अथ षोडशः पटलः
शिलाबेरस्थापनविधिः
अथ शिलाबेरस्थापनविधिं वक्ष्ये।
उत्तरायणे मार्गशीर्षमाघौ विवर्ज्य शुक्लपक्षे कृष्णे अन्त्यत्रिभागं हित्वा श्रवणरोहिणी श्रविष्ठाहस्ताऽनूराधारेवती त्र्युत्तरासु चाऽन्यस्मिन् सुप्रशस्ते कर्तुरनुकूले नक्षत्रे स्थिरे शुभे राशौ प्रतिष्ठां कुर्यात्।
तद्दिनात्पूर्वम् अङ्कुरानर्पयित्वा सम्भारानाहृत्य तद्बेरशुद्ध्यर्थम् आलयाभिमुखे, उत्तरे वा, बिम्बार्धाधिकमानेन अवटं बिम्बदघ्नं कृत्वा तस्मिन् जले [[५५]] गव्ये, कुशोदके च, प्रत्येकं दिनत्रयम्, एकाहं, यथासम्भवकालं वा, अधिवासं कारयेत्। बिम्बं महच्चेत्कुम्भजलैः ’आपो, हिरण्य, पवमानैरभिषेचयेत्।
आलयाभिमुखे दक्षिणे वा यागशालां षोडशस्तम्भसंयुक्तां प्रपां वा कृत्वा कूटं वा कृत्वा तोरणाद्यैरलङ्कृत्य तन्मध्ये शय्यावेदिं चतुरश्रां तद्भित्तिसमविस्तारां तत्तुरीयांशोत्सेधाम्, अथवा बिम्बार्धाधिकायामां यथालाभोत्सेधां वेदिं कृत्वा तत्प्राच्यां सभ्याग्निकुण्डं तस्योत्तरे स्नानवेदिं च कृत्वा आलयादुत्तरे वास्तुहोमं हुत्वा आलयं यागशालां च पर्यग्निपञ्चगव्याभ्यां शोधयित्वा सभ्याग्नावाघारं हुत्वा स्नानवेद्यां देवं संस्थाप्य तस्याऽभिमुखे व्रीहिभिर्दण्डवत् पङ्क्तिं कृत्वा पञ्चगव्यादि द्वादशद्रव्यसम्पूर्णान् कलशान् सोपास्नाानान्विन्यस्य विधिना संस्नाप्य वस्त्राद्यैरलङ्कृत्य प्रतिसरमाबध्य शय्यावेद्यां धान्योपरि पञ्चशयनानि पञ्चवस्त्राणि वाऽऽस्तीर्य देवीभ्यां सह देवेशं शाययेत्।
मुन्यादीनां स्थापनं यदि प्रत्येकं स्नापनशयनादीनि कारयेत्।
यतो द्वारं ततो मौलिं कृत्वा उत्तराच्छादनं कुर्यात्। बेरे महति जलाधिवासं हित्वा यागस्थानमध्ये शय्यावेदिं विना तत्कालात् पूर्वे बेरं समानीय शुद्धोदकैः पवमानाद्यैः संस्नाप्याऽभ्यर्च्य पश्चाद्वास्तुशुद्धिं कृत्वा प्रधानहोमं कलशस्नापनं च कारयेत्। अभिमुखे धान्यवेद्युपरि शयनान्यास्तीर्य प्रतिसरं बध्वा देवेशं ’शयने शेत’ इति स्मृत्वा उत्तराच्छादनैर्बिम्बं समाच्छाद्याऽधिवास्य अग्निं परिस्तीर्य हौत्रं प्रशंस्यऽऽवाहनजुष्टाकारस्वाहाकारान् कृत्वा पुरुषसूक्तं, वैष्णवमेकाक्षरादिसूक्तं, महीसूक्तं, ब्राह्ममैन्द्रं, सर्वदेवत्यं च हुत्वा रात्रिशेषं व्यपोह्य प्रभाते स्नात्वाऽऽलयमावेश्य शयनस्थं देवमादाय अष्टोपचारैरभ्यर्च्य पदविभागं कृत्वा तद्विहितपदे रत्नादीनि विन्यस्य पश्चादग्निं विसृज्य बेरं गर्भालयं नीत्वा ’प्रतद्विष्णु’रिति बेरं संस्थाप्य विष्णुसूक्तं, पुरुषसूक्तं, षोडशः पटलः [[५६]] वैष्णवं, ध्रुवसूक्तं च, जप्त्वा बेरस्य पादं स्पृशेत्। देव्यादीन् तत्तन्मन्त्रमुच्चार्य तत्तत्स्थाने प्रतिष्ठापयेत्।
शिल्पिना बेरं संस्थाप्य पश्चान्मन्त्रेण स्थापनं कुर्यादित्येके। बेरे महत्यल्पे वाऽधिष्ठानाऽवसाने बेरं संस्थाप्य पश्चाद्विमानं कारयेत्। शिलाबेरं, ताम्रजं वा अथैष्टकशैल मृण्मयं दारवं वा संस्थापयेत्। मृण्मये तृणाच्छन्ने चैकबेरमेव स्थापयेत्। ऊर्ध्वदृष्टिमधोदृष्टिं तिर्यगीक्षणं नैव बेरम्। समदृष्टिं संस्थाप्य पश्चाच्छिल्पिना घटी शर्करादीनि कारयेत्।
