अथ चतुर्थः पटलः अथ प्रथमं तरुणाऽऽलयं वक्ष्ये
तरुणालयदेशनिरूपणम्
यत्र मूलाऽऽलयं कुर्यात्, तस्मादैशान्ये चैन्द्रसूत्रादुत्तरे, सौम्ये, वायव्ये, त्रिहस्तादि त्रित्रिहस्तान्तं तरुणालयं, द्वितीयाऽऽवरणे, तृतीये वा, समारभेत्।
तरुणालयनिर्माणविधिः
भित्तिमूलविशालं मात्राङ्गुळेन द्विताळं त्रिताळं चतुस्ताळं वा, तदवशेषं नालीग्रहविशालं, समं, त्रिपादम्, अर्धं वा, मुखमण्टपं यथा मूलालयद्वारं तथा तरुणालये, मृण्मयलेपोपरिष्ठात् तृणाऽऽच्छन्नं लोष्टाऽऽच्छन्नं वा कृत्वा, अत्रानुक्तं सर्वं, द्वितीयतरुणालयस्योक्तविधिना कारयेत् नैव शिलेष्टकादिभिः, तन्मध्ये द्विवेदिसहितमर्चापीठं च कृत्वा, पश्चात् बालबेरं कारयेत्।
बालबेर-द्रव्यबेराधिवासादि निरूपणपूर्वं यागशालादिविधिः खदिराऽसनचम्पकाऽर्जुन-पनस-वकुळ-मधूकाऽश्वत्थ-बिल्वशमीनामन्यतमं, विधिनाऽऽहृत्य, शोषयित्वा त्वचं व्यपोह्य, मानाङ्गुलेन सप्ताङ्गुलं, नवाङ्गुलं, एकादशाङ्गुलं, त्रयोदशाङ्गुलं वा, देवीभ्यां सहितं रहितं वा देवं, चतुर्थः पटलः [[१४]] सलक्षणं, स्थितमासीनं वा, कृत्वा, स्थापनदिवसात्पूर्वं विधिना अङ्कुरानर्पयित्वा, अक्ष्युन्मोचनं कृत्वा, अधिवास्य, बालालयाभिमुखे, दक्षिणे वा, यागशालां कृत्वा, तोरणाद्यैरलङ्कृत्य तन्मध्ये शय्यावेदिं द्विहस्तायतविस्तारां, तत्तुरीयोत्सेधां, तत्प्राच्यां सभ्याग्निकुण्डं, तत्प्राच्यामैशान्यां वा स्नानवेदिं च कुर्यात् पञ्चाग्नीन् कल्पयेदित्येके।
बालालयप्रतिष्ठाविधिः
बालालयस्योत्तरे वैखानससूत्रोक्तविधिना वास्तुहोमं हुत्वा, पर्यग्निपञ्चगव्याभ्यां शोधयित्वा, पुण्याहं वाचयेत्। सभ्याग्निकुण्डे वा आघारं हुत्वा आलयाभिमुखे देवं संस्थाप्य, अभिमुखे कुम्भं, द्रोणद्वयपूर्णं, खण्डस्फुटितकालरहितं, त्रिगुणेनैकेन वा सूत्रेण, वैष्णवमन्त्रमुच्चार्य, प्रदक्षिणमावेष्ट्य ’शुचीवोहव्या’ इति प्रक्षाल्य ’धारासुसप्त’ स्वित्यपामुत्पवनं कृत्वा, कुम्भजलेन ’नमस्सुलो’ मीत्यापूर्य, ’इदमापश्शिवा’ इति अपोऽभिमन्त्र्य, चन्दनोशीराद्यैर्वासयित्वा, वस्त्रयुग्मेनाऽऽवेष्ट्य, सौवर्णान्यष्टमङ्गलपञ्चायुधवर्णचिह्नानि, नवरत्नकुशकूर्चांश्च, पृथक् पृथक् विष्णुगायत्र्या क्षित्प्वा, धान्यपीठे कुम्भं सपिधानं सन्यस्य, आचार्यश्चोत्तराभिमुखो भूत्वा, ब्राह्ममासनमास्थाय, प्रतिष्ठोक्तक्रमेण ध्यायन् कुम्भे समावाह्य, पश्चाच्छकुनसूक्तं