००१ ऋषिप्रश्नोत्तरम्

अथ प्रथमः पटलः

मङ्गलाचरणम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ १ ॥

वन्दे श्रीनयनोत्पलस्य शशिनं शेषाचलाधीश्वरम् ब्रह्माद्यर्चितपादपद्मयुगलं लोकैकनेत्रोत्सवम् ।

वासिष्ठैः सनकादिभिर्मुनिगणैः संस्तूयमानं सदा भक्तानामखिलार्थदायिनमहं श्रीवेङ्कटेशं (गुरुं) परम् ॥ २ ॥

हैेमोर्ध्वपुण्ड्रमजहन्मकुटं सुनासम् मन्दस्मितं मकरकुण्डलचारुगण्डम् ।

बिम्बाधरं बहुलदीर्घकृपाकटाक्षं श्रीवेङ्कटेशमुखमात्मनि सन्निधत्ताम् ॥ ३ ॥

श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।

श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ ४ ॥

कोटिमन्मथलावण्यं सर्वगन्धर्वसन्निभम् ।

श्रीरुक्मिणीप्राणनाथं वन्दे श्रीकृष्णदैवतम् ॥ १ ॥

श्रुतिस्मृतिनदीपूर्णं शास्त्रकल्लोलसङ्कुलम् ।

विष्णुभक्त्युदकं शुद्धं वन्दे श्रीविखनोऽर्णवम् ॥ २ ॥

[[२]]

मरीचिं प्रति ऋषिप्रश्नः

श्रीमरीचिं महामुनिं स्वशिष्याऽर्पितकुशाऽऽसने समासीनं सर्वज्ञं जितेन्द्रियं शुद्धं नानालोकनिवासिनो धर्मसंसक्ता (संयुक्ता) ऋषयः समाऽऽगम्य, आनम्य, ’भगवन् केन मार्गेण कैर्मन्त्रैः कं देवमर्चयन्तः कान् लोकान् गमिष्यन्ति’ इत्यूचुः।

मरीच्युक्तमुत्तरम्

मरीचिरुवाच-सुप्रसन्नं परमात्मानं नारायणं ध्यात्वा अभिवन्द्य श्रुत्यनुकूलेन मार्गेण चतुर्वेदोद्भवैर्मन्त्रैः तमर्चयन्तः श्रुतिभिरभिहितं शाश्वतम् अतीन्द्रियं परात्परतरं देवैरनभिलक्ष्यं तद्विष्णोः परमं पदं गच्छेयुः (प्राप्नुवन्ति इति)।

विष्णोः सर्वोत्तमत्वे श्रुतिः श्रुतिस्तावत् ’’विष्णु (र्वै) सर्वा देवताः, पुरुष एवेदं सर्वम्, (ऋ॰स॰८- ४-१७) स ब्रह्मा स शिवः सेन्द्रः (तैत्ति॰आ॰८-२६) एष ब्रह्मा एष इन्द्रः एष प्रजापतिः एष सर्वा देवताः, अग्निर्वै देवानामवमः विष्णुः परमः तदन्तरेणसर्वा अन्या देवताः, (ऐत॰ ब्रा॰ १-प॰ १-अ॰ १) तस्मात्परं नाऽपरमस्ति किञ्चित् यस्मान्नाणीयो नज्यायोऽस्ति कश्चित् वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् (तै॰उ॰४) (परम्ब्रह्य परञ्ज्योतिः, आपोज्योतिः’’) इति।

विमानार्चनपदनिरुक्तिः

तस्मात् - परम्ब्रह्म परञ्ज्योतिरक्षरं सर्वभूतात्मकं सर्वाऽऽधारं सनातनं परमपुरुषमर्चयेत् - तत् - विमानार्चनम्।

[[३]]

अर्चनफलम्

ग्रामाग्रहारयोर्निवासिनाम् अनाहिताग्नीनां सामान्यमग्निहोत्रफलदम्, आहिताग्नीनां सर्वनिष्कृतिहोमार्थं, सर्वसमृद्ध्यर्थं च भवेत्।

