हरिः ओं
श्री श्रीनिवासाय नमः
श्री विखनस महागुरवे नमः
श्री वैखानस भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
वासाधिकारः
प्रथमोऽध्यायः
श्रौत स्मार्तादिक ङ्कर्म निखिलं येन सूत्रितम्
तस्मै समस्त वेदार्थ विदे विखनसे नमः॥
ऋषि प्रश्नोत्तरम्
आश्रमे सम्यगासीनं ब्रह्मपुत्र तपस्विनम्।
सर्वदेवस्य वेत्तारं सर्वशास्त्रार्धकोविदम्॥ 1
सुप्रसन्नं मुनिं शान्तमभिगम्य प्रणम्य च॥
ऋषय ऊचुः
भगवान् केन मार्गेण कं देव पूजयन्ति वै। 2
कान् लोकांश्च गमिष्यन्ति श्रोतुं कौतुहलं प्रभो॥
भृगुरुवाच
एत च्छ्रुण्वन्तु मुनयःप्रोक्तं चैवाथ वै मया। 3
वैदिकोक्तेन मार्गेण मन्त्रैर्वोदोक्त वन्मया।
समाहितमनाभूत्वा अर्चयेद्विष्णु मव्ययम्॥ 4
तस्य विष्णोः पदं गच्छे त्कर्तव्यमिति निश्चयः॥
ऋषय ऊचुः
किमत्रालय देशे तु भूमिं किन्तु परीक्षणम् 5
कि रूप तस्य धाम्नश्च किं वा चैवास्य लक्षणम्
प्राकार ङ्गोपुरं किन्तु किमत्र स्थापनक्रमम्॥ 6
व्यूहत्रय कथं किन्तु तस्य भेदं कन्त न्तु वा
कि न्तस्यार्चन नित्यं उत्सव न्तु कथन्तु नः 7
सामृत चेत्कथं कुर्या द्धारकन्तु तथैव च
अमूर्त किं समूर्तन्तु आत्मार्थं किं परार्थकम् 8
अन्तर्यागन्तु किं प्रोक्त बहिर्यागं यथाक्रमम्
तथैव निष्कल किंन्तु सकल ञ्चैव किं पुनः। 9
तथाभिगमनं किन्तु उपधानं कथं पुनः
इज्या चैव कथ म्प्रोक्त स्वाध्यायन्तु कथं क्रमात् 10
योगक्रमस्तथा किन्तु किमत्राग्नेयसौम्यकम्
किमत्र समये भेदो दीक्षा चैव कुतस्तथा। 11
कथनं सक्रमा द्ज्ञेय ङ्कर्षणान्तं कुतस्तथा
किमत्र पञ्च मूर्थन्तु बेरस्यैक कथं तुवा॥ 12
देवोश्च सहित ङ्किन्तु तस्य रूप कथं तुवा
देवीभ्यां रहितस्थान कथ न्त्वासनकं कथम्॥ 13
शयनन्तु कथं प्रोक्तं परिवारक्रमं तथा
तथैव ज्ञान योग न्तु क्रिया शय्यात्मकं कथम्॥ 14
तत्सर्व श्रोतु मिच्छयो वदत्वं वदता वर
– भगवद्विग्रह निवास स्थानानि –
– भृगुरुवाच –
एकत्सर्व समाख्यातं शृणुध्वञ्च यथाक्रमम् 15
ग्रामेच नगरे वाथ पट्टणे खर्वटेऽपि वा
दण्डके कुटिके वापि राजध्यान्या मधापि वा॥ 16
अरण्ये शैल मूलेवा पर्वताग्रे तथैव च
नद्यास्तीरेऽब्धितीरेवा अन्यत्रोद्यान केपिऽवा॥ 17
एतेष्वाल्य देशेषु यथार्हं तत्र कारयेत्
अथ वा रहिते तत्र कारये द्देशिकोत्तमः॥ 18
ग्राम ग्रहार योर्मध्ये देवियुक्तो निषण्ण कम्
स्थितंवा तत्र कुर्वीत शयनं नैव कारयेत्। 19
वारुणादि महाशासु शयनं स्थितमेव वा
आसीनंवा त्रकुर्वीत देवीयुक्त न्तु कारयेत्। 20
अथ वा रहित न्तत्र काराये द्देशिकोत्तमः
विदिक्षु तद्वदा सीन स्थिंतवा शयनं तुवा। 21
दवीयुक्त प्रकुर्वीत भोग न्तदु बयं बुधः
नदीसमुद्र पार्श्वेषु शयानां स्थानमेव वा। 22
देवीभ्यं सहितं तत्र विरहाद्युभयं तथा
नगरे पट्टेणे चैव राजधान्यां विशेषतः॥ 23
स्थितं वा चासन न्तत्र योगमार्ग न्तु कारयेत्
अरण्ये कुटिके चैव खर्वटे दण्डेकेऽपि वा॥ 24
आसीनं वा स्थितंवा पि वीरमार्गेण कारयेत्
एवमाल यदेश न्तु स्रवत्र परिकल्प येत् 25
तदूर्ध्वे वक्ष्यते चैव मया प्रोक्तं विचक्षण
सङ्क्षेपेण प्रयोग्तव्य लक्षणस्य वसुन्धरां॥ 26
विष्णुक्षेत्र लक्षणम्
क्षीरयुक्त ञ्च तदृक्ष तुलसीभिः कु शैरपि
सरसः पद्मयुक्त न्तु दक्षिणा वर्तते जलम्। 27
पीतं श्वेतनिभां भूमिं उदक्प्राक्प्रवणे तथा
एवं लक्षण संयुक्तं विष्णुक्षेत्रं प्रकीर्तितम्॥ 28
भूपरीक्षा लक्षणम्
तद्भूमेर्वलयं खात्वा तन्मृद्भिः पूरयेत्क्रमात्
अधिक ञ्चेन्मेहा वृद्धिः न्यूनेवृद्दिक्षयं भवेत्। 29
– गौल्यादिस्वरफलम् श्–
गौली च वायसो वापि दक्षिणे सुस्वरं यदि
महातीं वृद्धिमाप्नोति देवदेवर तिर्भवेत्। 30
नृगाल लाङ्गालभ्यान्तु पश्चिमे यदि वृद्धिदम्
अन्यैश्च विपरीत ञ्चे त्तत्र भूमिं विना क्वचित्॥ 31
तत्र गुल्मलतादीनि शल्यलोष्टतृणादिषु
एतत्सर्वं व्यपो ह्यैव निम्नोन्नत समीकृतम्। 32
– रुद्रब्रह्मादिक्षेत्र निर्णयंः–
प्रवणं पश्चिमं यत्र तत्र रक्त निभं क्रमात्।
ब्रह्मक्षेत्र मिति प्रोक्तं रुद्रक्षेत्र मिहोच्यते 33
प्रवण न्दक्षिण कृष्णं रुद्रक्षेत्र मुदाहृतम्।
एवं भूमिं परीक्ष्यैव विपरीतं न कारायेत्॥ 34
– विग्रहभेदाः–
चतुर्भुजं चतुर्हस्तं शङ्ख चक्र गदाधरम्।
दक्षिणे वरद ञ्चेति कटकं वामके तथा॥ 35
अथ वासव्यहस्तेन अभयं परीकीर्तितम्
अन्येन वामहस्त ञ्च वरदं कटकं तथा॥ 36
कट्यावलम्बिं तं वाध कृत्वा चैव विचक्षणम्
हस्त विन्यास भेदेन देवमेवं प्रकीर्तितम्॥ 37
अथ कौमोदकी पद्मं कृत्वात द्देषिकोत्तमः
अध केचि द्वदन् तस्मिन् दक्षिणाधः करादिषु 38
पद्मं शङ्खं तथा चक्रं धारयन् गदयासह
एवं रूपाण्यसङ्ख्याकं यथेष्टं रूप महारेत्। 39
लब्दरूपं गृहीत्वैव तस्य पञ्चादिमूर्तकम्
तस्य भेरस्य परितः कल्पयेत्परुषादि कान्। 40
अद्र्यग्रे शैल मूलेवा दैविकेषु निरायुधम्
एवं रूपं सुसं प्रोक्त धामरूपं प्रवक्ष्यते॥ 41
– विमानभेदाः –
वेसरं द्राविड ञ्चैव नागर ञ्च त्रिधा भवेत्।
विग्रहस्य च भेदेन नित्यपूजाक्रमं तथा॥ 42
प्रत्यकं द्वित्रिभेधेन द्वयाधिक मिति स्मृतम्
प्रकारगोपुर ञ्चैव मण्डपादीन् तथैव च 43
रुप न्तु पादकेशादि पूर्व मेव प्रचोदितम्
स्थापनं चोत्तव ञ्चेव नित्यपूजा क्रमं तथा॥ 44
विग्रहस्य च भेद ञ्च प्रदक्षिण विधिक्रमम्
सूत्रं चापोपण ञ्चैव दमनारोपणं तथा॥ 45
अपरे दन्मया प्रोक्तं शृणुध्वं मुनिसत्तमाः
अथ वक्ष्ये विशेषेण सामृता हारक क्रमम्॥ 46
– सामृतक्रमः–
नित्यार्चन म विच्छिन्नं वर्तते तरुणा लये
पश्चान्मूला लये स्थाप्य सामृत न्तु तदुच्यते॥ 47
– हारक क्रमम्–
पूर्वं मूलालये स्थाप्य तरुणालयहीनकम्
एवं हार क म्प्रोक्तं तत् द्वितीयं परिचक्षते॥ 48
–अमूर्ताराथन क्रमः–
सवितु स्त्वग्निहृन्मध्ये स्थण्डिले सलिलेऽपि वा
देवस्थान ञ्च सङ्कल्प्य ध्यात्मा नित्यं समर्चयेत्। 49
तस्य रूपं प्रतिष्ठाप्य वास्त्वङ्गालयपूजनम्
एव न्त्वमूर्ति पूजे ति मसूर्तं वक्ष्यते मया॥ 50
– समूर्ताराधन क्रमः–
ताम्रेणाध सु वर्णेन रजते वा दारुणा तथा
शिला मृदा वा कुर्वीत रूपं तत्रैव कारायेत् 51
तस्य रूपं प्रतिष्ठाप्य वास्त्वङ्गालयपूजनम्
एव समूर्त मित्युक्त परार्तमिति कध्यते॥ 52
–परार्ध आत्मार्थ भेदः–
स्वगृहे देवमानीय स्थाप यित्वार्चयेद्भुधः। 53
नित्यं सकृद्द्विकालं वा आत्मार्थं यजनं स्मृतम्।
अन्तर्याग क्रमः
अन्तर्यागक्रमं वक्ष्ये श्रुणुध्वं द्विजसत्तमाः
अरुणोदय कले तु उत्थाय च विचक्षणः॥ 54
निद्रां हित्वा महाविष्णोः स्तोत्रं जप्त्वा समाहितः
प्राङ्मुखोदङ्मुखोगम्य बहिश्शोधन माचरेत्॥ 55
मृदा गात्रा विशुद्ध्यर्थं विधिना शौचमाचरेत्
स्नानं कृत्वा यथा न्याय्यं दन्तधावनपूर्वकम्॥ 56
जिह्वायः शोधनं कुर्यात् यथाविधि समाचरेत्
नित्यकर्म ततः कृत्वा सूत्रोक्तेन विधानतः॥ 57
देवस्य मन्दिरं प्राप्य नित्यपूजोक्तमार्गतः
चन्दनादीन् समादाय ऊर्थ्वपुण्ड्राणि धारयेत्॥ 58
केशवादीन् न्यसित्वा तु धारयेत्तु विचक्षणः
कारये च्चैव शुद्धात्मा करन्यासादिकं क्रमात्॥ 59
देहन्यासं तत कुर्या दङ्गन्यासमतः परम्
पञ्चाङ्गं वा षडङ्ग वा अष्टाङ्गं वाधकारयेत्॥ 60
देवपार्श्वे सुखासीनः प्राङ्मुखउदङ्मुखो वा
अथवा चात्र तिष्टन्वा आत्मसूक्तं जपेद्बुदः॥ 61
प्राणायाम न्ततः कुर्या द्रेच पूरककुम्भकैः
हृन्मध्ये कमलं ध्यात्वा धलै ष्षोडशभिर्युतम्॥ 62
कलाक्षर समायुक्तं कर्णिकां प्रकृतिं स्मरेत्।
अदवाष्टदलैस्सृत्वा द्विर्द्विश्चे वाक्षरं न्यसेत्॥ 63
तन्मध्ये कल्पयेद्विद्वान् रविसोमाग्नि मण्डलम्
तन्मध्ये सकलं ध्यात्वा विष्णुं प्रणव रूपिणम्॥ 64
आदिबीजं स्मरेच्चैव अकारं तस्यच स्तितः
नब्रह्मेति शृति ञ्चेव सर्वदेवमयं हरिम्॥ 65
तन्मध्ये दीपवद्ध्यात्वा साक्षात्प्रणव रूपकम्
प्रबोध्यत्वर्हस्ये वञ्च केशवादीनि भेदतः
एतैर्भेदैस्समाख्यातं तत्त्वमेक प्रचक्षते॥ 66
प्रतिरूपमिति ग्राह्यं तत्त्वमेकं कुत स्तथा
किरीटहार वलयै रङ्गुल्यादि विभेदतः॥ 67
एतद्रूपस्य भेदे तु रूपमेकं प्रकीर्तितम्
तस्मात्तद्वत्त धैक न्तु नग्राह्यं द्विजसत्तमाः॥ 68
–बहिर्याग क्रमः –
अन्तर्याग मिदं, प्रोक्तम् बहिर्यागञ्च कथ्यते
सर्वावयव सम्पूर्णं, देवमानी यबुद्दिमान्॥ 69
तस्य देवस्य हृदये, आदिबीजं न्यसेत्क्रमात्
एवं न्यासं प्रतिष्टेति, प्रोक्तमेतद्द्विजर्षिभिः॥ 70
तद्दैवं म्पूजयेन्नित्यं बहिर्यागमितिस्मृतम्
अव्ययस्यादिरूपस्य, परं ब्रह्मेति कथ्यते॥ 71
– सकलनिष्कल भेदः –
निष्कलं सकल ञ्चेति, समूर्ताराधनं द्विधा
सर्वपादस्तु सन्देहो, पूर्वपक्षे तु निष्कलम्॥ 72
सकलं निष्कलं ब्रह्म, इति शास्त्रस्य निर्णयः
निष्कलं पूर्वमेवस्या, त्पश्चात्सकलमुच्यते॥ 73
पश्चादावाहनो द्वासौ, देवं प्रतिसमाचरेत्
धृवबेरं यदिस्यात्तु चोभयं तत्र नाचरेत्॥ 74
अथवा वाहनोद्वासौ, नित्ये नैमित्तिकेचन
तयोरत्रैव कृत्वा तु, जङ्गमे परिकीर्तितम्॥ 75
सकलं निष्कलन्तूर्त्वा, देहं सकलमुच्यते॥
निष्कलात्सकलञ्जातं सर्वत्र परिदृश्यते॥ 76
पुष्पे नष्टे फलं नास्ति, तसमात्सकलनिष्कले
एतद्भेदमितिं प्रोक्तं, गृह्यं मे तदुदाहृतम्॥ 77
आचार्य लक्षणम्
तदूर्ध्वे वक्ष्यमाणेन, शृणोत्वाचार्य लक्षणम्॥
सूत्रोक्तेन विधानेन, निषेकादि क्रियान्वितः॥ 78
संस्कारैस्संस्कृतं विप्रं, योनिशुद्धमरोगिणं
ब्रह्मवादेन मन्त्रज्ञमाश्रमस्थं जितेन्द्रियम्॥ 79
जगदुत्पत्ति किं सर्वं तत्त्वार्धेषु च कोविदम्
शास्त्रज्ञ ञ्च स्थित प्रज्ञं श्रद्धास्तिक्ययुतं परम्॥ 80
प्रतिष्ठाकर्मकुशलं ऊहपोह निरूपकम्
साग्निक ञ्च कुलीन ञ्च, विषयेष्व प्रतिष्टितम्॥ 81
स्वशास्त्रे चेव विद्वांसं, नित्यस्वाध्यायतत्परम्
पत्य्पपत्याग्नि संयुक्त, तथा चैवो दतोत्थितम्॥ 82
सुगन्धस्याङ्ग संयुक्तं, ज्ञानं तस्योत्कलं शृतम्
सुवृत्तं शीलसम्पन्नं पूर्णपुष्टाङ्ग संयुतम्॥ 83
निष्कलं सकल न्तस्य धान्यनयुक्त ञ्च निष्कलम्
पारम्पर्य क्रमायातं गुरुवर्योपदेशितम्॥ 84
मन्त्र कल्पविशेषज्ञं वैखानसमिमं शुचिम्
अनन्यदेवता भक्तं वैष्णवं विष्णुभक्तिदम्॥ 85
आचार्यं वरयेत्पूर्वं, भूपरीक्षादिकर्मुसु
एतैर्लक्षण संयुक्तं, स्वाचार्यस्य समीपतः॥ 86
शिष्टोगत्वा प्रणम्यैव, मभिगम्य पुरस्तितः
शास्त्रस्य कृत्स्नं संश्रोतुं, दीक्षापूर्वोपदानकम्॥ 87
कारयेत्सम्यक् शुद्धात्मा, नित्यं विधिवदर्चनं
एव न्तु यजनं स्मृत्वा, स्वाध्यायस्य क्रमं शृणु॥ 88
सर्ववेदार्थवेत्तारं, सूत्रस्याद्ययनं सह
क्रमाद्व्रतञ्चरे त्तत्र, तथा चैव विसर्जनम्॥ 89
एवं क्रमेण कर्तव्यम्, तदेवाध्ययन क्रमम्
तथैव पञ्चविंशद्भिः, स्वरूपस्तितमेव च॥ 90
– शिष्य लक्षणम्। –
आत्मातत्त्व स्तितिं स्मृत्वा तथायोगक्रमं विदुः
शिष्यस्य लक्षणं वक्ष्ये शृणुध्व न्तु यथाक्रमम्॥ 91
धातुपाठ बलिक्षेत्र मन्त्रतन्त्रार्थ सादकः॥ (?)
अन्यत्र निरपेक्षश्च कृतसिद्धिमपेक्षकः॥ 92
संसारभय भीतात्मा मुक्तिमार्गाभिलाषितः
अधूर्तोमतिमान् शान्तश्शान्तोक्ति स्तापवर्जितः॥ 93
अनन्यदेवता भक्तः, प्रेक्षणार्थी प्रियंवदः
जितक्रोधस्सत्यभाषी मिध्याविषय वर्जितः॥ 94
उपचार क्षमश्शैचः, भव्यरूपी क्षमापरः
शरीरमर्ध प्राणौ च सद्गुरुभ्यो निवेदयेत्॥ 95
कर्मणा मनसा वाचा, गुरुणां भक्ति तत्परः
मात्सर्यानृत निर्मोक्तो नाभ्यन्तर परीक्षतः॥ 96
(विष्णु तत्वाभि काङ्क्षी च शिष्यो कुलदीपकः)
एवं भूतगुणं शिष्यं, सुपरीक्ष्य च यत्नतः
आचार्यश्शिक्षयेत्पूर्वं सदाचारस्य मार्गतः॥ 97
शिष्यं भक्ति समोपेतं अशिष्यं शिक्षयेद्गुरुः
शिष्ये न च कृतं पापं गुरोर्भवति निश्चयः॥ 98
एवं शिष्यगुणं प्रोक्तं, मार्गोऽयं भेद उच्यते
अथ ऊर्थ्वं प्रवक्ष्यामि, वैदिकन्त दुदाहृतम्॥ 99
– वैखानस श्रीशास्त्र सङ्ख्या। –
मार्ग ञ्चतुर्विधं प्रोक्तं, मया चैव मरीचिना।
अत्रेयं काश्यपेय ञ्च, मार्गं तत्र चतुष्टयम्॥ 100
ग्रन्धसङ्ख्या विशेषेण, प्रतिमार्गं प्रचक्षते
सूत्रं विखनसाप्रोक्तं पुरा चैव सुविस्तरम्॥ 101
हरेः पूजा विदानं तत्तदुक्तं वेदमार्गतः
मानाधिकरणाद्यादी, न्वक्ष्य ते च यथाक्रमम्।
खिंलं खिक्रियादिका ञ्च, पुरातन्त्रं तथैव च॥ 102
वासाधिकरणं ज्ञेयं, चित्राधिकरणं तथा
मानाधिरकण ञ्चेव, प्रकीर्णाधि करण ञ्च 103
निरुक्तमधिकार ञ्च, अर्चनस्याधि कारकम्
यज्ञाधिकरण ञ्चैव, वर्णाधिकरणं तथा॥ 104
प्रतिगृह्याधिकार ञ्च , मया प्रोक्ताश्च संहिताः
एतैश्चैव चतुष्टष्टि, ग्रन्ध सङ्ख्याक्रमं विदुः॥ 105
प्रथमस्योत्तरं तंन्त्रं, विष्णुतन्त्रमतः परं
आत्रेयस्तु तथापूर्वं, तन्त्र ञ्चैव चतुष्टयम्॥ (?) 106
अष्टाशीतिसहस्र न्तु, ग्रन्धसङ्ख्यातदुच्यते
सनातन ङ्काश्यप ञ्च, सत्यकाण्डमतः परम्॥ 107
तर्कश्च ज्ञानकाण्ड ञ्च, पञ्चकाण्डमिति स्मृतम्
चतुष्टोडशसाहस्रं, ग्रन्धसङ्ख्या तु काश्यपम्॥ 108
जयाश्च संहिताश्चैव, आनन्दाख्यमतः परम्
वीराख्यां विजय ञ्चैव, सत्याख्य ञ्च ततः परम्॥ 109
ज्ञानस्य संहिताश्चैव, लक्षग्रन्धन्तु चाङ्गिराः
एतैस्तु नव विंशद्भिः संहिताक्रममुच्यते॥ 110
ते नैव ऋषिणाप्रोक्तं, सूत्रे तद्विविधं स्मृतम्
तयोर्भेदं पृधग्वक्ष्ये, पूर्वं शुद्धं तधोच्यते॥ 111
चत्वारिंशत्तु संस्कारै, र्निषेकादीन्यधाक्रमम्
स्वगृहे देवमानीय, पूजयेद्विष्णुमव्ययम्॥ 112
अतन्द्रितमनाभूत्वा, नित्यहोमपरायणः
परार्थं नैव कुर्वीत, एतच्छन्द इति स्मृतम्॥ 113
ग्राम स्य वासिनस्सर्वे, मान्यञ्चाग्नि होत्रकम्
अनाहिताग्नि विप्राणां, अग्निहोत्र फलं लभेत्॥ 114
आहिताग्निषु सर्वेषु, न्यूनाधिक्यादि पूरकम्
अतिरिक्तं नैव कुर्यात्, शृतिराहद्विजोत्तमाः॥ 115
तस्मात्सर्वप्रयत्नेन ग्राममध्यालयार्चनम्
अधवा, पश्चिमे तत्र, कल्पयित्वार्चयेद्बुधः॥ 116
शौत्रवद्वीक्ष्यते विद्वान्, काश्यपेयोक्तवत्क्रमात्
– यजन न्द्विविधम् –
आत्मार्धं यजतेयत्र, परार्धन्तत्र नाचरेत्॥ 117
परार्थं यजचेयत्र, आत्मार्थन्त्वर्चयेद्बुधः
सर्वशान्तिकर ञ्चैव, सर्वपुष्ट्यर्धमेव च॥ 118
सर्वाशुभविनाशार्धं, चतुर्वर्णस्यभेदकम्
अर्चनं पूजन ञ्चैव, शान्तिकं पौष्टिकं तधा॥ 119
बल्युत्सवादिनायुक्तं, परिवारैस्समावृतम्
धात्रादिभूत पर्यन्तं, सप्तत्येकोत्तरं पृधक्॥ 120
वाहनायुधवर्ण न्तु, परिषट्कं समर्चयेत्
एतैस्सर्वैश्च संम्पूर्णं, षट्काल ञ्चैव पूजयेत्॥ 121
अग्निहोत्रादिनाहो मे, किञ्चिन्य्नूनाधिकं यदि
तत्तद्दोषस्य शान्त्यर्धं, विष्ण्वर्चनमुदाहृतम्॥ 122
वैखानसेन सूत्रेण निषेकादि क्रियान्वितः
गृहस्तोब्रह्मचारी वा, भक्त्यैवार्चन मारभेत्॥ 123
शास्त्रस्य कृत्यं चाधिक्यं , नित्यं विधिवदर्चनम्
तेनैव तत्प्रकारेण, नित्य पूजां समाचरेत्॥ 124
तस्मात्सर्वप्रयत्नेन, वैदिकाख्यं समाचरेत्।
एवं क्रमेण सम्प्रोक्तं, सूत्रमेवमितिस्मृतम्॥ 125
– नवषट्पञ्च मूर्तिक्रमः –
नवमूर्तिर्नवव्यूहं, षण्मूर्तेर्वूहषष्टकं
नवष्ट ञ्च मूर्त्याख्ये, व्यूह ञ्चेति च सर्वधा॥ 126
नवषड्व्याहमित्युक्तं, तत्रभेधं नपठ्वते
अधवा चैक मूर्तिं वा, स्थापयित्वा समाहितः॥ 127
– भोगार्धी श्रीकृष्ट स्यस्थापनम् –
लीलायष्टधरङ्कृष्णं, वेणुनासहितं विभुम्
रुक्मीणीसत्यभामाभ्यां, तार्क्ष्ययुक्तं यधाक्रमम्॥ 128
भोगार्थीस्थापयेन्नित्यं, विधिना सम्यगर्चयेत् 129
– वीरार्थी विजयार्धीचरामस्य स्थापनम् –
वीरार्धीविजयार्थीवा, स्थापयेदर्चयेत्क्रमात्
राम ञ्च लक्ष्मण ञ्चैव, सत्रुघ्नं भरतं तथा॥ 130
सीता ञ्च वायुसूनु ञ्च, सङ्कल्प्य विधिनार्चयेत्
पुरुषसूक्त विधानेन, कर्षणादिषु कर्मसु॥ (?) 131
तेनैव तत्प्रतिष्ठा च तत्क्रमेणार्चनेकृते
वैखानस विधानेन, पूजयित्वान दोषकृत्॥ 132
वैखानस विधानेन कर्षणादिक्रियान्वितम्
तेनैव तत्प्रकारेण नित्यपूजं समाचरेत्॥ 133
पुरुषसूक्तविधानेन चार्चयित्वानदोषकृत्(?)
