००९ एकभूमिविधिः

अथ नवमः पटलः एकतलविमाने शान्तिकलक्षणम् अथैकभूमिं वक्ष्ये - अधिष्ठानपादप्रस्तरग्रीवाशिखरस्थूपिकाश्चेति षड्वर्गयुक् एकभूमिः, अथवा चतुर्वर्गयुता स्यात्, शान्तिकोत्सेधं षडंशं कृत्वा, एकांशमधिष्ठानं, द्व्यंशं पादतुङ्गं, द्व्यंशं (खुरं) शिखरम् एकांशं स्थूपिकोदयमेवं चतुर्वर्गयुतम्, अथवा शिखरक्रियां लुपाविधानेन कारयेत्।

शान्तिकोत्सेधमष्टभागं कृत्वैकांशमधिष्ठानं, (पादं वा, तदुपरि प्रस्तरमेकांशम्, पादोनत्र्यंशं शिखरम्, एकांशं स्थूपिकोदयं स्यात्) तद्द्विगुणं स्तम्भायामं, तदुपरि प्रस्तरमेकांशं, कण्ठमेकांशं, द्व्यंशं शिखरम् एकांशं स्थूपिकोदयं स्यात्॥

पौष्टिकलक्षणम्

पौष्टिकोर्ध्वं नवभागं (नवधा) कृत्वा तदेकांशमधिष्ठानं, पादार्धाधिकं द्व्यंशं पादायामं, प्रस्तरं पादार्धोनांशं, सपादांशं कण्ठम् पादोनं त्र्यंशं शिखरम्, एकांशा स्थूपिका स्यात्।

जयदस्य लक्षणं जयदोत्सेधं दशांशं कृत्वा, एकांशमधिष्ठानं, द्व्यर्धांशं पादतुङ्गम् एकांशं प्रस्तरं, सार्धमेकांशं कण्ठं, त्र्यंशं शिखरम् एकांशं स्थूपितुङ्गं स्यात्।

अद्भुतस्य लक्षणम् अद्भुतोत्सेधमेकादशांशं कृत्वा सपादांशमधिष्ठानं,, तद्द्विगुणं स्तम्भायामं, तदुपरि प्रस्तरमेकांशं, सार्धांशं कण्ठम्, त्र्यर्धांशं शिखरं, सपादांशं स्थूपिकोदयं स्यात्।

[[२७]] सार्वकामिकस्य लक्षणं सार्वकामिकोत्सेधं द्वादशांशं कृत्वा सपादांशमधिष्ठानं द्विगुणं स्तम्भायामं, सपादांशं प्रस्तरं, सपादांशं कण्ठं, पादं, (वा) तदुपरि प्रस्तरम् एकांशम्, एकांशं कण्ठं, पादोनत्र्यंशं शिखरम् एकांशं स्थूपिकोदयं स्यात्, अद्भुतोत्सेधमप्येवं योजयेदिति केचित्॥

अथवा शान्तिकपौष्टिकजयदानामुत्सेधं क्रमेण सप्तषट्पञ्चभागं कृत्वा, तत्तदेकांशं हित्वा, समारोपयेत् इत्येके।

गर्भगृहलक्षणम्

विमानविस्तारं त्रिचतुःपञ्चसप्त नवैकादशभागं कृत्वा यथाक्रमेण एकद्वित्रिचतुःपञ्चषडंशं गर्भगृहविस्तारं स्यात्, विमानविस्तारसमं त्रिपादमर्धं वा मुखमण्टपं तद्व्यन्तरं त्रयोदशभागं कृत्वा तदेकां (कैकां) शाधिके (ना) यामं सप्तविंशति भेदं स्यात्, त्रित्रिसङ्ख्याभिश्चोत्तम मध्यमाधमभेदैर्नवधा भवति उत्तमानां विपुलं विमानविस्तारसमं सान्तरालं तस्य वेशनं द्विदण्डं दण्डार्धं दण्डमर्धं पादं वा तदायामं, हस्तेन पादमर्धं त्रिपादमेकहस्तादि सपाद पञ्चहस्तान्तं सभित्तिकं द्वारं जालकं वा कुर्यात्। मध्ये निचानामन्तरालं विनैकदण्डान्तं पाददण्डविवृद्ध्या नवभेदैः प्रवेशं कारयेत्, अन्येषां सर्वेषामन्तरा विना एतैः निर्गमं कारयेत्।