तद्विधिपूर्वकं विखनसोक्तस्य विस्तरेण कथनप्रतिज्ञा तस्मात् - ’अग्नौ नित्यहोमान्ते विष्णोर्नित्याऽर्चा गृहे देवायतने वा भक्त्या भगवन्तं नारायणमर्चयेत्’ इति विखनसा सूत्रे समासेनोक्तं तदव (दहम) शेषविशेषेण समन्त्रकं सप्रयोगं क्रियामार्गं क्रमेण विस्तरतो वक्ष्यामि।

आघारादीनां गृह्ये द्रष्टव्यता तस्मात् यत्र यत्र होमो(म)विधानं तत्र तत्र अग्न्याघारस्विष्टकृत्प्रभृत्यन्तहोमाश्च अस्य मन्त्राः वैखानससूत्रे द्रष्टव्याः।

भगवदर्चने श्रुतिः तस्यार्चने श्रुतिः - ’’प्रवः पान्तमन्धसोधियायते महे शूराय विष्णवे चाऽर्चत, (ऋ॰स॰२-२-२६) धृतोर्ध्वपुण्ड्रः परमीशितारं नारायणं पूजयति स्म भक्त्या, अर्घ्यादिभिः पुरुषसूक्तमन्त्रैः सम्प्राप्नुयाद्विष्णुपदं महात्मे’’ ति।

ध्यानाद्भगवतः सकलत्वाऽभिव्यक्तिकथनम्, तदाराधनस्य फलकथनम् पद्मकोशप्रतीकाशे विश्वस्याऽऽयतनेपृथौ, हृदयेऽग्निमध्ये परमात्मानं व्यवस्थितं ध्यानेन पश्येत्। यथा आकाशगतो वायुः विहरणेन सन्निहितो भवति, तथा तत्र अचलं मनः कृत्वा तद्भक्त्या तेजोभासुरं रुक्मवर्र्णं रक्ताऽऽस्यं शुचिस्मितं ज्योत्स्नाऽवभासिताऽधरपल्लवं रक्तनेत्रं सुस्निग्धतनुं शङ्खचक्रधरं मकुटहारकेयूरादिभूषणैर्भूषितं सकलं शाश्वतं सर्वभूतेषु अशरीरमवस्थितम् अतिसूक्ष्मम्, अनिर्देश्यम्, अतिमात्रम्, अतीन्द्रियम्, अव्यक्तं प्रकृतेर्मूलम्, अनादिनिधनम् अखिलजगत्सृष्टिस्थितिलयकारणम् अचिन्त्यं निर्गुणम् अप्रमेयम् अप्रमत्तं सत्तामात्रमितिज्ञात्वा ध्यायेत्।

प्रथमः पटलः [[४]] तद्ध्यानकथनसङ्कल्पनात् सकलो भवति, भगवदाराधनेन ऊर्ध्वगतिर्भवति।

आचार्यादिवरणम्

तत्रसर्वकार्योपदेशकं वैखानससूत्रोक्तनिषेकादिसंस्कारैः संस्कृतम् आचार्यम्, अर्चकपरिचारकस्थापकादीनृत्विजश्च वरयेत्।

आराधनस्य भेदः, प्रतिमार्चनस्य सहेतुकं श्रैष्ठ्यं तदाराधनं द्विविधम् - अमूर्तं समूर्तमिति अग्नौ हुतममूर्तम्, प्रतिमाराधनं समूर्तम्, तच्छ्रेष्ठं यजमानाऽभावेऽपि अविच्छिन्नं भवति।

विमानार्चनस्य फलजनकत्वं तद्विमानाऽर्चनं सर्वक्रतुफलप्रदं सर्वकामप्रदञ्चेति ब्रह्माचाऽशंसत्। तस्मात् क्रमेण क्रियामार्गं विस्तरतो वक्ष्यामि, तदवहितमनसः श्रृणुध्वमित्याह मरीचिः॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे ऋषिप्रश्नोत्तरं नाम प्रथमः पटलः ॥ १ ॥