००८ अधिष्ठानभेदः

अथ अष्टमः पटलः

अधिष्ठानभेदाः

अथाऽधिष्ठानकरणरूपभेदाः पादबन्धं, प्रत्यङ्गबन्धं, हरिहरहिरण्यगर्भाणां सामान्यकरणं, विशेषविधानं य - (दू) द्वारि तत्प्रवृत्तितलनिर्गमं स्यात् पादबन्धं पद्मबन्धं पुष्पबन्धं श्रीप्रियाम्बुजं प्रतिबन्धं प्रतिक्रमं कपोतबन्धं श्रीबन्धमित्यष्टावधिष्ठानानि भवन्ति।

पादबन्धादीनां लक्षणं तेषां क्रमेण भागान्वक्ष्यामि - तत्राऽधिष्ठानोत्सेधं त्रयोविंशतिभागं कृत्वा, जन्मतलोपरि एकांशं खुरम्, अष्टांशा जगती, सप्तांशं त्रिपट्टकुमुदम्, एकांशं कम्पं द्व्यशं कण्ठम्, एकांशं कम्पम्, द्व्यंशा महापट्टी, एकांशोर्ध्वपट्टिका च, एतत् पादबन्धं स्यात् ।

पद्मबन्धलक्षणम्

उत्सेधत्र्यष्टभागं कृत्वा एकांशोपानत्, द्व्यंशं पद्मम्, एकांशं कम्पम्, षडंशाजगती, पञ्चांशं त्रिवर्गकुमुदम्, एकांशं कम्पम्, द्व्यंश कण्ठम्, एकांशं कम्पं द्व्यंशा महापट्टिका; एकांशं पद्मम्, एकांशं पद्मम्, एकांशं कम्पम्, एतत् पद्मबन्धं स्यात्।

अष्टमः पटलः [[२४]]

पुष्पबन्धलक्षणम्

उत्सेधं षड्विंशतिभागं कृत्वा, एकांशं खुरम् एकांशं पद्ममेकांशं कम्पम् पञ्चांशा जगती(च) एकांशं पद्मम् एकांशं धृक् एकांशं पद्मं चतुरश्रं वृत्तकुमुदं त्रिवर्गं वेति केचित्। एकांशं पद्मम्, एकांशं कम्पम्, द्व्यंशं कण्ठम्; एकांशं कम्पम्, एकांशं पद्मं द्व्यर्धशा महापट्टिका, एकांशं पद्मम्, एकाशं कम्पम्, एतत्पुष्पबन्धं स्यात्।

श्रीप्रियाम्बुजलक्षणम्

उत्सेधमेकविंशतिभागं कृत्वा - एकांशा पादुका, एकांशं पद्मम्, एकांशं कण्ठम्, एकांशं दलम्, त्र्यंशं वृत्तकुमुदम्, एकांशं पद्मम्, एकांशं कम्पम्, द्व्यंशं कण्ठम्, एकांशं कम्पम्, एकांशं पद्मम्, द्व्यंशा महापट्टिका, एकांशं पद्मम्, एकांशोर्ध्वपट्टिका चेत्येतच्छ्रीप्रियाम्बुजम्॥

प्रतिबन्धलक्षणम्

उत्सेधमष्टादशांशं कृत्वा एकांशं खुरम्, एकांशं पद्मं षडंशा जगती पञ्चांशं वृत्तकुमुदम् एकांशमालिङ्गम्, एकांशमन्तरितं द्व्यंशं प्रतिमुखम् एकांशं वाजनम्, एतत् प्रतिबन्धं स्यात्।

प्रतिक्रमलक्षणम्

उत्सेधमेकोनविंशतिभागं कृत्वा, एकांशं पादुकं सप्तांशा जगती षडंशं वृत्तकुमुदम्, एकांशमालिङ्गम्, एकांशमन्तरितं द्व्यंशं प्रतिमुखम् एकांशं वाजनं नागवक्त्रसमं प्रत्यवसानम् एतत् प्रतिक्रमं स्यात्।

कपोतबन्धलक्षणम्

उत्सेधं सप्तविंशतिभागं कृत्वा द्व्यंशं पादुकं षडंशं पद्मम्, एकांशं कण्ठम्, एकांशं दलं त्र्यंशं वृत्तकुमुदं, त्रिवर्गं वेति केचित् एकांशं दलम्, [[२५]] एकांशं कम्पं द्व्यंशं कण्ठम् एकांशं कम्पम्, एकांशमुपरिदलं त्र्यंशं कपोतम्, एकांशमालिङ्गम्, एकांशमन्तरितं द्व्यंशं प्रतिमुखम् एकांशं वाजनम्, एतत् कपोतबन्धं स्यात्।

श्रीबन्धलक्षणम्

उत्सेधं द्वात्रिंशद्भागं विभज्य, द्व्यंशमुपानत् एकांशं क्षुद्रोपानं (नत्) सप्तांशं पद्मम्, एकांशं कण्ठम् एकांशं दलं चतुरंशं वृत्तकुमुदम् एकांशं दलम्, एकांशं कम्पं, त्र्यशं कण्ठम् एकांशं कम्पम्, एकांशं पद्मं चतुरंशं कपोतम्, एकांशमालिङ्गम् एकांशमन्तरितं द्व्यंशं प्रतिमुखम्, एकांशं वाजनम्, एतत् श्रीबन्धं स्यात्॥

वर्गावसाने द्वारस्थलकल्पनम् एतेषु नासिकाङ्घ्रीन् युक्त्या योजयेत् पादबन्धे जन्मादिपञ्चवर्गेषु तत्तदङ्गावसाने द्वारस्थलं सङ्कल्पयेत् अन्येषु पट्टिकान्ते चैवं युक्त्या कारयेत् प्रत्यङ्गेषु प्रतेरुपर्युपरिद्वारस्थलं सङ्कल्पयेत्, प्रतिच्छेदं न कुर्युात्, कुर्याच्चेत् विनाशाय भवति सर्वेषामङ्गानां प्रवेशनिर्गममेकदण्डादि त्रिदण्डान्तं पाददण्डं वृद्ध्या विमान विस्तारबाह्याङ्गनिर्गमं नवविधं स्यात् एतेष्विष्टप्रमाणेनोपानद्विस्तारं तत्त्रिचतुः पञ्चषट् सप्ताष्टांशं कृत्वा एकांशं खुरनिर्गमं शेषं जगतीविस्तारं तत्समं कुमुदं तत्समं तद्बाह्यात् कण्ठप्रवेशं सर्वेषां पट्टिकाम्बुजकम्पादीनां तत्तदुत्सेधसमनिर्गमं, वेत्राणामुत्सेधं त्रिचतुः पञ्चषडंशं कृत्वा एकांशं निर्गमम्, एवं युक्त्या कारयेत्।

इति श्री वैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे अधिष्ठानभेदो नाम अष्टमः पटलः ॥ ८ ॥

[[२६]]