अथ एकादशः पटलः
प्राकारलक्षणम्
अथ प्राकारलक्षणं वक्ष्ये - रक्षार्थं मङ्गलार्थं शोभार्थं तत्प्रासादार्धं, त्रिपादं, समं, पादाधिकमर्धाधिकं वा, प्रथमावरणम्। तत्समं, पादाधिकमर्धादिकं, पादोनद्विगुणं, द्विगुणं, त्रिगुणं, चतुर्गुणं, पञ्चगुणं वा, द्वितीयावरणम्। तस्योक्तप्रमाणेष्विष्टमानेन तृतीयावरणादिसप्तप्राकारान्तं कारयेत्।
प्रासादं परितश्चतुरश्रीकृत्य तत्पादाधिकमर्धाधिकं पादोनद्विगुणं द्विगुणं द्विगुणार्धं त्रिगुणार्धं चतुर्गुणं वा मुखायामं प्रथमावरणस्य, तत्परितश्चतुरश्रीकृत्यैव द्वितीयावरणादिसर्वप्राकाराणां मुखायामं प्रयोक्तव्यम्। अथवा सर्वप्राकाराणां प्रासादं परितश्चतुरश्रीकृत्यैवं मुखायामं योजयेदिति केचित्। हस्तमानं त्रिधा प्रोक्तम् अधमं मध्यममुत्तममिति यथाक्रमेण त्रिपञ्चसप्तहस्तमधमं त्रयं, नवैकादशत्रयोदशहस्तं मध्यमं त्रयं, पञ्चदशसप्तदशैकोनविंशतिहस्तमुत्तमं त्रयम्। एवमेव सप्तप्राकारान्तं कारयेत्॥ तेषां मुखायामं पूर्ववत्। मुखोयः दक्षिणे पश्चिमे उत्तरे वा विस्तीर्णे देशे तत्तद्दिशि बाह्यप्राकारसममायामं, तत्समं त्रिपादमर्धं वा विस्तारमङ्कणं कृत्वा तस्मिन्नास्थानमण्डपं कारयेत्।
आलयाभिमुखे वोत्तरे वा बहूदकं विस्तीर्णं तटाकं कृत्वा तत्परितः शिलया इष्टकया वा तीरं कारयेत्। तत्तीरे मनोरमे वा आस्थानमण्डपं कुर्यादिति केचित्। तटाकस्य पश्चिमे तीरे तीर्थस्थानं प्राङ्मुखं त्रिपञ्चसप्तनवैकादशहस्तैस्समाश्रमायताश्रं वा, युग्मायुग्माङ्घ्रिभित्तिकं, मण्डपं कूटं प्रपां वा कुर्यात्।
तद्बाह्ये प्राकारं कारयेदिति केचित्। एकप्राकारमधमं, द्विप्राकारं मध्यमं, त्रिप्राकारमुत्तमं स्यात्। त्रिप्राकारं मध्यमाधमं चतुष्प्राकारं मध्यममध्यमं, पञ्चप्राकारं मध्यमोत्तमं स्यात्। पञ्चप्राकारमुत्तमाधमं स्यात्। षट्प्राकारमुत्तममध्यमं, सप्त, प्राकारान्तमुत्तमोत्तमं स्यात्। प्राकाराणां भित्तिविष्कम्भं हस्तं [[३९]] पादाधिकमर्धाधिकं, पादोनद्विगुणं, द्विगुणं वा, तत् त्रिचतुष्पञ्चषट् सप्ताष्टनवगुणितं भित्युत्सेधं विस्तारादष्टमांशोनमग्रविपुलं प्रासादस्य पादाद्वा, प्रादुपानाद्वा, प्राकारभित्यन्तरमुतमं, भित्तिमध्ये मध्यमं, भित्तिबाह्ये चाधमं, तेषां प्रमुखद्वारं गोपुरं कृत्वाऽधस्ताद्वारिमार्गं प्राच्यामुदीच्यां वा दक्षिणोत्तरपश्चिमेषु क्षुद्रद्वारं, युक्तितः कारयेत्। एतेषां बहिरावरणपृष्टेप्येवं द्वारं गोपुरं वा कुर्यात्। प्रथमावरणं विना अन्येषां कारयेदित्येके। तन्नवधा कृत्वा द्विभागमधिष्ठानं, सप्तांशं पादायामं, मानाङ्गुलेन षष्ट्यङ्गुलादूर्ध्वं षडङ्गुलवृद्ध्याऽष्टोत्तरशताङ्गुलान्तं स्तम्भोच्चं नवधा भवति सप्ताङ्गुलं समारभ्यैकाङ्गुलवृद्ध्या पञ्चदशाङ्गुलान्तं नवविधं पादविष्कम्भं, सार्धद्विहस्तादूर्ध्वं पादवृद्ध्या सार्धचतुष्करान्तं नवधा भित्तिमानम्, उत्तरार्णः परितः प्राक्पश्चिमयोरुत्तराग्रं, दक्षिणोत्तरयोः प्रागग्रं, संयोज्य तस्योपरि तलादीनि सन्यसेत्, एवमेव शिलाजं चाऽऽस्तरेत् ऊर्ध्वे लुपाभिस्सञ्छादयेदिति केचित्।
