अथ षष्ठः पटलः
प्रशस्तकालनिरूपणम्
अत ऊर्ध्वं प्रथमशिलेष्टकादिविन्यासविधिं वक्ष्ये। मासेषु फाल्गुनचैत्र वैशाखतैष्यज्येष्ठेषूत्तमं, श्रावणाषाढकार्तिकाश्वयुजेषु मध्यमं, शेषेष्वधमं, पूर्वपक्षे, कृष्णपक्षे, अन्त्यत्रिभागं हित्वा वा, श्रवणरोहिण्युत्तरहस्तास्वातिपुनर्वसु वारुणमैत्रेष्वेकस्मिन् यजमानानुकूलर्क्षे स्थिरराशावनिन्दिते चाऽऽरभेत।
[[१९]]
शङ्कुस्थापनम्
कृष्टभूमिमध्ये चतुर्दिशं चतुर्हस्तं जलेन समं कृत्वा, तन्मध्ये शङ्कुं संस्थापयेत्, शङ्कुवृक्षान् सारवत्तरान् याज्ञिकान् वा आहरेत्; मानाङ्गु लेन अष्टाङ्गुलायतं, द्वादशाङ्गु लायतं वा, सुवृत्तं निर्व्रणमायामसदृशं मूलनाहं छत्राकारं शङ्कुं कृत्वा, उदयात्पूर्वं तन्मध्मे शङ्कुद्विगुणमानेन मण्डलमालिख्य, तन्मध्ये शङ्कुं स्थापयेत्।
दिङ्निर्णयः
पूर्वाह्नाऽपराह्नयोः छाया यदि तन्मण्डलान्तगा तद्बिन्दुद्वयगतं सूत्रं प्रसारयेत्। तत्पूर्वाऽपरदिक् उक्तछायां दक्षिणतो वामे च निदध्यात्।
सशङ्कुर्नरतनुः तस्मात् षण्णवतिभागं कृत्वैकांशमङ्गु लं, तदङ्गु लेनाऽवछायाः प्रतिमासं विशोधयेत् मेषे मिथुने सिंहे तुलायां च रवौ स्थिते द्व्यङ्गु लं कुलीरे वृश्चिके मीने चतुरङ्गु लं, धनुषि कुम्भे षडङ्गु लं, मकरे अष्टाऽङ्गुलं नयेत् वृषभे कन्यायां नाऽवछाया भवेत्। मासिमास्युक्तमङ्गुलं त्रिंशद्भागं कृत्वा दिने दिने चैकैकं भागं युक्त्या शोधयेत् तस्मिन् पुनर्बिन्दुद्वयं कृत्वा, तयोर्मध्यं पूर्वापरं प्रसार्य, दक्षिणोत्तरं तद्बिन्दुद्वयं मत्स्यमुत्पाद्य तन्मुखपुच्छविनिर्गतं सूत्रं प्रसारयेत्।
शिलान्तजलान्तभूशोधनपूर्वं शिलादिस्थापनं तत्पश्चिमे ’मेदिनी’ ति मन्त्रेण जलान्तं शिलान्तं वा खनित्वा, शल्यानपोह्य, वालुकाभिरापूर्य, हस्तिपादेन दृढं कृत्वा सप्ताह्नेऽतीते तत्खातं पञ्चधा कृत्वा, त्रिभागावसाने चोत्तमं, द्विभागावसाने मध्यमम्, एकभागावसाने चाऽधमं, तस्मिन् शिलां वा, (अथ) इष्टकां वा विन्यसेत्॥
षष्ठः पटलः [[२०]]
शिलेष्टकादिलक्षणम्
तयोर्लक्षणं युग्मायुग्महस्तविमानानां तद्धस्तं प्रति त्र्यङ्गुलन्द्व्यङ्गु लं वा, वर्धयेत् अङ्गु लिसङ्ख्या समायामं तस्याऽर्धविस्तारम्, अर्धबाहुल्यम्, अथवा त्र्यङ्गुलाद्येकादशाङ्गुलान्तमेकाङ्गु लवृद्ध्या विस्तारं नवधा भवति, तदर्धबाहुल्य विस्तारं द्विगुणायतम्, एवं चतस्रः शिला वा अथेष्टका वा अग्रपादं मुखं पृष्टं च संलक्ष्यैव आहरेत्।