मुखमण्टपलक्षणम्

अथवा मुखमण्टपं कृत्वा तत्प्रमुखे तदायामेन पादाधिकमर्धाधिकं त्रिपादाधिकं द्विगुणं वा विस्तारं, विमानात् पादार्ध त्रिपादाधिक विस्तारायामयुतमर्धमण्डपं कुर्यात्। एतन्मध्ये भद्रतोरणाद्यैर्युक्तमयुक्तं वा त्रिवर्गाढ्यं कुर्यात्।

नवमः पटलः [[२८]] एतद्विमानस्य प्रमुखं विना पार्श्वत्रय(ये) मध्यभद्रविमान विपुला त्रिभागैकं, चतुर्भागं, पञ्चभागं, त्रिभागं वा; तन्निर्गमदण्डमध्यर्धं, द्विदण्डं वा, (मध्यं द्विदण्डमध्यर्धद्विदण्ड त्रिदण्डं वा) पादं तस्यावसाने कुर्यात्।

तोरणानामुत्सेधं स्थलादुपरि उत्तराधस्तात् द्विचतुर्भागात् त्रिभागं त्रिभागात् द्विभागं वा तोरणपादोत्सेधमर्धं त्रिभागैकम्, अथवा दण्डेन त्रिचतुष्पञ्चदण्डविस्तारं तस्य पादबाह्यं तत्पादवशेन तदङ्गानि मानयेत्। तोरणान्तर गाढप्रवेशनं दण्डं, त्रिपादमर्धं, पादं वा शेषं झषोत्सेधमुत्तरान्तं पञ्चवक्त्रैर्युक्तं पार्श्वयोर्मकरस्य मध्ये पूरितं गाढयुक्तं नानालतापत्रजातिविचित्रितं सर्वालङ्कारैर्यथाशोभं युक्त्या कारयेत्। विमानस्याधिष्टानादुपर्युत्तरान्तं पादतुङ्गं तत्र रसमुनिवसु नव दशभागं कृत्वा तदेकांशवेदिकोत्सेधं तत्तुङ्गं चतुर्धा कृत्वा अर्धांशं कम्पं, द्व्यंशं कण्ठं कर्णम् अर्धांशं कम्पं पद्ममर्धांशं, कम्पमेवं, एवं प्रत्यङ्गेषु योजयेत्।

अथवा रसांशं कृत्वा, एकांशं कम्पं, द्व्यंशं कण्ठं, (कर्णं) शेषमुपरिबन्धं स्यात् पट्टिकांशेषु तुङ्गार्धं गलं, शेषं त्रिधा कृत्वा उपरिबन्धं पूर्ववत् कारयेत्, अथवा चतुर्धा कृत्वा एकांशेन गलादधस्तात् कम्पं कारयेदिति केचित्।

पादोत्सेधं सप्ताष्ट नवदशभागं कृत्वा एकांशं पादविपुलं, अथवा अधिष्ठानोच्चं त्रिचतुष्पञ्चभागं कृत्वा एकांशं विमाननिर्देशहस्ताङ्गुलिभिः (र्वा) पादविष्कम्भं स्यात्, चतुष्पञ्चषडंशं कृत्वा, एकांशहीनं भित्तिपादविपुलं तत्र रसमुनिवसुनन्द(या)धा विभज्य एकांशोनमग्रविस्तारं तद्दण्डसञ्ज्ञं तेन सर्वाङ्गप्रमाण निर्णयकारणं स्यात्। पादाश्चतुरश्रा अष्टाश्रा षोडशाश्रा वृत्ता इति मिश्रममिश्रं वा कारयेत्। समयुग्मं श्रेष्ठं विषमयुग्मं निषिद्धम् एकत्रिपञ्चसप्तनन्द भक्तिवशेन संयोजयति। पादमूले अर्धदण्डेन पद्मं तदुपरि (कर्णे) कण्ठे (न) चतुरश्रं शेषमष्टाश्रं, षोडशाश्रम्। वृत्तं वा, भित्तिपादम्।

