०१४ परिवाराचार्यार्चकविधिः

अथ चतुर्दशः पटलः परिवाराणां नवभेदनिरूपणम् अथ परिवाराणां नवभेदविधिं वक्ष्ये - आलयान्तर्गतदेवा, द्वारदेवा द्वारपालाश्च, सर्वत्र समाना उच्यन्ते। विष्वक्सेन गरुड श्रीभूत न्यक्ष भूतपीठानि एते पञ्चपरिवारा अधमाधमम्, एतैस्सार्धमिन्द्रादि (दिग्दे) देवा, भास्कर प्रमुखे चक्रशङ्खौ च एते षोडशपरिवारा अधममध्यमम्, एतैस्सहिता विवस्वन्मित्रक्षत्तारः, अभिमुखे ध्वजयूथाधिपौ च एकविंशतिदेवा अधमोत्तमम्, एतैस्सहिताः सिद्धि श्रीहविःपालस्कन्द विघ्नेश सप्तमात्रृपुरुषज्येष्ठाभार्गव ब्रह्मचन्द्राश्चैते द्वात्रिंशद्देवा मध्यमाधमम्, एतैस्सह तृतीयावरणे भास्कराऽङ्गारक स्कन्द दुर्गा सप्तरोहिणी मन्दसप्तमातृबुधबृहस्पतिपुरुषाश्चैते द्विचत्वारिंशद्देवा मध्यममध्यमम्, एतैस्सह ज्येष्ठाशुक्र गङ्गासप्तर्षिब्रह्मचन्द्र रुद्राऽश्विकपिल पञ्चभूत सरस्वत्यश्च एते मध्यमोत्तमम्, एतैस्सह चतुर्थावरणे पृथिव्यातुनर? धर्मधात्री सुरप्रिया पुष्पेशव्याहृतिदस्रभव मनुहरिशाङ्कराश्चैतेप्युत्तमाधमम्, एतैस्सहबलिरक्षक वसुजया दश एते चोत्तमोत्तममिति। प्र(ति)मुखे अनपायिनो द्वारे धात्रादीन् प्राकरद्वारेषु द्वारपालकान् यथोक्ते देशे सम्यगर्चयेत्।

अर्चकादिसङ्ख्याभेदेन अधमादिकथनं नवविधार्चकपरिचारकान्वक्ष्ये - मन्त्रकल्पवित् शौचाचार संयुक्तस्सुपुष्टाङ्ग ऋत्विगुक्तगुणोपेत एकोऽर्चको द्वौ परिचारकौ अधमाधमम्, अर्चकौ द्वौ परिचारकाश्चत्वारश्चाऽधममध्यमम्, अर्चकास्त्रयः नवपरिचारकाश्चाधमोत्तमम्, अर्चकाश्चत्वारः षोडश परिचारकाश्च मध्यमाधमम्, षडर्चकाः पञ्चविंशतिपरिचारकाश्च मध्यममध्यमम्, अष्टार्चकाः चत्वारिंशत्परिचारकाश्च मध्यमोत्तमम्, द्वादशार्चकाः पञ्चाशत्परिचारकाश्च उत्तमाधमम्, षोडशार्चकाः चतुः षष्टि परिचारकाश्चोत्तममध्यमम्, विंशत्यर्चकाः अशीति परिचारकाचतुर्दशः पटलः [[५०]] श्चोत्तमोत्तमम्, देवेशस्य प्रतिसन्ध्यमेकैकः पुरुषः तथा बेरं प्रति पूजार्थमर्चकाः परिचारकाश्च बहवो भवन्ति।

आचार्यादीनां भूम्यादिदानं नित्यनैमित्तिकार्थमाचार्यार्चकादीनां जीवनार्थम् अन्यद्दिव्यविभावार्थं चाऽत्यन्तपुष्फलान् भूमिभोगान् आचार्यस्य हस्ते देवसन्निधौ यजमानस्सोदकं दद्यात्। सर्वमाचार्यनियोगेन कारयेत्, आचार्यार्चकादयः क्लेशयुक्ताश्चेज्जनास्सर्वे सर्वदा क्लेशयुक्ता भवेयुः, राज्ञो राष्ट्रस्य च महद्भयं, ग्रामयजमानयोर्नाशश्च भवेत्। तस्मात्सर्वप्रयत्नेन आचार्यार्चकादीनां जीवनार्थं भूमिभोगं सुसम्पन्नं कल्पयेत्। आचार्यार्चकपरिचारकादीनामभावे तत्पुत्रादीन् तदभावे तन्नियुक्तांश्च (न्वा) कारयेत्। अन्यथा महत्तरो दोषो भवति इति विज्ञायते॥

इति श्री वैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे नवविध परिवाराचार्यार्चकविधिर्नाम चतुर्दशः पटलः ॥ १४ ॥