वैखानसागमकल्पग्रन्थानां मध्ये ’’विमानार्चनाकल्पः’’ उच्चतरं स्थानमधितिष्ठति। महर्षिणा मरीचिना प्रणीतः अयं ग्रन्थः तत्तत्कर्मणाम् अनुष्ठानपद्धतिं विस्तरेण उद्बोध्य, अर्चकानां ॠत्विजां च संशयान् अपाकरोति। अतः अस्य विमानार्चनाकल्पस्य असाधारणं प्रामाण्यं वरीवर्ति।
ग्रन्थादौ तत्रभवान् मरीचिः अनुबन्धचतुष्टयम् इत्थं संसूचयति ’’सुप्रसन्नं परमात्मानं नारायणं ध्यात्वा अभिवन्द्य श्रुत्यनुकूलेन मार्गेण चतुर्वेदोद्भवैर्मन्त्रैः तमर्चयन्तः श्रुतिभिरभिहितं शाश्वतम् अतीन्द्रियं परात्परतरं देवैरभिलक्ष्यं तद्विष्णोः परमं पदं गच्छेयुः’’ इति। तथा च कर्मानुष्ठानद्वारा चित्तशुद्धिं, तद्द्वारा मोक्षसिद्धिं भगवान् मरीचिः अभिप्रैति इति स्पष्टीभवति।
एकोत्तरशतपटलात्मकेऽस्मिन् कल्पग्रन्थे उच्चावचानि कर्माणि निर्दुष्टया स्पष्टया च शैल्या न्यरूप्यन्त। भूपरीक्षाविधिः, देवपदं, वास्तुविशेषाः, गर्भालयप्रदेशविशेषाः, देवप्रतिष्ठाविधिः, तरुणालयनिर्माणविधिः, नवमूर्त्यादिबालालयप्रतिष्ठाविधिः, कालनिर्णयः, दिङ्निर्णयः, विमानस्वरूपं, अधिष्ठानकरणरूपभेदाः, द्वारलक्षणं, गोपुरलक्षणं, महामण्टपनिर्माणविकल्पः, विष्वक्सेनादीनां स्थानं, शिलाभेदाः, बेरभेदाः, मृदादीनां सङ्ग्रहः, मत्स्यादीनां न्यासः, कौतुकद्रव्याणि, ताळविभागाः, पात्राणि, उपकरणविशेषाः, अधिवासाः, कुण्डलक्षणं, ॠत्विग्वरणं, नित्यार्चनाविधयः, बलिविधयः, विशेषपूजाविधयः, स्नपनप्रकाराः, चक्रप्रतिष्ठा, ध्वजलक्षणं, पुष्पयागः, प्रायश्चित्तविधयः इत्येवमादयः नानाविधाः विषयाः साङ्गोपाङ्गं ग्रन्थेऽस्मिन् दरीदृश्यन्ते। शततमे पटले समाधिना देहत्यागप्रकारः अभिवर्णितः। अन्तिमे श्रीवेङ्कटेश्वरवेदविश्वविद्यालयः (ति.ति.दे.प्रोत्साहितः, यु.जि.सि.द्वारा आमोदितश्च)