अथ तृतीयः पटलः अथ ग्रामादिवास्तुभेदः - ग्रामा-ऽग्रहार-नगर-पत्तन-खर्वाट-कुटिकसेनामुख-राजधानी-शिबिरा इति भेदाभवन्ति।
ग्रामादीनां स्वरूपं विप्राणां सभृत्यानां निवासो ग्रामः, विप्रमुख्यानाम् अग्रहारः, अनेकजन सम्बाधमनेकशिल्पि क्रयकविक्रयकाऽधिष्ठितं सर्वदेवतासंयुक्तं नगरम्, द्वीपान्तरगतद्रव्यक्रयकविक्रयकाऽधिष्ठितं पत्तनम्, उभयसम्मिश्रं खर्वटं, तृतीयः पटलः [[८]] सपरिवारकैकग्रामणीकं कुटिकं, सर्वजातिसमाकीर्णं नृपवेश्म समायुक्तं सेनामुखं, चतुरङ्गसमाकीर्णा नृपतद्भृत्यजुष्टा राजधानी, नृपसेनाचमूनाथनिवेशनं शिबिरमिति।
ग्रामाऽग्रहारयोः प्रभेदः तत्र ग्रामविन्यासं प्रागग्रमुत्तराग्रं वा, एकवीथिकं दण्डकम्, प्राङ्मुखं, द्विवीथिकं करीदण्डकं, नीलाऽनिलेशाऽनलपुच्छकं, दक्षिणादि चतुर्वीथिकं, स्वस्तिकं, सदेवं सतृतीयद्विवीथिकं नन्द्यावर्तं, सदीर्घक्षुद्रवीथिकं पद्मवीथिकम्, प्रागग्रानलवीथिकं चतुष्पदञ्च, षट्सप्ताऽ(ष्टनवाऽधिकदशाऽ)न्यतमक्षुद्रवीथिकं प्रकीर्णकम्, एकद्वित्रिचतुः पञ्चाधिकविंशद्वीथिकम् उत्कीर्णकम् इति ग्रामाऽग्रहारयोर्विन्यासभेदः।
दण्डके - स्वस्तिकादिषु च देवपदादिनिरूपणं तत्र दण्डके पश्चिमे प्राङ्मुखम् उत्तरे दक्षिणामुखं वा, स्वस्तिकादिषु (पश्चिमे) पैशाचाऽभ्यन्तरे, बाह्ये वा, ब्रह्मसूत्रादुत्तरे, श्रीवत्सादिषु ब्रह्मपदवायव्ये पञ्चमूर्तिविधानेन देवेशं विष्णुं संस्थापयेत्, दिशासु, विदिशासु च, यथा दक्षिणदृष्ट्या ग्रामं पश्येत्, तथा ग्रामाऽभ्यन्तरे ग्रामाऽधिक्यमुखं च संस्थापयेत्, तद्धरिदृष्टिः शुभदा, हरपृष्टश्च शुभदः, सर्वत्र वाराहनारसिंहवामन (राम) कृष्णान् ग्रामप्रेक्षकानेव संस्थापयेत्, ग्रामादिषु षट्पञ्चाशद्द्विशतपदेषु पैशाचं परिहृत्यैव देवेशं संस्थापयेत्, अन्येषु पश्चिमे पैशाचबाह्ये विष्णोरालयं कुर्यात्, अभ्यन्तरे तान्त्रिकेण विधिनाऽर्चयेत् न वैदिकेन, प्रतिलोमान्तरालव्रात्यावासेषु नैवं विष्णुं प्रतिष्ठापयेत्, श्रीवत्सादीनां वितथभृङ्गराजभल्लटाऽदितिमहेन्द्रेषु निर्गमं कारयेत्। अविहितपदनिर्गमः, अन्यवास्तुसम्प्रेक्षणं, ग्रामयजमानयोराशुविनाशाय भवति।
[[९]]
आयादिनिरूपणम्