अथ ध्रुवार्चास्थापनविधिं वक्ष्ये - बेरं शिल्पिभिर्निरपेक्षमेव कारयित्वा यथोक्तमङ्कुरादीनर्पयित्वा कौतुकस्योक्तविधिनाऽक्षिमोचनं कृत्वा पञ्चगव्याऽधिवासं कृत्वा रात्रावालयस्योत्तरे वास्तुहोमं हुत्वा पर्यग्निपञ्चगव्याभ्याम् आलयं यागस्थानं च संशोध्य पुण्याहं वाचयित्वा यागस्थानस्य मध्ये शय्यावेदिं परितश्चाग्निकुण्डानि कृत्वा अधिवासगतं देवम् आसाद्य अभिषिच्य वस्त्रोत्तरीयाद्यैरलङ्कृत्याऽभ्यर्च्य आलयमावेश्य यज्ञालये स्नानश्वभ्रस्य पश्चिमे धान्यराशौ संस्थाप्य सर्वहोमेष्वाघारं हुत्वा देवस्याभिमुखे यथोक्तेन विधिना कुम्भपूजां कृत्वा तस्मिन् देवमावाह्य सप्तकलशैः कुम्भं समभ्युक्ष्य पश्चाद्बेरं संस्नाप्य वस्त्रोत्तरीयाद्यैरलङ्कृत्य अभ्यर्च्य पुण्याहान्ते प्रतिसरं बध्वा शय्यावेद्यां धान्योपरि अण्डजादीनि पञ्चशयनानि पञ्चवस्त्राणि वाऽऽस्तीर्य कुम्भं बिम्बं चारोप्य विधिना शाययेत्। यदि स्यादौत्सवं बलिबेरं च देवेन सहाऽक्षिमोचनं कृत्वा पृथगेवाधिवासनं स्नपनं च कृत्वा प्रतिसरं बध्वा तद्वेद्यां प्रत्येकं शयनान्यास्तीर्य तद्देवं शाययेत्।
सभ्याग्नौ हौत्रं प्रशंस्याऽऽवाहनादीनि कृत्वा चतुर्दिक्षु चतुर्वेदाध्ययनं कारयित्वा सर्वहोमेषु यथोक्तं जुहुयात्। रात्रिशेषं व्यपोह्य प्रभाते स्नात्वाऽऽलयमाविश्य देवं प्रणम्योत्थाप्य आराध्य गर्भालयपदविभागं कृत्वा [[५७]] यथोक्ते पदे पीठे रत्नादीनि न्यस्य यजमान आचार्यादिभ्यो दक्षिणां दत्वा पूर्णाहुतीर्जुहुयात्।
पश्चान्मुहूर्ते प्राप्ते देवेशं प्रणम्य अनुमान्य कुम्भं विना देवं गर्भालयमानीय रत्नोपरि विष्णुसूक्तं, पुरुषसूक्तं, ध्रुवसूक्तं, वैष्णवं च, जत्प्वा ’प्रतद्विष्णु’रिति देवं संस्थाप्य पश्चादष्टबन्धं प्रयोजयेत्। लाक्षागुडमधूच्छिष्टगुग्गुलून् परस्परं समभागं कृत्वा एषां द्विगुणं सज्जरसं, गैरिकं, घनचूर्णमर्धं, सर्वेषामर्धं तैलं संयोज्य लोहपात्रे निक्षिप्य लोहदर्व्यासमेनाग्निना सुपक्कं पचेत्, तद्बन्धमानीय तत्पीठरन्ध्रे प्रक्षिपेत् तत् दृढं दृषत्समं भवति।
तस्य ध्रुवबेरोक्तशुद्धिं कृत्वा पश्चादाचार्यश्शय्यावेदिमासाद्य कुम्भं सङ्गृह्य शिरसा धारयन् अग्रतो गछेत्। स्थापका औत्सवं बलिबेरं चादायाऽनुगच्छेयुः आलयं प्रदक्षिणीकृत्याऽभ्यन्तरं प्रविश्य देवाभिमुखे धान्योपरि कुम्भं सन्यस्य मुखमण्डपे औत्सवं बलिबेरं च प्रतिष्ठापयेत्। आचार्यश्चाऽऽत्मसूक्तं जप्त्वा मन्त्रन्यासमक्षरन्यासं च कृत्वा समाहित उत्तराभिमुखो भूत्वा देवं ध्यायन् ’इदं विष्णु’रिति कुम्भस्थां शक्तिमादाय ’आयातुभगवा’निति बिम्बस्य मूर्धि्न ’विष्णुमावाहयामी’ति संस्राव्य आवाहयेत्। बेरं परितः पुरुषाद्यावरणत्रयदेवान् मित्राद्यावरणत्रयदेवांश्चाऽऽवाह्य ’अस्त्वासन’मित्यासनं दत्वा पश्चादौत्सवे बलिबेरे च तस्माद्दीपाद्दीपमिवाऽऽवाहयेत्। ध्रुवार्चाबेरमावाहनविसर्गाभ्यां विनाऽऽसनाद्यैरर्चयेत्। एष विशेषोऽन्यत्सर्वं समानमिति विज्ञायते॥
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे शिलाबेरध्रुवार्चाबेरस्थापनविधिर्नाम षोडशः पटलः ॥ १६ ॥
षोडशः पटलः [[५८]]