एतद्विधिद्वयं सौम्यं वेदविद्भिरनुष्टितम्॥ 134
इति श्री वैखानसे भृगुप्रोक्तायां संहितायां वासाधिकारे
ऋषिप्रश्नोत्तरंनाम प्रथमोऽध्यायः
————————
द्वितीयोऽध्यायः
कर्षणम्
अतः परं प्रवक्ष्यामि, कर्षणादीन्यथाक्रमम्
कर्षणस्य दिनात्पूर्वं, अङ्कुरं तत्र चार्चयेत् 1
हल न्तत्र प्रयोग ञ्च युगरज्जुर्विशेषतः
यथार्हं शिल्पशास्त्रोक्तं, अहरेत प्रयत्नतः 2
– अनडुह लक्षणम् –
श्वेतरक्तवृषाभ्या न्तु बन्धयेद्देशिकोत्तमः
रुद्रमन्यं ततोजप्त्या त्रयंम्बकमिति ब्रुवन्॥ 3
बन्धयित्वा वृषौ तत्र, युगाग्राभ्यां न्तु रोगिणम्॥
मिश्रवर्णं तथा कृष्णं, बालं वद्ध न्तु रोगिणम्॥ 4
सर्णौशृङ्गे तथा पुच्छं, हीनाङ्गादीनि वर्जयेत्।
त्वाङ्खुनामीति उच्चार्य, पूर्वान्तुं चोत्तरां तकम् 5
कर्षयित्वा तु मन्त्रज्ञः,द्वादशावर्त्य कारयेत्।
सर्वत्रकृष्णभूम्या न्तु, बीजान् सर्वत्र वापयेत्। 6
कुङ्कुमुद्ग युवाश्चेति गोधूम चणकानपि
मसूर सर्षपाश्चैव षष्टिकादीन चा हरेत्॥ 7
– बीजावापनम् –
जलसेकं ततः पूर्वं, वारुणं मन्त्रमुच्चरन्
पश्चाद्बीजान् समादाय, सोमं राजनमुच्चरन् 8
बीजान् रर्वत्र संवाप्य, विष्णुसूक्तं समुच्चरन्
जलसेकं ततः कृत्वा, रक्षां सर्वत्र कारयेत्॥ 9
सस्येषु सर्वगुप्तेषु पुष्टिषु च यधाविधि
शुबलग्ने शुभर्क्षे च, शान्त तत्र समर्चयेत्॥ 10
दक्षिणे च क्रमभ्यर्च्य, पूर्व तत्र खगाधिपम्
गोदान सूक्तमुच्चार्य, गोगणानामदार्पयेत् 11
प्रगन्तं चोत्तरान्तं वा सर्वसस्यं प्रदापयेत्
अथवा कारये द्विद्वान्पललादीनि चस्तरेत्॥ 12
– गोगण निवेदनम् –
गोगणेभ्यश्च दत्त्वा तु, अन्यषां सर्वमाचरेत्
यजमान गृहेदेवमभ्यर्च्य च निवेदयेत्। 13
वेदिश्चकल्पन ञ्चैव, तथा देवबलिक्रमम्
सङ्कल्प्यभूमि भाग ञ्च, तथैवा चार्यकल्पनम् 14
परिचारकसङ्ख्या तु, तथैवार्चकसङ्ख्याया
नृत्तगायक वाद्यादीन्, पूर्वमेव प्रचोदयेत्। 15
– शङ्कुस्थापनम् –
शङ्कुमत्रैव सस्थाप्य, छायात्र परिवीक्षयेत्
दिक्परिच्छेधन ञ्चैव, ग्रामादीन्वास्तु निर्णयम्॥ 16
पूर्वमुद्धारक ञ्चैव वित्तस्य पलितं बुथैः
गुहसर्पेशविघ्नेशान्, ज्येष्टा दुर्गां तथैवच॥ 17
दिवाकर सरस्वत्योः, मातॄर्भूतां स्तधैवच
उमाश्रीः ब्रह्मरुद्रश्चः, स्थानं तत्रैव निर्णयम्॥ 18
पूर्वं मया तथा प्रोक्तं, पूरा तन्त्रोक्तवच्चरेत्
अन्यैरनुक्तं यत्सर्वं, काश्ये पेनोक्तवच्चरेत्॥ 19
इति वासाधिकारे कर्षणादि विधिर्नाम द्वितीयोऽध्यायः
———————————
तृतीयोऽध्यायः
– अध्येष्टकाक्रमम् –
आत ऊर्थ्वं प्रवक्ष्यामि, प्रथम स्येष्टकक्रमम्
उत्तरेचयाने चैव, दक्षिणे च तथैव च॥ 1
– उक्रमास तिधि वारनक्षत्रादयः –
वर्जयेन्माघमास ञ्च, मार्गशीर्षं तथैव च
द्वावेवमासौ संवर्ज्यौ, अन्यमासान् प्रगृह्य च॥ 2
यधेष्टमासं सङ्गृह्य, शितेपक्षेशुभेदिने
नृपस्य यजमानस्य, चानुकूल्य शुभेदिने।
शिलाभिरिष्टकाभिर्वा, यथा विभवविस्तरम् 3
त्रीण्युत्तराणि रोहिण्यां, हस्त स्वातीपुनर्वसु
श्रवणं वारुण ञ्चैव मैत्रं सौम्यं न्त थैवच॥ 4
युग्माश्च तिधयस्सर्वाः, प्रशस्ताविषुवर्जिताः
गुरुभार्गव चन्द्रज्ञ, वारास्सम्यगुदाहृताः॥ 5
चररासिं विसृज्यैव, स्तिरराशिं समाचरेत्
– भूमि खननम् –
तां भूमिमवटं खात्वा, मेदिन्यादीन्स मुच्चरन् 6
जलान्तं वा शिलान्तं वा, खनित्वादेशिकोत्तमाः
वालुकाभिः प्रपूर्यैव, जलैर्युक्तं शनैः क्रमात्॥ 7
समीकृत्वा तु तद्भूमिं यावत्सीमान्त निर्णयम्
हस्तपादेन सङ्घट्य दृढं कृत्वा प्रयत्नतः॥ 8
षडङ्गुलोन्नत ञ्चैव, हस्तमात्रायतं क्रमात्
तदर्धं विस्तृत ञ्चैव, युगाभ्यां तत्समाहरेत्॥ 9
इष्टकादीनि सङ्गृह्य, प्रतिष्टोक्त विधानतः
पञ्चाग्निं परिकल्प्यैव, त्रेताग्निं वाधकारयेत्॥ 10
आघारादीनि सर्वाणि, वास्तुहोमाधिवासनम्
एतैस्सर्वग्रियश्चैव, आत्रेयोक्त वदाचरेत्॥ 11
यत्र द्वार प्रकुर्वीत, तस्य दक्षिणपार्श्वतः
एवं स्वरूपं ध्यात्वा च, चतुर्वेदान् समुच्चरन्॥ 12
पूर्वादिचोत्तरान्त ञ्च, स्थापयित्वा तु तच्छिलाः
यधा विधीष्टकैरत्र, स्थापयेद्देशिकोत्तमः॥ 13
पश्चाच्छिल्पिं समाहुय, दृढी कृत्य प्रयत्नतः
– विमान निर्माणम् –
तदूर्ध्वे कल्पयेद्विद्वान्, विमानं परिकल्पयेत्॥ 14
उपानजगती चैव, कुमुद न्तु तधैवच
कन्धरं पट्टिका ञ्चैव, ऊर्ध्ववेदिन्तु कारयेत्॥ 15
मूल न्तु जानुकं योज्य, पदमूलादिभिर्युतम्
लपलन कुम्भ कुण्डी च, फलकौवीरघण्टिका॥ 16
भोधिकोत्तरवाजीन मम्बुज न्तु कपोतकम्
नलिनान्त रित ञ्चैव प्रतिमुख्यस्सवेदिकाः॥ 17
गलोत्तर न्तु वाजिनां हंसमालाभिरावृतम्
शिखर करण ञ्चैव पद्मं कदलिकं तधा॥ 18
उपवेदिस्तधा कृत्वा लसनं कुम्भ कन्धरं
तत्रैव पालिका युक्त न्त चैव तु कुट्मलम् 19
एतैर्युक्ताङ्गसहितं, विमानं परिकल्पयेत्
षड्वर्ह न्तु चतुर्वर्ग, भेदयुक्ताद्यलं कृतम्॥ 20
– प्रासादलक्षणम् –
एकादि द्वादशतलै श्शोभायुक्ता द्यलं कृतम्
जातिश्चन्द विकल्प ञ्च, त्रिजातीना न्तु भगशः॥ 21
कल्पसूक्तस्य भेदस्य, विन्यासं सप्त भागशः
भद्रोपभद्रसहितं सच्चित्राललितं तधा॥ 22
मानमानाङ्ग संयुक्तं, कर्णस्य परिवृत्तकम्
खण्डहर्म्यवरद्भिश्चः मध्यपञ्जरं हस्तकम्॥ 23
सतुण्डं वृत्तस्टुटितं, स्तम्भसौश्टैः समावृतम्
कदम्बपञ्जरैर्युक्तं, कुम्भ कुम्भलतान्वितम् 24
स्तम्भतोरणसंयुक्तं, शोभायुक्तमलङ्कृतम्
चतुरावरणं युक्त भेदयुक्तमानाकृतम् 25
चतुरष्टाश्रय वृत्तं मिश्रभेदस्तु कारयेत्
स्थानकं चासन ञ्चैव, शयानं तत्रिभेदकम्॥ 26
गुणत्रय प्रमाणस्य, विभागानध कारयेत्
देवस्वरूपयुक्त न्तु, पुस्त्री चैव सपुंसकम्॥ 27
एतानिजाति भेदानि, विष्णुरुद्र प्रजापतीन्
एव न्तु तत्तद्देवस्य, प्रासादस्य च लक्षणम्॥ 28
– मण्डपलक्षणम् –
अधवक्ष्ये विशेषेण, मण्डपादीन्यथाक्रमम्
आस्थानं स्थान नृत्य न्तु, स्वपनं मुखमण्डपम्॥ 29
अन्यानिमण्डपादीनि, पूर्वमेव प्रचोदितम्
स्वस्तिकं गोमुखाख्य न्तु, महापद्म न्तु पद्मकम्॥ 30
पादबन्धं ततः कुर्यात्प्रतिबन्धं तथैवच
सर्वतोबद्रक ञ्चैव, द्विशास्वस्तिकमेव च॥ 31
एवमादीन्यधिष्टानमुपपीठं तथैव च
एतैस्तु लक्षण ञ्चैव, विस्तृतं दीर्घमेव वा॥ 32
उचितादीनि सर्वत्र, पूर्वमेव प्रचोदितम्
– स्थम्भस्थापनम् –
अथ ऊर्थ्वं प्रवक्ष्यामि, स्तम्भस्य स्थापनक्रमम्॥ 32
यधोक्त विधिनापूर्वं, अङ्कुरान् तत्र वापयेत्
– ऋत्विजः –
पूर्वेद्युरेव पूर्वाह्णे, ऋत्विजान् वरयेत् क्रमात्॥ 34
षोडशद्वादशाष्टौ वा, चत्वारोवरयेद्भुधः
गर्भालयादि सर्वत्र, मण्डपादीन् पृधक् पृधक् 35
तासां वा शालिमाहृत्य, वेदिनास्तरणं चरेत्
यूपस्तम्भाद्यधायामः यावत् स्तम्भस्य चायामम् 36
विस्तृतं हस्तमात्रेण, पृधक् वास्तुसु कारयेत्
तस्यैवचोत्तरेकुर्या, द्वास्तुहोमं सुहूयताम् 37
पञ्चगव्यैस्समभ्युक्ष्य, पुण्याहं तत्र कारयेत्
कलशैश्चतुर्दशेस्ताप्य, प्रत्येकं देशिकोत्तमः॥ 38
स्तम्भेषु प्रोक्ष्यतत्काले, अर्घ्यान्तं तत्र चार्चयेत्
देव स्वरूपं ध्यात्वा तु नववस्त्रेण वेष्टयेत्॥ 39
पश्चात्सभ्यं परिस्तीर्य, हुत्वातद्देशिकोत्तमः
चतुर्वेदादिममन्त्रैस्तु हुत्वामन्त्रान् पृथक्पृथक्॥ 40
अष्टोत्तरशतंवाध, अष्टाविंशतिमेव च
विष्वक्सेन ञ्च गरुडं , वैष्णवं रौद्रमेव च॥ 41
ब्राह्म्यमैद्र ञ्च वयुव्यं, वारुणं पाञ्चभौतिकम्
प्रत्येक न्तु सकृद्धुत्वा, कांस्यपात्रे विशेषतः॥ 42
बीजान् सर्वान् समाहृत्य, अर्चयित्वाधि दैवतम्
नवरत्नयुतं तत्र, कुर्यात्तदधि वासयेत्॥ 43
रात्रिशेषं नयोत् स्नात्वा, रत्नाधान्यादि नाचरेत्।
नववस्त्रेण सञ्छाद्य सुधया परिपूरयेत्॥ 44
मुहुर्तेसमनुप्रोप्ते, स्तम्भानुद्धृत्य बुद्धिमान्
प्रदक्षिमक्रमेणैव, आग्नेयादीन्यधाक्रमम्॥ 45
मध्येप्रधान वेद्याख्यं, मुहुर्ते स्तम्भमुत्तमम्
दक्षिणाद्युत्तरान्तं न्तु, पूर्वन्तं पश्चिमादिकम्॥ 46
– द्वारादिस्थापनम्ः –
एवमेव प्रकारेण, द्वारं तत्र प्रतिष्टितम्
भूरसीत्यादिनाजप्त्वा, स्थापयेद्देशिकोत्तमः॥ 47
अवक्रं सुस्तित ञ्चैव, शिल्पिनाकारयेद्बुधः
सर्ववाद्यसमायुक्तं, पुण्याबमपि चाचरेत्॥ 48
यथोक्तमाचार्यादिभ्यो, सोदकं दक्षिणां ददेत्
महाहविः प्रभूतं वा देवेशाय निवेदयेत्॥ 49
पश्चादूर्ध्वे तु सम्प्रोक्तं, कवोट स्थापन क्रमम्
– कवाट स्थापनम् –
अतः परं प्रवक्ष्यामि, कवाट स्थापन क्रमम्॥ 50
कवाटं भूषणं नाम्ना, दण्डं वालयसंज्ञिकम्
द्रव्यं लक्षण भेदेन, पूर्वमेव प्रचोदितम्॥ 51
तच्छास्त्रेक्त प्रकारेण, कारयेच्छिल्पिनाबुधः
कारयित्वायधान्यायं, सर्वलक्षण संयुतम् 52
सुवर्णं रजतंवाध, ताम्रमायसमेव वा
दारवंवा प्रकुर्वीत, यथा सक्त्यनु सारतः 53
सुमूहूर्ते षु नक्षत्रे, कवाटं, स्थापयेद्बुधः
दक्षिणेवासमानीय द्वारपार्श्वेनिधाय च॥ 54
स्थापनेसप्तकलशै रुपन्नान समन्वितैः
पुष्पैर्गन्धैश्च माल्यैश्च नववस्त्रैरलं कृतम्॥ 55
कवाटे दक्षिणेधात्रे, विधात्रेत्युत्तरे विदुः
तन्मूर्तिमन्त्रैरभ्यर्च, कौतुकं बन्धयेद्बुधः 56
नववस्त्राणिसञ्छाद्य,धान्योपरि च शाययेत्
कुम्भौद्वौसम्प्रगृह्यैव, पूजापूर्व वदाचरेत्॥ 57
तत्कवाटस्यपार्स्वे तु, होमकर्म समाचरेत्
आघारं विधिवद्धुत्वा, तत्तन्मूर्तियजेद्बुधः॥ 58
द्यावापृधिव्योर्यस्याश्र्शि, तस्थुषोधृत्य इत्यपि
आज्येनजुहुयादग्नौ,दक्षिणेचोत्तरेपि च॥ 59
य एष बिभ्रादित्यत्र, योनोभिरक्ष इत्यपि
एवं विंशतिमावर्त्य, वैष्णव ञ्च जुहोतिवै॥ 60
आज्याहुतिं ततोहुत्वा, अन्तहोमं समाचरेत्
तस्य तस्य शिरोभागे, न्यसेत्कुम्भौ समाहितः॥ 61
प्रभाते विधिनास्नात्वा, देवागारं प्रविश्य च
समस्कृत्वानुमान्यैव, पूजां कृत्वा विशेषतः॥ 62
मुहुर्ते समनुप्रोप्ते, स्थापनारम्भ माचरेत्
सर्ववाद्य समायुक्तं, सर्वालङ्कार संयुक्तम्॥ 63
धृवसूक्तं समुच्चार्य, तत्तन्मन्त्रञ्जपेद्बुधः
स्थापयित्वा कवाटेद्वौ, कुम्भाच्छक्तं न्यसेद्बुधः॥ 64
दक्षिणस्य कवाटस्य, न्यसेद्बी जाक्षरं परम्
सर्व ञ्चैवक्षरं न्यस्य, वेदादीन्घोष येत्क्रमात्॥ 65
अन्यद्वामकवाटे तु, न्यसित्वा देशिकोत्तमः
पतङ्गस्याक्षरं न्यस्य, वेदादिन्घोष येत्पृधक् 66
अर्चयुत्वा यथा न्यायं, हविस्सम्यज्नि वेदयेत्
आचार्य दक्षिणां दद्यात्, शिल्पिनं तत्र पूजयेत्॥ 67
एवं यः कुरुतेभक्त्या, समस्त दुरितपहम्
सर्वलोकस्यरक्षार्थं, स्थानदेशं नृपलस्य च॥ 68
यजमानस्य वंशस्य,धान्यकोशाभिवद्धिदम्
तत्मात्सर्व प्रयत्नेन, भक्तियक्तेन कारयेत्॥ 69
– शिलालक्षणम् –
अत ऊर्थ्वं प्रवभ्यामि, शिलासङ्ग्रहलक्षणम्
भूमिजा गिरिचा चैव, वारिजा च त्रिधाभवेत्॥ 70
ऊर्थ्वभागं मुखंप्रोक्तं, अन्यैश्चैवापरेस्मृतम्
स्त्रीपुनंनपुंसक ञ्चैव, ज्ञात्वा चैव त्रिधाभवेत्। 71
प्रासदकुड्य प्राकार, गोपुर मण्डपादिकम्
नपुंशकेन सर्वेषां, कुर्यादितिविनिश्चयः॥ 72
प्रभापीटस्य देव्यादीन्, कारयेच्छिलयास्त्रिया
विष्णुरूपादि पुंरूपं, पुंशिलै नैव कारयेत्॥ 73
अन्योन्यसङ्गरे यत्र, महान्दोषो भवेत्ततः
तस्मात्सर्व प्रयत्नेन, यथोक्तं तत्र कारयेत्॥ 74
उन्नत न्तु शिरोभाग मन्यत्पादमितिस्मृतम्
मृदु ञ्च लाघव ञ्चैव, लघुशब्द विविर्जतम्॥ 75
ग्रनियुक्त ञ्च वेणु ञ्च, चिरागर्भादि संयुतम्
स्पुटितोधिकमूर्तिस्तु, वक्रजातिश्च वर्जयेत्॥ 76
कलङ्करेखाबिन्दुश्च, मण्डूककृकलासयोः
खद्योतकोटरायुक्तं, मण्डलं यदि सम्भवेत्॥ 77
अहिपांसुजलैर्युक्तं, सर्वन्तक्त्वा विचक्षणः
सुस्निग्धन्तरुण ञ्चैव, घोशयुक्तानि चाहरेत्॥ 78
– शिलासङ्ग्रणम् –
पश्चाच्चैव विशेषेण,शिलासङ्ग्रहण क्रमम्
दशतालक्रम ञ्चैव, प्रभामूर्थ्नि विभागशः॥ 79
मरीचोक्तप्रकारेण, सर्वं कृत्वा तु बुद्धिमान्
यजमानानुकालर्तक्षे, सुमुहुर्ते शुभेदिने॥ 80
पूजयेद्देव देवेशं, शान्त ञ्चैवा न पायिनम्
खगाधिपमधावाह्य स्थण्डिलो परिचार्चयते॥ 81
ब्राह्मणान्भोजयेत्तत्र, कृत्वात द्देशिकोत्तमः
मूहुर्ते समनुप्राप्ते, देवदेवं प्रणम्य च॥ 82
भूपरिक्षोक्त मार्गेण, निमित्तं सम्परीक्षयेत्
शान्तिहोम ञ्च कृत्वा तु, शिल्पिभि स्सार्थमाचरेत्॥ 83
विष्णुस्त्वांरक्ष इत्युक्त्वा, आचार्यश्चाग्रतो व्रजेत्
वनेऽद्रिनद्यास्तीरेवा, संलक्ष्यमति मान्क्रमात्॥ 84
त्वाङ्खनामीचितोच्यार्य, परितस्तत्र खानयेत्
शिलान्तमवटादूर्ध्वे,गृहीत्वामन्त्रवित्तमः॥ 85
हुलीकाडन ञ्चैव, शिलापार्श्वेऽधि वासयेत्
तस्य कुण्डं प्रकुर्वीत, स्थण्डिलंवात्र कारयेत्। 86
मूलहोममाङ्गकोमौ च, हुत्वा सूत्कोक्तमार्गतः
पञ्चभिः कलशैः स्नाप स्वापयित्वा यथा क्रमम्॥ 87
मृद्गं धाक्षत पुष्प न्तु, कुशतोयान्त माचरेत्
एवं क्रमेणदेवीभ्यां प़ृथक्चैव समाचरेत्॥ 88
शिलापार्श्वेबलिन्दत्वा, वनराजायतेत्यतः
भूत यक्ष पिशाचानां, नागाना ञ्च यधादिशि 89
तन्नाम पूर्वयत्नेन, बलिं दत्वा प्रयत्नतः॥ 90
पश्चात्तादनि गृह्यस्तु, होलिकां योजयेत्क्रमात्
विष्णुसूक्तं समुच्चार्य, शिलान्त त्रैव ताडयेत्॥ 91
पश्चात्तक्षकमाहूय, सर्वम्भित्वा समाहितः
तां शिलां यन्त्रमारोप्य, नीत्वा ग्रामप्रदक्षिणम्॥ 92
पश्चाद्यन्त्रं व्यपोह्यैव, निधायैव च मण्डपे
ऊर्ध्वमानादिकं सर्वं, मनोन्मान क्रमं तथा॥ 93
दशतालक्रम ञ्चैव, प्रभामूर्ध्न विभागशः
मरीचोक्त प्रकारेण, सर्वं कृत्वा तु बुद्धिमान्॥ 94
अधवा कारयेद्विद्वान्, आत्रेयोग्तक्रमं चरेत्
परीक्षादि शुभ ञ्चैव, षट्चुभं तत्र कारयेत्॥ 95
– आयादिपरीक्षणम् –
अतः परं प्रवक्ष्यामि, आयादीनां शुभं बुधाः
पृथग्वक्ष्येविशेषेण, शृणुध्वंशास्त्रचोदितम्॥ 96
ऊर्ध्वमानं विनिश्चित्य, धृवभारं विशेषतः
हस्तञ्चैकादशानान्तु, एकादीनां यथा क्रमम्
यथा वित्तानुसारेण, यजमास्य चेच्छया॥ 97
महाबेराकृतिं स्थाप्य मन्यद्भेरमाधापि वा
