०१५ शिलाग्रहणबेरप्रमाणपदविभागस्थाननिर्णयः

अथ पञ्चदशः पटलः बेरार्थं शिलाग्रहणम् अथ बेरार्थं शिलाग्रहणं वक्ष्ये।

शिलानां त्रैविध्यं गिरिजाभूमिजावारिजा चेति शिला त्रिविधा भवति गिरेरुपरिजातोर्ध्वमुखा, पार्श्वजाता पर्वतप्रेक्षा, समुद्रजातोर्ध्वमुखा, भूमिजाताऽधोमुखा, नद्यादिजलमार्गजाता जलागमनमुखा, तासां भूमिजाता मुख्या, तस्मान्महादिक्षु अशीर्षा, दुस्थानस्था चाऽग्राह्या; शिलाश्च त्रिविधाः पुंस्त्रीनपुंसकाश्चेति एकवर्णा घना स्निग्धा चाऽऽमूलाग्रमार्जवान्विता घण्टानादसमा पुंशिला, स्थूलमूला क्षीणाग्रा कांस्यध्वनियुता स्त्रीशिला, स्थूलाग्रा कृशमूला हीनस्वरा [[५१]] नपुंसकशिला, पुंशिलाभिः पुम्बेराणि स्त्रीशिलाभिः स्त्रीबेराणि नपुंसकशिलाभिः प्रासादतलकुड्यादीनि कारयेत्। अथ एकस्यां शिलायां देवदेव्यौ च कारयेदित्येके। शिलाछेदने तक्षणे चापि मण्डूको दृश्यते यदि सा शिला गर्भिणीति ज्ञात्वा तां यत्नेन परिवर्जयेत्।

शिलानयनादिप्रकारः

पूर्वपक्षे पुण्ये कर्तुरनुकूले नक्षत्रे आचार्यो यजमानश्च शिल्पिना सार्धं साधनैर्होमसम्भारैस्सह शिलाग्रहणाय गत्वा वने वनपार्श्वे जलपार्श्वे वा शिलां वीक्ष्य परितस्तृणगुल्मलतादीनि संशोध्य तदुत्तरपार्श्वे सूत्रोक्तविधिना वास्तुहोमं हुत्वा पर्यग्निं कृत्वा पञ्चगव्यैः पवमानाद्यैः सम्प्रोक्ष्य द्विप्रस्थैस्तण्डुलैश्चरुं पक्त्वा गुलदधिघृतलाजैर्युक्तं शिलायाः पार्श्वे दक्षिणे वनराजायेति, वामे देशाधिपतय इति, परितः प्रागादीशानान्तं सर्वेभ्यो देवेभ्यो, यक्षेभ्यो, विद्याधरेभ्यो, राक्षसेभ्यः, पिशाचेभ्यो, नागेभ्यो, गन्धर्वेभ्यः, अष्टादश गणेभ्यश्चेति, पूर्वमुदकं पुष्पं बलिमुदकं च दत्वा तत्रस्थान् शीघ्रं व्रजतेति परितः (शीघ्रं) खनित्वा शिल्पिना सार्धमानीय शुद्धोदकैरभिषिच्य आचार्य उत्तराभिमुखो भूत्वा प्राणायामं कृत्वा आत्मसूक्तं, महीसूक्तं च, जप्त्वा समाहितो देवं ध्यायन्, हस्ताभ्याम् ’झ्दं विष्णु’रिति मन्त्रेण शिलाग्रहणं कृत्वा उलिकां ताडनीमप्यादाय विष्णुगायत्रीं, ’चित्रं देवाना’मित्युक्त्वा मूर्ध्नि पार्श्वयोः पादे च किञ्चित् छित्वा शिल्पिनमाहूय विधिना मानयित्वा किञ्चिदप्यधिकं हेयशिलां छेदयित्वा प्लवगे, शकटे वा, शिलामारोप्य अप्रमादेनाऽऽलयमावेश्य कर्ममण्डपे न्यस्य बेरं मानोन्मानाद्यैर्लक्षणोपेतं स्थानकादिभेदेष्वेकमार्गेण साङ्गोपाङ्गावयवमत्यर्धावयवं वा, सर्वत्राऽहीनं, सुन्दरं, चित्रं, चित्रार्धं वा, कारयेत्॥

