निखिलभुवनतलविदितमेव श्रीमतो वेङ्कटेशस्य क्षेत्रमिदं शेषमहीधरशिखरे विराजमानम् अस्मिन् युगे प्रायस्तमसावकुण्ठितेऽपि भक्तजनानुकम्पया निजमहिमानं प्रत्यक्षमिव प्रकाशयन् सकलभुवनस्थितिमातन्वन् अशेषश्रुतिस्मृति मुख्यप्रतिपाद्यो भगवान्मुकुन्दः श्रुतिगोचरेणैव पथा ॠषिसम्प्रदायात् समर्च्यमान इह विलसति। तदर्चनं च वेदानुयायित्वेन प्रसिद्धं वेदैकोपक्रमं श्री वैखानसशास्त्रमवलम्ब्य हि प्रवर्तते। तच्च शास्त्रं बह्वीभिस्संहिताभिर्विस्तृतम्। तत्र भगवतो विखनसमहर्षेश्चतुर्मुखात्मकस्य शिष्यप्रवरेण मरीचिना सम्पादितासु या आनन्दाख्या संहिता सैवात्रानुष्ठानविषयः। कालतो लुप्यमाना सा संहिता समुज्जीवनीयेति कृतोत्साहैः, निरवधिक श्रीहरिगुरुभक्तिभरेण साक्षात्कृत श्रीमद्वेङ्कटाचलाधीशेन सह दिव्याक्षक्रीडारसविशेषास्वादनैकतानान्तःकरणानां विरागिकुलसार्वभौमानां श्रीस्वामीहाथीरामजी गुरुवर्याणां श्रीमद्दिव्यसिंहासनमलङ्कुर्वाणैः श्री शेषाचल श्रीपद पुरादिविलसच्छ्रीभगवद्दिव्यालय श्रीकार्यनिर्वाहणधुरीणैः विरागिकुलशिरोभूषणैः श्री प्रयागदासजी समभिख्यैः श्री महन्तवर्यैः मुद्राक्षरैः सम्मुद्य्र प्रकाशिता लसति।
महर्षेर्मरीचेराचार्यश्श्रुतिप्रसिद्धो विखना नाम चतुरानन एव, आहोस्वित् तदावेशयुतस्तच्छिष्यप्रवरो विखना नाममहर्षिरस्य वेदानुगृहीतस्य सम्प्रदायस्य प्रवर्तकः तत्प्रणीतं च भगवच्छास्त्रं सर्वोत्तममिति तावत् कतिपयत्यादिप्रमाणोदाहरणेनाभिज्ञानुपतिष्ठामहे॥ ततःधेनुर्वहाणामदितिस्सुराणां ब्रह्मा ॠभूणां विखना मुनीनाम्। ॠग्वेदे - पवस्वं तं, वैखानसःपवस्वतेत्यादिशतर्चः वैखानसाधिदेवताः,। यजुर्वेदे viii वैखानसं पूर्वइहसामभवति, विखनसा दृष्टं सामापि श्रूयते - ऊहे दशरात्रे सप्तमेऽह्नि, विशेषेण खननाद्विखनाः। आह भगवान्व्यासः - कर्मकाण्डे ’’खनित्वाचात्मनात्मानं धर्मादि गुणसंयुतम्। ध्यानमाविश्य योगेन ह्यासीद्विखनसो विभुः। खननं तत्र मीमांसाह्यासिद्धेः परतःपरात्। विशेषेण खनेद्यस्मात् भावनान्मुनिसृष्टये नाम्ना विखनसो लोके स आसीदण्डजप्रियः’’ इति गूढार्थप्रकाशने खनशब्दः प्रयुज्यते। तथामहाभारतेऽपि इति दशविधनिर्णये।
’’वैखानस इति’’ ’’क्कचित् विखनसः इति विखनाः’’ इति च त्रेधाऽयं शब्दस्समानार्थतया पठ्यते। वैयासिक्यादि निघण्टुष्वपि विखनाश्च विरिञ्चन इति। भृग्वङ्गिरादयः नवापि विखनसः शिष्याः, यथोक्तम्।
एते विखनसः शिष्याः श्रुतिस्मृतिविधानत इति।
भारते च - वेदानां व्यसनादर्वाक्प्राग्रूपं मिलितं तु यत्। तां तु वैखानसीं शाखाम् इति ब्रह्मविदो विदुरिति। भागवतमतप्रशंसायां श्रीयामुनाचार्यैरुच्यते, ’’इदमपि (वैखानसमपि) भागवतमतमिति सङ्गृह्यते’’ इति। वैखानसाः पाञ्चरात्राश्चेति द्विविधाः भागवताः। कल्पसूत्र व्याख्यातारश्च तत्र तत्र भागवतानां सूत्रं विखनः प्रणीतं सूत्रमिति, उदाहरन्ति। वैखानससंहितासु वैखानसानां भागवता इत्येव व्यवहारोऽपि स्फुटः।