ऊर्ध्वमानाङ्गुलम्प्रोक्तं, गणयेद्देशिकोत्तमः॥ 98
आयं चाधव्य ञ्चैव, योनिः ऋक्षन्तुवारकम्
अंशंराशि ञ्च पक्ष न्तु, क्रमाद्वक्ष्ये माया शृणु॥ 99
तद्भेदाङ्गुलि सत्य ञ्च, महातं ख्यातिवर्जयेत्
बास्करस्यैवहृत्वा तु, तच्चेषं चायमुच्यते॥ 100
तन्निश्शेषं यदि स्यात्तु, सत्यायं पुष्कलं भवेत्
तदङ्गुलं नवैर्गुण्य, नाडींहृत्वा समाहितः॥ 101
तच्छेषान् व्यं स्म्पत्वा, पुनश्चैव त्रिगुण्यते
दिक्सङ्ख्या भूतशेष ञ्च, योनिं ज्ञात्वा समाहितः॥ 102
पुनश्चैवाहिनागुण्यं सप्तविंशतिभिः हृतम्
तच्छेषं जन्मऋक्षन्तु, तच्चनन्दाख्यगुण्यते॥ 103
सप्तभिर्हुतशेष न्तु, भान्वादीन्वारमुच्यते
तस्य भूताख्यभिर्गुण्यं , पक्षश्चैवाहतस्थाधा॥ 104
तस्य शेषं सितैः पक्षैः, दशम्यां न्तु प्रगृह्य च
तस्य पञ्चेन्द्रियैर्गुण्यं, द्वादशैर्हतशेषकं॥ 105
राशिं तच्छेन्द्रिमित्याहु, र्विपरीतं न कारयेत्
कौतुकं बलिबेर ञ्च, स्वपनञ्चोत्सवंपृथक्॥ 106
धृवभेरानुकाल्य ञ्चे त्सर्वसम्पत्समृद्धिदम्
विपरीतानुकूल्य ञ्चे न्नाचरेदिति शाशनम्॥ 107
– धृवबेर प्रमाणम् –
हस्तमाने धृवेबेरे, तदर्धञ्चोवंस्मृतम्
धृवभबेरसमांवाथ, औत्सवञ्चोतिकेचन॥ 108
हस्तमानादिकंस्मृत्वा, धृवोयत्र प्रतिष्टितः
तस्यैव कौतुकादीनि, कत्वा तद्देशिकोत्तमाः॥ 109
कश्यपाद्यैर्यथा प्रोक्तं, तत्क्रमैणैव कारयेत्
– मधूच्चिष्टक्रिया –
मधूच्छिष्टक्रियादीनां, सर्वमेव प्रचोदितम्॥ 110
शिरः कण्ठे तु बाहुभ्यां, ततःकक्ष्याङ्घिपादयोः
– विग्रह लक्षणम् –
जान्वूरु कूर्पर ञ्चैव, शिरश्चक्राम्बरं तथा॥ 111
कर्णनासाङ्गुलि ञ्चैव, मगुटादि सु भूषणम्
ऊरुकुक्ष्य ञ्च मेढ्र ञ्च, साङ्गोपाङ्गमहाङ्गकम्॥ 112
प्रत्यङ्गमानषड्भिश्च, पीठपद्मायुथानि च
प्रभाशक्ति प्रभा चैव, कृत्वा चैवा त्रिवाक्यवत्॥ 113
अथवा, देवदेव्यौ च, लक्षणं वक्ष्य ते पृधक्
मानं प्रमाणमुन्मनं, लम्बमानोपमानकम्॥ 114
पञ्चमान समायुक्तं, कर्तव्यं बेरमुच्यते
प्रतिमायाममिनं यत्, तन्मानमिति इष्यति॥ 115
तत्तत्र्तिवर्गमानं यत्प्रमाणमति कध्यते
तथा वृत्त न्तु तन्मान मुन्मानमिति गण्यते॥ 116
देहे तु लाञ्चितं सूत्रं, लम्बमानमिति स्मृतम्॥
निम्नोन्नत ञ्च यद्यस्मिन्, उपमानममिहोच्यते 117
– उत्तमदशतालेन मानक्रमः –
उत्तमन्दशतालेन, मानमित्यभि धीयते॥
उष्णीषमङ्गुलं प्रोक्तं, केशमानं कलाभवेत् 119
केशान्तं दक्ष सूत्रान्तं, तस्माद्घ्राणावसानकम्॥
घ्राणाग्राद्धनु पर्यन्तं, भागमेकमितीरितम् 120
भागं ग्रीवायुतं तस्मात् ग्रीवामुलात्त्सनान्तरम्
स्तनादि नाभिपर्यन्तं, नाभि मेढ्रान्तरं मुखम् 121
मेढ्रामूलात्तु जान्वन्तं,द्विमुखञ्चोरुमायतम्
जानुदेशे तु भागं स्यात्, जङ्घायत्योरुतस्तमं॥ 122
चरण न्तु भवेद्भागं, एवं मानमितिस्मृतम्
गुल्फजानुगलोष्णीषं, त्यक्त्वान्येषु विवर्धयेत्॥ 123
शेषं समं यथा नित्यन्यूने तत्रैव कारयेत्
मेढ्रमूर्ध्वमधः कायं, सम न्तु शुभलक्षणम् 124
हीनाधिकमधोस्तेदं, सर्वेषामशुभं भवेत्
मानमेनं समुद्दिष्टं, प्रमाणमितिचोच्यते 124
द्वदशाङ्गुलविस्तारं, मुखं पूर्वं प्रकीर्तितम्
उष्णीषात्पृष्टकेशान्तं, द्वादशाङ्गुलमीरितम् 125
उष्णीषात्पार्श्वकेशान्तं, एकैकस्तु नवाङ्गुलम्
कर्णयोरन्तरं पूर्वं, विंशन्मात्रं विधीयते 126
(कर्णयोरन्तरं पृष्टे सार्धद्वादशमात्रकम्)
नासाग्रात्कर्ण पर्यन्तं द्वादशाङ्गुल मीरितम्॥
कर्णयोरन्तरे पृष्टे, सार्थ द्वादशमात्रकम् 127
गोलकं कर्णविस्तारं, आयामं द्विगुणं भवेत्॥
कर्णश्रोत्रायतं तारं, मात्रं मध्याङ्गुलं विदुः 128
उक्षेपं कर्णपाट्यन्तं तत्समं कर्णपट्टिकम्॥
मात्रार्दकर्णपालीस्या, दङ्गुलं कर्णनालकम् 129
श्रीकाराकृतिवत्कर्णं, बन्धवच्चूलिचूलिकम्
अर्थमानाङ्गुलस्यासा वर्धमात्राङ्गुलान्वितौ 130
भागावलम्बितौपूर्वेऽपरनालौ प्रकीर्तितौ
उपाङ्गे कर्णमालून्तं, सप्तमात्रं प्रकीर्तितम् 131
स्वयङ्गोलकनेत्र स्यायामं षड्यव विस्तृतम्
मध्येपञ्चयवन्तारं, ज्योतिर्यव प्रमाणकं 132
दृष्टिर्यूक प्रमाण ञ्च, करवीरयतो भवेत्
श्वेतं कृष्टं तधा रक्तं, त्रिविदं चक्षुसन्निभम्
मत्स्यचापोत्सलाकारं, त्रिविधं चक्षुसन्निभम् 133
नवभिः पक्ष्मरोमाणि, भ्रमराञ्जनसन्निभम्
भ्रूचक्षु सूत्रयोर्मध्ये, द्वयाशङ्गोलकोन्नतम्॥ 134
एवं देवं प्रकुर्वीत, दव्यौ चैवा परेशृणु
– पवित्री हरिण्योः लक्षणम् –
पवित्री हरिणीभ्यान्तु, लक्षणन्तु पृथग्विधम्॥ 135
पदमेकं स्तितं कुर्या,द्धस्ते पद्मोत्पलानि च
वामपादं समाकुञ्च्य, इतरं सुस्थितं भवेत्॥ 136
जान्वन्तं दक्षिणेहस्ते, कोवालाकृतिवद्बुधः
पद्ममन्यत्करे नित्यं, रुक्मवर्णं श्रियो भवेत्॥ 137
एवमेवं क्रमेणैव, वामपद न्तु सुस्तितम्
कुञ्चितं दक्षिणं पादं, कारयित्वा समाहितः॥ 138
हस्ते दक्षिणतश्चैव, धृतोत्पल समायुतम्
अन्यत्प्रसारित ञ्चैव, श्यामवर्ण निभन्तधा॥ 139
एवं देव्यौ च कृत्वा तु, देवं वीक्ष्यैव कारयेत्
कर्णान्तं देवदेवस्य, बाह्वन्तं वाथकारयेत्॥ 140
अन्येषा ञ्चैव सर्वन्तु, शिल्पशास्त्रोक्तवच्चरेत्
यस्य धर्मस्य यः कर्ता, तत्तत्कर्म समारभेत्॥ 141
अन्यधाचेन्महादोषः, तत्कर्तानाशयेद्धृवम्
आचार्यस्यार्चकस्यैव, तत स्थानं तस्य नाशयेत्॥ 142
तस्मात्सर्वप्रयत्नेन, धृवेचायादि नाचरेत्
– व्यूहविभागक्रमः –
अतः परं प्रवक्ष्यामि, व्याहं तत्र त्रिधा भवेत्॥ 143
तमेकनेमिमित्युक्त्वात्रैवाकारमितिस्मृतम्॥
तस्मात्सर्व प्रयत्नेन, त्रयव्यूहेन कारयेत् 144
प्रत्येकं न्तु प्रशंसन्ति, शृतिं कृत्वाद्विजोत्तमाः
– पञ्चव्यूहक्रमः –
ब्रह्मयज्ञादि पञ्चैते, दिनं प्रतिरनुष्टितम् 145
तथा प्राणाग्निहोत्रेण, यथा प्रतिकृतेदिने॥
तस्मात्सर्व प्रयत्नेन, पञ्चव्यूहोऽर्च योत्क्रमात् 146
– षड्व्याहक्रमः –
षडग्निशृतिरित्युक्ता, षडङ्गं वेदचोदितम्
षट्कालादभिवृद्ध्यर्धं, षड्व्याहं पूजयेद्बधः 147
विमानं द्वितलं कुर्यात्तले मूले विशेषतः
विष्ण्वादि पञ्चमूर्तीस्तु, स्थापयेद्देशिकोत्तमः॥ 148
तलस्तोयर्थ्वे विशेषेण, यज्ञमूर्तिं प्रतिष्टितम्
चतुर्भुजं चतुर्हस्तं, दक्षिणाधः करादिषु॥ 149
कटकं सृक्सृव ञ्चैव, वरदं सुस्तितं भवेत्
अन्य ञ्च विपरीतं वा, कारयेदितिकेचन॥ 150
– ऊर्धत्वले यज्ञमूर्ति प्रतिष्ठा –
निषण्ण शयने तत्र, अधवा कारयेद्भुधः
यज्ञंयज्ञपुरुष ञ्च यज्ञनारायणं परम्॥ 151
परमात्मानमेवात्र, पञ्चथा परिकल्पयेत्
पञ्चलोकेषु पञ्चाग्निः, पञ्चदाग्निरिति शृतिः॥ 152
तस्मात्सर्वप्रयत्नेन, स्थापयित्वा समर्चयेत्
यज्ञमूर्तिस्तुपञ्चै ते, रसव्यूहक्रमं भुधः
पाकयज्ञफलंलब्ध्वा, हविर्यज्ञफलं तधा॥ 153
सोमयज्ञफलंलब्ध्वा,हविर्यज्ञफलं तधा॥
सर्वकाम्य फलावाप्तिः सर्वयज्ञ फलं लभेत्॥ 154
सर्वशान्तिकर ञ्चैव, सर्वयज्ञ फलं लभेत्॥
ऐहिकामुष्मुक ञ्चैव, ददादीति न संशयः॥ 155
– नवव्यूहक्रमः –
नरनारायणाभ्या न्तु, वाराहंनारसिंहकम्
विष्ण्वादि पञ्चकैर्युक्तं, नवव्याहं समाचरेत् 156
तस्यैव स्थापनं कृत्वा, अङ्गिरोक्तवदाचरेत्
– व्यूहत्रयक्रमः –
यथा वृद्धि त्रयं कुर्यात्, तथा व्याहत्रयेकृते॥ 157
एवं कर्तुमशक्तश्चेत्, सर्वव्याह फलप्रदम्
यथोक्तसर्वसिद्धिस्तु, धृवभारं शिलामयत्॥ 158
ब्रह्मस्थाने प्रतिष्ठाप्य, त्रयव्यूहं स्मरेद्बुधः
विशेषं चात्र वक्ष्यामि, शृणुध्वं मुनिसत्तमाः॥ 159
– व्यूहेन्यास क्रमः–
नवव्याहन्तु संस्मृत्वा, द्विव्याहं संस्तुतिक्रमात्
षड्व्याह न्तु तधा स्मृत्वा, सृष्टिन्यासं समाचरेत्॥ 160
एवं न्यास त्रयं कुर्यात्, त्रिकाले च समाचरेत्
– मन्त्राणीं त्रिविध अशौचानि –
मन्त्रादौमन्त्र मध्ये च, मन्त्रान्ते तु तधैवच 161
पूत (ते) काले तु संन्यस्य, सूतकं प्रेतकं विना॥
सूर्यचन्द्रस्य व्यासे तु, न्यसित्वामन्त्रपारगः 162
तयोर्न्यासस्य हीने तु, जपित्वा निष्फलं भवेत्
मन्त्रावसाने मृतकं, मन्त्रादौ सूतकैरपि 163
दोषोनस्यात्पूतकाले, तत्र दोष ञ्च संन्यसेत्॥
मन्त्रावसाने मृतकं, मन्त्राद्ये सूतकं भवेत् 164
उभयोरपि दोषः स्यात्, पूतके तु संन्यसेत्
पूर्वं व्यूहं समीक्ष्यैव, पश्चात्थ्पापन माचरेत्॥ 165
एवं क्रमेण कर्तव्यं, सर्वशास्त्रस्य निश्चयः
तपोज्ञानकृतं कर्म सर्वं भवति निष्फलम्॥ 166
तस्मात्सर्व प्रयत्नेन, शास्त्रं सर्वंसमीक्ष्य च
विधिज्ञैर्विधिवत्थ्पाप्य, विधि नासम्यगर्चयेत्॥ 167
– आचार्य लक्षणम् –
एवं सङ्कुचितेनोक्तं, शृणुष्वाचार्य लक्षणम्॥
अधकृत्वा विशेषेण, पृधक्व ञ्च विधंस्मृतम् 168
– सष्टिक्रमः –
सृष्टिक्रमेणकर्तव्यं, सर्वशास्त्रार्ध दर्शनम्॥
आकाशाज्ञायते वायु स्सवायोर्जायतेऽनलः॥ 269
वह्निनाजायते तोयं,तत्तोयाज्ञायते इला
एवं क्रमेण यज्ञातस्तज्ञातं पञ्चमूर्तिकम्॥ 170
आहुतोद्वासनादीनि, विष्णुमूर्तिं समाचरेत्
यथा क्रमेण पुरुषादीन्कर्तव्यं शास्त्रमोदितम्॥ 171
बीजस्थिति ञ्च नेमिःस्यात्, पुरुषस्याग्रतस्तितः
दक्षिणेसत्यमूर्तिस्तु, सृष्टिबीजीरविन्दकम्॥ 172
शङ्खं न्तु मूर्ति (मुक्ति) बीजेन, तथा चैव परेऽच्युतम्
गदासंहार बीजेन, उत्तरेचा निरुद्धकम्॥ 173
एवं संस्थाप्य तन्मध्ये स्थापयित्वादिमूर्तिकम्
तस्मात्सर्व प्रयत्नेन पद्मं चक्राम्बुजं तधा॥ 174
कौमोतकीयुतं देवं स्थापयित्वा तु वृद्धिदम्
गदापद्मं विनादेवं स्थापयित्वा त्व वृद्धिदम् 175
तस्मात्सर्व पर्यत्नेन उपान्त्वा स्थापयेद्बुधः
विष्णु ञ्च पुरुषं सत्य मुच्युत ञ्चा निरुद्धकम्॥ 176
तधैव पञ्चधावह्निं शुद्धि ञ्चैव तु पञ्चकम्
कालं पञ्चविधं ज्ञेय मभिगम्यादि पञ्चकम् 177
आसनं पञ्चधा प्रोक्तं पृधिव्यादीनि पञ्चकम्
शब्दाश्चैतानिपञ्चैते, श्रोत्राद्यादिषु पञ्चकम्॥ 178
प्राणापानादि पञ्चैते पृधग्वक्ष्ये मया शृणु
विष्णु ञ्चान्नमयं प्रोक्तं प्राणः पुरुष उच्यते॥ 179
सत्यं मनोमयं विद्या द्विज्ञानस्याच्युतं तधा
आनन्दस्यानिरुद्धं ञ्च पञ्चमूर्तितिकेचन॥ 180
तस्माच्चैवादिमूर्ति ञ्च भ्रामयेत बलिक्रमम्
ब्रह्मग्निं पञ्चधासृष्ट्वा पञ्चलोकेषु कल्पयेत्॥ 181
– पञ्चाग्नि –
गार्हपत्यावनीयौ अन्वाहार्यवसत्थ्यकम्
सभ्याग्निः पञ्चधावह्नि पञ्चमूर्त्यधि दैवतम्॥ 182
देहशुद्धिः तथा स्थानं पात्र शुद्ध्यात्म शुद्धिकम्
बेरशुद्धिस्तु पञ्चैते, पञ्चाधा शुद्धिरुच्यते॥ 183
प्रातः कालेऽभि गमन मुपादानां ततः परम्
मध्याह्नेज्या(0) प्रकुर्वात स्वाद्याय ञ्चा पराह्णके॥ 184
योगं सायाह्नकाले तु पञ्चकाल मुदाहृतम्
पूर्वं मन्त्रासनं कुर्या त्स्नानासनमतः परम् 185
तृतीयञ्चाप्यलङ्कारं भोज्यासन चतुष्टयम्
यात्रासन ञ्च पञ्चैते आसनं पञ्चधा भवेत्॥ 186
प्रथमं पृथिवीज्ञायं जलं चात्र द्वितीयकम्
तेजोमयं तृतीयं स्या च्चतुर्धं वायुरेव च 187
आकाशश्चात्र पञ्चैत पृथिव्यादीनि पञ्चधा
सब्द ञ्च स्पर्सन ञ्चैव रूप ञ्चैव रसं तथा॥ 188
गन्ध ञ्चैवात्र पञ्चैते ज्ञात्वा चैव विच (ल)क्षणः
श्रोत्र ञ्च त्वक्तधाज्ञायं नेत्रं जिह्वतथैव च॥ 189
घ्राण ञ्चैवात्र पञ्चैते स्मृत्वा चैव द्विजोत्तमः
प्राणं चैवाप्यपान ञ्च व्यानोदान समानतः॥ 190
एवं पञ्च विधं स्मृत्वा विशेषेणैव बुद्दिमान्
कामं क्रोध ञ्च लोभ ञ्च मोह ञ्च मदस्तथा॥ 191
मात्सर्यं भर्त्पन ञ्चैव सप्तैते तद्यथाक्रमम्
– पिण्डोत्पत्तिः –
शुक्लात्सञ्जायते कामं मज्जात्क्रोध ञ्च जायते
अस्थिना जायते लोभं मेदसश्च मदस्तथा॥ 192
मांसात् मोहं प्रजायेत असृजश्चतुमत्सरः
शुक्लं जातश्च विज्ञेयं पादहस्त प्रकीर्तितः॥ 193
वायुश्शब्दमितीत्युक्त्वा उपगुह्य ञ्च उच्यते
ऊरुचैवोपपस्धस्तु सर्वे प्राण्यादि पञ्चकम्॥ 194
– स्त्रीपुंसपुंसक भेदः –
लिङ्ग योगेन योनेश्च सञ्जातः शुक्लरेतसम
तयोश्शुक्लस्य वृद्धिश्चे ज्ञायते पुरुषाकृतिः॥ 195
तथा शोणित प्रवृद्धि स्स्यान्नारी सञ्जायते क्रमात्
तयोरत्र समं विद्या ज्ञायते ऽत्र नपुंसकः 196
एवं क्रमेण सञ्जातं कृत्स्नं शास्त्रेण चोदितम्
– आचार्य शिष्यादि लक्षणम् –
पूर्वोक्त गुण सम्पन्ना नुक्तदोष विवर्जितान्॥ 197
अननुज्ञाप्य पूर्वं तैरनुक्तं नैवकारयेत्,
चतुस्त्रि द्वित एकं वा शिष्टं वृत्वा प्रणम्य च॥ 198
– दीक्षाविधिः –
सलुप्तकेशश्म श्रूणि स्नात्वस्त्रैरलं कृतः
तद्दिने चापराह्णेतु सोपवास व्रत ञ्चरेत्॥ 199
ततोपवासं शिष्य न्तु प्रोक्षयि त्वा तु मन्त्रवित्
आपोहिरण्य वर्णाद्यैः स्नानकर्म समाचरेत्॥ 200
अणोरणीयेत्सभ्युक्ष्य गुरुः शिष्यं समाहरेत्
तत्कृतार्जित पापं वा, विमुच्यति नसंशयः॥ 201
सःपत्नी सहितं गत्वा ध्यात्वादेवं प्रणम्यच,
विमानार्चन कल्पोक्तभगवत्प्रतिपादितम्॥ 202
तद्गायत्री मन्त्रं शृण्वन् सङ्गमन्त्रैर्महा गुरुः
श्रद्धाभक्तिं पुरोधाय निशायां संविशेद्बुधः॥ 203
प्रभाते स्नाप्यतं शिष्यं नववस्त्रोत्तरीयकैः
– मन्त्रोपदेशः –
तज्जल ञ्चाघमर्षेण कृत्वा तत्पुरतः क्रमात्॥ 204
प्राणायामं ततः कृत्वा सहस्रं वा शतैरपि
अष्टसङ्ख्याक्रमेणैव कृत्वा पापं व्यपोह्य च॥ 205
– दीक्षितशब्द निर्वचनम् –
मन्त्रेण क्षीय्यतेपापं तद्भावं ज्ञान दीपकम्
दीय्यतेक्षईय्यते चैव तस्माद्दीक्षित संज्ञिकम्॥ 206
काश्यपेन मया प्रोक्तं दीक्षामेत त्प्रकीर्तितम्
सङ्कल्पे नैव दीक्षाभ्यां पर्यायेनैवचोच्यते 207
– विष्णुगायत्री क्रमः –
तदूर्ध्वे वक्ष्यमाणस्य विष्णुगायत्रीचोद्धरन्
वरं विष्णुर्वरेण्यक्त्वा भर्गोमायाचधीमहि॥ 208
थियोयोन तु इत्युक्त्वा अन्ते नैव प्रचोदयात्
– ऋषिन्यासादि क्रमः –
एवं मन्त्रस्य ऋषिस्तु नारायण इतिस्मृतः 209
परमात्माधि दैवत्यं छन्द स्त्रिष्टु प्विचक्षणः
तस्य उंकारबीज ञ्च अकारश्शक्तिरुच्यते॥ 210
स्वयमेव तु पञ्चाङ्गं तथा चैव करेन्यसेत्
एतैस्तु विष्णुगायत्रीं गुरुणैव प्रबोधयेत्॥ 211
