अथ सप्तमः पटलः
विमानविधिः
अथ विमानविधिं वक्ष्ये - नलिनकादिषण्णवति भेदैस्त्रिचतुर्हस्तादिरुद्रार्ककरान्तमेकभूमिं पञ्चषड्ढस्तादि त्रयोदशचतुर्दशकरान्तं द्विभूमिं, सप्ताऽष्टकरादिपक्षषोडशकरान्तं त्रितलं, सप्तदशहस्तादि षट्शतकरान्तं सप्तमः पटलः [[२२]] चतुर्भूम्यादिद्वादशतलान्तं युग्माऽयुग्महस्तैर्युतं संयोजयेत्, एवं तलं प्रति मानं दशधा भवति ॥
सङ्कीर्णविमानलक्षणम्
एतेषु इष्टहस्तैर्व्यासायामं समचतुरश्रवृत्तं, विस्तारात्पादाधिकमर्धाधिकं, पादोनद्विगुणं द्विगुणं वा, आयतम् आयत चतुरश्रवृत्तं तेषु ग्रीवोपरि भिन्नाङ्गं सङ्कीर्णं स्यात्॥
शान्तिकादिविमानलक्षणम्
विमानविपुलस्य सप्तदशोत्सेधं शान्तिकम्, अर्धाऽधिकोत्सेधं पौष्टिकं, पादोनद्विगुणं जयदम्, अद्भुतं पादाऽधिकं, द्विगुणं सार्वकामिकं स्यात्।
हर्म्यभेदः तत्स्वरूपं च नागरं, द्राविलं, वेसरमिति त्रिविधं, हर्म्यरूपं खुरादिस्तूपिकान्तं चतुरश्रं नागरं, तथैव वृत्तं वेसरम् अथवा प्रस्तरान्तं समचतुरश्रं तदुपरिवृत्तग्रीवाशिखरं च वेसरं, तथैव च स्वश्रशिखरग्रीवं द्राविलं स्यात्॥
पूर्वापरायामं दक्षिणावान्तरं भवति आयतचतुरश्रवृत्तेचायामेन शान्तिकोत्सेधग्रहणं कारयेत्। अर्पितमनर्पितमिति द्विविधं भवति।
अर्पितमलिन्द्रविहीनम् अनर्पितमलिन्द्रयुक्तमेवं कारयेत्॥
विमानस्य विस्तारं पादबाह्यम्, उत्सेधमुपानाादि स्थूपिपर्यन्तं स्यात् मानसूत्रं विन्यस्य ऐशान्यां किञ्चिदधिकम्। आग्नेय्यां किञ्चिन्न्यूनम्, एवं कारयेत् अन्यथा चेत् सर्वं नश्यति मानसूत्राद्बहिर्हस्तमध्यर्धं द्विहस्तं वा अधिकविस्तारायामं जलान्तं शिलान्तं वा दृढप्रकृतिश्चेत् द्विहस्तं सार्धविस्तारमेकहस्तं वा, खनित्वा, तत्खातं चतुर्धा कृत्वा, द्व्यंशं त्र्यंशं वा वालुकोपलशकलाद्यैर्जलेन सम्पूर्य, मुसलैर्हस्तिपादैर्दारुतुण्डैर्बृहत्तरैर्वा दृढं कृत्वा, शेषांशं [[२३]] पादमर्धं त्रिपादं हस्तं वा, महद्विमानं चेत् अधिष्ठानद्विगुणम् अध्यर्धं समं वा खातकुड्यं प्रकल्पयेत् तदूर्ध्वे दण्डप्रमाणेन समं कृत्वा, तदूर्ध्वे अधिष्ठानम् उपपीठं वा कुर्यात्॥
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे विमानविधानं नाम सप्तमः पटलः ॥ ७ ॥