पञ्चदशः पटलः [[५२]]

दार्वादिबेरकर्माणि

एवमेव दारवं कारयेत्। ध्रुवार्चा चेत् स्थानकमासीनं यानकं वा, सर्वाङ्गसम्पूर्णं सुव्यक्तं कारयेत्। अथ ध्रुवबेरं ताम्रजं शैलं दारवं वा विधीयते।

दारवान्मृण्मयं श्रेष्ठं मृण्मयात् शैलमुत्तमं शैलात् ताम्रं मुख्यं भवति, ध्रुवार्चाबेरं चेत् ताम्रजं, शैलं वा कुर्यात्। बेरायामं तदर्धायामविस्तृतार्धमुत्तमं, तद्गुणांशात् द्व्यंशं मध्यमम्, तच्चरांशाद्गुणांशमधमम्।

ध्रुवबेरविधानम्

तद्धामविस्तृतार्धं द्विधा कृत्वा तस्याऽपरार्धं षड्विंशतिभागं कृत्वा तपूर्वार्धांशेन सह एकैकं संयोजयेत्। सप्तविंशत्युत्सेधं भवति। गर्भागारस्य चतुर्भागात् त्रिभागं, त्रिभागात् द्विभागं, शरांशाद्गुणांशं, गर्भार्धं वा, तस्याऽपरार्धं पूर्ववत्कुर्यात्। पादोत्सेधं, द्वारोत्सेधं वा, तत्पादाधिकं, पादहीनमर्धं वा, नवांशोनमष्टांशोनं वा, अधिष्ठानस्य पादमर्धं, त्रिपादं, समं, सपादाधिकम्, अर्धाधिकं, पादोनद्विगुणं, द्विगुणं वा हस्तमानेन शरहस्त मानाङ्गुलेन पञ्चविंशत्यङ्गुलाद्येकचत्वारिंशदङ्गुलान्तं द्व्यङ्गुलवृद्ध्याऽङ्गुलिभेदं नवधा भवति। यजमानसमं, तदष्टांशं कृत्वा एकद्वित्रिचतुरंशाधिकं नेत्रास्यबाहुस्तनान्तमित्येतन्नवधा भवति। एतेष्विष्टमानं विनिश्चित्य पादाद्युष्णीषान्तं ध्रुवबेरं कारयेत्।

चित्रादिविधानम्

तच्चित्रं चित्रार्धं चित्राभासमिति त्रिविधं भवति। उत्तमं चित्रम्, अर्धचित्रं मध्यमम्, आभासमधमं, षण्मानैस्सहितं चित्रं, नाहार्धं सन्दर्शनमर्धचित्रं, नाहोन्नतिभ्यां हीनं यत्तदाभासं सर्वत्र लोहजं मृण्मयं चित्रमेव अर्धचित्रं न कारयेत्। कुर्याच्चेदाभिचारिकं भवति। शैलं दारवं च चित्रम् अर्धचित्रं वा कारयेत्। आभासं पटकुड्यादिलेख्यम्, बेरे चित्रे अर्चनम् ऐहिकामुष्मिकफल- [[५३]] प्रदम्, अर्धचित्रे अर्चनं केवलमामुष्मिकफलप्रदम् आभासेऽर्चनम् ऐहिकफलप्रदम्, तदाभासं द्विविधं भवति। अचलं चलमिति अचलं भित्तौ लिखितं, चलं पटलिखितं स्यात्। तस्मादचलमेव कारयेत्। आभासं भित्तौ संलिख्य तस्मिन्नक्षिमोचनं ध्रुवबेरशुद्धिं च कृत्वा अक्षरन्यासदिकं कृत्वा प्रतिष्ठाप्य तत्प्रमुखे ब्राह्मे दैविके मानुषे वा रत्नन्यासं कृत्वा कौतुकं प्रतिष्ठाप्य ध्रुवात्कौतुकबेरे समावाह्य अर्चयेत्। आवाहनविसर्गौ तस्मिन्नेव समाचरेत्।

