अथ दशमः पटलः
द्वितलविधिः
अथ द्वितलविधिं वक्ष्ये - तद्व्यासायामं नवधा भवति अत्र त्र्यंशं गर्भविस्तारं, परितोगृहपिण्ड्यलिन्द्रहा(रा)श्वैकैकांशेन समावृता भवन्ति, बाह्यभित्तिं षट्भागं विभज्य द्व्यंशं कोष्ठम् एकांशं कूटम् एकांशं हारान्तरम्।
अथवा तमष्टधा विभज्य तदेकांशं कूटतारं, मध्ये द्व्यंशा शालां, तयोर्मध्ये चैकैकांशं पञ्जरविशालं, शेषाऽर्धांशैर्हारान्तरं कारयेत्। अथवा मानसूत्राद्बहिः कूटकोष्ठपञ्जराणां निर्गमं पादार्धं, त्रिपादं, दण्डं, सपादं सार्धं सात्रिपादं द्विदण्डं समसूत्रे अन्यस्मिन् कूटात् बहिस्तथैव कोष्ठनिर्गमं कारयेत्।
अलिन्द्रवालुकाभिरापूर्य घनं सावकाशं सञ्छादितं वा परिकल्प्य ऊर्ध्वे अलिन्द्रं त्यक्त्वा अभ्यन्तरभित्तावुपरि भूमिं कारयेत्।
उत्सेधमेकोनविंशत्यंशं कृत्वा अधिष्ठानं द्व्यंशं, चतुरंशं पादं, पादोनद्व्यंशं प्रस्तरं (स्त), त्र्यर्धांशं पादं, सार्धांशं मञ्चम् अर्धांशा वेदिका एकांशं कण्ठं (र्णं) सपादाग्न्यशं शिखरं, पादोनद्व्यंशा स्थूपिकेत्येवं शान्तिकम्।
पौष्टिकाद्युत्सेधानां पूर्वोक्तांशेषु पञ्चांशं संयोज्य पादे शिरसि चैकैकां स्थूपिं विनाऽन्येष्वर्धांशं संयोज्य कुर्यात्। एवं सर्वमूह्यैव कुर्यात्॥
उपरितलपादोत्सेधमष्टधा विभज्य एकांशं वेदिकोदयं, द्व्यर्धांशं कण्ठं (र्णं) त्र्यंशं शिखरम्, सार्धांशा स्थूपिकेति॥
अन्तरप्रस्तारं चैकान्तर दशभागं विभज्य एकांशं वेदिकोदयं, द्व्यर्धांशं कण्ठं(र्णं), त्र्यंशं शिखरं, सार्धांशा स्थूपिकेति॥
अन्तरप्रस्तरप्रस्तरं चेदेकादशभागं विभज्य एकांशं वेदिकोत्सेधं, त्र्यंशं पादं, सार्धांशं मञ्चम् अर्धांशा वेदिः, सपादांशं कण्ठ(र्णं) पादोनत्र्यशं शिखरम्, एकांशा स्थूपिकेत्येव सर्वत्र कूटकोष्टादीनि कारयेत्॥
[[३५]] प्रवेशनिर्गमं दण्डेन यथाशोभं यथाजालं नयेत् मुखमण्डपं दक्षिणवामयोरूर्ध्वाधिरोहणार्थं सोपानं च युक्त्या कारयेत्॥
त्रितलस्य विधिः अथ त्रितलविधिं वक्ष्ये - व्यासायामं त्रयोदशभागं कृत्वा त्र्यंशं गर्भगृहं, परितोगृहपिण्ड्यलिन्द्रहारास्तद्बहिश्चालीन्द्रहारे सङ्कल्प्य अभ्यन्तरालीन्द्रं वालुकाभिरापूर्य, घनमेव बाह्यालीन्द्रं सावकाशं सच्छादितं वा कारयेत्।
बाह्यभित्तेः परितः कूटशालादीनि पूर्ववत्कृत्वा अलिन्द्रं त्यक्त्वा तदभ्यन्तरभित्तौ मध्ये तलं सालिन्द्रं सच्छादितं तस्मिंश्च कूटशालादीनि पूर्ववत्कुर्यात्। अलिन्द्रं त्यक्त्वा गृहपिण्डादुपरिभूमिं कारयेत्। मुखमण्टपं च कुर्यात् सोपानं युक्त्या च कल्पयति॥
