अथ द्वितीयः पटलः
विशिष्टाचार्यवरणम्
अथ आलय भूपरीक्षादि समारम्भकालात् पूर्वस्मिन् यजमानः आचार्यं सर्वकार्योपदेशकं वैखानससूत्रोक्तविधिना निषेकादिसंस्कारैस्संस्कृतं विप्रं वेदविदं नित्यस्वाध्याययुतं गृहस्थं पत्न्यपत्ययुतं दयादिगुणैर्युक्तं शुभलक्षणैर्युक्तं भूपरीक्षादिक्रियामार्गज्ञं ज्ञानयोगविदं जितेन्द्रियं नित्यध्यानपरं निश्चलं नित्याऽर्चनपरं वैष्णवं भक्तिमन्तमेकं वरयित्वाऽभिवन्द्य सम्पूज्य याचयेत्।
[[५]] भूपरीक्षा विधिः, तत्कालश्च आचार्यो यजमानेन भूमिं सम्यक्परीक्षयेत् यथेष्टमासे शुक्लपक्षे कृष्णपक्षे त्रिधाद्यके वा, कर्तुरनुकूलर्क्षे भूपरीक्षां कारयेत्।
अङ्कुरार्पणपूर्वं निमित्तदर्शनविधिः तद्दिनात्पूर्वे अङ्कुरानर्पयित्वा हर्म्याऽऽगारादि शिल्पिशास्त्रज्ञं लक्षणसम्पन्नं शुद्धमरोगिणं कुशलं शिल्पिनम् आहूय, वैष्णवैस्सार्धं ’प्रीयतां भगवा’- नितिदेवेशं प्रणम्य, देवं ध्यायन् ’विष्णुर्मां रक्षतु’ इत्यात्मरक्षां कृत्वा सर्वालङ्कार - संयुक्तां दीपाम्बुजकरकां कन्यां पुरस्कृत्य, देशं प्रविश्य, प्रदक्षिणं कृत्वा, शकुनान्युपलक्षयेत्।
भूपरीक्षापूर्वं मृत्सङ्ग्रहः चतुरश्रामायताश्रां वा, प्रागानतामुत्तरानतां समां वा भूमिं, शब्दस्पर्शरूपरसगन्धैस्सम्परीक्षयेत्। वीणावेणु दुन्दुभिगजतुरङ्गवेदाब्धिध्वनियुतां, सुखस्पर्शां, श्वेतपीतरक्तकृष्णवर्णाभां, मधुराम्लतिक्तकटुकषायलवणरसां सुगन्धसंयुक्तां, प्रदक्षिणोदवतीं, क्षीरवृक्षतुलसी-कुशदर्भ-विश्वामित्र-विष्णुक्रान्त-स्थलारविन्ददूर्वायुतां भूमिं, सुमुहूर्ते गृहीत्वा, आचार्यः प्राङ्मुख, उदङ्मुखो वा नीत्वा यस्मिन् देशे ’जीवन्त’ इति जलं प्रक्षिप्य, मेदिन्यादिना हस्ताभ्यां भूमिमभिमृशेत् ’इदंविष्णु’ (ऋ॰ १-२-७) रित्याहरेत्।
त्याज्यभूमिकथनपूर्वं निमित्तदर्शनप्रकारः नपुंसक वृक्षाऽऽढ्यां मूष-कपालाऽस्थि-पाषाणशर्कराऽऽकीर्णां, वल्मीकपतङ्ग-कूप-भस्माङ्गार-तुष-केशाऽन्विताम् अन्त्यजातिभूयिष्ठां भूमिं त्यजेत्। पूर्वोक्ते देशे हस्तायतविस्तारावगाढं खनित्वा, तदवटे तां मृदं प्रक्षिपेत्, अधिके महतीं वृद्धिं, हीने हानिं, समे समं, विद्यात्।
द्वितीयः पटलः [[६]] निमित्ताऽन्तरदर्शनपूर्वं कार्यारम्भविधिः अथाऽन्यैर्निमित्तैस्संलक्ष्य कार्यमारभेत्।
