vi एकशततमे पटले मरीचिमहर्षिप्रणीतानां ग्रन्थानाम् उल्लेखः ’’मया च जयसंहिता, आनन्दसंहिता, सञ्ज्ञानसंहिता, वीरसंहिता, विजयसंहिता, विजितसंहिता, विमलसंहिता, ज्ञानसंहितेति अष्टसु संहितासु लक्षाधिकचतुरशीतिसहस्रग्रन्था उक्ताः’’ इति लक्ष्यते। ग्रन्थमुपसंहरन् मरीचिः शिष्यानेवमुपदिशति - ’’संसारसमुद्रोत्तरणोपायसाधनं ज्ञानयोगं च ब्रह्मणा पुरा मम प्रणीतम्। तदेव युष्माकं मया चोक्तम्। ज्ञानोपदेशं गुरुशिष्यमार्गेण ज्ञात्वा, पश्चात्परमात्मानं सदा पश्येत्’’ इति।
तथा च अस्य विमानार्चनाकल्पग्रन्थस्य अध्ययनं तद्विहितकर्मानुष्ठानं च इहामुत्रसुखाय कल्पत इत्यत्र नास्ति संशयकणोऽपि।
सोऽयं महत्तरः ग्रन्थः १९९८ वत्सरे कीर्तिकायानां माडम्बाकं कृष्णस्वामि श्रीनिवासभट्टाचार्याणां प्रस्तावनया, रघुनाथचक्रवर्तिभट्टाचार्यसेतुमाधवाचार्यमहोदयानाम् उपोद्घातेन च साकं तिरुमल तिरुपति देवस्थानद्वारा अमुद्राप्यत। देवालयेषु अर्चनातत्पराणां, उत्सवादिषु वृतानां ॠत्विजां चात्यन्तमुपकारकः अयं विमानार्चनाकल्पाख्यो ग्रन्थः चिराय दुर्लभत्वमवाप।
लोककारुण्यधिया पुनरपि मुद्रापयितुं निरणयन् विचक्षणाः तिरुमल तिरुपति देवस्थानाधिकारिणः। अस्य ग्रन्थस्य प्रकाशने वेदविश्वविद्यालयस्यापि पात्रता परिकल्पितेति सामोदं श्रीमद्भ्यः डा. के.यस्. जवहर् रेड्डि ऐ.ए.यस् महाभागेभ्यः ति.ति.दे.कार्यनिर्वहणाधिकारिभ्यः कार्तज्ञ्यमाविष्कुर्मः।
परिशोधनकार्ये विद्वत्तल्लजानाम् आचार्य वेदान्तं श्रीविष्णुभट्टाचार्याणां, श्रीवेदान्तं गोपालकृष्णमाचार्याणां, डा. वाडपल्लि श्रीनिवासदीक्षितानाम्, आचार्य अग्निहोत्रं श्रीनिवासाचार्याणाञ्च सहयोगः प्रावापि। आचार्य वेदान्तं श्रीविष्णुभट्टाचार्याणां सहकारः विशेषोल्लेखमर्हति। श्रीवेङ्कटेशकृपा सर्वेषु प्रसरतु।
तिरुपतिः १५-०७-२०२१ वन्दारुः वेदाचार्य सन्निधानं सुदर्शनशर्मा कुलपतिः vii