समुच्चार्य कुम्भं बिम्बं च समादाय, स्नानश्वभ्रे प्रतिष्ठाप्य, चतुर्दशकलशैः संस्नाप्य, वस्त्रोत्तरीयाद्यैर्विभूष्य, अष्टोपचारैरभ्यर्च्य, शय्यावेद्यां धान्योपरि पञ्चशयनानि, वासांसि वा आस्तीर्य, तस्यां देवं कुम्भं च, निवेश्य पुण्याहान्ते सौवर्णं तान्तवं वा प्रतिसरं, ’स्वस्तिदाविशस्पति’ (ऋ॰ सं॰-६६-९०) रिति बद्ध्वा, ’यद्वैष्णव’ (वै॰ दै॰ म॰६) मिति देवं शयने शाययेत् उत्तराच्छादनं कृत्वा, अग्निं समुज्वाल्य वैष्णवं हुत्वा, हौत्रं प्रशंस्य, आवाहनजुष्टाकारस्वाहाकारान् कृत्वा, वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, श्रीसूक्तं, महीसूक्तं च [[१५]] सर्वदेवत्यं च हुत्वा, अग्निमानम्य, रात्रिशेषं व्यपोह्य, आचार्यः प्रभाते स्नात्वा, आगारं प्रविश्य आनम्य, देवमुत्थाप्य, अष्टोपचारैरभ्यर्च्य, प्रणमेत्; यजमान आचार्यादिभ्यो दक्षिणां दद्यात्, मुहूर्ते्् समनुप्राप्ते स्थापका देवमादद्युः, आचार्यः शिरसा कुम्भं धारयन् अग्रतो गच्छेत्; सर्ववाद्यसमायुक्तं, स्तोत्रनृत्तगेययुक्तं, शीघ्रं विनोदं कारयेदिति केचित् शकुनसूक्तं समुच्चार्य, तोयधारापुरस्सरं प्रदक्षिणं कृत्वा, अभ्यन्तरं प्रविश्य, शुभे चरराशौ, ’प्रतद्विष्णु’ (ऋ॰ स॰ २-२-२४) रिति देवं संस्थाप्य, विष्णुसूक्तं पुरुषसूक्तं जप्त्वा, देवपादौ स्पृशन्, ’भूर्भुवस्सुव’रिति बिम्बस्य मूर्ध्नि, नाभौ, पादयोश्च, क्रमेण विन्यस्य, यकारं पादयोरन्तरे पीठे न्यस्य, अकारं हृदयेन्यस्य, तं प्रणवैर्वेष्टयित्वा, कुम्भस्थां शक्तिम् ’इदं विष्णु’ (ऋ॰ स॰ १-२-७) रिति मन्त्रेण कूर्चेनाऽऽदाय, ’आयातु भगवा’ (वै॰म॰प्र ६) निति बिम्बस्य मूर्ध्नि ’विष्णुमावाहयामी’ति संस्राव्य, आवाहयेत् ’दक्षिणे श्रियं, वामे हरिणी’मित्यावाह्य पीठान्ते प्रागादिसुभद्राद्यावरणत्रयदेवानावाह्य आसनाद्युपचारैरभ्यर्च्य, पुण्याहं वाचयित्वा, दक्षिणे ब्रह्माणम्, उत्तरे मार्कण्डेयं, वामे शङ्करं, पद्मापितरं, द्वारेषु धात्रादि द्वारदेवान् द्वारपालान् विष्वक्सेनगरुड श्रीभूतादिमहाभूतान्तान् परिषद्देवान् नवभेदेषु एकमार्गेणाऽऽवाहयेत्, पायसं शुद्धान्नं प्रभूतं वा, निवेदयेत्, अन्यत्राऽऽवाहनविसर्जनं च हित्वा नित्यार्चनविधानेन नित्यं सम्यगर्चयेत्।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे बालालयप्रतिष्ठाविधिर्नाम चतुर्थः पटलः ॥ ४ ॥
चतुर्थः पटलः [[१६]]