पादात् पादान्तरं भित्तिप्रवेशं पाददण्डं स्यात्। दारुशिलास्तम्भेषु मूलेऽर्धदण्डेन पद्मं, तदुपरि कण्ठे (कर्णे) न चतुरश्रं शेषमष्टाश्रं षोडशाश्रं वृत्तं वा [[२९]] भित्तिपादं, पादात्पादान्तरं भित्तिप्रवेशं पाददण्डं स्यात्। दारुशिलास्तम्भेषु मूलमध्याग्रेषु चतुरश्रं, अष्टाश्रं, षोडशाश्रं, वृत्तं वा, सर्वत्र सर्वैस्समानं नयेत्। पद्मोपरि सिंहोभव्यालभूतनागादि कल्पयेदिति केचित्।

पादाग्रे बोधिकावीरकाण्डफलकानामेकैकदण्डमुत्सेधं त्रिपाददण्डं वा, फलकायाः पादोनं कुम्भोच्चं, तत्समं बोधिकोच्चं वेति केचित्। फलकोत्सेधार्धं ताटितुङ्ग, धृङ्गुत्तुङ्गं, तदर्धं, पाददण्डं वा। ताट्यधस्तात् एकदण्डेन मालास्थानं वीरकाण्डानां विपुलं पादविपुलमेव पादस्य क(र्णे)ण्ठेन पादात्क्रमेण ताट्यूर्ध्वभागं विस्तारं तत्कर्णेन कुम्भविस्तारं, तत्कण्ठेन फलकाविस्तारं, तत्समं, पादाधिकं वा, बोधिकाविस्तारं नानाचित्रितरङ्गादीनि कारयेत्।

फलकोत्सेधं त्रिचतुर्भागं कृत्वा, एकांशेन वेत्रम् अधस्तात् पद्मं, शेषं युक्त्या कारयेत्॥ अथवा फलककुम्भ ताटीनामुत्सेधं तत्तद्विस्तारत्रिभागैक भागेन कारयेदित्येके।

द्वारलक्षणम्

अथ द्वारलक्षणं वक्ष्ये पादायामद्वारोत्सेधं तदर्धविस्तारं विस्ताराधिकमानं विमाननिर्देशाङ्गुलेन एकाद्यष्ठाङ्गुलान्तं नवधा भवति। अथवा दण्डेन पाददण्डादि पादाधिकं द्विदण्डान्तं पाददण्डवृद्ध्या नवविधं स्यात्। हस्तेन पादं सार्धपादमर्धं भित्तिविस्तारं, समं वा बहलद्वार विपुल पादोत्सेधं सप्ताष्टन - (न्द) वदशभागं कृत्वा, षट्सप्ताष्टनवभागं शुद्धद्वारं, शेषांशं द्विधा कृत्वा एकांशं भुवङ्गमेकांशं पतङ्गम्, अथवा भुवङ्गमानं त्रिभागैकं शेषपतङ्गमानं स्यात्।

तत्समं दक्षिणोत्तरस्तम्भनिर्गमं, तद्बहुलात्पादाधिकमर्धाधिकं पादोनद्विगुणं, द्विगुणं, तेषां विपुलबहलसमां नानापुष्पवल्लिकां कारयेत्।

अथवा तन्महद्वारं चेत् षोडशांशं कृत्वा त्रयोदशांशं शुद्धद्वारोत्सेधं सप्तांशमष्टांशं वा द्वारविस्तारं षोडशांशं द्विधा कृत्वा एकांशं भुवङ्गमेकांशं पतङ्गं स्यात् अन्यत्सर्वं पूर्ववत्कारयेत्।

नवमः पटलः [[३०]] कवाटस्य लक्षणं कवाटविस्तारायामं द्वारसमं तयोर्बाहुल्यं द्वारस्तम्भबहुलार्धं तत्पादाधिकं पादहीनं वा, तयोरूर्ध्वाधः शिखायुक्तं शेषं युक्त्यैव कारयेत्।