नलिखेच्च पठेन्मन्त्रं स्वयमेव न कल्पयेत्॥ 212
कैश्चित्तत्र विशेषेण विष्णुगयत्रिरुच्यते
नारायणस्य गायत्रीं नारायणायविद्महे॥ 213
तत्पुरुषेति ग्यत्रीं तत्पुरुषायचोच्यते
एवं त्रिधातु गायत्रीं तत्तत्कर्म सुयोजयेत्। 214
सथावरं स्थावरे स्थाप्य विशेषेण समन्त्रवित्
मूलहर्म्यादिनां मध्ये सूत्रस्योक्तपदे पृथक्॥ 215
ज्ञात्वावैस्थापयेत्रीणि निषण्णेशयनेऽथ वा,
स्थानकं नात्रकुर्वीत पृधक्तस्य पदेक्रमात्॥ 216
कूर्म आधार सक्त्या ः कल्पये द्देषिकोत्तमः,
गुरुपदेशबोद्धव्यमक्षराणा न्तु संलिखेत्॥ 217
आदिबीजं सुवर्णाभं, प्रणवैरपि वेष्टयेत्
माषमात्रप्रमाणेन, निम्नमत्र्तैवलेखयेत्॥ 218
दक्षिणोत्तर पार्श्वे तु देव्योर्बाजं समालिखेत्,
प्रणवैः पृधक्संवेष्ट्य नादंवात्र पृधक्पृधक्॥ 219
प्लुतन्दीर्घं तथाह्रस्वं प्लुतां ते नेतिच बृवन्,
ऊर्ध्वेरत्नानि संन्यस्य पश्चाद्वेदिस्ततोपरि॥ 220
एवं क्रमेण सङ्कल्प्य उक्तवत् स्थापयेद्बुधः,
हौत्रां न्ते सर्वदेवानां अकाराद्यदिचाक्षरम् 221
बीजाक्षर न्तु सन्यस्यदेवनामानि सम्पुटम्
प्रत्येकं बिन्दुयुक्त न्तु न्यसित्वामन्त्र वित्तमः॥ 222
सहस्राहुतिर्ते तु न्यसित्वासुवरादिषु
एवं ध्यात्वा लिखेद्यत्र तत्र सन्निहितोहरिः॥ 223
विपरीताचरे द्द्विद्वान् निष्फलन्तितिशासनम्
तस्मात्सर्व प्रयत्नेन आलोड्यैव तु कारयेत्॥ 224
– जङ्गमादिन्यासक्रमः –
न्यासं सर्वत्र कुर्वीत जङ्गमाद्यदिनाचरेत्,
एवमेव क्रमेणैव सर्वशास्त्रस्य निश्चयः॥ 225
– पृथिव्यादि गुणः॥ –
विशेषोवक्ष्यतेविद्वन् पृधिव्यादिकुणं पृधक्
पृधिव्यातिरिक्तेतिघनित्रात्तेन वात्रयम्॥ (?) 226
पीतं श्वेतं तथा कृष्णं सर्वस्याधार कल्पितम्
महाद्यन्तं परेण्वादीन् धारयेत्पृधिवी -क्रमात्॥(?) 227
राशि चैव निभं विद्या त्केचिच्चैवद्विजोत्तमाः
सिकतं ताम्रजेदृश्ये परमाण्वादि भक्तिते॥ 228
तथा जल समूहोऽत्र दृश्यते मात्रदृष्टिषु,
लोचनेज्ञान संवीक्ष्य तरङ्गाद्यणुमा क्रमात्॥ 229
पृथक्पृधक्समीक्ष्यैव जलेभिन्नं प्रदृश्यते,
महावर्त घृताप्लुत्य दृश्येते प्राणिवत्क्रमात्॥ 230
तप्तहाटक सङ्काशं तेजोरूपं प्रकाश्यते
एकत्र ज्वलितेस्थेय प्रकारेविश्वमव्ययम् 231
मरुद्रूपं समालोढ्य धूमवत्तत्प्रकाशते
दिव्यालोचने वीक्ष्य सर्वव्याप्यनिलंस्मृतम् 232
सर्वप्राणिहितं तेन वायुरूपमुदीरयन्
आकाशव्यं ज्ञेयं सर्वव्याप्यैव उद्दिशेत्॥ 233
घडाद्यादिषु चान्तस्थं दर्पणे प्रतिदृश्यते,
शुद्धस्पटिक पाषाणै र्नानारूपस्य दृश्यते॥ 234
तथा सर्वस्य भूतान्ते प्रकाशेनैव तिष्टिति
– पञ्चभूत स्थानम् –
एवं पञ्चमहाभूतं पृधक्सङ्कुचितं शृणु॥ 235
नासाग्रादि ललाटान्त माकाशस्थानमुच्यते॥
तद्गलादि तु नास्यन्तं वायुस्थानमितीरितम् 236
तन्नाभ्यादि गलान्तन्तु ज्ञात्वा तेजोमयं बुधः
ततोनाभ्यादि ऊर्वन्तं स्थानमापः क्रमं तथा॥ 237
अन्यत्तु पृथिवी स्थानं क्रमेणैव तु विन्यसेत्,
वेदाङ्गमे तन्न्यासेऽत्र, सदासन्निहोतोहरिः॥ 238
– पञ्चभूत बीजानि –
लकारं पृथिवी बीजं वकारं जलबीजकम्
यान्तन्तेजोमयं विद्यान्मान्तं वायुरितस्मृतम् 239
सान्तमाकाश बीज ञ्च पृधिव्यादीनि विन्यसेत्
प्रत्यक्ष न्तु प्रपूज्यैव तारस्यैवाक्षरेण तु॥ 240
मूर्ध्नादि सर्वेष्वङ्गेषु न्यसित्वामातृकाक्षरं
यधा देवं तथा देहे, न्यासकर्म समाचरेत्॥ 241
एकाक्षराक्षरं न्यस्य सङ्क्षेपेणशृणुद्विज,
मुहूर्तेसमनुप्राप्ते बीजमेक न्तु विन्यसेत्॥ 242
सम्पुटीकृत्य मतिमान् स्मृत्वाचैवोक्त माचरेत्
ह्रस्वदीर्घप्लुतोच्चार्यं प्रत्योकं चाक्षरं क्रमात् 243
– जप्तपञ्चकम् –
यजमानस्तु पूर्वं स्याद्गुरुश्चैवाप्यनन्तरम्॥
अर्चकस्तु तृतीयःस्या च्चतुर्धः परिचारकः॥ 244
ब्रह्मतत्त्व ञ्च पञ्चैते जप्तपञ्चकमीरितम्
यजनं द्विविधम्
यजनं द्विविधं ज्ञेयं नित्यं नैमित्तिकं स्मृतम् 245
– स्नानं द्विविधम् –
स्नानं तद्द्विविधं प्रोक्तं स्नां चाभ्युक्षणं तथा
अरूपे वर्णयुक्ते च अभ्युक्षण मधाचरेत्॥ 246
स्वरूपे प्रतिमादीनां स्नान ञ्चैवात्र कारयेत्
स्नानं त्रिषवणं कुर्या द्वर्णहीने समाचरेत् 247
वर्णयुक्तं धृवेकुर्या द्धविरंत ञ्च पूजयेत्
– द्रव्यत्रिविधम्-प्रयोजनम् –
द्रव्यं तत्र्तिविधं स्मृत्वा पूजार्ध न्तु निवेदिकम् 248
होमार्धमेकं त्रिविधं कल्पयेद्देशिकोत्तमः
वस्त्रमाभरण ञ्चैव द्विविधं परिकीर्तितम्॥ 249
– आभरण त्रिविधम् –
भूषणं त्रिविधं विद्याद्धेमं रत्न ञ्च मौक्तिकम्
पात्रं बहुविधं ज्ञेयं तथा चैव त्रिपादिका 250
– गुरुशास्त्रयोस्समानत्वम् –
मन्त्रनाधं गुरुं शास्त्रं समत्वनानु भावयेत्
अन्यत्परिच्छदादीनि विविधैर्भहुधा भवेत्। 251
– पञ्चमहावाद्या ः–
वाद्य ञ्चैव घनं ञ्चैव सुषिरं तन्त्रमेव च
गेय ञ्चैव समायुक्त मित्येते पञ्चमं महत्॥ 252
– ध्यानद्विविधम् –
ध्यान ञ्च द्विविधं स्मृत्वा निष्कलं सकलं द्विज
द्विविधञ्चार्चनं विन्द्यादमूर्त ञ्च समूर्तकम्। 253
अमूर्तं होमपूजेति समूर्तं प्रतिमादिषु
– अन्तर्यागम् बहिर्यागम् –
अन्तर्यागं बहिर्यागं पनस्तद्द्विविधं भवेत् 254
– अहूतन्द्विविधम् –
अहूतं द्विविधं ज्ञेयं धृवेस्यात्कौतकादिषु
चतुश्चैववोपचारं स्याद्बाह्यञ्चाभ्यन्तरं तधा॥ 255
स्पृश्यञ्चास्पृश्यक ञ्चेति विग्रह न्तु चतुष्टयम्
शतमष्टाधिकं विंशद्भोग ञ्चैवोत्तमोत्तमम् 256
भोगैर्द्वित्रिंशकैर्दत्वा उत्तमन्त्वितिकेचन
असङ्ख्यातोक्तभोगेन भोगान्वक्तुमशक्यते॥ 257
– षट्कालार्चनम् –
पूजाकालास्तु षट्प्रोक्ताः प्रत्यूषादीनिचोच्यते
प्रत्यूषः प्रतः कालश्च मध्याह्नं चापराह्णकम्॥ 258
साय ञ्चैवार्ध रात्र ञ्च पूजाकाल न्तु षड्विधम्
प्रत्यूषः प्रतः कले च सायं मध्याह्नयोस्तधा
अरधयोमंऽत्य वेलायं पूजाकाल न्तु केचन॥ 259
कृत्स्नंशास्त्रमधीयीत दीक्षयेत्काश्य पोक्तवम्।
पश्चात्परार्धं यः क्रया द्भूपरीक्षादि कारयेत्॥ 260
– दीक्षापूर्वकमेव परार्थ यजनम् –
नदीक्षेत गुरुर्विद्वान् यधा शास्त्रेण सशृतः
तेनैवात्र कृतं कर्म विकर्मेव तु निश्चयः 261
तस्मात्सर्व प्रयत्नेन विधिनासम्य गर्चयेत्
– अर्घ्यं चतुर्विधम् –
अर्घं चतुर्विधं विद्याद्वक्ष्यते च यधाक्रमम्॥ 262
आहूता न्ते तु प्रथमं स्नानासनगते तधा
स्नानान्ते तु तृतीयं स्याद्दीपा न्ते तु चतुर्धकम् 263
पूर्वस्यार्घ्य द्वयं स्पृश्य मपरन्तन्निरीक्षणम्॥
एवं चतुष्टयमर्घ्यं सर्वशास्त्रेण चोदितम् 264
– अचमनकालाः –
मधुपरिकंहविस्तत्र सर्वम्भक्ष्यं निवेदयेत्
पाद्यान्ते च तथार्घ्यान्ते मधु पर्कान्तयोरपि 265
स्नानन्ते प्लोतवस्त्रान्ते मुखप्रक्षालने तधा॥
हविरादिनिवेथ्यान्ते दद्यादाचमनं पृधक् 266
परार्धे स्थावरादीनां निवेक्षे चैव संस्पृशेत्
प्रमादात्प्सर्शने देवं प्रोक्षयित्वा समर्चयेत् 267
सत्मात्सर्व प्रयत्नेन दीक्षितेनेव कारयेत्
– नित्यनैमित्तिकयोः पूर्वापरविचारः –
स्नानादिपूजपर्यन्तं पूजा प्रतिविचक्षणः 268
आपोहिरण्यपवमानैः प्रोक्षयित्वा समर्चयेत्।
नैमित्तिभवेन्नित्यं पूर्वं नित्यं समाचरेत्॥ 269
– दैविक पूण्याहम् –
पुण्याहं देवकार्यषु वाचयेत्तु विशेषतः
देवस्य प्रमुखेप्रोक्ष्य मण्डलं वात्रकारयेत् 270
तण्डलैः पूरितं पात्रं त्रिपादस्योपरिन्यसेत्
गन्धंचाक्षत दूर्वांश्च ताम्बूलं तन्तुभिस्सह 271
करकंकूर्च युक्त न्तु जलपूर्णं निधापयेत्
ऋत्विजोवरयेत्पश्चात्पञ्च सप्तवनादिषु॥ 272
साक्षतं दर्भयुग्मन्तु हस्ते हस्ते प्रदीयताम्
आचार्यस्त्वग्रतोवाच्य कर्मणः पुण्यमुच्चरन्॥ 273
प्रतिवाचकमुच्चार्य कर्मणः पुण्यमुच्चरन्
पुनराचार्य उच्चार्य कर्मणे स्वस्तिचोच्चरन्॥ 274
प्रतिवाचक उत्युक्त्वा स्वस्तिकर्मण इत्यतः
आचार्यः पुनरित्युक्त्वा कर्मबुद्दिं ततोच्चरन्॥ 275
तथैव प्रतिवाचोक्तं कर्मबुद्यन्म मुच्चरन्
स्वयमाचार्यः पुण्याहं तत्काले कालमुच्चरन्॥ 276
वाच्यतां शान्तिरस्त्विति पुष्टिरस्त्विति चोच्चरन्
शिवं कर्मास्वितीत्युक्त्वा प्रियतान्तं प्रजापतिः॥ 277
हिरण्यपवनौचोक्त्वा विष्णुसूक्तमतः परम्
कृणुष्वपाज इत्युक्त्वा अग्निश्शचिं ततोच्चरन् 278
अधवा वाच्य धर्मात्मा विशेषेणैव कारयेत्॥
उक्तवद्घोषयेद्विद्वा न्सर्व देवादिवर्जितम्॥ 279
हिरण्यपवमानान्तमापोहिष्टामयोभुनः
– प्रतिसरबन्धनम् –
स्वस्तिसूक्तं समुच्चार्य हेमसूत्रं समन्त्रयेत्॥ 280
तन्तनात्तैवचाहृत्य स्वस्तिदाविचोच्चरन्
देवस्य दक्षिणे हस्ते बन्धयेद्देषिकात्तमः 281
श्रियेजातेतिमन्त्रेण मे दिनीति समुच्चरन्
देव्योन्तु वामहस्ते च बन्धयेत्प्रतिसरं क्रमात् 282
अप्सरस्वितिचोच्चार्य गन्धाद्यैः पुण्ड्रमाचरेत्
गन्धत्वारेतिमन्त्रेण तथा देव्यौ च कारयेत्॥ 283
दूर्वाक्षरं समादाय देवमूर्ध्नि निवेश्य च
नित्यपूजोक्तमार्गेण कृत्वा तत्र विचक्षणः॥ 284
देवाग्रेतु समासीनः पुण्याहमपि वाचयेत्
– देवाग्रेतिष्टन्नेव कर्मकर्तव्यम् –
न तिष्टेद्वाच्य पुण्याहं तैलां गोद्वर्तनादिषु॥ 285
न तिष्टेद्वाच्य पुण्याहं देवदेवस्य कर्मणि॥
मया चैवात्रि नाप्रोक्त मध्यायेतंत्रसङ्ग्रहे॥ 286
गदापद्मयुतं देवं सर्वत्रस्थापयेद्द्विजः
पूर्वमुक्तं मया चात्र गदापद्मं विनाकृतम्॥ 287
तं देवं विधिनास्थाप्य अर्चयित्वा च रेत्क्रमात्॥
विपरीतं न कुर्वीत सर्वशास्त्रश्च निश्चयः॥ 288
सूत्रोक्तेनैवमार्गेण पुण्याहमपि वाचयेत्
फलकेवाधपीठेवा स्थलेवात्र यधोचितम् 289
– ऋत्विक् लक्षणम् –
नासाडभ्यांसंवीक्ष्य असनेस्वस्तिबन्धने॥
एक जान्वासनाद्विद्वा न्कारयेदितिकेचन॥ 290
बन्दकेशश्शिखीवाधश्शायी दीक्षां समाचरेत्॥
– वासाधिकार शब्द निर्वचनम् –
अल्पग्रन्ध ञ्च बह्वर्धमुक्तं सङ्क्षेपतोमया॥ 291
वासोवासद्वयं प्रोक्तमाख्यं वासाधिकारकम्
बहुनात्र किमुक्तेन शुणुध्वं मुनिसत्तमाः॥ 292
एवं सर्वं क्रमम्प्रोक्तमालोड्यै वार्चयेत्क्रमात्)
इति श्रीवाखनसे भृगुप्रोक्तायां संहितायां वासाधिकारे
पुण्याहादि विधिर्नाम तृतीयोऽध्यायः
———————
चतुर्थोऽध्यायः
सर्वदेवार्चनम्
अध वक्ष्ये विशेषेण सर्वदेवार्चन क्रमम्
हौत्रान्ते सर्वदेवानां नामाद्येवं पृथक्पृथक् 1
विष्णुं श्रियं महीं पूर्वं पृधङ्नमान्तमाह्वयेत्
अन्याश्चपुरुषांदींश्च सप्तत्येकोत्तरं भवेत्। 2
ब्रह्मणं शङ्कर ञ्चैव मार्कण्डेयं मया सह॥
एतान्देवान्समभ्यर्च्य मूलद्वारे तु अर्चयेत्॥ 3
धातार ञ्च विधातारं भुवङ्ग ञ्च पतङ्गकम्
पतिरं वारुण ञ्चैव प्रतिद्वाराधि दैवतम्॥ 4
अन्द्रं चाग्निं यम ञ्चैव निर् ऋतिं वरुणं तधा
वायुङ्गुबेरमीशाना माशान्तादि यधा क्रमम्॥ 5
गरुडं दिवीकरं चन्द्रमङ्गारं बुध मेव च
वाचस्पति ञ्च शुक्र ञ्च मन्दं गङ्गाधरं तथा॥ 6
स्कन्धं तत्पुरुषं धात्रीं ज्येष्टा ञ्चैव महीधरम्
कुमारं कुण्ठिनीं दुर्गां ग्रन्धिनीं कृच्छ्रिणी तधा॥ 7
कुण्ठीनीं विकारिणी ञ्च ददृणी ञ्च तधैव च
इन्द्रियस्य विकारिणीं मा ञ्चैव च मरीचिनम्॥ 8
पुलस्त्यं पुह ञ्चैव क्रतुमत्रिं वशिष्टकम्
गविषं समीरण ञ्च आहुरण्यं पवित्रकम्॥ 9
हरिणी ञ्च ततस्सिद्धिं श्रियं न्यक्षं तथैव च
विवस्वन्मित्रक ञ्चैव क्षत्तारं हविरक्षकम्॥ 10
ब्रह्मणमनिल ञ्चैव गणेश ञ्चैव षण्मखम्
वैष्णवीमिन्द्रिय विकारिणीं वाराहीङ्कालिनीं तधा॥ (?) 11
पुष्पेशम्बलिपालि ञ्च विष्वक्सेनं तथैव च
कपिल न्तु मृगव्याधं शर्वम्भवपि नाकिनौ॥ 12
हवनं ईश्वरंस्थाणिं कापीलीनिर् ऋतिं यमम्
अजाएवपद ञ्चैव अहिर्भुध्नियुतं पुनः॥ 13
धातारमर्यम मित्रं वरुण ञ्च भगं तथा
इन्द्रं विवस्वपर्जन्यं आर्षेण्यं त्वषाटारमेव च॥ 14
विष्णुं जघन्यजं धृवं धातारं शिवमेव च
आपोऽनिलं चानल ञ्च प्रत्यूष न्तु तधैव च॥ 15
प्रसह न्तु तपस्सत्यं दस्रञ्चमणिकं तथा॥
सन्ध्या ञ्च तापसं सिद्धिं किष्किन्धं तीर्धमेव च॥ 16
विघ्नेशं नागराज ञ्च चक्रं शङ्खन्दिवाकरम्॥
चन्द्रं धनपति ञ्चैव यमराजङ्गुहं तथा 17
चण्डम्प्रचण्डं श्रीभूतं गरुडं चक्रं ध्वजं तथा॥
शङ्खं यूधाधिप ञ्चैव अक्षहन्तारमेव च॥ 18
पुरुषाद्य क्षहन्तारं प्रत्येकं मूर्तिभेदकम्॥
काश्यपाद्यादिनाप्रोक्तं परिषट्कं समाह्वयेत्॥ 19
चतुरः पञ्चषट्सप्त नामभेदं समुच्चरन्॥
चतुर्वर्ग समृद्ध्यर्धं चतुर्वेद समृद्धिदम्
धर्मादि मोक्षसिद्ध्यर्धं चतुराश्रमसिद्धिदम्॥ 20
शान्तर्थ्यं पौष्टिकार्धञ्च चातुर्वर्ण समुद्धिदम्
पूर्वमावाहनं कुर्या ज्जुष्टाकारमितिः परम्॥ 21
स्वाहाकारं तृतीयं स्यात्कृत्वातद्देशिकोत्तमः
पृथग्देशं प्रकल्प्यैव अङ्गिरोक्त विधानतः॥ 22
अधवा एकमूर्तिं वा कल्पयित्वा विचक्षणः
तस्यालयं पृथक्चैव मूलरादन्तमायतम् 23
अनपायं विना यत्र देवेशं नैव कारयेत्
त्रिहस्तायत विस्तारं मण्डपाकार उच्यते 24
अधवा शिखरं तत्र कारयेदितिकेचन
तस्यपादसमं द्वारं कवाटं सहकल्पयेत्॥ 25
पौवर्णायुध संयुक्तं परिषट्क समायुतं
अधवा कल्पयेद्विद्वान् पीठं तत्र प्रकल्पयेत् 26
वृत्तं पद्मदलीकारं चतुरश्रं द्विवेदिकम्॥
एवं पृथक्प्रकल्प्यैव चार्चयेद्देशिकोत्तमः 27
यस्यान्दिशिनिरीक्षं स्यात्तत्रद्वारं प्रकल्पयेत्॥
द्वार्सय वामपार्श्वे तु विष्वक्सेनं प्रकल्पयेत् 28
भूतद्वयं तधातार्ष्यं तधा चैव मितं पुनः॥
चक्रं शङ्खारविद ञ्च अर्यम्णेत्यनपायिनः 29
– एतैर्दशभिर ग्रैव शान्तमेकन्तुवामतः –
शोमेशानयोर्मध्ये नित्यंशान्तं प्रकल्पयेत्॥ 30
वीशं प्रतिमुखङ्कुर्या दन्यत्सर्वं विपर्ययम्
एतेषामन पायिनां कल्पयेद्देशिकोत्तमः 31
अनपायं विनायत्र देवेशोनवसेद्बुधः॥
तस्मात्सर्व प्रयत्नेन देवग्रे कल्पयेद्विद्वान्
एवं क्रमेण कर्तव्यं विपरीतं न कारयेत्॥ 32
इति श्री वैखानसेभृगु प्रोक्तायां संहितायां
वासाधिकारे सर्वदेवार्चन परिष्वद्विराजोनाम चतुर्थोऽध्यायः