उत्सेधं चतुर्विंशतिभागं कृत्वा अधिष्ठानं द्व्यंशं, पादं चतुरंशं, प्रस्तरं पादोनद्व्यंशं, पादं पादोनचतुरंशं, सार्धांशं मञ्चं, पादं त्र्यर्धांशं, सपादांशं प्रस्तरम् अर्धांशा वेदिः, सार्धांशं कण्ठं(र्णं), त्र्यंशं शिखरम्, (स) पादांशा स्थूपिकेत्येवं शान्तिकम्॥
पैष्टिकाद्युत्सेधानां पूर्वोक्तांशेषु सप्तांशं संयोज्य पादेषु शिरसि चैकांशमन्येष्वर्धांशं संयोज्य युक्त्या सर्वमूह्यैव कुर्यात् । एतेषां विन्यासविशेषः मूर्तिभेदं च उत्तरतो वक्ष्यामः।
चतुस्तलस्य विधिः अथ चतुस्तलविधिं वक्ष्ये - व्यासायामं सप्तदशभागं कृत्वा त्र्यंशं गर्भगृहं, तत्परितश्चैकांशे गृहपिण्ड्यलीन्द्र हारादीन् कल्पयति। तत्तत्तलावसाने कूटशालाद्यैस्तत्तद्भित्तिं समापयेत्। अधस्तलं सर्वत्र घनमेव कृत्वा तस्योर्ध्वे परितोऽलिन्द्रं त्यक्त्वा तदभ्यन्तरे परितोऽलिन्द्रत्रये प्रागादिचतुर्दिक्षु मुखमण्डपसंयुक्तं गर्भगृहं सङ्कल्प्य पुरुषादीन् संस्थापयेत् आग्नेयादिकोणेषु दशमः पटलः [[३६]] प्राङ्मुखं पश्चिमाभिमुखं तथैव कृत्वा कपिलादीन् संस्थापयेत् तर्द्ध्वे परितोऽलिन्द्रं त्यकत्वा मध्ये विष्णुमूर्तेर्गर्भागारं मुखमण्डपसंयुक्तं, दक्षिणे नरनारायणयोः, पश्चिमे नृसिंहस्य, उत्तरे नरनारायणस्य गर्भागारं कृत्वा तदूर्ध्वे परितोऽलिन्द्रं त्यक्त्वा मध्ये प्राङ्मुखशयनस्य गर्भागारं मुखमण्डपं च कृत्वा परितस्तलं प्रतिचर्यासोपानं प्रदक्षिणवशेन युक्तितः कुर्यात्॥
उत्सेधं पञ्चत्रिंशदंशं कृत्वाधिष्ठानं त्र्यंशं, षडंशं पादं, द्व्यर्धांशं प्रस्तरं, पञ्चांशं पादं, द्व्यंशं मञ्चं, चतुरंशं शरणं, सार्धांशं कपोतं, त्र्यंशं पादं, सपादांशं मञ्चम् अर्धाशा वेदिका, एकांशा ग्रीवा, त्र्यर्धांशं शिखरं, पादोनद्व्यंशा स्थूपिकेत्येतत् शान्तिकम्। पौष्टिकाद्युत्सेधानां पूर्वोक्तांशेष्वष्टांशं संयोज्य पादेषु शिरसि चैकैकांशं संयोज्य शेषं समूह्यैव कुर्यात्। शिखरे पादांशं हित्वा स्थूप्या सह संयोजयेदित्येके॥
पञ्चतलविधिः
अथ पञ्चतलं वक्ष्ये - पूर्वोक्तांशेषु तारे चतुरंशं संयोज्य परितोऽलिन्द्रं हारे सङ्कल्प्याऽधरतलं घनमेव कृत्वा उपरितलेऽष्टदिक्षु गर्भगृहं सङ्कल्प्य प्रागादि नृसिंहादीन् संस्थापयेत्। तस्योपरि चतुस्तलोक्तप्रकारैरेव कुर्यात्।
उत्सेधेषु पूर्वोक्तांशेषु षोडशांशं संयोज्य अधस्तलस्याऽधिष्ठानं चतुरंशम् अष्टांशं स्तम्भं, चतुरंशं प्रस्ताम् एष विशेषोऽन्यत्सर्वं पूर्ववत्। तस्मिन् पैष्टिकाद्युत्सेधानामधस्तस्य पादे चैकांशम्, अन्ययोश्चैकांशं पूर्वोक्तांशेषु योजयित्वा शेषं सर्वं समूह्यैव कुर्यात्॥
