०१३ गर्भन्यासमूर्धेष्टकाविधिः

अथ त्रयोदशः पटलः

गर्भविन्यासविधिः

अथ गर्भ(वि)न्यासविधिं वक्ष्ये - समुद्रात्पर्वतान्नदीतीरात् ह्रदात् खलाद्वल्मीकात्कुलीरवासात् गजदन्तोद्भेदात् वृषविषाणोद्भेदाच्च मृत्तिकां, वज्रमौक्तिक वैडूर्य स्फटिक पुष्यक चन्द्रकान्त नीलब्रह्ममणीन्, मनश्शिलाहरितालाञ्जन श्यामसीससौराष्ट्रगोरोचना गैरिकपारता(दा)न्, शालि नीवारकं कङ्कुमाष कुलुत्थ निष्पावतिल मुद्गयवान्, सुवर्ण रजत ताम्र पित्तलायसाऽऽरकूट वृत्त लोह वैकृत त्रपु सीसान्, यथाक्रमेणाहरेत्। हेमरूप्य ताम्रायसलोहांश्च, पद्मोत्पलकुमुद कल्हार कन्दांश्चाऽऽहरेत्। सुवर्णेन चतुर्वर्णचिह्नानि स्रुक्स्रुवकमण्डलुजुहूपजुहूपभृत् छत्रं चामराङ्कुशध्वज तुलातोदयुगलाङ्गलादीनि, गज गरुड कच्छपांश्च, शङ्खचक्रगदाशार्ङ्गाऽसींश्च पञ्चायुधांश्च (नीच) श्रीवत्सपूर्णकुम्भ भेर्याऽऽदर्शमत्स्ययुग्माऽङ्कुश शङ्खाऽऽवर्त्तानष्टमङ्गलान् यथालाभमानेन कारयति। फेलायामविशालं त्रिपञ्चसप्तनवैकादशत्रयोदशपञ्चदशसप्तदशैकोनविंशत्येकविंशति त्रयोविंशतिपञ्चविंशत्यङ्गुलमेतद्यथाक्रमेणैकतलादिद्वादशतलान्तं विमानानां गर्भभाजनं, तद्भित्त्युच्चतद्विस्तारसमम् अष्टांशोनं षट्भागोनं पञ्चभागोनं वा तस्य बाहुल्यम् एकद्वित्रिचतुर्यवं नवकोष्टयुतमछिद्रां रम्यां फेलां कारयति। कोष्टभित्युच्चं विस्तारार्धं त्रिभागैकभागं वा तत्पादानां त्रयोदशः पटलः [[४६]] यथोचितमधाङ्गुलिभित्युच्चं निर्वृणं वृत्तं चतुरश्रं वा शुद्धेन ताम्रेण वा कारयेत्। अथवा तत्प्रासादविष्कम्भ तदष्टांशोनं, तत्पादहीनं वा, फेलाऽऽयामविशालं शेषं पूर्ववत्। शुभे कर्त्रनुकूले नक्षत्रे राशौ शुभोदये गर्भन्यासं कुर्यात्। आलयाभिमुखे दक्षिणे वा, प्रपां कृत्वा तोरणाद्यैरलङ्कृत्य तन्मध्ये द्विहस्ताऽऽयत विस्तारां तालोत्सेधां व्रीहिभिर्वेदिं कृत्वा तत्प्राच्यामाहवनीयाग्निकुण्डं कृत्वा सायाह्ने देवाभिमुखे धान्यराश्युपरि प्रागग्रं वस्त्रमास्तीर्य फेलां विन्यस्य तस्मिन्मृदादिद्रव्याणि सम्भृत्य आचार्यश्चोत्तराभिमुखो भूत्वा गायत्र्या प्रणवाद्यायतानि द्रव्याणि सम्प्रोक्ष्य ’मेदिनी’ति फेलामभिमृश्य ब्रह्मादि नवपदेषु तत्तद्दैवत्यमन्त्रेण मृद्रत्नधातुबीजलोहान् क्रमेण सन्यस्य पञ्चायुधान् तत्तन्मन्त्रैर्मध्यमादिचतुर्दिक्षु विन्यस्य मध्ये ब्राह्मणादिवर्णचिह्नानि चतुर्दिक्षु हेमादिलोहान् पद्मादिकन्दानि तत्तद्दिगीशमन्त्रैः पृथक्पृथक् विन्यस्य गजगरुडकूर्मरूपाणि बाह्यपदे तत्तन्मन्त्रेण विन्यस्यऽष्टदिक्षु मङ्गलान् यथाक्रमेण तत्तद्दिगीशमन्त्रैस्सन्यस्य उत्तराछादनेन आच्छाद्य दिक्परिछेदं कृत्वा रात्रौ तस्याऽऽलयस्योत्तरे वास्तुहोमं हुत्वा पर्यग्निपञ्चगव्याभ्यामालयं संशोध्य पुण्याहं वाचयित्वाऽऽहवनीया(ये आ)घारं हुत्वा धान्यवेद्यां पञ्चवस्त्राण्यास्तीर्य तन्मध्ये फेलां द्रव्यसहितां स्वस्तिसूक्तेन सन्यस्य तस्यां नागेन्द्रं तत्परितश्च इन्द्रादिलोकपालांश्चऽऽभ्यर्च्य वस्त्रेणावेष्ट्योपरि पुष्पाणि विक्षिप्याऽधिवास्य अग्निं परिस्तीर्य वैष्णवं विष्णुसूक्तं पुरुषसूक्तं श्रीसूक्तं महीसूक्तं ब्राह्मं नागाधिदेवत्यं दिग्देवत्यं च हुत्वा पञ्चायुधेभ्यो नागराजाय इन्द्राय अग्नये यमाय र्निऋतये वरुणाय वायवे सोमाय ईशानाय नारायणाय सर्वरत्नेभ्यः सर्वधातुभ्यः सर्वबीजेभ्यः सर्वलोहेभ्यो नदीभ्यः पाताळेभ्यो वृक्षेभ्यो नागेभ्यो दिग्गजेभ्यः स्वाहेति व्याहृत्यन्तं हुत्वा अन्तःपरिषेकं कृत्वा तद्रात्रौ सुमुहूर्र्ते प्राप्ते यजमानः आचार्यादीन् वस्त्रोत्तरीयाभरणैरलङ्कृत्य दक्षिणां दद्यात्, आचार्यस्तद्भाजनं शिरसा धारयन् वाद्यघोषसमायुक्तमालयं [[४७]] प्रदक्षिणीकृत्य अभ्यन्तरद्वारदक्षिणे स्तम्भसमीपे, यजमानो ब्राह्मणश्चेत्पट्टिकोपरि क्षत्रियश्चेत्कुमुदोपरि वैश्यश्चेज्जगत्युपरि शूद्रश्चेत्पादुकोपरि च एवं स्थानं सङ्कल्प्य तस्मिन्मेदिनीमभ्यर्च्य आत्मसूक्तं जप्त्वा ’इदं विष्णोर्वीर्यमि’ति ध्यात्वा मेदिनीदेवी, विष्णुर्योनिं, ध्रुवसूक्तं च जप्त्वा, तत्रैव गर्भं संस्थापयेत्।