—————————
पञ्चमोऽध्यायः।
भक्तजनप्रतिष्ठा
अतः परं प्रवक्ष्यामि भक्तानां स्थापनं परम्
– एकसप्तति भक्तजन स्वरूपम् –
एकसप्तति भक्तानां तत्तद्रूपं विधीयते॥ 1
प्रथमावरणेवापि द्वितीयावरणेपि वा
प्राकारभित्ति पार्श्वेतु दक्षिणाद्युत्तरान्तकम्॥ 2
प्राङ्मुखा़ञ्चैव संस्थाप्य तत्तन्नामादि पूजयेत्
पूर्वेक्तेनैव मार्गेण प्रतिष्ठाविधिनैवपि॥ 3
प्रह्लोदानारदश्चैव पुण्डरीकः पराशरः
व्यासश्च शौनकश्चैव शुकब्रह्मतथैव च॥ 4
वसिष्टश्च हरिश्चन्द्रो मार्कण्डोयस्तधैव च
ईशानश्चैवहनुमा न्पार्वतीनन्दिकेश्वरः॥ 5
सुग्रीवश्चाङ्गदश्चैव जटायुर्जाम्बवां स्थधा
रुक्माङ्गदश्च भूष्मश्च त्रिजटा च विभीषणः 6
धर्मभूमार्जुनाश्चापि नकुलस्सहदेवकः
द्रौपदीकुन्ति देवी च वाल्मीकिश्च मुनिस्तथा॥ 7
सनातनश्चसनक स्सनसस्सनत्पुत्रस्स नन्दनः
वैखानसोमरीच्यत्रिः काश्यपाभृगुरेव च॥ 8
सूर्योबृहस्पतिश्चन्द्र श्शुक्रश्चशनिरेव च
दिलीपश्च दशरथो रघुराजस्तथैव च॥ 9
वसुदेवोनन्दगोपो यशोदादेवकी तथा
विदुरोऽनन्त गरुडौ विष्वक्सेनो विनायकः॥ 10
दुर्गाचषण्मखश्चैव, जनकोभोज एव च विश्वामित्रो गुहश्चेति, नलराजस्तधैव च॥ 11
शङ्खचक्रगदाशार्ञ खड्गाश्चैव महाबलः कार्तवीर्योजामदग्नि रेकसप्ततिका स्तधा॥ 12
– भक्तजन लक्षणम् –
अतः परं प्रवक्ष्यामि भक्तानां लक्षणं परम्
असुरा राक्षसा भूता गरुडानागकिन्नराः॥ 13
यक्षविद्यादरास्सिद्धा ऋषयोमानवास्तथा
ब्राह्मणाः क्षत्रियावैश्या श्शूद्राश्चैवान्त्यजतयः॥ 14
विष्णुभक्तिसमायुक्ते स्तच्चिह्नै स्तत्परायणैः
तद्भक्तैरर्चनीयास्स्यु रैहिकामुष्मिकाप्तये॥ 15
आलयाभ्यन्तरेकुर्या द्देवपार्श्वे मनोरमे,
प्रथमावरणे चैव्य द्वितीयवरणे ऽधवा॥ 16
मण्डपं वाधकूटं वा विमान वा, विशेषतः,
पूर्वोक्तेन विधानेन शिल्पिना कुशलेन तु॥ 17
– भक्तजन प्रमाणम् –
अतः परं प्रवक्ष्यामि भक्तानां लक्षणं परम्
असुरा राक्षसा भूता गरुडानागकिन्नराः॥ 13
यक्षविद्यादरास्सिद्धा ऋषयोमानवा स्तथा,
ब्रह्मणाः क्षत्रिया वैश्या श्शूद्राश्चैवान्त्य जातयः॥ 14
विष्णुभक्ति समायुक्ते स्तच्चिह्नै स्तत्परायणैः
तद्भक्तैरर्चनीयस्स्यु रैहिकामुष्मिकाप्तये॥ 15
आलयाभ्यन्तरेकुर्या द्देपार्श्वे मनोरमे,
प्रथमावरणे चैव्य द्वितीयावरणेऽधवा॥ 16
मण्डपं वाधकूटं वा विमानं वा, विशेषतः,
पूर्वोक्तेन विधानेन शिल्पिना कुसलेन तु॥ 17
– भक्तजन प्रमाणम् –
सौवर्णं राजतन्ताम्रं शैलचन्तु विशेषतः,
स चित्रं वार्धचित्रं वा चित्राभसमधापि वा॥ 18
आयादिषट्छुभं ज्ञात्वा यजमान शुभावहम्
अष्टतालेनमानेन मनुषानान्तु कारयेत्॥ 19
केशबन्धादि बन्ध ञ्च केवलं कुन्तलन्तु वा,
सर्वाभरण संयुक्तं मुनिवेषमथापि वा॥ 20
यधा सौन्धर्य संयुक्तं सर्वावयव शोभितम्
अञ्जलिन्धानमाविश्य तत्दाकृतिमेव वा॥ 21
प्रभापीठं शिरश्चक्रं कारयेदितिकेचन,
–भक्तबिम्ब प्रतिष्ठाविधिः–
अत ऊर्थ्वं प्रवक्ष्यामि स्थापनारम्भमुत्तमम्॥ 22
उत्तरायणकाले वा दक्षिणे वात्वरान्वितः,
पूर्वोक्तमासनक्षत्रे पूर्वपक्षे विशेषतः॥ 23
स्थिरराशिं प्रकृह्यैव शुभयोगे शुभोदये
तस्मात्तद्द्विसात्पूर्व मङ्गुरानर्पयेत्क्रमात् 24
तृतीये दिवसे कुर्याच्छिल्पिना चाक्षिमेचनम्,
पूर्वोक्तलक्षणोपेत माचार्यं वरयेद्बुधः॥ 25
प्रमुखे दक्षिणे वापि उत्तरे वा मनोरमे।
मण्डपं वाथकूटं वा प्रपांवापि विधानतः॥ 26
जौपासनाग्निकुण्डे तु पूर्वमाघार माचरेत्
अङ्गहोम ञ्च कृत्वा तु पाञ्चभौतिक संयुतम्॥ 27
नयनोन्मीलनं कृत्वा पुण्याहं वाचयेत्ततः,
नद्यां वाध तटाके वा, प्यधवाधकटाहके॥ 28
तस्मिन्जलेऽधिवा स्यैव बेरशुद्ध्यर्धमेव तु,
पूर्वोक्तलक्षणैर्यक्तां योगशालां प्रविश्य च॥ 29
वितानेन समाच्छाद्य दर्भमालादिभिर्युताम्
क्रमकैःपूर्ण कुम्भाद्यै स्सर्वालङ्कार शोभिताम्॥
तन्मध्येमण्डपं कृत्वा बिम्बमालादिभिर्यताम्
प्राच्यामाहवनीयन्तु श्वभ्रं पूर्ववदाचरेत्॥ 31
उत्तरेवास्तुहोम ञ्च पूर्वोक्तेन विधानतः,
पर्यग्नि ञ्च ततः कृत्वा प्रोक्षण ञ्च समाचरेत्॥ 32
अघारं पूर्ववत्कृत्वा वैष्णवेन समायुतम्
अधिवासगतम्बेरं यागशालां प्रवेशयेत्॥ 33
पूर्वोक्तेन विधानेन कुम्भपूजां समाचरेत्
यत्तद्रूपं तथा ध्यायेत् कुम्भमध्ये विशेषतः॥ 34
वस्त्रमाल्यैरलङ्कृत्य अर्चयेदष्टविग्रहैः
पुण्याहंवाचयेत्तत्र बध्वाप्रतिसरं ततः॥ 35
पञ्नभिःकलशैस्स्नाप्य बिम्बं यत्नेन शोधयेत्
पञ्नवस्त्रैस्समाच्छाद्य स्थापयेत्कुम्भ संयुतम्॥ 36
शयनेशाययेद्देवं यतोद्वारं ततः शिरः
उत्तराच्छादनं कृत्वा दिक्पालानर्चयेद्बुधः॥ 37
अग्नितं परिषिच्यैव मूलहोम ञ्च हूयताम्
अष्टाशीतिं ततो हुत्वा महाव्याहृति संयुतम्॥ 38
अषाक्षरेण मन्त्रेण शतमष्टाधिकं यजेत्
तत्तन्मूर्ति ञ्च हुत्वा तु रात्रिशेषं नयेत्क्रमात्॥ 39
पुनः प्रभाते धर्मात्मा स्नात्वास्नान विधानतः,
शयानन्देवमुत्थाप्य प्रणम्यैवानुमान्य च॥ 40
पुष्पमाल्यैरलङ्कृत्य पूजयेदष्टविग्रहैः
अन्तहोमं ततो हुत्वा गर्भागारं प्रवेशयेत्।. 41
पञ्चरत्नं सुवर्णं वा पीठे तत्र विनिक्षिपेत्
सुवर्ण ञ्च पशुन्तेभ्यो गुरवेदक्षिणां ददेत्॥ 42
मूहूर्ते समनुप्राप्ते यजमानयुतोगुरुः
बेरं कुम्भं समादाय आलय ञ्च प्रदक्षिणम्।. 43
गर्भालयं प्रविश्यैव पीठे संस्थापयेद्गुरुः
आत्मसूक्त ञ्च जप्त्वैव हृदिबीजाक्षरं न्यसेत्॥ 44
बीजाक्षरो विशेषेण तत्तन्नामादि रक्षरम्
तद्बीजं प्रणवैर्वेष्ट्य तद्रूपं मनसास्मरेत्॥ 45
मूलमन्त्रं समुच्चार्य मूर्तिमन्त्र ञ्च योजयेत्
अनुक्त स्सर्वमन्त्राणि मूर्तिमन्त्रेण कारयेत्॥ 46
एवं यः कुरुते भक्त्या विष्णुभक्त स्यस्थापनम्
ग्रामशान्तिकर ञ्चापि सस्यानामभिवृद्धिदम्॥ 47
इहलोके सुखम्भुक्त्वा च पत्नीपुत्र संयुतः
सर्वपापविशुद्धात्मा विष्णोस्सायज्यमाप्नुयात्॥ 48
इति श्रीवेखानसे भृगुप्रोक्तायां
वासाधिकारे भक्तजन प्रतिष्ठा विधिर्नाम पञ्चमोऽध्यायः।
षष्टोऽध्यायः
अङ्कुरार्पणम्
– अङ्कुरार्पणक्रमम् –
अत ऊर्थ्वं प्रवक्ष्यामि कृत्वा दैवाङ्कुरार्पणम्
स्थापनादिवसात्पूर्वं पञ्चमेसप्तमेह्निवा॥ 1
चन्द्रद्वयेऽन्यदोषादि न्यदि तत्र विशेषतः,
यधार्हंवाधसद्यस्तु चार्पयित्वा, विचक्षणः॥ 2
– पालिका कुम्भशराव लक्षणम् –
अङ्कुराद्यर्थमादाय त्रिविधं तत्र पालिकाः
शरावं कुम्भक ञ्चैव पालिका च त्रिधा भवेत्॥ 3
लक्षणन्तुपृधग्वक्ष्ये शृणुध्वं तस्य वैद्विजाः,
ताम्रजं, राजतंरौक्मं कृत्वा चैव तु, पालिकाः॥ 4
ताम्रजाद्राजतं श्रोष्टं राजताद्रौक्ममुत्तमम्
एवं कर्तुमशक्तोऽपि मृण्मयंवापि कारयेत्॥ 5
मानाङ्गुलेनमानेन दण्डमष्टादशाङ्गलम्
षडङ्गुलन्तुतन्नाहं गर्तयुक्तन्तु कारयेत्॥ 6
पालिकामुखविस्तारं भ्रामयेऽष्टाङ्गुलं विदुः
तदर्धं, पादविस्तारं तत्षड्भागैकमोष्टकम्॥ 7
अधवा, षोडशाङ्गुल्यं भ्रामयेत्पालिकामुखम्
विस्तारेक, त्रिभागैकं वर्तितं,बिलमुच्यते॥ 8
घटिकान्कायेद्विद्वान्प ञ्च द्वारसमन्वितम्
तस्य दण्डोन्नतं कृत्वा पूर्वदण्डार्धमुच्यते॥ 9
केचित्तस्यैवदण्डन्तु चतुरङ्गुलमुन्नतम्
घटिका,घटक विस्तारमष्टाङ्गुलमुदाहृतम्॥ 10
एवं क्रमेण, कर्तव्यं घटिकान्कारयेद्बुधः
शरावण्धस्यायामं शटङ्गलमितिस्मृतम्॥ 11
अधवाष्टाङ्गुलं तत्र पादस्योच्छ्रयमुच्यते
शरावमुख विस्तार मष्टाङ्गलमुदाहृतम्॥ 12
तदर्धं पादविस्तारं यथाशोभं तधाचरेत्
पालिकाघटिकादीनि सम्यग्दग्धं मृदाकृतम्॥ 13
कुर्यादेकत्र कार्ये तु पुनः र्म नविद्यते
नाहस्य पालिकादीनां विस्तारार्धेन वर्धितम्॥ 14
भेधं, छेद ञ्च, दीन ञ्च, सुषिरं, काचहीनकम्
वर्जयेत्तत्प्रयत्नेन कृत्वा तच्छास्त्र पारगः॥ 15
– अधिदेवा ः –
विरिञ्चि विष्णुरीशानं पालिकाद्यधि देवतम्
– भद्राङ्कुरार्पणम् –
अङ्कुरं, द्विविधं प्रोक्तं भद्रङ्क्षुद्रन्द्विधा भवेत्॥ 16
प्रतिषअटाचोत्सव ञ्चैव देव्योर्वैवाहिक क्रिया
एवमादीनि, भद्राख्यं ज्ञात्वा चैव विचक्षणः॥ 17
– क्षुद्राङ्कुरार्पणम् –
विष्णुपञ्च दनेवाध आयने विष्णुवे तथा
अन्यच्छुभानिकार्याणि क्षुद्राख्य ञ्च, भवेत्स्मृतम्॥ 18
पालिकादीन्प्रसङ्गृह्य त्रिधा चैव पृधक्पृधक्
कलाप्रद्योतनाख्य न्तु वसुर्वेदाक्य महरेत्॥ 19
आलयत्प्रमुखे चैव उत्तरे वा, यधार्हकम्
गोमयेनोपलिप्यैव पैष्ट्याभूमिमलं कृतम्॥ 20
तन्मध्येकल्पयेत्सूत्रं पदभागं पृधक्चरेत्
पूर्वान्तमुत्तरान्तन्तु षट्सूत्र ञ्च, प्रसार्य च॥ 21
एवं कृत्वा तु, कोष्टन्तु पञ्चविंशति, सङ्ख्यया
मध्येब्रह्मपदन्त्वेकं परितोऽष्टानि, लेखयेत्॥ 22
पूर्व न्तु दक्षिण ञ्चैव पश्चिमं चोत्तरादिशम्
प्रत्येकं तद्व्यपोह्यैकं द्वारार्ध न्तु, विचक्षणः 23
तच्छेषद्वादशेकोष्टे आग्नेयादि, विदिक्थ्सिम्
षड्द्रोणं, व्रीहिमादाय तदूर्ध्वेचास्तरेत् बुधः॥ 24
– तत्तदधिदेवताह्वानम् –
तन्मध्ये, ब्रह्मणः पीठं त्रिवेदि, सहितं क्रमात्
षडङ्गलोन्नतं वापि यधालाभान्नोतन्तु वा॥ 25
अथ तालोन्नतं पीठं त्रिवेदि, सहितम्पुनः
पूर्वद्वारोत्तरे शेषं दक्षिणे वक्रतुण्डकम्॥ 26
दक्षिणेद्वारपार्श्वे तु वीशचक्रौ च विन्यसेत्
तथा पज्तीश, भूतेशौ पश्चिमद्वारपालकौ॥ 27
उत्तरद्वारपार्श्वे तु सङ्खशान्तौच, कल्पयेत्
ब्रह्मणः परितो ऽष्टौ च जयादीन्कल्पयेत्क्रमात्॥ 28
पश्चिमेताल विस्तारं त्रिवेदि सहितं क्रमात्
षडङ्गलोन्नतं पीठं पृधक्चैव प्रकल्पयेत्॥ 29
तद्भा ह्ये कल्पयेद्विद्वा न्र्पागादीनां, यथाक्रमं
षडङ्गुल न्तु विस्तारं पीठं प्रति, समाचरेत्॥ 30
ब्रह्मणश्चाकृतिं वक्ष्ये शृणुध्वं, द्विजसत्तमाः
रुक्मवर्णं, सुखासीनं पद्मस्योपरि संस्थितम्॥ 31
चतुर्भुजं चतुर्वक्त्रं दक्षिणाथः करादिषु
अभयं कलशं, धृत्वासपद्मं,कटाकान्वितम्॥ 32
किरीट, भूषणैर्युक्तं कटकाङ्गुलि संयुतम्
सावित्री सहितं नित्यं पीठोपरि समाहितम्॥ 33
एवं ध्यात्वा समावाह्य अर्चयेदष्टविग्रहैः
ब्रह्मदीनि विशोकान्तमर्चयेच्च क्रमेणवै॥ 34
उर्ध्वेकूर्चान्वि निक्षिप्य ध्यात्वोपरि समाहितः
ब्रह्मजज्ञेति मन्त्रेण विरि ञ्चा वाहनादिकम्॥ 35
निवेद्यन्त ञ्च सम्पूज्य तधैवान्यंश्च देवतान्
अर्चयित्वा विशेषेण सोदकन्तु, बलिङ्क्षिपेत्॥ 36
– पालिकादीनामलं कारं –
पालिकादीन्प्रगृह्वैव शुचीवोहव्यचोच्चरन्
प्रक्षाल्य पालिकादीनि अलङ्कृत्य, प्रयत्नतः॥ 37
सदूर्वाश्वत्थमुकुलै स्तन्तु ना परिवेष्टयेत्
ओष्टपाद प्रदेशाभ्यां श्वेतवस्त्रैरलङ्कृतम्॥ 38
तस्यच्छिद्रं पिधायैव दर्भाद्यादितृणे न च
तां मृदा पूरयेद्विद्वान्त द्वेद्योपरि विन्यसेत्॥ 39
ईशानादि क्रमेणैव विधायाचार्य शिष्यकौ
इदं विष्णुर्विचक्रेति तत्र कार्यं समाचरेत्॥ 40
अणोरणीय्यानित्युक्त्वा प्रोक्षयेत्सर्व पालिकान्
– अङ्कुरार्पण धान्यानि –
कङ्कुमुद्गायवाश्चैव तिलसर्षप संयुतम्॥ 41
मसूरचणकादीनि पूर्वोक्ते नैव चाहरेत्
मृत्पात्रेषु विनिक्षिप्य विष्णुगायत्रि मुच्चरन्॥ 42
जलेन, परिषेक ञ्च येते शतमितिब्रुवन्
नित्यपूजावसाने तु देवेशं सम्यगर्चयेत्॥ 43
द्रोणैर्द्रोणार्धकैर्वापि यथा शक्ति निवेदयेत्
ताम्बूल सहितं तत्र देवेशस्य निवेदयेत्॥ 44
पश्चाच्छेषं समादाय विप्रैर्भक्त जनैरपि
दत्त्वायथोचतं तत्र पश्चात्कर्म समाचरेत्॥ 45
– तत्तदधिदे वानामष्टोप चाराः। –
मेदिन्यादि चतुर्भिश्च ऐशान्यादि, यथाक्रमम्
आवाहनासन ञ्चैव अर्घ्यं पाद्य न्तु थैव च॥ 46
पुष्पं गन्थं तथा धूपं दीपदानान्त मर्चयेत्
नैवेद्यं वैवकुर्वीत अन्यत्सर्वं समाचरेत्॥ 47
पश्चाद्वादकमहूय प्रोक्षयित्वा, विचक्षणः
शन्नोदेवीरितीत्युक्त्वा देन कर्म, समाचरेत्॥ 48
शृङ्गाभ्यां रुक्मशङ्खाभ्यां,काहलाद्यादि पूर्वकम्
घोषयेत्सर्व वाद्य न्तु आत्मसं शुद्ध मानसः॥ 49
श्रोत्रियांश्च, समाहूय पुण्याहमपि, वाचयेत्
पश्चाद्बीजान्प्रगृह्यैव कांश्य पात्रे समाहितः॥ 50
– अङ्कुराराधनम् –
ऊर्ध्वेकूर्चं विनिक्षिप्य सोमं राजानमुच्चरन्
सोमन्तत्रैव चावाह्य अर्चयित्वाष्ट विग्रहैः॥ 51
– बीजावापनम् –
आचार्य हस्तादादाय विष्णुसूक्तं समुच्चरन्
पालिकोपरि संवाप्य प्रत्येकं देशिकोत्तमः॥ 52
आहतैश्चनवैर्वस्त्रैःप्रत्येकं तत्र चाहरेत्
पालिकापादमावेष्ट्य विष्णुस्त्वां रक्षमुच्चरन्॥ 53
पश्चात्तोयं समादाय वारुणं मन्त्रमुच्चरन्
सर्वत्रसेचनं कृत्वा भक्तानन्यानि चाहरेत्॥ 54
एकाहं द्वयहं तत्र यावदङ्कुर सम्भवम्
तत्रार्कैरण्ड पत्राणि गृहीत्वोर्ध्वे समर्पयेत्॥ 55
मूर्थेष्टकाः शिलास्तत्र निधायैव द्विजोत्तमः
गुप्तेदेशे समावेश्य रक्षां तत्रैव कारयेत्॥ 56
एवं कर्तु मशक्तशेच दत्रिणोक्त क्रमाच्चरेत्॥
इति श्रीवैखनसे भृगुप्रोक्तायां संहितायां वासाधिकारे
अङ्कुरार्पण विधिर्नाम षष्टोऽध्यायः
————————-
अथ सप्तमोऽध्यायः
वासाधिकारः
– विष्णु प्रतिष्ठास्थापना भेधाः –
अथ ऊर्थ्वं प्रवक्ष्यामि विष्णोश्चस्थापन क्रमम्
प्रतिष्ठा स्थापन ञ्चेति द्विविधं चेति पर्यया॥ 1
प्रतिष्ठाख्यं विशेषेण प्रोक्तं तत्रैव मे शृणु
सर्वकर्म परं देवं सकलीकृत पूर्वकम्॥ 2
– प्रतिष्ठा शब्दनिर्वचनम् –
प्रति बुद्ध्या प्रतिष्ठा चेत्प्र तिष्टेत्युच्यते बुधैः
तेनैव द्विविधं प्रोक्तं सहैव पृधगेन वा॥ 3
समूर्तान्यालयेबिम्बे नित्यं विधिवदर्चनम्
ऐहिकामुष्मिक ञ्चैव ददातीतिन संशयः॥ 4
– ऋत्विके लक्षणम्। –
आमर्भ, दिनसात्पूर्वं यजमानो मुदान्वितः
पूर्वोक्त गुणसम्पन्नमाचार्यं वरेयेद्भुधः॥ 5
– वर्जनायाचार्य लक्षणम् –
पत्न्य पत्यादि रहितं कालदन्त विहीनकम्
दुष्पधज्ञं वपुर्हनं व्याघ्राक्षन्तु तधैव च 6
( दुर्गन्थास्ययुतं तधा )
बधिरोन्मादिन ञ्चैव कुष्टापस्मारकैर्युतम्
बिडालाक्षरं वक्रदन्तं कपिलाक्षोग्रवीक्षणम्॥ 7
रक्तकेशी च पुष्पाक्ष मजं चास्पमितो मितं (?)