ग्रामादौ चतुःषष्ठ्यादिभागकरणपूर्वं विष्ण्वर्चनविधिः ग्रामादिष्वेवं विधाय, चतुष्षष्ठिपदमेकाशीतिपदं षट्पञ्चाशदुत्तरद्विशतपदं वा कृत्वा, तन्मध्यं ब्रह्मभागं चतुर्धा कृत्वा, तद्वायव्यांशे पश्चिमे पूर्वे वा मध्यसूत्रादुत्तरे दक्षिणे वा, तत्सूत्रं देवस्य दक्षिणपादपार्श्वं प्रासादप्राकाराणां भित्तिं वा समाश्रितम्, एवं सङ्कल्प्य, देवेशं विष्णुं नवषट्पञ्चमूर्तिविधानेन प्रतिष्ठाप्य अर्चयेत्।
ऐशान्यादिषु शङ्करादिभवनम् ऐशान्यां शङ्करभवनं प्राङ्मु खं, वारुणे देवेशं प्राङ्मु खमासीनं स्थितं वा, आदित्यांशे भास्करालयं प्राङ्मुखं, याम्ये विन्ध्यवासिनीं प्राङ्मुखीं, भूतेशे विघ्नेशं, सुग्रीवे षण्मुखं, अदितौ मातृकोष्टं पराङ्मुखं, जयन्ते, दौवारिके वा, कृष्णस्याऽऽलयं, पुष्पदन्ते, शोषणे वा, राघवस्याऽऽलयं, महेन्द्रे महामत्स्यं सत्यके कूर्मस्याऽऽलयं, र्नैऋते वाराहं; जवने वा अन्तरिक्षे वा नारसिंहं, (रोहिणे) नागे वामनं, त्रिविक्रमं च, गन्धर्वे बलभद्रं, मुख्ये परशुपाणिं, सूरिदेवे कल्किनम्, सोमे शयानं, ग्रहक्षते दैविकं वासुदेवं, वितथे मानुषं वासुदेवं, उष्णांशावादिमूर्तिं भृङ्गराजे, ग्रामाद्बाह्ये वा पञ्चवीराणां स्थानम्।
ग्रामादौ तत्प्रेक्षमूर्तिस्थापनविधिः ग्राममध्ये बाह्ये दिक्षु विदिक्षु वा सर्वत्र स्थितमासीनं शयानं यानकं वा, ध्रुवकौतुकं, ध्रुवार्चां वा, ग्रामप्रेक्षमेव कारयेत्।
[[७]] ग्रामाद्बाह्ये विप्राऽऽवासस्थले नदीतीरादौ वा ग्रामाद्बाह्येऽपि यत्र विप्रैर्वस्तव्यं तत्रैव मध्ये दिशासु विदिशासु च देवं, देवीभ्यां सहितं वा, संस्थापयेत्। वननद्यद्रिसमुद्रपार्श्वे अन्यत्र तटाकाऽऽरामसमीपे विविक्तदेशे वा।
आलयद्वारस्योत्तमोत्तमत्वादिकम्
प्राग्द्वारमुत्तमोत्तमं, पश्चिमद्वारमुत्तमं, दक्षिणद्वारं मध्यमम्, उत्तरद्वारमधमम्।
एकाऽनेकमूर्तिविधानम्
सहस्रविप्राऽधिकग्रामादौ मध्ये विष्णुमनेकमूर्तिविधानेनाऽर्चयेत्, अशक्तश्चेदेकमूर्तिविधानेन वा। तन्न्यूने पञ्चविंशतिद्वयादर्वागपि पञ्चमूर्तिं प्राङ्मुखं प्रत्यङ्मुखम् अनेकमूर्तिं वा, अन्येषां नगर्यादीनां पश्चिमे च एकमूर्तिविधिना विष्णुं प्रतिष्ठाप्याऽर्चयेदित्याह मरीचिः।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे भूपरीक्षाऽऽलयदेशविधिर्नाम द्वितीयः पटलः ॥ २ ॥