द्वारपट्टिकायामं शुद्धद्वारसमं तस्य विस्तारं द्वारविस्तारादष्टांशं तस्यार्धं पादं वा, बाहुल्यं, वामकवाटान्वितं नानाचित्रैर्विचित्रितं तद्दण्डं पार्श्वपट्टिकाग्रं द्वित्रयोपेत पञ्चसप्तनवाद्ययुग्मयष्टि समायुक्तं कारयेत्। शक्तश्चेत् पट्टिकायष्टीः लोहजा एव कारयेत् आयसैः पुष्पमुकुलशङ्कुभिर्दृढं कृत्वा आयसैः पट्टैश्चन्द्राद्यैस्त्रुट्याकारैर्वाकारैर्मुकुलाकारैश्च शोभनार्थं, रक्षार्थं संयोज्य तयोरूर्ध्वाधस्तान्मध्ये वलयैर्भुवङ्गपतङ्गयोर्मध्ये वलयद्वयं पुलकोपेतं कारयेत्। द्वारषडंशस्थानक्रमं भुवङ्गस्थानक्रमं भुवङ्गं दक्षिणशीर्षम्, उत्तरपादम्, ऊर्ध्वाननं, द्वितीयं दक्षिणस्तम्भमुत्तराभिमुखम्, तृतीयमुत्तरस्तम्भं दक्षिणाभिमुखम्, चतुर्थं पतङ्गमुत्तरशीर्षं दक्षिणपादमधोमुखं संस्थाप्य पश्चात् पञ्चमं दक्षिणकवाटम् उत्तराभिमुखं षष्ठमुत्तरकवाटं दक्षिणाभमिुखं तक्ष्णासंस्थाप्य पश्चात् धातृविधातृभुवङ्गपतङ्गपतिरवरुणान् तत्तन्मन्त्रेणाचार्यः स्थापयेत्।

द्वारस्तम्भं कवाटार्थं शिरीषपुन्नाग निम्बवकुलार्जुन मधूक पनसाऽसनान् अन्यान् शुभान् पुंवृक्षान्वा, विधिनाऽऽहृत्य दारु द्विधा कृत्वा दक्षिणांशं दक्षिणस्तम्भकवाटम्, वामांशमुत्तरस्तम्भमुत्तरकवाटञ्च, तस्योर्ध्वभागमूर्ध्वपट्टिकाञ्च कारयेत्। एवमेव वृक्षालाभे चैकजातीयशिलाभिः स्तम्भं कवाटं कारयेत्। कवाटपृष्ठे बन्धनार्थं दारुणा यन्त्रं यन्त्रिकाश्च कृत्वा बाह्यपार्श्वे चाऽऽयसा रक्षाबन्धन परं यन्त्रं यन्त्रिकाम् आयतवलयोपेतामयसा काञ्चनेन वा वल्मीकां कृत्वाऽऽर्पयेत्।

प्रस्तरलक्षणम्

अथ प्रस्तरलक्षणं वक्ष्ये। प्रस्तरोत्सेधमेकविंशतिभागं कृत्वा त्र्यंशमुत्तरम् एकांशं वाजनं, त्र्यंशं वलभिः, वाजनमेकांशं सप्तांशं कपोतम् [[३१]] आलिङ्गान्तरितावैकैकांशौ। प्रत्युत्सेधमेकांशं वाजनं स्यात्। उत्तरोच्चार्धं त्रिचतुर्भागं वा निर्गमं वसन्तकस्य, तत्समं पादोनमर्धं वा कपोतस्य, समत्रिपादमर्धं वा, दण्डकं सार्धदण्डं द्विदण्डं वा, निर्गमम्, अर्धदण्डेन लम्बनं वेति केचित्। प्रत्यालिङ्गयोर्मानसूत्र सममेवान्तरितम्, वाजनयोरुत्सेधं समाननिर्गमं स्यात्। दण्डं सार्धदण्डं कपोतोत्सेधं वा नासिकातुङ्गतारं तत् त्रिभागैकेन नावगाढ (गगाध) युतं तुङ्गार्धं वाजनान्तं वा शिखरोत्सेधं सिंहवक्त्रवत्कारयेत्॥