( कृष्णरूपाति वृद्ध ञ्च न च लाङ्गारहीनकम् ॥ ) 8
(दंशिनं विदलिन ञ्च वक्राङ्गादियुतं तथा )
स्त्री लिङ्गनाम पूर्व न्तु विरजो वीक्षमायुतम (?)
शिपिविष्ट ञ्च षण्ड ञ्च चण्डालं गुरुनिन्दकम्॥ 9
एवं गुण ञ्च, सत्यज्य लक्षणोक्त न्तु आह्वयेत्
कर्मेदम्मे कुरुष्वेति याचेदाचार्य मादरेत्॥ 10
पुनस्स्नात्वा, विधानेन दन्तधावन पूर्वकम्
नित्यकर्म समाप्त्वैव सूक्तानध्ययनं चरेत्॥ 11
यथोक्तदिव सात्पूर्वमङ्कुरं तत्र चार्पयेत्
अङ्कुरार्पण कादूर्ध्व मारम्भदिवसादथः॥ 12
कूष्णाण्ड होमबाजग्नौ कारयेद्गुरुरत्वरः
शुद्धदन्त नखश्चैव धृतवस्त्रोत्तरीयकः॥ 13
त्रिषवण स्नानपूर्व न्तु हविष्या शीजितेन्द्रियः
एवं क्रमाच्चरेद्विद्वा नृत्विग्भिस्सार्ध माचरेत्॥ 14
एवं कृत्वा विशेषज्ञं कायशुध्यर्थ माचरेत्
– द्रव्य सङ्ग्रहणम् –
अतः परम प्रवक्ष्यामि द्रव्याणां सङ्ग्रहक्रमम्॥ 15
अरणिं सृक्सृव ञ्चैव जुहुञ्चोप भृतं तथा
अष्टमङ्गल दर्व्यै च तोरणान्चि यथा क्रमम्॥ 16
– तोरणाद्य लङ्काराणि –
न्यग्रोथप्लक्ष चाश्वत्थः पितृवृक्ष युतं तथा
तोरणार्थं समाहृत्य लक्षणं वक्ष्यते मया॥ 17
पादायाम समंवापि विस्तृतंतत्र्ति हस्तकम्
तन्तध्येऽरत्निमात्रेण पूर्णकुम्भाकृतीकृतम्॥ 18
दर्पणाकावच्चैव पद्मस्समुकुलाकृतिः
शङ्ख चक्राकृति ञ्चैव शूलाकार मथापि वा॥ 19
तार्क्ष्यरूपाकृति ञ्चैव वायुसून्वा कृति स्तथा
एवन्तुतोरणं कुर्यात्र्कमाद्वेदस्य सङ्ख्यया॥ 20
अथवा पञ्च हस्त ञ्च त्रिहस्तं तीर्घमेव वा
तदर्धं विस्तृतं ञ्चैव तोरणानि च कारयेत्॥ 21
अलङ्कारस्तोरणाश्च ग्रामादिषु विशेषतः
वेणुं वाक्रमुकंवापि समाहृत्य प्रयत्नतः॥ 22
पूर्वोक्तेन क्रमेणैव यधा शोभस्तधाचरेत्
अन्यैश्चक्षीर वृक्षैश्च तोरणान्येव कारयेत्॥ 23
तोरणाद्यलङ्कारे च किञ्चिद्धीने न दोषभाक्
अथाष्टमङ्गलादीनि द्वितालायाममेव च॥ 24
प्रादेश विस्तृत ञ्चैव षडङ्गुल मधापि वा
घन ञ्च चतुरङ्गुल्यं ध्व्यङ्गुलं वापिकारयेत्॥ 25
तस्य मध्ये लिखेद्विद्वान्रूपं तस्य पृथक्पृथक्ः
– अष्टमङ्गलानि –
आवर्तं शङ्खभेर्यौच मत्स्ययुग्माङ्कुशं तथा॥ 26
पूर्णकुम्भं ञ्च आदर्शं श्रीवत्सादीनि लेखयेत्
– सृक्सृवादि लक्षणं –
सृवदण्डस्य चायमं द्विः प्रादेश समन्वितम्॥ 27
नाहं दण्डस्य चायामं अनुपूर्व्य क्रमात्कृशम्
तदग्रेबिल्वफलका प्रादेशं नाहमुच्यते॥ 28
द्वियङ्गुलं तस्यचास्यं निम्नं माषद्वयं क्रमात्
एवं सृव ञ्च कुर्वीत कारयेद्धेशिकोत्तमः॥ 29
– जुहू –
जुहुदण्डस्य चायमं चतुर्विंशतिकाङ्गुलम्
नाहं तदर्धमित्युक्तं पद्मस्य मुकुलोपमम्॥ 30
षडङ्गुल न्तु तस्याग्रं नाहं तस्य विचक्षणः
युगाङ्गुलाग्र विस्तार मष्टाङ्गुलम धायतम्॥ 31
शेषं त्रिय श्रमित्यक्तं विस्तृतोन्नतमङ्गुलम्
मध्येगर्तानु पूर्व्येण जुह्वाश्चैव क्रमं विधुः॥ 32
– उपजुहू –
उपजुह्वा यतं पश्चाद्यम द्वयमुदाहृतम्
तदर्धं नाहमित्युक्तं मूलादग्रं तदर्थकम्॥ 33
अनुपूर्व्यात्कृशन्दण्डं गलान्तमिति संज्ञितम्
ऊर्ध्वं प्रदेशमायामं चतुरश्रं षडङ्गुलम्॥ 34
तदर्धं विसृतं कुर्याच्छेषमग्रं त्रियश्रकम्
उन्नतं चाङ्गुलार्थंस्या द्भित्युच्छ्रय मितिस्मृतम्॥ 35
ओष्टमेकाङ्गुलं ज्ञात्वा तन्मध्ये निम्नामाचरेत्
पूर्णचन्द्राकृतिं कृत्वा प्रदेशं तस्य नाहकम्॥ 36
निम्नञ्चतुर्यवागाढ मग्रान्त न्तु क्रमाद्बुधः
– दर्वी ! –
अध दर्व्याश्च चायामं चतुर्विंशतिकाङ्गुलम्॥ 37
षडङ्गुलंस्या द्विस्तारं पादं पञ्चाङ्गुलं भवेत्
शेषं त्रयोदशाङ्गुल्यं दण्डमित्युच्यते बुधैः॥ 38
– दर्भमाला । –
दर्भरज्जु क्रमं वक्ष्ये यग्मं दर्बन्तु योजयेत्
पूर्वं प्रति विशेषण लम्बमानं द्वितालकम्॥ 39
एव न्तु दर्बमाला ञ्च कृत्वा दद्देशिकोत्तमः
– मन्धदण्डम् –
शमीखदिरबिल्वानां सारं, सङ्गृह्य, बुद्दिमान्॥ 40
द्विताल मात्रमायामं षोडशाश्रं समन्ततः
एकाङ्गुल शिखायुक्तं मूलादग्रन्तु, बन्धयेत्॥ 41
ताम्रमायसपट्टैर्वा बन्धयित्वा विचक्षणः
तन्मूले सुषिरं कृत्वा गोलकं तत्प्रमाणकम्॥ 42
एवन्तु, मन्धदण्डंस्या त्कृत्वातच्छास्त्र पारगः
– अरणी –
शमीजत ञ्च अश्वत्थ मरण्यार्धं प्रगृह्य च॥ 43
त्वगादीनां व्यपोह्यैव शोषयित्वा विचक्षणः
षडङ्गुलन्तु विस्तारं गोलकं तद्घनं भवेत्॥ 44
एव न्तु फलकां कृत्वा दीर्घं तस्य द्वितालकम्
– ऊर्धपट्टी –
तथैवोपरिपट्टि ञ्च कृत्वा तद्देशिकोत्तमः॥ 45
फलकाग्रद्वयं कुर्यात्प्रादेशं नाहमुच्यते
एवं कृत्वात्वरण्योश्च शिल्पिना सर्वमाचरेत्॥ 46
हीनाधिक्यं न कुर्वात पात्रमेतस्यलक्षणम्
– वस्त्रलक्षणम् –
द्वादशाष्टनिभैर्हस्तै स्यायतमुच्यते॥ 47
दशसप्तायतं कुर्या दथवा कारयेद्भुधः
त्रिचतुः पञ्चतालं वा विस्तृतं वस्त्रमुच्यते॥ 48
– आज्य लक्षणम् । –
होमार्धं गव्यमादाय कपिलाद्यङ्गवाम पि
अजस्यमाहिषन्त्यक्त्वा पक्षातीतन्तु वर्जयेत्॥ 49
अन्यदेवस्य लेख्यादि गवान्तत्र विशेषतः (?)
प्रतिलोमान्त्य जातिश्च गन्याद्यादीनि वर्जयेत्॥ 50
– समित्परिध्यादीनि श्रीसूत्रोक्तवदिति । –
समित्परिधिकूर्च ञ्च परिस्तरणमेव च
अज्यस्थाल्युपपात्रन्तु सूत्रोक्तविधि नाहरेत्॥ 51
– यागशालाञ्च लक्षणम् –
अथवक्ष्ये विशेषेण यागशाला ञ्च लक्षणम्
षाडशस्तम्भ संयुक्तं गुणपज्ति युतं तथा॥ 52
विस्तृतायाममिद्दिष्टं समं तत्र प्रकल्पयेत्
प्रमुखे तत्र सोपानं प्रतिद्वारं प्रकल्पयेत्॥ 53
उच्छ्रयं तत्कपोतान्तं पाविकान्तं समुच्यते
प्रासादाद्दण्डमानेन दीर्घं निश्चित्ययत्नतः॥ 54
प्रपां वा तत्र कुर्वीत कूटं वा वर्षवारणम्
एवं सङ्कल्प्य तन्मध्ये निम्नेन्नत विविर्जितम्॥ 55
तृणशल्यन्यपोह्यैव भूमिं तत्र प्रकल्पयेत्
स्तम्भान्तरं प्रकुर्वीत चतुर्हस्तान्तरं क्रमात्॥ 56
एवं सङ्कल्प्य तन्मध्ये सूत्रस्य पदमाचरेत्
पूर्वान्तमुत्तरान्त ञ्च वायुसूत्रं प्रसारयेत्॥ 57
एवं कृते तु तत्कोष्ट मे काशीतिस्तु सङ्ख्यया
मध्ये नवपदं विष्णोश्शय्यास्थानं प्रकल्पयेत्॥ 58
तस्य वेद्यास्तु परितः सर्वदेवार्चनार्धकम्
तद्बहिः पूर्वभागेषु सभ्यकुण्डं प्रकल्पयेत्॥ 59
– सभ्यादि अग्निगुण्डक्रमः –
सभ्यस्य पूर्वभागेत्वा वहनीयं प्रकल्पयेत्
सभ्यस्य दक्षिणेभागे पौण्डरीकं, प्रकल्पयेत्
सभ्यस्य दक्षिणेभागे पौण्डरीकं, प्रकल्पयेत्॥ 60
वेद्यास्तु दक्षिणे कुर्यादन्वाहार्वं प्रकल्पयेत्
नैर् ऋत्यां देवतास्थानं कल्पयेत् विचक्षणः॥ 61
वेद्यास्तु पश्चिमेभागे गार्हपत्यं प्रकल्पयेत्
वायव्ये सञ्चयस्थानं कल्पयेद्देशिकोत्तमः॥ 62
वेद्यास्तु चोत्तरेभागे अवसत्थ्यं प्रकल्पयेत्
ईशान्ये स्नपनश्वभ्रं कल्पयेत् विचक्षणः॥ 63
एवमेव क्रमेणेव यागशालादि लक्षणम्
– कुण्ड लक्षणम् –
अत ऊर्ध्वं प्रवक्ष्यामि सभ्यादीनां पृथक्पृथक्॥ 64
सभ्यस्य पौण्डरीकस्य मे खलात्रयमुच्यते
अन्यत्सर्वेषुकुण्डेषु मे खलाद्वयमुच्यते॥ 65
सभ्यस्याहनीयस्य चतुरश्रं प्रकल्पयेत्
पद्मस्यगार्हपत्यस्य वृत्त मे तदुदाहृतम्॥ 66
अवसत्थ्यस्य कुण्डस्य त्रयश्रन्तुसमुच्यते
द्वितालस्योच्छ्रयं कुर्या च्छय्यावेदिं प्रकल्पयेत्॥ 67
बिम्बस्यार्थ प्रमाणेन कारयेदितिकेचन
शयनाद्दक्षिणे वाध सभ्यकुण्डं प्रकल्पयेत्॥ 68
वस्वङ्गुलं चतुः घ्नुन्तु ऊर्थ्ववेदिं चतुर्दिशम्
वेदाङ्गुल न्तु विस्तारं द्व्यङ्गुलोन्नमेव च॥ 69
अधोवेद्यास्तु परित श्चतुरङ्गुल सम्मितम्
तद्विस्तारोन्नत ञ्चैव कुण्डमाहवनीयकम्॥ 70
षडङ्गुलन्तु तन्मध्ये निम्नं तस्य प्रमाणकम्
औपासनाग्नि कुण्ड ञ्च तत्क्रमेणैव कारयेत्॥ 71
तद्द्य्वङ्गुलोर्ध्वे कर्तव्यं यगसङ्ख्यायवैर्युतम्
त्रिंशदङ्गुल सूत्रेण भ्रामयित्वा विचक्षणः॥ 72
व्यपोह्यैवोत्तरे तत्र वृत्तार्थस्य प्रकल्पयेत्
धनुराकृतिवत्कृत्वा द्विवेदि सहितं क्रमात्॥ 73
युगाङ्गुलोन्नतं प्रोक्तं विस्तारन्तु तधैव च
एतैस्तु चान्वाहार्यस्य कल्पयित्वा समाहितः॥ 74
तद्वन्निम्नुन्तु मध्ये च वस्वङ्गुल मितिस्मृतम्
नवद्वयूङ्गुलं भ्रात्वा वज्र बीजाकृति कृतम्॥ 75
गार्हपत्यस्य विज्ञेयं द्विमेखलमितिस्मृतम्
विस्तारं चेन्नत ञ्चैव पुरुषादीनि सङ्ख्याया॥ 76
अन्वाहार्योक्तवन्निम्नं कृत्वाग्नौगार्हपत्यके
वस्वङ्गुलं रसघ्न न्तु एतैष्टड्भिर्य वैर्युतम्॥ 77
रुजात्वेकं तदूर्थ्वे तु त्रिकोणाकृतिरुच्यते
दक्षिणाद्युत्तरान्तादि पूर्वाग्र न्तु प्रकल्पयेत्॥ 78
द्विवेदि सहितं कुर्यादन्वाहार्योक्त वत्कृतम्
गार्हपत्योक्तवन्निम्नं मध्ये तस्य विचक्षणः॥ 79
एवं कृत्वा तु शुद्धत्मा आवसत्थ्यं प्रकल्पयेत्
वेदाङ्गुलं रसघ्न न्तु ऊर्थ्ववे दिञ्चतुर्दिशम्॥ 80
त्रिमेखलस्य सभ्यस्य द्वादशाङ्गुलमुन्नतम्
मध्यवेद्यास्तु विस्तारं विष्ण्वादित्याङ्गुलं भवेत्॥ 81
अन्यद्विमेखलं प्रोक्तं पुरुषादीनि सङ्ख्याया
विस्तारस्योन्नतं कुर्यात्सभ्यमेवं, प्रकल्पयेत्॥ 82
मध्येगर्तं प्रकुर्वात द्वादशाङ्गुलमुच्यते
मध्ये पञ्चाङ्गुलंवेदि विस्तारादितिकेचन॥ 83
कुण्ड मध्ये चतुर्विं शत्यङ्गुलान्तमिति स्मृतम्
कुण्डं श्राणणक ञ्चैव कल्पयेत्सभ्यवद्बुधः॥ 84
अहवनी योक्तवद्वे द्विमेखलमितिस्मृतम्
शय्यावेद्यास्तु चाग्नेयां पौण्डरीकं प्रकल्पयेत्॥ 85
धृत्यङ्गुलिभिरध्यर्धे भ्रमीकृत्य प्रयत्नतः
समवृत्तं तदूर्ध्वन्तु एकाङ्गुलमुदाहृतम्॥ 86
अधोवेद्यास्तु विस्तारं षडङ्गुलमिति स्मृतम्
वेदाङ्गुलोन्नतं प्रोक्तं कलाख्यं तद्दलैर्युतम्॥ 87
मध्यवेद्यास्तु, विस्तार मुन्नतं यगसङ्ख्यया
ऊर्ध्व वेद्यास्तु, विस्तारं युगाङ्गुल मितिस्मृतम्॥ 88
उन्नत ञ्च द्विगोलंस्यात्कारये द्देशिकोत्तमाः
मध्येनिम्नं ञ्च कर्तव्यं सभ्यस्यैवाग्निकुण्डवत्॥ 89
– स्नानगर्तम् –
श्रभ्रं कृत्वा तथैशान्ये द्विमेखलमितिस्मृतम्
मे खलोन्नत विस्तारं युगाङ्गुलमितिस्मृतम्॥ 90
उत्तरे जलमार्ग न्तु कारयेत्तु समाहितः
त्रिषु हस्तस्य विस्तारं विस्ताराद्द्विगुणायतम्॥ 91
एवं श्वभ्रं प्रकुर्वीत इतिशास्त्रस्यचोदितम्
शल्यभस्मतुषाङ्गर लोष्टादीनि च वर्जयेत्॥ 92
मृदा च वालुकाभिर्वा पृधक्कुण्डान्प्र कल्पयेत्
– नयनोन्मीलनम् –
अध वक्ष्ये विशेषेण नयनोन्मीलन क्रमम्॥ 93
उक्तक्रियाव साने तु बेरमादाय चात्वरः
गौतमीयोक्त मार्गेण शिल्पिनाचाक्षिमोचनम्॥ 94
आलयात्प्रमुखेकु र्याद्दक्षिणे वाग्निकोणके
ईशान्यां वा प्रकुर्वात कारयेद्यागमन्दिरम्॥ 95
प्रोक्ष्योपलिप्यतत्पश्चात्पैष्ट्या भूमिरलङ्कृतम्
देवस्य प्रमुखेकुर्या द्धान्यराश्यादि नाहरेत्॥ 96
हैमशृङ्गां रौप्यखुरां कांश्यदोहनकैर्युताम्
सवत्साङ्गां सुसंस्थाप्य वस्त्रयुग्मयुतां क्रमात्॥ 97
– समन्त्रकाक्षि मोचनम् –
आज्यं मधुदधिक्षीरं तिलतण्डलमेव च
पृथक्पात्रेप्रपूर्यैव गृहीत्वात्र निधाय च॥ 98
हुलिकान्ताडनी ञ्चैव रौप्येणैव कृतांहरेत्
हैमे न कृत सूचिभ्यां राजतैर्वापि चाहरेत्॥ 99
वास्तुहोमाङ्गहोमार्धं स्थण्डिलं कल्पयेत्पृधक्
आघारं विधिवत्कृत्वा परिषिच्य च पावकम्॥ 100
वास्तुहोमं कृतं पूर्वं पर्यग्निं चात्रकारयेत्
प्रोक्ष यित्वा तु मन्त्रज्ञः पुनश्चैवाक्षिमोचनम्॥ 101
देवस्याभिमुखे चैव प्रच्छन्न पटमास्तरेत्
उत्तराभिमखोभूत्वा देवशुद्धि ञ्च कारयेत्॥ 102
शिल्पि स्पर्श विशुद्ध्यर्धं प्रोक्षये द्देशिकोत्तमः
हुलिकान्ताडनीं पश्चाद्गृहीत्वा मन्त्रपूर्वकम्॥ 103
विष्णुस्त्वां रक्ष इत्युक्त्वा स्वस्तिसूक्तं समुच्चरन्
पटस्य चान्तर्देवस्य मूर्ध्नादीन्स्पर्श येद्बुधः॥ 204
विष्णुगायत्रीमुच्चार्य तेन कर्म समाचरेत्
देवीभ्यां सहितं कुर्या त्तत्तन्मन्त्रं जपेत्पृशन्॥ 205
पश्चात्पात्रन्तु सूची ञ्च गृहीत्वा चाक्षिमोचनम्
षण्मण्डलानि संस्मृत्वा अधिदेव पुरस्सरम्॥ 206
महाभूतं परात्मेति देवमेतत्क्रमं विधुः
पक्ष ञ्च रक्तवर्ण ञ्च श्वेतं कृष्ण ञ्च तेजसम्॥ 207
एतैस्तुमण्डलं ध्यात्वा धृडी कृत्वात्वरः क्रमात्
अर्क ञ्च राहुसौराणां हित्वातस्योदयं बुधः॥ 208
द्विलोचने सुनक्षत्रे कृत्वा चैवाक्षिमोचनम्
एकाक्ष्यामन्दके चैव न कुर्यादितिशाशनम्॥ 209
पुरुषसूक्तं जपित्वैव दक्षिणे नयनेन्यसेत्
तधैव, वामनेत्रन्तु सूक्तमेकाक्षरं जपेत्॥ 210