व्यासाऽऽयामसमूहे, अष्टगुणिते नैकभक्ताऽवशिष्टमायं, त्रिगुणिते मनुभिर्हृतावशिष्टं व्ययं, अष्टभक्ताऽवशिष्टं योनिः, अष्टगुणिते सप्तविंशतिहृते फलं, यच्छिष्टम् ऋक्षं,नाहे त्रिंशद्धृते अवशिष्टं तिथिः, सप्तभक्ताऽवशिष्टं वारं, (व्ययाऽधिककोणयोनौ नवभिर्गुणिते सप्तभिर्हृताऽवशिष्टं वारं) चतुर्भिर्गुणिते नवभिर्हृतमंशकम्, राजयजमानयोः विपद्वधप्रत्यराऽन्त्यवैनाशिकशशाङ्काऽष्टमाऽमर्त्याऽसुरर्क्षयोगतिथिवारयोगदोषं क्रूरवारं च परिहृत्य रिक्तामध्याऽन्तरिक्तं कुर्यात्। क्रूरवाररिक्तादयोपि सिद्धाऽमृतवारयोगाः शुभाः, कर्तृवास्तुनक्षत्रपत्योरैक्ये, मैत्रे च, विपदादयः शुभा भवन्ति।
गृहश्रेणी निर्माणदेशः सहेतुकं पूजाविहीनग्रामे वासनिषेधः वास्तुपुरुषमर्मसूत्रपातान् परिहृत्य देवताऽऽलय प्राकारसंश्लिष्टां गृहश्रेणीं कुर्यात्, विष्णुपूजाविहीने विप्रो नजात्वपि वसेत्, तत्र तामसभावात्, तत्र ग्रामाऽभ्यन्तरे देवं संस्थाप्य; महतीं पूजां (विविक्ते) वैदिकेन विधिनैव कारयेत्, सौम्यत्वात्, भुक्तिमुक्तिफलप्रदत्वाच्च, तद्विधेः।
अर्चकादीनां स्थानं तदर्चकानां तत्पार्श्वे स्थानं, नाभ्यैशान्यां सभास्थानम्, आग्नेय्यां गोष्ठागारम्, र्नैऋत्यामापणम्, पैशाचबाह्ये प्राच्यां कुलालोर्ध्वनापितां ऽबष्ठानाम्, याम्ये तन्तुवायचक्रिणाम्, वारुणे क्रयविक्रयकारिणां वणिजाम्, सौम्ये द्विजभृत्यानां, वादित्रजीविनां च, आग्नेय्यां क्रोशमात्रे तक्षकादीनाम्, र्नैऋते गव्यूतिमात्रे चण्डालपक्कणम्, वायव्ये मृगव्याधशाकुनिकाऽधोनापितानाम्, पैशाचाद्बाह्यतः प्राकारपरिघे ऐशान्यां, नदीतीरे वा, दूरे श्मशानं तृतीयः पटलः [[१०]] ग्रामायामसमम्, वारुण्यां तटाकं त्रिदण्डसहस्रम्, अर्धं तदर्धं वा, सेतुबन्धं दृढतरमत्युन्नतमनवछेद्यं, तत्र निर्झरोपकूल्या महाकुल्यादिजलयन्त्राणि च सम्यक् प्रकल्पयेत् ।
वास्तुविषमविन्यासनिषेधः
अनुगतकर्मण्यगर्भदैवतं वास्तु परितो वर्धयति समं, नैव विन्यासभेदः, क्लृप्तवास्तु विपर्यासो राजराष्ट्रग्रामयजमानानामाशु विनाशाय भवति।
वास्तुवशात्प्रासादादिनिरूपणम्
वस्त्वङ्गवास्तुपरिकल्पने यजमानाऽनुकूलं ध्रुवबेरम्, तद्द्विगुणं, त्रिगुणं, चतुर्गुणं वा; प्रासादतारं, तं मुनिरसशरभागेत्वेकविहीनाधिकं, द्विगुणं, त्रिगुणं, साष्टाऽंशद्विगुणं वा, पञ्चधोत्सेधं तद्वशात् प्राकारादीनि परिकल्प्य तद्विमाननिर्देशहस्तदण्डेन परितः त्रिपञ्चसप्तनवान्यतमविस्तारां वीथिं समुपकल्प्य, परितस्तद्वर्णावसानपरिकल्पितत्रिदण्डनिर्गमां शालां वस्त्वभिमुखामेव कल्पयेत्, विमाननिर्देशहस्तादिदण्डमानेनैव विन्यसेत्, अन्यत्सर्वं वस्त्वङ्गवास्तुवद्दण्डछेदं