अन्यत्र च ’’वैखानसस्य सूत्रस्य अग्नेश्श्रामणकस्य च, नारायणस्य देवस्य याथार्थ्यं न च विन्दति’’ इति बोधायनः धर्मे द्वितीयखण्डे ’’वानप्रस्था वैखानसशास्त्रेण समुदाचारेण’’ इत्यादौ श्रामणकं नाम वैखानसं सूत्रं ’’तेनाग्निमादधीत वानप्रस्थः’’ इति आपस्तम्बगौतमयममनुशङ्खलिखितहारीतवसिष्ठादिभिः वानप्रस्थाग्निपुरोडाशपौण्डरीककुण्डादिविधानेषु मूलप्रमाणत्वेन विखनस्सूत्रमेवाश्रितं, तथाचोक्तम् - ix आदिकाले तु भगवान् ब्रह्मा तु विखना मुनिः यजुः शाखानुसारेण चक्रे सूत्रं महत्तरं वनाश्रमाचारयुतं श्रौतस्मार्तसमन्वितं यस्मिन्नेवतु सम्प्रोक्तं सूत्रं विखनसा परम्, वनस्थानां तु सर्वेषां विधिश्श्रामणकोऽभिधः, वानप्रस्थास्ततस्सर्वे ये द्विजा अन्ये च सूत्रिणः तत्सूत्रविध्यनुष्ठानात् स्मृता वैखानसास्तु ते यत्सूत्राद्यन्तमध्येषु भगवान्विष्णुरव्ययः, यष्टव्यो गीयते यस्मात्, सर्वसूत्रोत्तमं तु तत् वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः सर्वैस्सधर्मोऽनुष्ठेयो नात्र कार्या विचारणा ॥
भृग्वधिकारे च वैखानससूत्रस्य सर्वथा वैष्णवत्वं, सर्वसूत्रोत्तमत्वं च उद्घुष्यते।
गृहीत्वा पाणिना विष्णुः तमुवाच मुदान्वितः।
श्रीभगवानुवाच विखनस्त्वं महायोगिन् लोकसंरक्षणाय वै।
श्रुत्युक्तेनैव मार्गेण मत्पूजां कुरुसादरं श्री विखनाः। विधिना केन मन्त्रेण त्वत्पूजां करवाण्यहम्। वद स्वामिन्महाविष्णो त्वद्भृत्यस्य ममाव्यय।
x श्रीभगवान् सङ्गृह्य वैष्णवान् मन्त्रान् साङ्गवेदानुपादिशत्।
द्वयं च मूलमन्त्रादीन् उपचारक्रमं तथा।
जपहोमार्चनध्यानक्रमञ्चोपदिदेशह।
मानुषं दैविकं किञ्च सर्वशास्त्रं हरिस्स्वयम्।
उपदेशक्रमेणैव कृत्वैवाध्ययनं मुनिः।
ततो भगवताज्ञप्तः सृष्ट्वा तान्नवसङ्ख्यकान् अध्यापयामास तथा साङ्गोपाङ्गानि सर्वशः काश्यपोऽत्रिर्मरीचिश्च वसिष्ठोऽङ्गिरसोह्यहं पुलस्त्यः पुलहश्चैव क्रतुश्च नवसङ्ख्यकाः एते विखनसः शिष्याः लोकानुग्रहकारिणः इति।
तत्रैवालयार्चागृहार्चेति उभयोरर्चनविध्योः श्रुतिचोदितत्वं प्रदर्श्य विष्णुपुरुषसत्याच्युतानिरुद्धाख्यपञ्चमूर्त्यात्मकस्य भगवतः पुरुषोत्तमस्य पूजामपि श्रुत्या एष पुरुषः पञ्चधा पञ्चाग्निः इत्यादिकया सूचयति। किं च, ये वैखानससूत्रेण संस्कृतास्तु द्विजातयः। ते विष्णुसदृशा ज्ञेयाः सर्वेषामुत्तमोत्तमाः।
विष्णोः प्रियतमा लोके चत्वारः परिकीर्तिताः।
अश्वत्थः कपिला गावस्तुलसी वैखानसा द्विजाः॥
