अथ पञ्चमः पटलः
नवमूर्तिबालालयविधिः
अथ नवषट्पञ्चमूर्तितरुणालयविशेषं वक्ष्ये।
पूर्वोक्ते देशे तस्य प्राकारान्नातिक्रम्य नवहस्तायतविस्तारं तरुणालयं कृत्वा, तस्मिन्नेकाशीति विभागं कृत्वा, तन्मध्ये नवभागं गर्भागारं, तद्बहिष्षोडशभागमभ्यन्तरभित्तिः, तद्बहिः चतुर्विंशतिभागमलिन्दं, तद्बहिः द्वात्रिंशद्भागं बाह्यभित्तिः, तद्भित्तौ (चतुर्दिक्षु) चतुर्द्वारयुतमेकद्वारयुतम्, अन्यासु जालकं वा, समं त्रिपादमर्धं वा, मुखमण्टपं, गर्भागारं सप्तसप्तविभागं कृत्वा, ब्राह्मे विष्णुमूर्तिं, तत्पश्चिमे मानुषभागे तृतीयतले कौतुकस्य, द्वितालोच्छ्रायं पीठं कृत्वा, अलिन्दे द्वारदक्षिणे पुरुषमूर्तिं प्राङ्मुखम्, अलिन्द्रे दक्षिणाभिमुखं सत्यं, तथा पश्चिमे पश्चिमाभिमुखमच्युतम् उत्तरे चोत्तराभिमुखमनिरुद्धं, तदलिन्द्रे अनिरुद्धमूर्तेर्वामपार्श्वे द्वितीयतले वाराहमुत्तराभिमुखम् अच्युतमूर्तेरुत्तरपार्श्वे पश्चिमाभिमुखं नारसिंहं सत्यमूर्तेः पश्चिमतो दक्षिणाभिमुखौ नरनारायणौ च कृत्वा, एवं नवमूर्तिप्रतिष्ठाक्रमेण प्रतिष्ठापयेत्॥
षण्मूर्तिबालालयविधिः
षण्मूर्तिप्रतिष्ठा चेत् - एवमेव बालागारं कृत्वा, वाराहं नारसिंहं नरनारायणौ च हित्वा, विष्ण्वादिपञ्चमूर्तिं, तृतीयतलकौतुकं च, तत्क्रमेण प्रतिष्ठापयेत्॥
पञ्चमूर्तिबालालयविधिः
पञ्चमूर्तिप्रतिष्ठा चेत् - तथैव बालागारं कृत्वा, तृतीयतले पञ्चमूर्तिकौतुकं वाराहादींश्च हित्वा, विष्ण्वादिपञ्चमूर्तीस्तत्क्रमेण प्रतिष्ठापयेत्।
[[१७]]
नवमूर्त्यादिबालाऽऽलयप्रतिष्ठाविधिः
एतेषां बालबेराणि पूर्ववत्कृत्वा, प्रत्येकमक्ष्युन्मेषाधिवासनादि कृत्वा, आदिमूर्तेर्यागशालाभिमुखे तत्प्राच्यां पुरुषमूर्तेः तत्प्राच्यां तृतीयतले कौतुकस्य आलयाद्दक्षिणे सत्यमूर्तेः यागशालां, दक्षिणे नरनारायणयोः, आलयात्पश्चिमे अच्युतमूर्तेर्यागशालाम्, तत्पश्चिमे नृसिंहस्य, आलयादुत्तरे अनिरुद्धमूर्तेर्यागशालाम्, तदुत्तरे वाराहस्य च, एवं षोडशद्वादशाष्टचतुस्तम्भयुक्तां कृत्वा, प्रत्येकं तोरणपूर्णकुम्भ वितानध्वजदर्भमालाद्यैरलङ्कृत्य, मध्ये शय्यावेदिं चतुस्त्रिद्विहस्तायतविस्तारां तत्तुरीयांशोत्सेधां चतुरश्रां च कारयेत्, आदिमूर्तेः पञ्चाग्नीन् पौण्डरीकाग्निं च कृत्वा अनन्तशयनस्य पञ्चाग्नीनेव, पुरुषमूर्तेराहवनीयं, सत्यमूर्तेरन्वाहार्यम्, अच्युतमूर्तेर्गार्हपत्यम्, अनिरुद्धमूर्तेरावसथ्यं, वाराहस्य नृसिंहस्य गार्हपत्यं, नरनारायणयोः पौण्डरीकं कारयेत्। आदिमूर्तेश्शयानस्य च प्रत्येकं सभ्याऽग्निमेकमेवकारयेदिति केचित्।