पश्चादग्निमासाद्य स्विष्टाकारं पूर्णाहुती च यजेत्। अग्निं विसृज्य शिल्पिनमाहूय दृढं कृत्वा तस्योपरि विधिना विमानं कारयेत्।

समाप्तेष्टाशिलाविन्यासविधिः

अथ समाप्तेष्टका शिलाविन्यासविधिं वक्ष्ये - पूर्वपक्षे कर्तुरनुकूलर्क्षे शुभे मुहूर्ते समाप्तिकां कुर्यात्। विमानमेकद्रव्यकृतं (चेत् श्रेष्ठम्) द्विद्रव्यकृतं मध्यमम्, त्रिद्रव्यकृतमधमम् एकद्रव्यकृतविमाने तद्द्रव्येण मूर्धेष्टकां विन्यसेदन्ययोर्यद्द्रव्यकृतमुपरिस्थलं तेनैव मूर्धविन्यासं कारयेत्॥ इष्टकोपरि पादुकात्पट्टिकान्त शिलयैव कृतं चेन्न दोषाय भवेत्। शिलया इष्टकया दारुणा वा पादुकादि स्थूप्यन्तं यत्कृतं तदेकद्रव्यकृतम्, मसूराकान्तं प्रस्तरान्तं वा शिलयैव कृत्वा शेष(शिष्ट)मिष्टकाकल्पितं यत्। तत्तद्विद्रव्यकृतम्।

