०१२ परिवारस्थाननिर्णयः

अथ द्वादशः पटलः

परिवारस्थानम्

अथ परिवारस्थानं वक्ष्ये - मुखमण्डपसोपानमध्ये श्रीभूतं, प्रथमावरणाद्यग्रायामं चतुर्धा कृत्वा सर्वत्रापि तृतीयांशे श्रीभूतगरुडस्य चक्रध्वजशङ्खमहाभूताऽक्षहन्तान् क्रमेण परिकल्पयेत्। अथवा द्वितीयावरणे द्वितीयांशे गरुडं, तृतीयांशे चक्रं, तृतीयावरणे द्वितीयांशे शङ्खं, तृतीयांशे ध्वजम्, चतुर्थावरणे तृतीयांशे यूथाधिपं, पञ्चमावरणे तृतीयांशेऽक्षहन्तम्, अथवा गोपुराद्बाह्ये प्रासादस्यार्धसमायामं नीहा तत्रैव अक्षहन्तस्य पीठं परिकल्पयेत्। अथवा सर्वत्र प्रथमावरणाद्यङ्कणस्याऽग्रायामं चतुर्धा कृत्वा विमानपार्श्वादि द्वितीयांशे गरुडं, तृतीयां बलिपीठञ्च कल्पयेदिति केचित्। परिवाराणामालयं, पचनालयं, पुष्पसञ्चयस्थानम्, उदकपानीयस्थानं; नृत्तमण्डपञ्च, मूलधामप्रेक्षं; स्नपनमण्डपमास्थनमण्डपप्राकारं, गोपुरञ्च, बहिर्मुखं, विमानगर्भगृहमभ्यन्तरमुखं ज्ञात्वैवमारभेत॥ प्राग्द्वारे देवतागारे प्रथमावरणे द्वितीये वैन्द्रैशानयोरन्तरे स्नानोदकपानीयपुष्पसञ्चयस्थानं, प्लोतवस्त्रोत्तरीयगन्ध ताम्बूलाद्यर्चनाद्रव्यसञ्चयस्थानं च, ऐन्द्राग्न्योर्मध्ये शय्यादेशम्, उत्तरद्वारं चेत् सोमोदानयोर्मध्ये स्नानोदकादिद्रव्यसञ्चयस्थानं, सोमेशानयोर्मध्ये शय्यास्थानं च, सर्वत्रापि महानसमाग्नेय्यामेव कारयेत्॥

[[४३]] परिषद्देवानां स्थानं वक्ष्ये गर्भगेहे ध्रुवबेरस्य पादयोर्मध्ये विष्णुः, तत्प्रागादीशानान्तं पुरुषकपिलसत्ययज्ञाच्युतनारायणानिरुद्धपुण्याश्च, द्वितीयावरणे वाराह सुभद्र नारसिंह ईशितात्मवामनसर्वोद्वह त्रिविक्रम सर्वविद्येश्वराश्च, तृतीयावरणे इन्द्राग्नियमर्निऋति वरुणवायुकुबेरैशानाश्च, दक्षिणे श्रीः, वामे हरिणी च, कर्मार्चास्थाने सुभद्र सर्वहयात्मकसुखावहरामदेवसंवहपुण्यदेवसुवहाश्च, द्वितीयावरणे मित्रसनातनात्रिसनन्दन शिवसनत्कुमारविश्वसनकाः, तृतीयावरणे इन्द्रादयः, दक्षिणे भित्तिपार्श्वे्् पितामहपुण्यौ, वामे गङ्गाधरपद्मापितरौ, द्वारेषु धातृविधातृभुवङ्गपतङ्गगपतिरवरुणाश्च, न्यक्षादिविमानपालाः शिखराग्रे स्थूप्यधस्तात् प्रागादिचतुर्दिक्षु बहिर्मुखासीनाश्च अधस्तादधिष्ठानवर्गं, परितः प्रागादिन्यक्षविवस्वन्तन्मित्रक्षत्तारः, पीठेषु समर्चनीयाः, मणिकसन्ध्येऽभ्यन्तरद्वारे मुखमण्डपद्वारे विखनसतापसौ, प्रथमावरणादि सप्तप्राकारद्वारेषु किष्किन्धबहुमर्दतीर्थौ, विघ्नेशनागेशौ, शङ्खपद्मौ, तुहिणबलिन्दौ, नन्दकशार्ङौ चक्रचूलि शङ्खचूलिनौ, चण्डप्रचण्डौ चेत्येतानष्टादश द्वारपालानर्चयेत्। सोमेशानयोरन्तरे विष्वक्सेनं, प्रथमावारणाऽऽद्यङ्कणे चतुर्भागद्विभाग श्रीभूतगरुडचक्र ध्वज शङ्ख यूथाधिपाक्षहान्तानेताननपायिनश्च तत्तत्सूत्रे संयोज्यैवाऽर्चयेदिति केचित्।