ध्रुवार्चाचेदाभासार्चनं न कुर्यात्। चित्रं चित्रार्धं वा कृत्वा प्रतिष्ठाप्याऽर्चयेत्।

पीठविधानम्

तद्बेरं पीठोत्तुङ्गं, बेरोत्तुङ्गात्तुरीयांशं गुणांशैकांशं वा, चतुरश्रं, वृत्तं, पद्माकारं वा, तदुत्सेधं सप्तभागं कृत्वाऽधःपद्मं चतुरंशम् ऊर्ध्वपद्मं त्र्यंशम्, ऊर्ध्वाधः षोडशदलैर्युक्तन्देवपादौ परितश्चाष्टाऽङ्गुलं नीत्वा एवं पीठं कारयेत्।

स्नानवेदिं तत्परितः षोडशाऽङ्गुलां गर्भागारत्रिभागैकभागां वा चतुरश्रां द्विमेखलां तदूर्ध्ववेदिविस्तारं भागं तदर्धमुत्सेधं, तत्परितश्चतुरङ्गुलविस्तारोत्सेधामधोवेदिं तन्मध्ये षडङ्गुलमवगाढं पञ्चाऽङ्गुलं चतुरङ्गुलं वा प्राच्यामुदीच्यां वा वारिमार्गं चतुरङ्गुलं मात्राऽङ्गुलेनैकवेदिं कारयेत्। अथवा पीठं विना शिलाभिरिष्टकाभिर्वा वेदिं कृत्वा तन्मध्ये सुदृढं संस्थापयेदिति केचित्। एवं ध्रुवार्चाबेरस्थापनम् अन्यत्सर्वं युक्त्या कारयेत्॥

गर्भालयपदविन्यासविधानम्

अथ गर्भालयपदविन्यासविधिं वक्ष्ये - प्रागग्रैरुत्तराग्रैश्च सप्तदशसूत्रैः षट्पञ्चाशत्द्विशतभागं विभज्य तन्मध्ये षोडशभागम्ब्राह्मं, तत्परितश्चतुरधिकाशीतिभागं दैविकं, तत्परितः षण्णवतिभागं मानुषं, तद्बहिः षष्ठिभागं पैशाचं भवति। तन्मध्ये ब्राह्मे कौतुकपीठं, दैविकभागं त्रिधा कृत्वा तस्यापरभागे तन्मध्ये वा स्थानकं, देवमानुषयोरन्तरे च आसनं किञ्चिद्दैविकमाश्रित्य पञ्चदशः पटलः [[५४]] मानुषांशे शयनं संस्थापयेत्। ध्रुवार्चाचेत् गर्भागारं सप्तसप्तविभागं कृत्वा तन्मध्ये चैकं पदं ब्राह्मं तत्परितश्चाष्टभागं दैविकं तद्बाह्मे षोडशभागं मानुषं तद्बहिश्चतुर्विंशतिभागं पैशाचं भवति। ब्रह्मस्थाने स्थापयेत् शान्तिकं दैविके पौष्टिकं देवमानुषयोर्मध्ये जयदम् एवं ध्रुवार्चां संस्थापयेत्।

देव्यादिप्रमाणम्

देवस्य बाह्वन्तं, स्तनान्तं, कर्णान्तं वा, देव्योर्मानम्, मुन्योर्वीशशैषिकयोरन्येषां परिवाराणां च तत्समं पादहीनमर्धं पादं वा तत्तदालयवशाद्वा कारयेत्। ब्रह्माणं शङ्करं च ध्रुवबेरसमं नवांशोनमष्टांशोनं वा कारयेत्। येन द्रव्येण देवः कृतः तेन द्रव्येण देव्यादि परिषदस्तत्तदुक्ततालक्रमेण कारयेत्।

स्थानकस्य पीठोर्ध्वे चाऽऽसीनस्य सिंहासनोर्ध्वे, तस्याऽधस्ताद्वा, शयानस्याऽनन्तोर्ध्वे, पादपार्श्वे बेरमध्ये वा रत्नन्यासं कृत्वा बेरं संस्थापयेदित्याह मरीचिः॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे शिलाग्रहणबेरप्रमाणपदविभागस्थाननिर्णयो नाम पञ्चदशः पटलः ॥ १५ ॥