परिहृत्य, ग्रामादिकं हस्तछेदं परिहृत्य, गृहादीनि च कल्पयेत्, वस्त्वङ्गवास्तुवीथ्यां प्रतिलोमाऽन्तराल व्रात्यान्, नैव कल्पयेत्, चतुर्वीथिकमुत्तमं, त्रिवीथिकं मध्यमं, द्विवीथिकमधमम्, एकवीथिकमिति केचित्, अनुकर्मणि वस्त्वङ्गवास्तुनस्समं समन्ताद्वृद्धिरिष्टा, वास्तु वस्त्वङ्गविन्यासौ सङ्कीर्णौ नैव कारयेत्।
कर्षणकालः युगादिलक्षणम् अथोर्ध्वं वक्ष्ये कर्षणविधिम् - मार्गशीर्षादिद्वादशमासेषु उद्दिष्टमासे, शुक्लपक्षे, यजमानाऽनुकूलर्क्षे, यत्र देवाऽऽलयं कुर्यात् तत्र त्रिकराद्येकोनषष्ठिकरान्तं यथेष्टं शक्त्या विमानं, समण्टपं, सप्राकारं, चतुर्दिशं सीमां [[११]] विनिर्णयति, अत्र तृणगुल्मलतादीन् संशोध्य, उन्नताऽवनतं समीकृत्य, युगलाङ्ग (ह)लादीन्याहरेत्, युगं वैणवं, द्विषट् प्रादेशं तथा खदिरेण क्षिणियमसने पञ्चतालं, हलं शिरीषेण चतुस्तालम् ऋषिं पञ्चप्रादेशम्, अङ्गुलपरिणाहं प्रतोदं शेषं युक्त्यैव कारयेत्।
कर्षणप्रकारः
मौञ्जीं त्रिवृतां रज्जुमाहृत्य, वृषौ, श्वेतौ, रक्तौ, कृष्णौ वा, न मिश्रवर्णौ, सम्पूर्णाङ्गौ, सुमुखावरोगिणौ, निरुष्टौ सुवर्णश्रृङ्गौ रौप्यखुरौ च कृत्वा, सर्ववाद्यसमायुक्तं यजमानो गुरुश्च वैष्णवैस्सार्धं तां भूमिं सम्प्रविश्य, तत्र पश्चिमे प्रपां कृत्वा, तन्मध्ये विष्वक्सेनं प्राङ्मुखं, दक्षिणे चक्रम्, उत्तरे वीशं च, धान्यपीठे समावाह्य, मुद्गान्नं गरुडस्य, अन्ययोः शुद्धाऽन्नं निवेद्य, अभिमुखे वृषौ प्राङ्मुखौ संस्थाप्य, तृणमुष्टिं प्रदाय, आचार्यो यजमानेन वस्त्रोत्तरीयाभरणैरभिपूजितो गृहीतदक्षिणो, मौञ्जीरज्जुं गृहीत्वा, वृषौ ’रुद्रमन्य’ मिति बन्धयेत् ’त्र्यम्बक’ (ऋ. सं. ५-४-३०) मिति युगं, लाङ्गलं च, वैष्णवं मन्त्रमुच्चार्य तां भुवं पश्चिमादि त्रिरेखं कर्षयेत्।
बीजावापादिकम्
पश्चात् कर्षकमाहूय अलङ्कृत्य सर्वामपि बहुशः कर्षयित्वा, बीजानि च वापयित्वा, सर्वान् व्रीहीन् वापयेत्, उत्तमं षाष्ठिकम्, प्रियङ्ग्वादी (दि)न् मध्यमम्, मुद्गसर्षपादी (दिअ) नधमम्, अस्मिन् सोममभ्यर्च्य विष्णुसूक्तेनाऽभिमृश्य, ’सोमं राजानं’ वैष्णवं चोक्त्वा, र्नैऋतादि (षु) सर्वत्र वापनं कृत्वा, वारुणैर्मन्त्रैर्जलसेकं कृत्वा, पश्चाद्रक्षां विधाय, प्राप्तेषु सर्वसस्येषु पश्चिमे पूर्ववद्विष्वक्सेनादीन् समाराध्य, हविर्निवेद्य, गाश्च तत्र समानीय, आनम्य, (’आगोदाना’ दिति) गोदानसूक्तेन तानि सस्यानि गोगणेभ्यो निवेदयेत्।