प्रथमावरणे, द्वितीये वा, प्रागादीशानान्तम् इन्द्रादीन् प्राग्द्वारादि द्वारदक्षिणपार्श्वेषु कोणेषु च, प्राग्द्वारादुत्तरे भास्करमिन्द्रात् दक्षिणाद्यन्तराले, चन्द्राङ्गारक बुध बृहस्पतिकाव्यमन्दराहुकेतूनेतान् ग्रहांश्च, तृतीयावरणे गङ्गायमुनानर्मदासिन्धूः, प्रागादिचतुर्दिक्षु तत्तद्वारदक्षिणपार्श्वे पूर्वद्वारोत्तरे दुर्गाम् आग्नेयादिषु कोणेषु, सिद्धिं श्रियं ज्येष्ठां धात्रीं च अन्तराले सुधासुन्दरीसुव (स्वा) हास्वधामायासंह्लादिनीराकासिनीवालीश्च पचनालये हविरक्षकं, पुष्पमण्डपे पुष्परक्षकं, वारिसञ्चयस्थानपार्श्वे पुरुषं, प्लोतवस्त्रोत्तरीयादि द्रव्यसञ्चयस्थानपार्श्वे त्वष्टारं, शय्यास्थाने कौमोदकीं, हविर्द्रव्यादिसञ्चयस्थाने सर्वेश्वरं, द्वादशः पटलः [[४४]] होमस्थाने बलिरक्षकमर्चयेत्। चतुर्थावरणे पूर्वद्वारोत्तरे गविष्टं, दक्षिणे पृथिवीं, पश्चिमे दक्षिणे अग्निम्, उत्तरे वायुं च, आग्नेयादिषु कोणेषु ऋग्यजुः सामाथर्वणश्च, अन्तराले शिवं विष्णुं तक्षकं शुभं भूतनायकं पवित्रं पावनं क्षितिजं च। पञ्चमावरणे पूर्वद्वारोत्तरे दक्षिणे चक्रं ह्रीमनुमतिं; दक्षिणे ब्रह्माद्यास्सप्तमातॄः, पश्चिमे जयाद्यप्सरसश्च, उत्तरे कुण्ठिन्यादि सप्तरोहिणीश्च, आग्नेयादिषु कोणेषु वत्सरादीन् प्राणा(दीन्म)रुतः, शतरुद्रानन्तराले वा ईशानेन्द्रयोरन्त(र)राले अजैकपदः एकादशरुद्रादीन्, इन्द्राग्न्योरन्तराले धात्रादिद्वादशादित्यान्, यमाग्नेययोरन्तरे गन्धर्वान्, यमनीलयोर्मध्ये मुनीन्, नीलवरुणयोर्मध्ये अमृतजान्, वरुणोदानयोर्मध्ये, अश्विनौ, सोमोदानयोर्मध्ये विद्याधरांश्च, षष्ठावरणे प्राग्द्वारादुत्तरे तुम्बुरुं, तद्दक्षिणे नारदं, दक्षिणे ऋतून्, पश्चिमे प्रजापतिम्, उत्तरे मुद्गलम्, आग्नेय्यां हलेशं, नैऋ0M त्यां यक्षं वायव्यां जाम्बवन्तम्, ऐशान्यां सुरमम्, अन्तराले प्राच्यामुत्तरे किन्नरमिथुनं, तद्दक्षिणे प्रह्लादं, दक्षिणे कामं विपां च, पश्चिमे व्याजि (जु) नीं कामिनीं च, उत्तरे प्रभां सुन्दरीं च, सप्तमावरणे पूर्वद्वारोत्तरे ब्रह्माणं, तद्दक्षिणे अर्यम्णं, दक्षिणे दण्डभृतम्, उत्तरे धनदम्, आग्नेयादिषु कोणेषु सवितृसावित्रौ, इन्द्र (इन्द्रें) द्रानुजौ, रुद्ररुद्रानुजौ, अपापवत्सौचान्न्तराले प्रागादि चतुर्दिक्षु ईशादिपददेवान् क्रमेण कारयेत्। अत्रानुक्तान् सर्वान् बाह्ये महत्पीठं कृत्वा सर्वेदेवा इति सङ्कल्प्याऽर्चयेत्। एतेषामनुक्तं सर्वं भृगूक्त विधिना कारयेत्। यूथेशपीठं यथोक्ते देशे गर्भागारविस्तृताद्वारोत्तुङ्गाद्वा, पञ्चभागत्रिभागैकभागमर्धं वा हस्तमानेन त्रिहस्तं द्विहस्तम् एकहस्तं वा पीठस्यायामविस्तारं तत्समोत्सेधं, तन्मध्ये पूर्ववत्प्रथमेष्टकां शिलां वा विन्यस्य पीठोत्तुङ्गं षोडशां कृत्वा एकांशमुपानं, चतुरंशा जगती त्र्यंशं कुमुदमर्धांशं कम्पं चतुरंशं कण्ठं, अर्धांशं कम्पं, द्व्यर्धंशा महापट्टिका तदूर्ध्वं कम्पम् अर्धांशं (चतुर्दिढ्मध्यमहद्रु) शङ्खनादसमतद्भूाताकारयुक्तं वियुक्तं वा कृत्वा [[४५]] समाप्तेष्टकां विन्यस्य तत्तुरीयांशमूर्ध्वपद्यं, तत्पद्यं पञ्चधा कृत्वा एकांशं पद्माऽऽधारवृत्तकम्पं तस्योर्ध्वे द्व्यंशमधोदलं, शेषांशमूर्ध्वदलम्, ऊर्ध्वाधः षोडशदलैः युक्तं कुर्यात् पद्मतुङ्गस्य पादांशेनाऽर्धांशेन वा उपपीठं कारयेदिति केचित्॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनकल्पे परिवारस्थाननिर्णयो नाम द्वादशः पटलः ॥ १२ ॥