शिलेष्टकाप्रतिष्ठापूर्वकं तद्विन्यासः तन्मध्ये रत्नविन्यासश्च अङ्कुरानर्पयित्वा, जलाधिवासं त्र्यहमेकाहं वा कृत्वा, प्रत्येकं वस्त्रेणावेष्ट्य, वारुणैर्मन्त्रैरभिमन्त्र्य; तत्स्थानात् प्रमुखे षोडशद्बादशाष्टचतुर्भिः पादैर्युक्तां प्रपां कृत्वा, तोरणाद्यैरलङ्कृत्य, पूर्वस्यां रात्रौ तत्स्थानादुत्तरे वास्तुहोमं हुत्वा, वालुकोपरि पर्यग्निपञ्चगव्याभ्यां संशोध्य, पुण्याहं कृत्वा, यागस्थानस्य मध्ये चतुर्दिशं द्विहस्तायतविस्तारां तालोत्सेधां वेदिं कृत्वा, प्रागादि चत्वार्यग्निकुण्डानि तत्प्राच्यामैशान्यां स्नानश्वभ्रं च कृत्वा, पश्चादाघारं हुत्वा, शिला वा अथेष्टका वा, स्नानश्वभ्रे प्रतिष्ठाप्य, तत्प्राच्यां व्रीहिभिर्दण्डवत्पङ्क्तिं कृत्वा, चतुर्दशकलशान् विन्यस्य, विधिना संस्नाप्य, वेद्यां धान्योपरि पञ्चवस्त्राण्यास्तीर्य, शिलाद्यं च प्रत्येकं वस्त्रेणावेष्ट्य, चतुर्वेदरूपं ध्यात्वा, प्रागादिविन्यस्य, पुरुषादिमूर्तीर्नामभिरभ्यर्च्य, तन्मध्ये नवरत्नानि विन्यस्य तस्मिन् रत्नेशं विष्णुमभ्यर्च्य, पुण्याहं कृत्वा, प्रत्येकं ’स्वस्तिदाविशस्पति’ (ऋ॰ सं. ६-६-१०) रिति प्रतिसरं बध्वा, चतुर्वेदादिमन्त्रैः शिलाद्यं प्राच्यामुत्तराग्रं दक्षिणे प्रागग्रं पश्चिमे चोत्तराग्रम् उत्तरे प्रागग्रं च शाययेत्, उत्तराच्छादनं कृत्वा, हविर्निवेद्य, हौत्रं प्रशंस्य पुरुषादि चतुर्मूर्तीः रत्नेशं विष्णुं, दिग्देवांश्चाऽऽवाह्य जुष्टाकारं स्वाहाकारं च हुत्वा, देवं ध्यायन्, आहवनीये पुरुषसूक्तमैन्द्रमाग्नेयं वैष्णवं च, अन्वाहार्ये विष्णुसूक्तं [[२१]] ब्राह्मं याम्यं र्नैऋतं च, गार्हपत्ये वैष्णवम्, एकाक्षरादीन् वारुणं, वायव्यं च, आवसथ्ये वैष्णवं रुद्रसूक्तं सौम्यं रौद्रं च प्रत्येकं दशकृत्वो जुहुयात्।
रात्रिशेषं व्यपोह्य, प्रभाते स्नात्वा, मुहूर्ते समनुप्राप्ते यजमान आचार्यः स्थापकादीन् वस्त्रोत्तरीयाद्यैरलङ्कृत्य, दक्षिणां दद्यात् सर्वालङ्कारसंयुक्तं ग्रामं बालागारं वा, शकुनसूक्तं जपन्, प्रदक्षिणं कृत्वा, तं देशं प्रविश्य, अग्निं विसृज्य, आचार्यो यजमानश्च स्थपतिना सार्धं विमानं नित्यसूत्रं प्रसार्य, द्वारं विदित्वा, अभ्यन्तरद्वारदक्षिणे यमद्वयं हित्वा, भित्तिमध्ये चतुरश्रमुपलिप्य, नवभागं विभज्य, आचार्यः प्राङ्मुखमासित्वा, प्राणायामं च कृत्वा, ’अग्निमीले पुरोहित’ (ऋस ०१-१-१) मिति प्रथमशिलेष्टकाग्रमूर्ध्वाननम्, आग्नेय्यां तत्पादम्, इषेत्वोर्जेत्वे’ (तै॰स॰१-१-१) ति याम्ये द्वितीयशिलेष्टकाग्रं र्नैऋत्यां पादम्, ’अग्नआयाहि’ (साम १-१-१) इति वायव्ये तृतीयशिलेष्टकाग्रं वारुण्यां पादं ’शन्नोदेवीरभिष्टये’ (अ॰१-१-१) इत्यैशान्यां चतुर्थशिलेष्टकाग्रं सौम्ये पादं च, एवं क्रमेण विन्यस्य, तन्मध्ये ब्राह्मं मन्त्रमुच्चार्य, नवरत्नानि सुवर्णं वा निक्षिप्य पश्चात् शिल्पिनमाहूय, अभिपूज्य तेनैव क्रमेण दृढं कारयित्वा, उपरिष्ठात् भित्तिमूलं सोपपीठाधिष्ठानं केवलाधिष्ठानं वा कृत्वा, पादवर्गादिवर्गाढ्यं विमानं त्रितलमेकतलं वा परिकल्पयेत्॥
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनकल्पे प्रथमशिलेष्टकाविन्यासविधिर्नाम षष्ठः पटलः ॥ ६ ॥