शिलास्तम्भोपरि दारुस्तम्भं प्रयोक्तव्यं, दारुस्तम्भोपरि शिलास्तम्भं न योजयेत्॥
अथवा तन्मुखायामं युग्मभित्तिसमायुक्तं द्वारादिकं नानोत्तराणि सन्यस्य तस्योपरि प्रागन्तमुत्तरान्तं च तुलादीन्यास्तरेत्। द्वारे द्वारशोभादिभेदेष्वेकमार्गेण गोपुरं कारयेत्। अथवाऽधिष्ठानान्ते द्वारं हित्वा द्वारबाह्ये चोभयोः पार्श्वयोरभ्यन्तरभित्तिवशादेकभित्ति (भक्ति) युक्तं सोपानं कारयेत्।
तद्वत्स्तम्भतुलादीनि युग्मं च संयोजयेत्। अत्रानुक्तं सर्वं शिल्पिशास्त्रोक्तमार्गेण कुर्यात्॥
गोपुरलक्षणम्
अथ गोपुराणां लक्षणं वक्ष्ये द्वारशोभा द्वारशाला द्वारप्रासादं द्वारहर्म्यं द्वारगोपुरमिति पञ्चधा भवन्ति। तेषां क्रमेण विस्तारो वक्ष्यते - मूलप्रासादविशालं द्वित्रिचतुष्पञ्चषडंशं कृत्वा एकांशोनं द्वारशोभादीनामाभासानां विशालं स्यात् सप्ताष्टनवदशैकादशभागं कृत्वा एकांशोनं विकल्पनां चतुष्पञ्चषट्सप्ताष्टांशम् एकादशः पटलः [[४०]] कृत्वा एकांशं व्यपोह्य शेषांशैर्मध्यमानां, त्रिभागैकमर्धं त्रिभागं द्विभागं चतुः पञ्चांशयोरेकोनमिति द्वारं शोभादीनामुत्तमानां विशालं स्यात् अथवा हस्तमानेन द्विहस्तादि द्व्यष्ट(द्विरष्ट)हस्तान्तमेकहस्तविवृद्ध्या द्वारशोभादीनामेकैकं त्रित्रिभेदे (क्षुद्रां) त्रिःपञ्चभेदम्त्रिहस्ताद्येकत्रिंशत् करान्तं द्विद्विहस्तविवृद्ध्या द्वारशोभादीनामल्पानां विस्तारं त्रिःपञ्चभेदं स्यात्, नवहस्तादिसप्तत्रिंशत्करान्तं द्विद्विहस्तविवृद्ध्या मध्यमानां विशालं त्रिः पञ्चभेदं स्यात्।
अथोत्तमानां विशालं पञ्चहस्तादित्रयोदशहस्तान्तं द्विद्विहस्तविवृद्ध्या द्वारशोभाविशालं पञ्चविधं भवति। पञ्चदशहस्तादित्रयोविंशतिहस्तान्तं द्विद्विहस्तविवृद्ध्या द्वारशालाविशालं स्यात्, पञ्चविंशतिहस्तादि त्रयस्त्रिंशद्धस्तान्तं द्वारप्रासादविशालं, पञ्चत्रिंशत्करादित्रिचत्वारिंशद्धस्तान्तं द्वारहर्म्यविशालं नवपञ्चकरादित्रिपञ्चाशत्करान्तं द्वारगोपुरव्यासमित्येवं पञ्चानां व्यासं पञ्चविंशतिभेदं विधीयते। तेषामुदितं विशालस्य पादार्धं, त्रिभागाद्द्विभागं, पादोनद्विगुणं, द्विगुणं वायामं पञ्चविधं स्यात्। उत्सेधविन्यासगण्यालङ्कारादीनि सर्वाणि मूलप्रासादस्योक्तमार्गेणैकतलाद्यर्कतलान्तं समूह्यैव गोपुराणि कारयेत्।
आधिष्ठानं पादबन्धमेव द्वारविस्तारं सार्धहस्तं त्रिपादहस्तं द्विहस्तं सार्धद्विहस्तं पादोनत्रिहस्तं त्रिहस्तमिति सप्तधा भवति तत्तद्विगुणमुत्सेधं स्यात्॥
अथवा मूलभूमेरधिष्ठानाङ्घ्रितुङ्गद्वारतुङ्गतदर्धविस्तारम् अथवा द्विहस्तविस्तारात्त्र्यङ्गुलाद्येकविंशत्यङ्गुलान्तं द्व्यङ्गुलविवृद्ध्या द्वारविस्तारं दशधा भवति।