ग्रीवालक्षणम्

अथ ग्रीवालक्षणम्। तदुत्सेधं त्रिचतुष्पञ्चभागं कृत्वैकांशं वेदिको (दयं) त्सेधं ग्रीवारूपवशेन चतुरश्रामष्टाश्रां वृत्तां वा, पूर्ववद्वेदिकां कारयेत्।

वृत्तग्रीवायामप्यष्टाश्रां वेति केचित्। कण्ठार्धेन कोणेषु व्यतीत्य येन मान मानयित्वा तयोर्मध्यं मध्यवर्गं स्यात्। एवं समचतुरश्रेप्यष्टाश्रा कर्तव्या, गळोदये वेद्यशेषितांशं द्वादशभागं कृत्वा; अष्टांशं ग्रीवातुङ्गं, सार्धांशमुत्तरार्धांशं वाजनं, सार्धांशं हंसं, वाजनमर्धांशं स्यात्॥

अथवा षोडशभागं कृत्वा अष्टांशं गलोदयं, शेषांशैरुत्तरादीन् कुर्यात्, तेषां निर्गमं पूर्ववत् एताश्शिखरे संयोजयेदिति केचित्। मानसूत्रात् षट्सप्तांशैरहीनं वेदिविस्तारं, तस्मात्तथैव कण्ठ(र्ण)विस्तारम् अथवा, तयोर्वेद्युत्सेधमानेन प्रवेशं कारयेत्॥

शिखरलक्षणम्

अथ शिखरलक्षणम्। हंसवाजनात् बहिरर्धदण्डं दण्डं सार्धदण्डं द्विदण्डं वा शिखरस्यौष्ठविपुलं हंसवाजनषोडशांशैकहीनं मध्यविपुलं, हंसवाजनसदृशमुदरविपुलं, तथैवेति केचित्। अथवा वेदिविस्तारसदृशमोष्ठविपुलं, तदष्टांशैकहीनं मध्यविपुलं, तच्चतुर्विंशतिभागैकहीनमुदरविपुलं स्यात् तत्पञ्चभागा(त्) त्र्यंशं बलिकस्याधारपट्टिका, तत्पञ्चांशाद्युगांशमूर्ध्वपट्टिका, नवमः पटलः [[३२]] तस्मात्तदैवपद्मतारं, तच्चतुर्भागैकं कण्ठिकातारं, शिखरोत्सेधार्धमुदरं, तस्मात् कर्णि(ण्ठि)कान्तं क्रमात् सङ्क्षिप्य (प्तं) त्र्यङ्गुलं चतुरङ्गुलं वा बलिकमण्डलविस्तारं, तदर्धमुत्सेधम् अर्धदण्डं त्रिपाददण्डं वा पद्मतुङ्गम् अर्धदण्डं कर्णिकोत्सेधम् अथवा पद्मादूर्ध्वं स्थूप्या संयोजयेत् इति केचित्। शिखरोत्सेधमष्टभागं कृत्वा तच्चतुष्पञ्चषडंशावसाने मूर्धेष्टकां स्थापयेत्, नासिकाग्रे नासिकण्ठे (कर्णे) वा कारयेदिति केचित्॥

नासिकाविधानम्

नासिकाविधिं वक्ष्ये - शिखरव्यासात् त्रिचतुः पञ्चभागैकं नासिकाविस्तारं, तत्समं त्रिपादं त्रिपादाद्विभागं वा यामं, ग्रीवानासिक (कायाम) निर्गमदण्डं सार्धदण्डं द्विदण्डं वा, गाढप्रवेशविस्तारस्य त्रिचतुष्पञ्चभागैकहीनं ग्रीवोपरि नासिकोत्सेधं तत् त्रिभागैकहीनं दण्डं, हीनदण्डवशयुतं गाढशेषं, नानाविचित्रितवक्रपट्टियुतं तदर्धं त्रिपादं वा शिखरोच्चं तत्त्रिभागैकं कण्ठद्व्यंशेन सिंहवन्मुखं कुर्यात्॥

