प्रथमोऽध्यायः
श्रियै नमः।
श्री रामचन्द्रायनमः।
श्री मद्विखनसमहागुरवे नमः
श्री मद्भ्यो भृगुमरीच्यत्रिकश्यपेभ्योनमः।
श्री वैखानसभगवच्छास्त्रे
भगवद्भृगु महर्षि प्रणीतः
यज्ञाधिकारः
अथ प्रथमोऽध्यायः
********
श्रौतस्मार्तादिकं कर्म निखिलं येन सूत्रितम्
तस्मै समस्तवेदार्थ विदे विखनसे नमः (शुक्लाम्बरधरं विष्णु शशिवर्णं चतुर्भुजम्। प्रसन्नवदनं ध्यायेत्सर्व विघ्नोपशान्तये।ग।)
ऋषि प्रश्नोत्तरम्।
भृगुं मुनिवरं श्रेष्ठं (नरलोक।ग।) नानालोकनिवासिनः
कुशासने समासीनं नारायण परायणम्। 1
समासाद्य प्रणम्यैव भगव (द्भक्ति) त्सक्तचेतसः
केन मार्गेण कैर्मन्त्रैः कं देवं नियतेन्द्रियाः 2
(कसर्चयन्तः।अ।) समर्चयन्तः परमं पदं गच्छेयुरव्यमम्
ऋषे तत्सर्वमाख्याहि परमं वदतं वर। 3
….. …… ….. ….. ….
अर्चन प्रशंसा
भृगुरुवाचः-
युष्माभिश्चोदितं सर्वं साधु वक्ष्याम्यशेषतः
शृणुध्वं मनसा देवं स्मृत्वा नारायणं परम्। 4
श्रुत्यनुकूलमार्गेण चतुर्वेदोद्भवैस्तथा
मन्त्रैस्समस्तलोकेश मर्चयेद्धरि मव्ययम्। 5
तेनैव भक्त्या वैकुण्ठं सहसा स्वयमेव च
लभते तत्पदं नास्ति न दैवं केशवात्परम्। 6
तं विष्णुं पूजयेन्नित्यं सर्वसाधनं (साधकम्।ग।ःःतथान्ये ग।) साधनम्
सर्वमुक्तिप्रदं नित्यं सर्वकाम फलप्रदम्। 7
ग्रामग्राहारयोस्सम्य गर्चनं तन्निवासिनाम्
सर्वसिद्धिप्रदं नित्यं पुत्र पौत्र विवर्धनम् 8
सामान्यमग्निहोत्रं स्यादनग्नीनं तपोधनाः
साग्निनामपिशान्त्यर्थं ः ः द्वितीयं सर्वसिद्धिदम्॥ 9
अर्चनद्वै विध्यम्
तदर्चनं द्विधा प्रोक्त मूर्त ञ्च समूर्तकम्
अग्नौ हुतममूर्तंस्या त्समूर्तं बेरपूजनम्। 10