एतदेव शिखरं लुपाविधानेन कृत्वोपरिलोष्टाछादनं यत्तत्त्रिद्रव्यकृतम्।

शक्तश्चेत्तदेव ताम्म्ररजतरुग्मै (कमै) राच्छादयेत् एतदुत्तमं भवति। सर्वेषां स्थूपिं लोहभाजनमेव कारयेदित्येके। तदालयपादविस्तारद्विगुणायामां तदर्धविस्तारां तदर्धबाहुळ्यामेव इष्टकां शिलां वा कृत्वा तत्स्थानं शिखराग्रे नासिकापृष्टे नासिकाग्रान्ते वा ताम्रजं खादिरं बेरोक्तवृक्षजं वाऽऽहृत्य एकतलप्रासादे बहुतले वा, मूलतले वा पादविष्क म्भाद्वादशाऽष्टसप्तषट्गुणं वा कीलदैर्घ्यं तत्पादविष्क म्भात् त्रिभागैकभागमर्धं वा विस्तारं तत् षडंशैकांशं स्थूपिकाग्रविस्तारं तस्याऽऽयामं सप्तधा कृत्वा त्रिभागमूले चतुरश्रं शेषं सुवृत्तं शिखराकारं वा कारयेत्। अथवा तदूर्ध्वतलपादायामसदृशं तत्पाद त्रयोदशः पटलः [[४८]] विष्कम्भविस्तारम् अग्रमेकाङ्गुलमालये तन्मध्ये सुषिरं समचतुरश्रं कृत्वा कीलादधस्तात्स शिखं युक्तितः कारयेत्। आद्येष्टकावदन्त्येष्टकानामधिवासहोमाद्यं सर्वं स्थूपिकीलसहितं कृत्वा कीले विष्णुं तदाधारे महीं प्रागादिष्विष्टाकासु पुरुषाद्यामूर्तीः तद्बाह्ये प्रागाद्युत्तरान्तं न्यक्षं विवस्वन्तं मित्रं क्षत्तारं चाऽभ्यर्च्य शयने शाययेत्। प्रतिसरमाबध्योत्तराच्छादनं कृत्वा आहवनीयादिषु पूर्ववध्दोमं हुत्वा रात्रिशेषं व्यपोह्य प्रभाते स्नात्वा आलयमाविश्य प्रदक्षिणं कुर्यात्। यजमानआचार्यादीन्नववस्त्रोत्तरीयाद्यैरलङ्कृत्य दक्षिणां दद्यात्। स्थापकाः शिला वाऽथेष्टकां वा कीलसहितं समादाय ग्राममालयं वा प्रदक्षिणं कृत्वा ताश्चाऽसङ्करं विमानं समारोप्य शिल्पिना सार्धं सूत्रं प्रसार्य शिला वाऽथेष्टका वा तन्मध्ये छिद्रे पूर्ववत् प्रागग्रं तच्छिद्रे तन्मूलं तद्दक्षिणे छिद्रे दक्षिणे मूलं पश्चिमे छिद्रे (अग्रं) पश्चिमे मूलम् उत्तरे छिद्रे उत्तराग्रमेवं छिद्रं पूर्ववच्चतुर्वेदादि मन्त्रैरूर्ध्वाननं सन्न्यस्य सुधामालिप्य तन्मध्ये रत्नं, सुवर्णं वा यथाशक्ति विन्यस्य सुधामालिप्य मेदिनीमन्त्रेण मयूराङ्घ्रिं विन्यस्य तस्योर्ध्वे सुषिरे विष्णुसूक्तेन स्थूपिकीलं प्रतिष्ठापयेत्।

पश्चाच्छिल्पिनमाहूय सुदृढं कृत्वा शिखरं समाप्य तस्मिन् प्रागादिचतुर्दिक्षु न्यक्षादीनावाह्याऽभ्यर्च्य शेषांशं विधिना कारयित्वा शक्तश्चेत्ताम्रजं, राजतं, सौवर्णं वा, कृत्वा तस्याऽधस्तात्सुधावर्णानुलेपं च कारयेत्।

इति श्री वैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे गर्भन्यासमूर्धेष्टका-विधिर्नाम त्रयोदशः पटलः ॥ १३ ॥

[[४९]]