द्वितीयोऽध्यायः
अथ द्वितीयोऽध्यायः
अत ऊर्ध्वं प्रवक्ष्यामि भूपरीक्षा विधिक्रमम्
आरम्भकालात्पूर्वस्मिन् यजमानो गुरुं वरेत्? 1
वैखानसं तपश्शीलं नित्यहोम परायणम्
पारं पर्यागतं शिष्टं दोषैरन्यैर्वि वर्जितम्। 2
विप्रं तं वरयित्वा तु याचयेत्सं प्रपूज्य च
शास्त्रज्ञं (फल, ग।) बन्धुसम्पन्न माहूय स्थपतिं पुनः। 3
( भूपरीक्षायामुक्तकालः भूपरिक्षाक्रमः।)
मासेषु चैत्रकं (हित्वा?) नैव शेषमासे शुभे दिने
ग्रामस्य यजमानस्य चानुकूले शुभोदये। 4
वैष्णवीं भूमिमासाद्य शुद्धिं कृत्वा यथाशुभम्
पूर्वेद्युरेव शर्वर्या मङ्कुरार्पणम् मारभेत् 5
ब्राह्मणो यजमानश्चेत्तद्गृहे वाङ्कुरार्पणम्
अन्यश्चे तत्र वा कुर्यात्तत्र चेत्सद्य एव तु। 6
भूमिं महुर्तेक स्याचार्यः प्रोङ्मुखो वाप्युदङ्मुखः
असयित्वाऽथ हस्ताभ्यां भूसूक्तेनाभिमर्श येत्। 7
द्वितालयत (विस्तारमवगाढं) विस्तारावगाढं चतुरश्रकम्
खनित्वा पांसुमुद्धृत्य प्रक्षिपेत्तां मृदं गुरुः। 8
अधिके चेन्महोवृद्धिं हीने हीनं समे समम्
(तद्विधानैः सु,) विद्यादथान्यैस्संलक्ष्य निमित्तै (सु। )र्वा समारभेत्। 9
ग्रामे चेत्त - त्सभास्थाने परीक्ष्यैव च कर्षयेत्
ग्रामार्थं कर्षयेत्पूर्वं (निमित्ते।) निर्मिते वास्तुमध्यमे। 10
पश्चादालय (मुद्दिश्य।) माविश्य भूपरीक्षां विनाऽत्र तु
कल्पयेद्विधिना पश्चाद्गवादीन् (निवेदयेत्।) सन्निवेशयेत्। 11
निश्चित्य विधिना वास्तु पदानि परिकल्पयेत्
कारयित्वा ऽधिवाना (मन्त्रान् त्समभ्यर्च्य।आ–मन्त्री समभ्यर्च्य।ग।) मन्त्रैस्समभ्यर्च्य बलिं ददेत्। 12
वास्तुविन्यासः
( सहस्राधधिकेः पञ्चमूर्तिं प्रकल्पयेत्।) ग्रामे ब्रह्मभागं विभज्य च
चतुर्धा जपनांशे तु पञ्चमूर्ती स्समर्चयेत्। 13
तदंशे पूजकगृहं दक्षिणे चोत्तरेऽथ वा
पश्चिमे वा विदिग्देशे कल्पयेत्त त्समीपतः। 14
(सभास्थानं।ख।क।) स्वपनं च तथै शान्यां गोष्ठागार ञ्च पावके
नैर् ऋत्यामापणस्थानं कारयेत्तान् यथाविधि। 15
सहस्रविप्रान्न्यूनेषु ग्रामेष्वपि च मध्यमे
शतं शतद्वयाद्येषु चैममूर्ति मथार्चयेत्। 16
आसनं स्थानकं वाऽथ (शयानां।) शयनं? भोगमेव च
कल्पयेद्ग्रामवृद्ध्यर्थं रामकृष्णौ तु वा पुनः 17