स्थूपिकालक्षणम्

अथ स्थूपिकालक्षणं वक्ष्ये। पद्मस्य त्रिभागैकं कुम्भतारं, त्रिभागैकं नालं, तत् त्रिगुणपालि तत् त्रिभगैकं मुकुलं स्यात् अथवा द्वाविंशतिभागं कृत्वा चतुरंशं पद्मम्, एकांशं कण्ठि(र्णि)कोत्सेधम्, पञ्चांशं कुम्भोत्तुङ्गम्, सप्तांशं नालम्, सार्धांशा पाली, त्र्यर्धांशं मुकुलं स्यात्।

एवं स्वर्णेन रजतेन ताम्रेण वा कृत्वा संयोजयेत् अशक्तश्चेत् सुधया कृत्वा अग्रे चायसा सूचिं संयोजयेत्। एतेषां विमाननिर्देशाङ्गुलिना पादाङ्गुलमर्धाङ्गुलं त्रिपादाङ्गुलमेकाङ्गुलमर्धाधिकाङ्गुलं द्व्यङ्गुलं त्र्यङ्गुलं वा दण्डेनैकं त्रिपादं वाङ्गं प्रतिहीनाधिक्यं न दोषाय भवति, विस्तारोत्सेधायामहस्तेषु पादमर्धं त्रिपादं हस्तं वा वृद्धिं हानिं यथोचितमाहरेत्॥

[[३३]]

आयादिपरीक्षा

अथायादिपरीक्षणम् (क्षा) - उत्सेधहस्ते अष्टगुणिते भानुत्रिघनैरपहृते शेषमायं नक्षत्रं स्यात्, व्यासे नवगुणिते अष्टापहृते शेषं योनिर्व्ययं भवति, प्रणाहे नवगुणाहते सप्तत्रिंशदपहृते शेषं वारं तिथिर्भवति, एवं विमानगोपुरादि करणहस्तैर्मण्डपाऽऽवरणग्रहादीनां व्यासाऽऽयामसमूहकरैः प्रतिमानामुत्सेधाङ्गुलिभीरथादीनां व्यासायामसमूहमात्रैरायादीनि परीक्षयेत्। एतेषु अल्पदोषं गुणाधिकमपि ग्रहीतव्यं सार्धहस्तछेदे पादमर्धं त्रिपादं वा संयोज्य गणयेत् तच्छेषं हीनाधिक्यं युक्त्या कुर्यात् अङ्गुलिछेदे यवैः (युक्त्या) तथैव कारयेत् अत्रानुक्तं सर्वं शिल्पिशास्त्रोक्तविधिना कुर्यात्॥

पश्चात्सुधावर्णा (द्यैरलङ्कार) द्यलङ्कारयेत्। प्रति व्यालसिंहेभाद्यैर्भूषयेत्॥

वलभौ विद्याधरहंसभूतनागादीनि कुर्यात्। द्वारेषु द्वारपालकान्॥

शिखरे महानास्यन्तरे पूर्वे पुरुषं दक्षिणे नृसिंहं पश्चिमे अच्युतम् उत्तरेऽनिरुद्धं पूर्वे चक्रं दक्षिणे दक्षिणामूर्तिं पश्चिमे नृसिंहम् उत्तरे पितामहं च कल्पयेदिति केचित्। पादवर्गे तोरणस्यान्तरे दक्षिणे सत्यं पश्चिमे अच्युतम् उत्तरे अनिरुद्धं प्राग्द्वारदक्षिणे पुरुषं च दक्षिणे नृसिंहं पश्चिमे अच्युतम् उत्तरे वाराहं वेति केचित्। दक्षिणादि दि (शा) द्वारे तद्दिङ्म ू र्तीः तद्वारदक्षिणभागे चाऽन्यान् यथाक्रमेण स्थितानासीनान्वा कल्पयेत् मुखमण्डपं दक्षिणे बाह्ये विघ्नेशम्, उत्तरे विन्ध्यवासिनीम् आग्नेयादिकोणेषु प्रस्तरोपरिगलस्थाने वाहनं मृगेशं खगेशं वा अन्यस्मिन् सर्वत्र देवस्य विजयक्रीडनादीन्येव कारयेदित्याह मरीचिः॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे एकभूमिविधिर्नाम नवमः पटलः ॥ ९ ॥

नवमः पटलः [[३४]]