वैष्णवेषु च ते श्रेष्ठा ये वैखानससूत्रिणः।
इत्येवं सूत्रिणां प्रशंसया सूत्रकारस्यैव महतीप्रशंसा कृता भवति।
पूजा वैखानसैर्विप्रैरालये स्याद् विशेषतः सर्वसम्पत्करं चैव सर्वदुःखविनाशनं xi कौर्मे मच्चित्तामद्गतप्राणाः मयि सङ्गतमानसाः अनन्यशरणा राजन् तस्माद्वैखानसा वराः॥
पाञ्चरात्रे-पौष्करसंहितायां विप्रा वैखानसाख्या ये ते भक्तास्तत्वमुच्यते।
एकान्तिनः सुसत्वस्था देहान्तं नान्ययाजिनः।
कर्तव्यमितिदेवेशं संयजन्ते फलं विना प्राप्नुवन्ति च देहान्ते वासुदेवत्वमब्जज! इति अत एव शरणागतिदीपिकायां वैखानसानां प्रशस्तिर्यथा ’’त्वां पाञ्चरात्रिकनयेन पृथग्विधेन वैखानसेन च पथा नियताधिकाराः। सञ्ज्ञाविशेष नियमेन समर्चयन्तः प्रीत्या नयन्ति फलवन्ति दिनानि धन्याः।
वर्णाश्रमादिनियमास्थिरसूत्रबद्धा भक्त्या निवेशित यथार्ह सुपत्रपुष्पा।
मालेवकालविहिता हृदयङ्गमा त्वाम् आमोदयत्यनुपरागधियां सपर्या। तथा वैखानसगृह्ये च दशमप्रश्ने ’’मधूक्ते तोयम्, मांसोक्ते पैष्टिकं गृह्णाति’’ इत्युक्तेः शुद्धसात्विकत्वमेव वैखानसानां सिद्धम्। अच्छिद्रपञ्चकालपरायणत्वादिको धर्मः वैखानसानामेव स्वभावतस्सिद्धः परैरप्याकृष्य आत्मनि वर्णित इीत शाण्डिल्यस्मृत्यादिदिशा विज्ञातं सुविदितमिति, तावदास्तां प्रपञ्चः।
दक्षिणापथे केनचिदाधुनिकेन वैखानसानामपि अद्वैतित्वमुत्प्रेक्षितम्।
[[xii]]
साचोत्प्रेक्षा वैखानससिद्धान्ते तस्य सर्वथा परिचयाभावम् अनभिज्ञतां च व्यनक्ति। आग्रहविधुरैरस्मिन्नेव प्रत्नेन महर्षिणा मरीचिना कृते विमानार्चनकल्पे त्रिनवतितमे चतुर्नवतितमे च पटले
वैखानसगृह्यसूत्रघटकयोः सगुणनिर्गुण-शब्दयोः निरूपितं प्रामाणिकम् अर्थम् आदाय मायावादि-सम्मतार्थत्वाभावो द्रष्टव्यः।
ततश्च वैखानसाः जीवेश्वरयोर्निरूपयित भेदवादिन इति निश्चेतुं शक्यते॥
एतावता ग्रन्थेन वैखानसागमस्य श्रुतिपथैकवर्तित्वं बहुभिः प्रमाणैः सज्जनमुदे सूचितम्। कालतस्साहचर्यदोषाच्च ये दोषास्तदनुयायिष्वपि दत्तपदास्स्युः। तान् व्युदस्य मूलग्रन्थावलोकनपरा महान्तः स्वतः वेदोक्तधर्मानुष्ठानेन तत्र च उपासनावर्त्मनि विद्वदविद्वत्साधारिणी आद्यभूताम् अर्चासमर्चनपद्धतिम् अविच्छिन्नसम्प्रदायेन प्रदर्शयतां वैखानसानां वैदिकाग्रगण्यत्वम् अवधारयेयुरिति, तथा तत्सिद्धान्तेनैव शेषाद्रौ श्रीनिकेतनस्य अनन्यसाधारणः पूजाविधिः अनादितश्चलतीति, अयं च कोशः तमेवार्थं विद्वद्भ्योऽविद्वद्भ्यो दर्शयतीति च विमृश्य एतत्प्रकाशने कृतोत्साहानां श्रीमतां महन्तवर्याणां तन्नियोगेन एतत्परिष्करणे कृतश्रमाणां विदुषां च मुदमेव अर्हणीं मन्यमानाः मोदेरन्निति शम्॥
वः रधुनाथ–चक्रवर्ति-भट्टाचार्यः सेतुमाधवाचार्यः xiii