हिरण्यवर्णामित्युक्त्वा पवित्रीं चाक्षिमोचनम्
भूसूक्त ञ्च ततोजपत्वा पौष्णी ञ्चैव क्षिमोचनम्॥ 211
देवस्याङ्गं स्पृशन् हुत्वा मौलिमालादि पूर्वकम्
तधादेव्यौ च हुत्वा तु दद्भ्य स्वाहेति वा पृथक्॥ 212
विमान ञ्च नव ञ्चैव स्तूप्यादीनियजेत्क्रमात्
वैष्णवं विष्णु सूक्त ञ्च धातादि ञ्च सुहूयताम्॥ 213
स्विष्टाकारं ततोहुत्वा गव्यादीन्प्रोक्षयेद्गुरुः
गोदानसूक्तमुच्चार्य गवादीनिस्पृ शेमात्॥ 214
पश्चात्पटं विसृज्यैव गवाद्यादीन्प्रदर्शयेत्
गवाद्यादीनि द्रव्याणि आचार्याय प्रदीयताम्॥ 215
कृत्वा चैवाक्षिमोच ञ्च अधिवास त्रयात्परं (त्रयम्परं )
मन्त्रेण प्रोक्षयेन्नेत्रे शयने शाययेद्दरिम्॥ 216
आवाह्यकृतमन्त्रज्ञः कारयेदितिकेचन
नवकौ तु कबिम्चादि तधान्यत्र विशेषतः॥ 217
– पीठसङ्घातम् –
पूर्वोक्ते नैव मार्गेण बेरादीन्प्रोक्षयेद्बुधः
पीठं बेर ञ्च सङ्घट्य नवरत्नानि विन्यसेत्॥ 118
रत्नानि धातुबीजानि सुवर्णं तत्र चार्पयेत्
पीठमध्ये विशेषेण नवभागं प्रकल्पयेत्॥ 119
धान्यवेद्यो परिस्थाप्य ब्रह्मदीन्सम्यगर्चयेत्
पुष्पान्व्यपोह्य तत्पश्चाद्भूः प्रपद्येतिचोच्चरन्॥ 120
– पीठेरत्नन्यासानि ।–
देवमादाय तत्पश्चा त्पीठमध्ये निधाय च
विष्णोर्नुकादि मन्त्रेण मध्यसूत्रे प्रसार्य च॥ 121
पूर्वान्तमुत्तरान्तन्तु सूत्रां सङ्क्रम्य सर्व च
तमेकनेमि मित्युक्त्वा गज न्तत्रैव निक्षिपेत्॥ 122
शतधारमितिमन्त्रेण तार्क्ष्यरूपं प्रतिष्टितम्
ब्रह्मदेवानितीत्युक्त्वा ब्रह्मरत्नं सुनिक्षिपेत्॥ 123
इन्द्रं प्रणवन्तमित्युक्त्वा वज्ररत्न न्तु निक्षिपेत्
अग्नावग्निरित्युक्त्वा मौक्तिकं तत्र निक्षिपेत्॥ 124
यमोदाधार इत्युक्त्वा वैडूर्यं तत्र निक्षिपेत्
वसवः प्रधमोच्चार्य शङ्खजं तत्र निक्षिपेत्॥ 125
यते शतेति मन्त्रेण स्पाटिकं तत्र निक्षिपेत्
मरुतः परमात्मेति पुष्यकं तत्र चार्पयेत्॥ 126
सोमगं राजानमित्युक्त्वा चन्द्रकान्तमणि क्षिपेत्
ईशानस्सर्व इत्युक्त्वा नीलरत्न न्तु निक्षिपेत्॥ 127
पुनश्चवासुकीत्यादि क्रमात्थ्पानं प्रकल्पयेत्
ईशानेन्द्रयोर्मध्ये वासुकिं तत्र पूजयेत्॥ 128
शन्नो निधत्तामित्युक्त्वा अर्पयेदमृताश्मकम्
इन्द्र पावकयोर्मध्ये साध्यस्थानं प्रकल्पयेत्॥ 129
धाताधातृणामित्युक्त्वा लोहिताश्ममणिं क्षिपेत्
यमपावकयोर्मध्ये विश्वेदेवस्य कल्पयेत्॥ 130
विश्वेदेवस्य चोच्चार्य उत्पलाख्य मणिं क्षिपेत्
यम नैऋत योर्मध्ये सिद्धस्थानं प्रकल्पयेत्॥ 131
अधिब्रह्मेति मन्त्रेण प्रवालं तत्र निक्षिपेत्
वरुण नैऋत योर्मध्ये गन्धर्वेभ्यः प्रकल्पयेत्॥ 132
इमामूर्थन्यमित्युक्त्वा मनश्शिलां तत्र चार्पयेत्
वारुणा निलयोर्मध्ये स्तानं तस्याप्सरस्य तु॥ 133
अप्परस्वित मन्त्रेण शुक्तिजं तत्र निक्षिपेत्
वायव्य सोमयोर्मध्ये नागस्थानं प्रकल्पयेत्॥ 134
यं काद्रवेति मन्त्रेण विमल ञ्च मणिं न्यसेत्
सोम ईशानयोर्मध्ये भूतस्थानं प्रकल्पयेत्॥ 135
तत्र्रीण्येषेतिमन्त्रेण कुरुविन्दमणिं क्षिपेत्
ब्रह्मदीशान पर्यन्तं क्षिप्त्याधाधून्यधा क्रमम्॥ 136
सौवर्णं गौरिक ञ्चैव हरितालं मनश्शिलां
तधैवा ज्ञनं श्यामं काशींसं पारदं पुनः॥ 137
गोरोचन ञ्च सौराष्टं एते धातून्न्यसेत्क्रमात्
तदूर्ध्ये सर्वबीजानि गन्धयुक्त न्तु निक्षिपेत्॥ 138
षष्टि हीनैन्द्रे तु कुलुत्थमाषौत्वाग्नेये
याम्ये च मुद्गगौधूमौ तिलं नैऋत एव च॥ 139
वारुण्यान्तुय वैस्सर्वैर्नीवारैश्च प्रियङ्गुभिः
वायुस्थाने तु सन्यस्य मुद्गगौधूम धान्यकौ 140
सौमस्थाने तु गौदूमाः सर्वबीजास्त्रिनेत्रके
तथैव सर्वबीजांश्च ब्रह्म स्थाने तु सन्यसेत्॥ 141
ब्रह्मधीशान पर्यन्तं सर्वबीजान्न सेत्क्रमात्
एवं क्रमेण सर्वत धातुबीजानि निक्षिपेत्॥ 142
पूर्वोक्ते नैव मन्त्रेण स्धानं प्रतिसमुच्चरन्
पश्चात्सर्वत्र निर्वाप्य मन्त्रद्रव्यमिहोच्यते॥ 143
भूयात्मवृत्त्या इत्युक्त्वा नमस्सुलोमि कध्यते
स विकोभूतित्युच्चार्य देवस्य त्वेत्यधोच्चरन्॥ 144
अतोदेवादिषण्मन्त्रैः क्ष्मामेकामिति चोच्चरन्
तन्मायुशेति मन्त्रेण ब्रह्मदेवा इतिब्रवन्॥ 145
बूमानन्तोग्रमन्त्रेण तन्मायश इतिब्रुवन्
प्रजापतिः प्रथमेत्युक्त्वा विष्णुगायत्रिमुच्चरन्॥ 146
उदुत्यं चित्रमित्युक्त्वा इदं विष्णुरितिब्रुवन्
श्रीवत्सं पूर्णकुम्भ ञ्च भेरीमादर्शनं तथा॥ 147
मत्स्य युग्माङ्कुशे चैव शङ्खमावर्तकैर्युतम्
गदां शक्तिं शर ञ्चैव शार्ङ्गं खेटकमेव च॥ 148
कूर्मरूप ञ्च संन्यस्य उक्तमन्त्रानु पूर्वकम्
जहूमुपभृत ञ्चैव सृक्सृवं तत्र चार्पयेत्॥ 149
हैमेन ब्राह्मणार्थाय न्यसित्वा देशिकात्तमाः
नृपराष्ट्र समृर्ध्यर्धं हयनागरथ ध्वजम्॥ 150
क्षिप्त्वातत्रैव मन्त्रज्ञो विष्णुगायत्रि मुच्चरन्
तुलारूप ञ्च निक्षिप्य वैश्यानामभिवृद्धिये॥ 151
इदं विष्मुरितिप्रोच्य तत्तद्द्रव्यं क्षिपेद्बुधः
युगंहलं प्रतोदञ्च निक्षिपेच्छूद्रवृद्धये॥ 152
रौप्यैनैव कृतं सर्वं विष्णुगायत्रिमुच्चरन्
एवमेव क्रमेणैव रत्नन्यासक्रमं विदुः॥ 153
– पीठसङ्घट्टनम् –
पश्चाद्देवं समुधृत्य पीठस्योपरि विन्यसेत्
विष्णुसूक्तं समुचार्य शिल्पिना सहकारयेत्॥ 154
– दृष्टि लक्षणम् तत्फल विचारम् देव्यादीनां विक्षणम् –
ऊर्ध्वाधश्चैव संवीक्ष्य भयं तस्य धनक्षयं
कटाक्षे मरण ञ्चात्र समदृष्टिः शुभं भवेत्॥ 155
किञ्चिदीशान्यमाश्रित्य पूर्वद्वारस्य देवताः
दक्षिणाभिमुखेदेवीं किञ्चिन्नैऋतमाश्रिते॥ 156
तथैव पश्चिमे कुर्यात्किञ्चिद्वाय व्यमीक्षितम्
उत्तराभिमुखेदेवी किञ्चिदीशान्यमीक्षणम्॥ 157
एवं संवीक्ष्य मतिमान् सन्ताद्यैव, धृढीकृतम्
धृवबेरोक्त, वत्कृत्वा कौतुकाद्यक्षिमोचनम्॥ 158
पशात्तदधि वासादीन् कृत्वातन्मन्त्र पारगः
–अधिवासत्रयम् –
अथवक्ष्ये विशेषेण त्रिधाचैवाधि वासनम्॥ 159
पञ्चागव्य न्तु पूर्वं स्यात् क्षीरं चैवाप्यनन्तरं
जलेनाप्यधिवास ञ्च त्रिधा चैव प्रचोदितम्॥ 160
– पञ्चागव्याधिवासम् –
गोमूत्रं गोमयं क्षीरं दधिसर्पिः चलैर्युतम्
शुक्रमसीति मन्त्रेण दधिक्रावण्णेत्युच्चरन्॥ 161
आप्याय स्वेत्यधोच्चार्य गन्धद्वारेति सोच्चरन्
गायत्रिया क्रमेणैव गोमूत्रादी नियोजयेत्॥ 162
जलं कुम्भैः प्रपूर्यैव धान्योपरि च विन्यसेत्
प्रमुखेचोत्तरे चैव द्रुमद्रोणीं प्रकल्पयेत्॥ 163
बिम्बाध्यर्ध प्रमाणेन बिम्बदघ्नावटैर्युतम्
गर्तं चैवात्रकुर्वात संशोध्यैव विचक्षणः॥ 164
बिल्व ञ्च तुलसीपद्म उत्पलाद्यादि निक्षिपेत्
वितानाद्यैरंलकृत्य साधितादीनि पूरयेत्॥ 165
वसोः पवित्रमुच्चार्य उक्तद्रव्यं प्रपूरयेत्
तस्यावटस्य रक्षार्थं नीललोहितमर्चयेत्॥ 166
पञ्चवस्त्राणि चास्तीर्य तन्मध्येवावटान्तरे
अवटस्य पश्चिमे तु स्थाण्डिलं परिकल्पयेत्॥ 167
महानसाग्निमादाय विधिनाघारमाचरेत्
अवटस्योत्तरे कुर्याद्देवमानीय चात्वरः॥ 168
सप्तभिः कलशैस्स्नाप्य दीपान्तं सम्यगर्चयेत्
सूत्रोक्तेन विधानेन पुण्याहमपि वाचयेत्॥ 169
नववस्त्रेण सञ्च्चाद्य चित्र कक्ष्यादिनाकृतम्
पश्चाद्दीपं समानीय विष्णुसूक्तं समुच्चरन्॥ 170
प्राक्चिरस्तत्रशयन मनन्तस्योपरिस्मरेत्
उत्तराच्छादनं कृत्वा पश्चाद्धोमं समाचरेत्॥ 171
– अधिवासहोमम् –
प्रज्वाल्याग्निं परिस्तीर्य व्याहृत्यादीनि पूर्वकम्
विष्णवे विश्वेशाय जनार्दनायचलाय च॥ 172
अव्यक्तायाचलायापि देवेभ्यश्च सहुयताम्
देवेभ्यो महाभूतेभ्योऽव्यक्तेभ्यश्च सहुयाताम्॥ 173
नागेभ्यो लोकपालेभ्यो व्याहुत्यन्तं सहुयताम्
वैष्णवं ब्राह्मंरौद्र ञ्च प्राजापत्यं सवारुणम्॥ 174
वैघ्न ञ्च गारुड ञअचैव शान्तं दग्दैवतं पुनः
स्विष्टाकारं ततो हुत्वा नित्यकर्म समाचरेत्॥ 175
अग्नि विसृज्यतत्काले बलिं तत्रैव निक्षिपेत्
मौद्गिकान्नं समादाय चोत्सवोक्त विधानतः॥ 176
बलिं दद्यात्तु मन्त्रज्ञो रात्रिशेषं नयेत्क्रमात्
स्नात्वादेवं समुद्दृत पूर्ववत्कल शोधकैः॥ 177
स्नात्वादेवमलङ्कृत्य दीपान्तं तत्र चार्चयेत्
पश्चादस्यावटं शोद्य आहतं वस्त्र मर्पयेत्॥ 178
– क्षीराधिवासम् –
शन्नो देवीरभात्युक्त्वा क्षीरेणापूर्य बुद्धिमान्
अधर्वाणं समभ्यर्च्य अधि दैवमिति स्मृतम्॥ 179
नन्द्यावर्त द्वय ञ्चैव तुलसी स्थलपङ्कजम्॥
अन्यैश्च पुण्य पुष्पैश्च क्षीरे चै वात्र निक्षिपेत्॥ 180
क्षीरं क्षीरोदधि स्मृत्वा देवेशं तत्र शाययेत्
पूर्वोक्तेन विधानेन बलिहोमादि नाचरेत्॥ 181
रात्रिं व्यपोह्यतत्पश्चाद्देवमुद्धृत्य पूर्ववत्
कलशैस्तत्र संस्नाप्य अलङ्कृत्वार्चयेत्क्रमात्॥ 182
–जलाधिवासम् –
नदी सरिद्ध्रद ञ्चैव तटाके वाधकारयेत्
समुद्रेवाधिवास्यैव इति पूर्वज शाशनम्॥ 183
प्राप ञ्चैवत्र कुर्वीत वितानाद्यैरलङ्कृतम्
तत्तीरे देवमानीय पावकं तत्र कल्पयेत्॥ 184
वैष्णव ञ्च ततोहुत्वा पायसं सघृतैर्युतम्
उदुत्यं मन्त्रमुच्छार्य हुत्वा तद्दैशिकोत्तमः॥ 185
योगीश्वराय मन्त्रेण शेषपर्यङ्कशायिने
शब्दब्रह्मेति मन्त्रेण समुद्रेभ्यस्तधैवच॥ 186
पर्वतेभ्यश्च देवोभ्यो ऋषिभ्यश्चतधैव च
पितृभ्यश्चैव नागेभ्यः सर्वभूतेभ्य एव च
एतैर्मन्त्रैस्समुच्छार्य हुत्वातच्छास्त्रपारगकः॥ 187
इतमापश्चवेत्युक्त्वा तज्जलञ्चाभि मन्त्रयेत्
पुण्याहमपि संवाच्य ब्रह्मघोषण पूर्वकम्॥ 188
पुण्यातीर्थं शिंवं पुण्यं देवावसमिति स्मृतम्
एतैर्मूर्तिभिरावाह्य अर्घ्यान्त ञ्चैव चार्चयेत्॥ 189
पश्चात्तत्पञ्चवस्त्राणि चास्तरेन्मन्त्र पारगः
देवेशं समलङ्कृत्व अर्चयित्वा समाहितः॥ 190
विष्णु सूक्तं समुच्चार्य वैष्णवं सूक्तमुच्चरन्
जलेदेवं समानीय प्राक्चिरस्तत्र शाययेत्॥ 191
देवस्य परितोऽभ्यर्च्य पुरुषादीन्यथा क्रमम्
न्यक्षं विविस्वानभ्यर्च्य मित्र ञ्चैव महीधरम्॥ 192
धर्मं ज्ञान ञ्च वैराग्यं ऐश्वर्यं प्रथमे न्यसेत्
तद्बहिश्चैवचाभ्यर्च्य चक्रं शङ्खं तधैव च॥ 193
गदा पद्मयुत ञ्चैव खड्गं मुसलमेव च
धनुश्चवनमाल ञ्च द्वितीयवरणेर्चयेत्॥ 194
तद्भहिश्चैव चेन्द्रादी नर्चयित्वाष्टविग्रहैः
देवस्य परितोभ्यर्च्य शेषं तत्रैव चार्चयेत्॥ 195
विप्तैस्सर्व जनार्भक्तै रन्यैर्वापि जनैरपि
तत्कालेऽभ्युक्षणं यत्तत्सर्व पापं व्यपोहति॥ 196
इष्टान्कामानवाप्नोति सायुज्यं पदमश्नुते
तस्मात्सर्व प्रयत्नेन तज्जले नैव मार्जयेत्॥ 197
नित्यकर्म समाप्यैव पशाचादग्निं परिस्तरेत्
धातादिपञ्चा वारुण्यं मूलहोमं सुहूयताम्॥ 198
स्विष्टाकार ञ्च हुत्वैव तमग्नं संव्यपोह्य च
तद्रात्रौ च समासाद्य बलिं सर्वत्र चार्पयेत्॥ 199
उत्सवोक्त क्रमेणैव राजवीध्यादिनाचरेत्
महावीधीषु वीधीषु नाचरेत्तत्र निर्गमे॥ 200
– प्रभूत बलिक्रमविधिः–
चैत्यस्थाने प्रापाय ञ्च सर्वदेवालयाग्रतः
गोवासे च, सभास्थाने प्राज्ञस्याध गृहं प्रति॥ 201
एवं स्थानबलिं दत्त्वा रात्रिशेषं नयेत्क्रमात्
– नवविधाधि वासक्रमः –
प्रत्येगमधिवास्यैव त्र्यहं चोत्तमोत्तमम्॥ 202
द्वियह ञ्चैवाधिवास्य उत्तमे मध्यमं भवेत्
एकाहञ्चाधिवस्यैव उत्तमाधममीरितम्॥ 203
द्वियहञ्चाधि वास्यैव मध्यमस्योत्तमं भवेत्
एकाहमधिवास्यैव मध्यमे मध्यमं भवेत्॥ 204
दिनार्दञ्चाधि वास्यैव मध्यमोत्तममुच्येत्
तदर्थञ्चैधि वास्यैव मध्यमे मध्यमं भवेत्॥ 205
तदर्थ ञ्चाधिवास्यैव ज्ञात्वा चेन्मध्यमाथमम्
दशनाड्यधि वासञ्च अथमेत्तमीरितम्॥ 206
तदर्थ ञ्चाधिवास्यैव अथमेमध्यमं भवेत्
त्रिनाडिकाधिवास ञ्च अथमाथम संज्ञितम्॥ 207
एव न्तु नवथा प्रोक्तं सर्वशास्त्रक्रमं विदुः
– अधिवास कालनिर्णयः –
मुहुर्त ञ्चैधि वास्यैव इतिकालस्य निश्चयः॥ 208
अधवाकारये द्विद्वान्मन्त्र वच्चाक्षिमोचनम्
जलाधिवासनात्प श्चात्कारयेत्तद्विचक्षणः॥ 209
– महोबेर विषयम् –
महाबेरं यदिस्यात्तु वेशेषं चात्रवक्ष्यते
गर्भागारं प्रविश्याथ सूत्रस्य पदमाचरेत्॥ 210
पूर्वान्तमुत्तरान्त ञ्च पञ्चासूत्रं प्रसार्य च
षोडश न्तु पदं कल्प्य विपरीतं न कारयेत्॥ 211
मध्ये चतुष्पदं ग्राह्यमूर्ध्वपीठं प्रकल्पयेत्
उक्त रत्नानि सन्न्यस्य बेरमादायचात्वरः॥ 212
स्वस्ति सूक्तं समुच्चार्य सर्ववाद्यानि घोषयेत्
यन्त्रेदेवं समारोप्यश नैर्नीत्वा समाहितः॥ 213
पीठमध्ये सुसंस्थाप्य भूरसीत्यादि मुच्चरन्