तृतीयः पटलः [[१२]] बीजावापं विनापि - पदविभागकल्पनम् - पददेवता निरूपणम् - तत्पूजनम् - तत्र उत्तमत्वादिकम् अथवा त्वरितः, कालयापनभीत्या वा, कर्षणं कृत्वा, पलालभाराणि (न्), दूर्वा (णि) तृणानि वा आस्तीर्य, तथैव गोगणेभ्यो निवेदयित्वा, (तां) भूमिं संशोध्य, समां कृत्वा, प्रागन्तैश्चोत्तरान्तैश्च दशभिस्सूत्रैः एकाशीतिपदविभागं कृत्वा, तन्मध्ये नवभागं ब्राह्मं, तत्प्राच्यामर्यम्णष्षड्भागं, तद्दक्षिणे षट् दण्डधरस्य, तथा पश्चिमे षट् पाशभृतः तथा धनदस्योत्तरे षट्, आग्नेय्यां सवितृसावित्रयोः द्वौ पदौ, तथा र्नैऋत्याम् इन्द्रेन्द्रानुजयोश्च, वायव्ये रुद्ररुद्राजयोश्च, तथा ऐशान्याम् अपापवत्सयोश्च, प्रत्येकं द्वौ द्वौ, तद्बहिश्चैशान्यादि ईशं पर्जन्यं जयन्तं महेन्द्रम् आदित्यं सत्यकं भृशम् अन्तरिक्षम् अग्निम् उष्मांशुं पूषणं वितथं गृहक्षतं यमं गन्धर्वं भृङ्गराजम् ऋषिं र्निऋतिं दौवारिकं सुग्रीवं पुष्पदन्तं सरित्पतिम् असुरं शोषणं योगं जवनं नागं मुख्यं भल्लाटं सोमम् अर्गळम् अदितिं सूरिदेवं च द्वात्रिंशद्देवताः पृथक्पृथगेकपदाधिपानभ्यर्च्य, एतेषां पञ्चचत्वारिंशद्देवानां प्रत्येकं द्विप्रस्थैस्तण्डुलैश्चरुं पक्त्वा, गुल(ड) घृतदधियुक्तमुत्तमं, ब्रह्मणोऽर्यमादीनां चतुर्णां सावित्र्याद्यष्टानां मध्यमं, ब्रह्मण एकस्याऽधमम्, अन्येषां द्रोणैस्तण्डुलैरेकपात्रे चरुं पक्त्वा तत्तन्नाम्ना पूर्वमुदकं पुष्पं पश्चाद्बलिमुदकं दत्वा, पुष्पादीन् संशोध्य।
गर्भालयप्रदेशे पञ्चविंशतिसूत्रसन्धौ देवतापूजा विधिपूर्वकपुण्याहविधिः गर्भालयप्रदेशे प्रागन्तैरुत्तरान्तैः पञ्चभिस्सूत्रैः षोडशभागं कृत्वा, तत्सूत्रसन्धौ ईशानादि नागं भूतं यशं दुर्गां घोटमुखीं धात्रीं वपुषं राक्षसं जयं कुष्णं मुरुण्डं शिवं प्राणं कपिं शक्रं पुरुहूतं विद्यां यशसं भद्रां वेदभृतं तापसं सिन्धुषां विद्याम् अमितं पाञ्चभौतिकं च, एतेषाम् एकपात्रे द्रोणार्धैस्तण्डुलैश्चरुं पक्त्वा, तत्तन्नाम्ना पूर्ववद्बलिं दत्वा, पुण्याहं वाचयेत्।
[[१३]] अशक्तविषये बालालयं विनापि देवप्रतिष्ठाविधिः अशक्तश्चैवं शुद्धिं कृत्वा तरुणालयं विना विमानं ध्रुवबेरं कौतुकाद्यं च कृत्वा, प्रतिष्ठां कारयेत्।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे पददेवता बलिविधिर्नाम तृतीयः पटलः ॥ ३ ॥