्रहणविधिर्नाम सप्तदशः पटलः ॥ १७ ॥