गोपुराणां निर्गमं विस्तारार्धं त्रिभागैकं पञ्चभागाद्विभागं, प्राकारभित्तिबाह्यतः कुर्यात्। अन्यत्सर्वं मूलप्रासादस्योक्तविधिना कारयेत्॥
परिवाराणाम् आलयनिर्माणम् अथ परिवाराणामालयं गर्भव्याससमं पादहीनमर्धं वा, अथवा त्रिहस्तं, पञ्चहस्तं वा, मुखमण्डपसहितं (कृत्वा) स्थापयेत्। परिवाराणां ध्रुवकौतुक- [[४१]] संयुक्तमुत्तमं, कौतुकं विना तत् स्थाने पीठं कृत्वार्चयेन्मध्यमम् आलयं ध्रुवकौतुकं च विना यथोक्ते देशे शैलान्यैष्टकानि वा मानाङ्गुलेन, मात्राङ्गुलेन वा, द्वादशाङ्गुलोत्सेधानि तद्द्विगुणायतविस्ताराणि, त्रिवेदिसहितानि, पीठानि कुर्यात्। अथवा एकवेदिकं यथालाभप्रमाणेन पीठं कृत्वा कारयेदिति केचित्। एतदधममार्गार्चनं स्यात्। अन्यथा महत्तरो दोषो भवति। परिवाराणामालयं मुखमण्डपं कूटं वा प्राकाराश्रयमेव कर्तव्यम्, पीठश्चेदालयाश्रयमेव कारयेदित्येके॥ अथ आलयाभिमुखे महामण्टपं मूलालयस्थसममध्यर्धं, द्विगुणार्धं, त्रिगुणं, त्रिगुणार्धं, चतुर्गुणमिति समचतुरश्रमायतचतुरश्रं वा युग्मपादयुग्मभक्तिकं मूलधाम्न आदिभूमिप्रमाणेनाऽधिष्ठानपादप्रस्तराणि कृत्वा सञ्छाद्य मध्ये सभां युक्त्या कल्पयेत्। तत्प्रमुखे तथैव नृत्तमण्डपम् आग्नेयादिकोणेषु तथैवास्थानमण्डपं कारयेत्। प्रथमावरणे द्वितीये वा माधि(लि)काविहीने च आलयाभिमुखे, मण्डपपूर्वे सोपानपूर्वे वा, स्नपनागारं, मण्डपं, कूटं वा, नेकद्वारयुतमेकद्वारयुतं वा कृत्वा द्वितीयावरणे, तृतीये वा, आग्नेय्यां पचनालयं विमानसमं, पादाधिकमर्धाधिकं, पादोनद्विगुणं द्विगुणं, द्विगुणार्धं, त्रिगुणमिति विस्तारं सप्तधा भवति विस्तारात्पादाधिकमर्धाधिकं वा आयामं चतुरश्रं चतुरश्चतुः शालोपेतं तन्मध्ये रूपं तद्दक्षिणतो मूलधाम पादुकादिप्रस्तरान्तोत्सेधं चतुर्धा कृत्वा एकांशमधिष्ठानं सोपपीठं वा द्व्यंशं पादवर्गमेकांशं प्रस्तरं, प्राकाराभ्यन्तरं प्राकारमध्यं प्राकारबाह्यं वा अस्य भित्तिविष्कम्भं हस्तमात्रं, पादहीनं, पादाधिकं वा, मण्डपाकारं लुपायुक्तं वा कारयेत्। तत्द्वारदक्षिणे पूर्ववत्प्रथमेष्टकाः शिला वा संस्थाप्य तथैवान्ते च स्थापयेत्। सुधाकर्म कृत्वा अभ्यन्तरे प्राच्यां दक्षिणाद्युत्तरान्तं चुल्लिं युग्मायुग्मसङ्ख्या (ख्य) दक्षिणशालामध्ये नित्याग्निकुण्डं पश्चिमशालामध्ये सोपानद्वारम्, उत्तरतोहविर्द्रव्योपसञ्चयस्थानम् अधस्ताद्दक्षिणतः प्राच्यां वा वारिमार्गं च कारयेत्। प्रथमावरणे द्वितीये वा दक्षिणे होमस्थानं कारयेदिति एकादशः पटलः [[४२]] केचित्। यागशालां द्वितीयावरणे आग्नेय्यां वा पञ्चहस्तनवहस्तायतविस्तारं चतुर्द्वारयुतं मण्डपं कूटं वा कुर्यात्। अत्राऽनुक्तं सर्वं शिल्पिशास्त्रोक्तविधिना कारयेत्॥
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे प्राकारगोपुरादिविधिर्नाम एकादशः पटलः ॥ ११ ॥