एवं षट्तलादिद्वादशतलान्तं तारे चतुरंशं, तुङ्गे कालांशं संयोज्य उत्सेधभेदार्थं द्व्यंशाधिक विभक्तेर्विनैव तलं प्रति युक्त्या संयोज्य कुर्यात्।
सर्वेषां तलानामधस्तलं घनमेव कृत्वा षट्तलस्य द्वितीयतले प्राच्यां मध्ये पञ्चवीरान्, दक्षिणे राघवम् उत्तरे कृष्णं च, दक्षिणे मध्ये नृसिंहं, तत्पूर्वे वामनं, पश्चिमे त्रिविक्रमं, पश्चिमे मध्ये वाराहं; दक्षिणे परशुरामम्, उत्तरे [[३७]] बलभद्रं च उत्तरमध्ये कल्कि(र्कि)णं पश्चिमे कूर्मरूपं पूर्वे मत्स्यात्मकं च, गर्भगृहे संस्थापयेत्। तदुपरि पञ्चतलोक्तवत्॥
सप्ततलस्य द्वितीयतले देवस्य विजयक्रीडारूपाणि प्रागादिदिक्षु, विदिक्षु, अन्तरालेषु, पूर्ववद्गर्भगृहं कृत्वा स्थापयेत्॥
अष्टतलस्य द्वितीयतले प्राच्यां दक्षिणाद्युत्तरान्तं सनकं सुभद्रं मित्रं सनातनं च प्राङ्मुखं, दक्षिणे पश्चिमादिप्रागन्तं सुखावहं हयात्मकं मित्रं सर्वांश्च दक्षिणामुखान्, पश्चिमे दक्षिणाद्युत्तरान्तं सनन्दनं रामदेवं शिवं सनत्कुमारं च पश्चिमाभिमुखान्, उत्तरे पश्चिमादिप्रागन्तं संवहं पुण्यं विश्वं सुवहं चोत्तराभिमुखान् गर्भगृहं कृत्वा स्थापयेत्, अन्यत्सर्वं पूर्ववत्॥ नवतलस्य द्वितीयतले प्रागादिदिक्पालान् आदित्यांश्च वसून् रुद्रान् मरुतो विश्वान् सप्तऋषीन् सप्तरोहिणीः मातृगणानपि गर्भगृहं कृत्वा स्थापयेदन्यत्सर्वं पूर्ववत्।
सर्वस्मिन् यथेष्टस्थाने गर्भगृहं कृत्वा सर्वान् देवान् कल्पयेत्। दशतलाद्युक्ततलान्तं तलं प्रति यथाक्रमेण पीताभं महाविष्णुं रुक्माभं सदाविष्णुं, स्फटिकाभं नारायणं, चतुर्भुजं देवीभूषणायुधैस्सह स्थानकासन शयनमार्गेष्वेतेष्विष्टमार्गेण संस्थापयेत्। अथवा द्वितलादिद्वादशतलान्तं क्रमेण विस्तारं त्रिभागादित्रयोदशभागान्तं विभज्य एकांशं गर्भगृहं शेषांशैर्गृहपिण्ड्यलिन्द्रभागादीन् कूटशालादींश्च व्यांसोपानसंयुक्तं वेणुरन्ध्रवत्, गर्भोपरिगर्भगृहं मुखमण्डपं च परिकल्प्य आदितलं घनमेव कृत्वा उपरितलत्रये महाविष्णुं, सदाविष्णुं नारायणम् अन्येष्वधस्तात्स्थानकासनशयनभेदेन विष्णुमूर्तिं पूर्ववत्संस्थापयेत्। अष्टतलादूर्ध्वं मूर्तिस्थापनं नाचरेदित्येके। सर्वेषु विमानेषु विस्तारात्त्रिभागैकविशालमेकदण्डाद्यर्कदण्डान्तं द्वादशभेदैर्निर्गमयुतं मध्यभद्रं कुर्यात्। महद्विमानं चेत् द्वयोः पार्श्वयोश्च कूटशालादीन् कल्पयेदित्याह मरीचिः॥
इति श्रीवैखानसे मरिचिप्रोक्ते विमानार्चनाकल्पे द्वितलादिविधानं नाम दशमः पटलः ॥ १० ॥
दशमः पटलः [[३८]]