तत्तद्यागशालायां प्रत्येकं स्नानश्वभ्रं च कृत्वा,आलयस्योत्तरे वास्तुहोममेकमेव कृत्वा, गर्भागाराणि पर्यग्निपञ्चगव्याभ्यां संशोध्य, पुण्याहं वाचयित्वा, सर्वेष्वग्निकुण्डेषु आघारं हुत्वा, आचार्यः तद्बेराऽभिमुखे प्रतिष्ठोक्तविधिना कुम्भान् सम्पूज्य, आवाह्य, सप्तभिः कलशैर्बेराणि संस्नाप्य, तत्तद्वेद्यां धान्योपरि ’वेदाह’मित्यण्डजादीनि पञ्चशयनानि, वासांसि वाऽस्तीर्य, सर्वान् देवान् तत्तत्कुम्भं च तत्तद्वेद्यां समारोप्य, पुण्याहान्ते प्रतिसरं बद्ध्वा, ’यद्वैष्णव’मिति यद्दिग्द्वारं तद्दिङ्मौलिं शायतेत्, तत्तत्प्रधानाग्नौ हौत्रं प्रशंस्य, तत्तन्मूर्त्तिमन्त्रैस्तत्तत्परिषद्देवानामावाहनादीनि कारयेत्, आदिमूर्तेरनन्तशयनस्य च सभ्याग्नौ वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, श्रीभूमिदेवत्यं सर्वदेवत्यं च हुत्वा, पुरुषमूर्तेराहवनीये पुरुषसूक्तं, सत्यमूर्तेरन्वाहार्ये विष्णुसूक्तं, अच्युतमूर्तेर्गार्हपत्ये वैष्णवं, अनिरुद्धमूर्तेरावसथ्ये रुद्रसूक्तमेकाक्षरं चतुष्कृत्वो हुत्वा, वाराहस्य सभ्याग्नौ ’क्ष्मामेका’मिति मन्त्रेण अष्टाधिकशतं हुत्वा, पञ्चमः पटलः [[१८]] नृसिंहस्य गार्हपत्याग्नौ ’यो वा नृसिंह’ इत्येकं, नरनारायणयोः पौण्डरीकाग्नौ ’सत्यस्सत्यस्थ’ इति मन्त्रं विष्णुगायत्रीं च अष्टोत्तरशतं हुत्वा, अत्रानुक्तं सर्वं महाप्रतिष्ठोक्तक्रमेण कृत्वा, रात्रिशेषं व्यपोह्य, प्रभाते स्नात्वाऽऽचार्यादिभ्यो दक्षिणां दद्यात्; सर्वान् देवानुत्थाप्य रत्नन्यासं विना चरराशौ तत्तस्थाने प्रतिष्ठाप्य, पुण्याहं वाचयित्वा, नित्यार्चनविधानेनाऽऽभ्यर्च्य, हविर्निवेदयेत्॥
षण्मूर्तिप्रतिष्ठा चेत् वाराहं नारसिंहं नरनारायणौ च हित्वा, षण्मूर्तीः संस्थाप्याऽर्चयेत्। पञ्चमूर्तिप्रतिष्ठा चेत् अनन्तशयनवाराहादीन्विना आदिमूर्त्यादि पञ्चमूर्तीः संस्थाप्याऽर्चयेत्। एष विशेषः अन्यत्सर्वं समानम्। यस्मिन्नेकतल विमाने ध्रुवबेरस्येकस्यैव कौतुकानि पञ्चैव सन्ति अतः तेषां कौतुकानां बालस्थापने स्थापनं यदीच्छेत्पूर्वं तरुणालयं सालिन्द्रम् अभ्यन्तरभित्तिविहीनं वा कृत्वा, तत्तत्पदे विष्ण्वादि पञ्चानां कौतुकानां पञ्चाग्नीन् परिकल्प्य, होमं हुत्वा संस्थाप्याऽर्चयेत् इत्याह मरीचिः।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे नवषट्पञ्चमूर्तितरुणालयप्रतिष्ठाविधिर्नाम पञ्चमः पटलः ॥ ५ ॥