सुस्थितं वापिदेवेशं शिल्पिभिस्सर्थ माचरेत्॥ 214
शिल्पशास्त्रोक्तद मार्गेण चाष्टबन्धं, प्रकल्पयेत्
– नयनोन्मीलनम् –
पूर्वोक्तेन क्रमेणैव कृत्वा चैवाक्षिमोचनम्॥ 215
सुवर्णसूचीमादाय दृढी कृत्वा परं क्रमात्
गवाद्यादीनि दृश्यैव देवमानम्य मन्त्रवित्॥ 216
– अधिवासश्च । –
पञ्चागव्यं प्रगृह्यैव प्रोक्षयित्वा विचक्षणः
वसोः पवित्रमित्युक्त्वा तत्र कार्यं समाचरेत्॥ 217
पश्चात्क्षीरं समादाय प्रोक्षयित्वा समाहितः
शन्नोदेवीरितीत्युक्त्वा तेन कर्म समाचरेत्॥ 218
अधा दर्शनं प्रगृह्यैव देवस्याग्रे निधाय च
देवस्य त्वेतिमन्त्रेण, तत्र कार्य समाचरेत॥ 219
तद्दर्पणं समाराध्य प्रोक्ष्यशेषाभिषेचनम्
दिपान्तमर्चयेद्विद्वा न् जलेवाप्यधि वासयेत्॥ 220
– वर्णयुक्त बेर ञ्चे द्विशेषः –
वर्णयुक्तं धृवं बेरं वर्णहीनमथापि वा
दर्पणं दर्शयित्वैव विधिनाचाधि वासयेत्॥ 221
विष्ण्वादि पञ्चामूर्दीनां देव्यौ च सहितं पुनः
बलिबेरोत्सवौ चैव स्नापन ञ्च त्रिथा भवेत्॥ 222
सहैव देव्यास्संस्थाप्य विधिना चाक्षिमोचनम्
पीठं सघ्घट्यमतिमान् प्रत्येकं तत्र कारयेत्॥ 223
गव्यादि दर्शनं तत्र द्रव्यं तत्र वेशेषतः
पञ्चागव्याधिवास ञ्च क्षीरं तस्याधि वासनम्॥ 224
एतद्द्वयं, विना तत्र जलेनाप्यधि वासयेत्
राम ञ्च, लक्ष्मण ञ्चैव यायुसूनुं तथैव च॥ 225
सीतायुक्तं यदिस्याच्चे त्पूर्वोक्ते नैव कारयेत्
कृष्ण ञ्च रुक्मिणी ञ्चैव सत्यभामाङ्खगाधिपम्॥ 226
अधिवासाक्षिमोच ञ्च बलिबेरोक्त वच्चरेत्
पृधक्प्रतिष्ठा कर्तव्यं सर्वं तत्र पृधग्भवेत्॥ 227
इिति क्षीवैखानसे भृगु प्रोक्तायां संहितायां वासाधिकारे
रत्नन्यासाक्षिमोचनाधिवास विधिर्नाम सप्तमोऽध्यायः
—————————
अष्टमोऽध्यायः
क्रियाक्रमम्
अध वक्ष्ये विशेषेण सर्वमन्त्र क्रिया क्रमम्
होमं दिवा न कुर्वीत स्थापनं न च रात्रिषु॥ 1
तस्मात्सर्व प्रयस्नेन रात्रौ होमं समाचरेत्
– स्थापनं दिवैव कर्तव्यम् –
दिवैवस्थापनं तत्र कारयेद्गुरुरत्वरः॥ 2
विपरीत ञ्च रेद्विद्वान् तद्ग्राम यजमानयोः
राजाराष्टादिकं सर्वं विनश्यति न संशयः॥ 3
– यजनं द्विविधम् –
द्विविधं यजनं प्रोक्तं देवस्यैव नृणामपि
ज्योतिष्टामं कृतं यत्र स्वर्गकाम फलप्रदम्॥ 4
यजमानस्य पत्नीभ्यां वियोगेस्वयमेव वा
यज्ञेष्वेतेषु सर्वत्र देवयागो विशिष्यते॥ 5
यजमानस्याभावेपि शाश्वतं भुवि तिष्टिति
सर्वकाम्यप्रद ञ्चैव सर्वाशुभ विनाशनम्॥ 6
भुक्तिमुक्तिप्रद ञ्चैव सर्वसंपत्ककान्वितम्
चातुर्वर्ण्य समृद्ध्यर्धं चतुर्वेदस्य बृंहणम्॥ 7
अनाहिताग्नि विप्राणाग्निहोत्र फलप्रदम्
आहिताग्निक विप्राणां प्रायश्चित्तार्धहेतुकम्॥ 8
–पञ्चाग्नीनां पञ्च बेर कल्पनम् –
गार्हपत्यं धृवं बेरं अन्वाहार्योत्सवं स्मृतम्
ज्ञात्वा चाहवनीयस्य बलिबेरं प्रचक्षते 9
अथवा धृवबेरस्य कौतुकस्योत्सवं त्रिधा
गार्हपत्याहवनीयं स्यादन्वाहार्यं तधोच्यते॥ 10
तस्मात्सर्व प्रयत्नेन प्रतिष्ठाप्यालयार्चनम्
मयाङ्गि रात्रिणा चैव काश्यपेन चतुर्विधम्॥ 11
कर्षणादि प्रतिष्ठान्तमन्योन्यं नैवकारयेत्
सूत्रस्यैव प्रकाणेण निषेकाद्यादि संस्कृतम् 12
श्रौतस्मार्तेषु चान्येषु सूत्रोक्ते नैव कारयते
तथा देवस्य यजने प्रतिष्ठायां न सङ्करम्॥ 13
अन्यधापिकृत ञ्चैत्तु साङ्कर्यमिति निश्चयम्
– श्रीवैखान शास्त्रस्य तन्त्रदोष राहित्यम् –
अत्रिरप्येवमुक्ता तु मया चैवात्र चेदितम्॥ 14
एतेषु द्विविधं प्रोक्तं नाचरेत्तत्र सङ्करम्
अधवा सङ्करं प्रोक्तं कश्चिच्चैव मुदाहृदम्॥ 15
कर्षणाद्यादि शय्यान्तमन्योन्यं सङ्करं यदि
दोषं नैवात्र कुर्वीत ज्ञात्वा चैव विचक्षणः॥ 16
अङ्गिराकाश्यपीटाभ्यां प्रोक्तमेवमुदाहृतम्
– अग्निमथनम् –
यागाशालामलङ्कृत्य पूर्वेक्तेन विधानतः॥ 17
गोमये नोपलिप्यैव पैष्टा भूमिमलङ्कृतम्
अरणीमादायतत्काले धान्यस्योपरि विन्यसेत्॥ 18
विण्ण ञ्च पावक ञ्चैव धरित्रीं चैर्यचेत्क्रमात्
दण्डाग्रमाले संयोज्य पट्टिकाभायं विशेषतः॥ 19
रज्जुं दण्डे च संयोज्य सप्तपञ्चत्रयः क्रमात्
वासुकिन्तत्रचाभ्यर्च्य तत्तन्मन्त्रमुदीरयन्॥ 20
दण्डमूलस्य परितः पट्टिकोपरि विन्यसेत्
करेननानिसंयोज्य तुषातूलादि विर्जितम्॥ 21
यावदग्नि समुत्पन्नं तावज्जप्त्वा समाहितः
वैश्वानर ञ्च सूक्त ञ्च शनैर्जप्त्वा समाहितः 22
मथिताग्निं समादाय शरावे तत्र निक्षिपेत्
घृतप्रतीक इत्युक्त्वा प्रज्वाल्याग्निं प्रणम्य च॥ 23
– कुण्डस्योत्तरे सम्भाराहरणम् –
समित्परिधिकूर्च ञ्च पात्रपुष्पाक्षतैर्युतम्
सृक्सृवाद्यादिनायुक्त ञ्च रुणाज्यादिनासह॥ 24
कुण्डं प्रतिविशेषेण तस्यैवोत्तरतः स्थितः
– पञ्चपात्रविशेषः –
जुष्टाकारद्वयं पात्रं ब्रह्मसोमौतधैव च॥ 25
आज्यार्थ ञ्चैव मुद्दिष्टं पञ्चपात्रं पृधक्चरेत्
– जलाहरणम् –
कुम्भ ञ्च करक ञ्चैव कलशादीन्वि शोधयेत्॥ 26
शुद्धतोयं समादाय शुचीवोहव्यमुच्चरनम्
– तन्तुवेष्टनम् –
त्रिगुणी कृत सूत्राणि एकं वा तत्र वेष्टयेत्॥ 27
अङ्गुल्यन्तरमावेष्ट्य यवान्तरमधापि वा
माषान्तरन्तु संवेष्ट्य केचित्तत्रापि वेष्टयेत्॥ 28
– परिस्तरणकूर्चादि दर्भसङ्ख्या –
परिस्तरणकूर्चादीन्दर्भैः पञ्चादशैःक्रमात्
कुम्भस्य कलशार्ध ञ्च सप्तपञ्चादश क्रमात्॥ 29
– कुम्भनिक्षेपण दर्भनिर्णयः –
कुम्भस्य कलशारर्थ ञ्च सप्तपञ्चा त्रयस्तधा
दर्भद्वयं वा कुर्वीत इतिशास्त्रस्य निश्चयः॥ 30
पण्डपं मण्डलं कुर्याल्लाजैरश्वत्थपत्रकैः
दैत्यप्रेत पिशाचादि निवृत्त्यर्थं समास्तरेत्॥ 31
इति श्रीवैखानसे भृगुप्रोक्तायां संहितायां
वासाधिकारे क्रियाक्रमाग्नि मधनक्रमंनामा अष्टमोऽध्यायः।
नवमोऽध्यायः
–जलाधिवासस्थित देवोद्दरणम् –
अथ ऊर्धं प्रवक्ष्यामि निशिकमं बुधाः
प्रदोषकालेधर्मात्मा जलस्थं देवमुध्दरेत्॥ 1
स्नानद्रव्याणिचाहृत्य देवान्संशोद्यमन्त्रवित्
क्षौमपट्टादि नाच्छाद्य मणिमुक्तादि हेमकैः॥ 2
कुण्डलाञ्गद हारादीन्यधार्हं बन्धयेत्क्रमात्
विविधै पुष्टामालाद्यैः दर्शनीयमलङ्कृतम् 3
यानमारोप्य तत्काले ग्रामादेश्च प्रदक्षिणम्
स्वस्तिसूक्तं समुच्चार्य तोयधारापुरस्परम्॥ 4
श्वभ्रस्य पश्चिमे देवान्ध्पापये द्देशिकोत्तमः
श्वभ्रस्य पूर्वभागे तु दण्डवत्पङ्क्ति मास्तरेत् 5
चतुर्धशैश्चकलशै स्युपयित्वार्चयेत्क्रमात्
देवास्सर्वत्रसंस्नाप्य दीपान्त ञ्च समर्चयेत्॥ 6
सर्वदेवायदिस्याच्चे च्छ्वभ्रस्य परितः क्रमात्
एकोत्तर शतंस्थाप्य शुद्धतो येन मन्त्रवित्॥ 7
द्वादशैः पञ्चागव्यादि श्चाचरेदितिशाशनम्
नैर्ऋते विष्टरंन्यस्य नयेद्देवं समाहितः॥ 8
स्वस्तिसूक्तं समुच्चार्य स्थापयेदत्वरं बुधः
पाद्यमाचमनं दत्त्वा देवदेवं प्रणम्य च॥ 9
– कौतुकबन्धनम् –
तण्डुलैः पूर्णपात्रे च कृहीत्वात्र विशेषतः
सौवर्णं राजतं वापि कृतं सूत्रन्तु निक्षिपेत्॥ 10
अधवा तन्तुमाहृत्य न्यसित्वा देशिकोत्तमाः
ताम्बूलसहितं पात्रं देवस्याग्रे प्रतिष्टितम्॥ 11
– दीक्षाकरणम् –
ऋत्विचोवरयेत्पशश्चा त्सूत्रोक्तेन विधानतः
पुण्याहं वाच्यतत्काले स्वस्तिसूक्तं समुच्चरन्॥ 12
देवस्य दक्षिणेहस्ते सूत्रमादाय बन्धयेत्
स्वस्तिदा इतिमन्त्रेण तत्र कार्यं समाचरेत्॥ 13
देव्योश्चतत्तन्मन्त्रेण वामहस्ते च बन्धयेत्
चन्दनादिसुगन्धैश्च ललाटोचोर्द्व पुण्ड्रकम्॥ 14
तद्विप्रासेतिमन्त्रेण तत्र कार्यं समाचरेत्
अधवा कारमेद्विद्वा न्भस्मनापुण्ड्र माचरेत्॥ 15
त्रया युषेति मन्त्रेण तत्र कार्यं समाचरेत्
मथिताग्निं समादाय गार्हपत्ये प्रतिष्टितम्॥ 16
आघारं विधवत्कृत्वा वैष्णवान्तं समाचरेत्
– पञ्चाग्नि प्रणयनम् –
एषाग्निस्सर्वहोमानां निधायघारपूर्वकम्॥ 17
ततश्चा हवनीयार्घं प्रृह्याग्निं निधाय च
ततोन्वाहार्यकुण्डे तु अग्निमादाय मन्त्रवित्॥ 18
पश्चात्सभ्येतु संस्थाप्य अवसध्ये ततःपरम्
पद्मगुण्डे तु संस्थाप्य पूर्ववद्देशिकोत्तमः॥ 19
सूत्रोक्तेन विधानेन सर्वमाघारमाचरेत्
गार्हपत्यादि कुण्डेषु देवनावाहयेत्क्रमात्॥ 20
– कुण्डेषुदेवताह्वानम् –
विशेषमत्रवक्ष्यामि शृणुध्वमृषिसत्तमाः
गार्हपत्यस्य यज्ञस्य यज्ञदैवतमुच्चरेत्॥ 21
ओं भूः पुरुष मित्युक्त्वा अच्युतं तस्य चाह्वयेत्
एतैस्तु गार्हपत्यस्य देवमावाहनक्रमम् 22
ततोन्वाहार्य मुत्युक्त्वा यज्ञदैवतमुच्चरन्
ओम्भुवः पुरुषमुच्चार्य सत्यमावाहयेत्क्रमात् 23
एतत्तुचान्वाहार्यस्य देवमावाहनक्रमम्
आहवनीयमावाह्य यज्ञदेवतमित्यपि॥ 24
ओंसुवः पुरुषमित्युक्त्वा पुरुषमावाहयेत्क्रमात्
एवं क्रमेण कर्तव्यं कुण्डमावहनीयके॥ 25
आवसत्थ्याह्वायेत्पश्चा द्यज्ञदैवं ततः परम्
ओं महः पुरुष मित्युक्त्वा निरुद्धान्ममाह्वयेत् 26
एवं क्रमेण चावाह्य अवसत्थस्य कुण्डके
सभ्यकुण्डं विशेषेण तन्नामाद्यादिपूर्वकम्॥ 27
यज्ञदेवत मित्युक्त्वा जनः पुरुष मावहेत्
विष्णुदेवं समावाह्य सभ्यकुण्डक्रमं विधुः॥ 28
पौण्डरीके विशेषेण तस्य नामादिचाह्वयेत्
यज्ञदैवतमुच्चार्य ओन्तपः पुरुषाय च॥ 29
वासुदेवं तमावाह्य पौण्डरीके विशेषकः
ओं सत्यं पुरुष ञ्चैति नारायणमधोत्तरे॥ 30
औपासन यज्ञस्य तु यज्ञदैवतमित्यपि
श्रावण कं तधावाह्य यज्ञदेवान्तमाह्वयेत्॥ 31
एवमेव क्रमेणैव जुष्टाकारं पृधक्चरेत्
स्वाहाकारं ततः कुर्यात्सर्वकुण्डं पृधक्पृधक्॥ 32
एवमेव क्रमं प्रोक्तं सर्वशास्त्रेण निश्चयः
इति श्रीवैखानसे भृगुप्रोक्तायां संहितायां
वासाधिकारे सर्वहोमानामाघार विशेषोनाम नवमोऽध्यायः।
—————————–
दशमोऽध्यायः
– शयनास्तरणम् –
अत ऊर्ध्वं प्रवक्ष्यामि शयनास्तरण क्रमम्
वेदिं सम्प्रोक्ष्यमन्त्रज्ञः अशास्त्विति समुच्चरन्॥ 1
पञ्चावर्णैरलङ्कृत्य अण्डचादीनि चास्तरेत्
अण्डजं मुण्डज ञ्चैव रोमजं वामजन्तधा॥ 2
चर्मजं चात्र पञ्चैते पृधक्वक्ष्ये मया शृणु
अण्डजं पक्षिपिञ्छञ्च कार्पासं मुण्डजं भवेत्॥ 3
अविकाद्यादिरोञ्चा कृतं कम्भलमेव च
कौशेयादि कृतं सर्वं वामजं परिकीर्तितम्॥ 4
कृष्णव्याघ्रादिचर्मेण कृतं चर्मजमुच्चते॥
एवं द्रव्य न्तु सङ्ग्राह्य उपर्यु परिचास्तरेत॥ 5
एवं कर्तुमशक्तश्चे त्पङ्च वस्त्राणिचास्तरेत्
तस्याधस्ताश्च कर्तव्यं व्रीहीनास्तरणं चरेत्॥ 6
षड्द्रोण ञ्च तदर्ध वा चास्तरेद्देशिकोत्तमः
शिरोपधानं कर्तव्यं मूर्धान्त ञ्च समर्चयेत्॥ 7
देवदेव्यो समानीय दिग्द्वारन्तु ततश्शिरः
शयनेशाययेद्विद्यान्य द्वैष्णवमितिब्रुवन्॥ 8
देव्यादिभ्यस्तधा कुर्या तत्तत्सूक्तं जपेत्क्रमात्
उत्तराच्छादनं कुर्याद्गलान्तं तत्र निक्षिपेत्॥ 9
जलाधिवासमार्गेण देवस्य परितोऽर्चयेत्
– कुम्भपूजाक्रमः –
अथ ऊर्थ्वं प्रवक्ष्यामि सुम्भपूजा क्रमं बुधाः 10
अलर्कस्य फलाकारं सम्यग्धग्धं मृदाकृतम्
खण्ड स्फुटितकालादी न्वर्चयित्वा विचक्षणः॥ 11
द्वात्रिंशतित्प्रस्ध सम्पूर्णं तघटमादाय चादरात्
इन्द्रं नरोन इत्युक्त्वा स्वस्तिदा विशोच्चरन्॥ 12
तन्तुनापरिसंवेष्ट्य यवान्तरमनु क्रमात्
प्रादक्षिण्यक्रमेणैव तत्र कार्यं समाचरेत्॥ 13
शिचीवोहव्य इत्युक्त्वा कुम्ब प्रक्षालनं चरेत्
सौवर्णं राजतं वापि ताम्रेणाध कृतं घटम्॥ 14
आचरेत्सर्वशास्त्रोक्तं पूर्वमेव प्रचोदितम्
तस्मान्मृद्घटमादाय धूपयित्वा विचक्षणः 15
गुग्गुलं श्वेत साम्राणि कर्पूरं चन्धनं घृतम्
भस्ममेकं युगलोहं यमं षट्सप्त वासरम्॥ 16
एतैर्द्रव्यैश्च सन्धूप्य इमे धूपेति चबृवन्
नद्यं तोयं समादाय उत्पूले नैव कारयेत्॥ 17
धारासुसप्त इत्युक्त्वा तत्र कार्यं समाचरेत्
तस्य कण्ठं समावेष्ट्य वस्त्रयुग्मेन वेष्टयेत्॥ 18
तेजोवतस्स्याव इत्युक्त्वा तेन कर्मसमाचरेत्
एलातक्कोल कर्पूरैरुशीरं, गन्धसाक्षतम्॥ 19
अन्यद्गयुतं पुष्पं वासयित्वा समाहित
सुवर्णरतद्नधातूनां न्यसित्वामन्त्रवित्तमः॥ 30
विष्णुगायत्रिमुच्चार्य प्रतिद्रव्य ञ्च निक्षिपेत्
गोवाल ञ्च कुशं दर्भ कृतं कूर्चन्निधाय च॥ 31
आधवा केवलं दर्भ कृतं कूर्चं विनिक्षिपेत्
इदमापश्चिवेत्युक्त्वा तज्जल ञ्चाभि मन्त्रयेत्॥ 32
देवस्य दक्षिणेपार्श्वे कुम्भं तत्र निवेशयेत्
आचार्चं समल कृत्य वस्त्राभरणकुण्डलैः॥ 33
गन्धस्स्रक्वेष्टन ञ्चैव मुखस्योष्णीषबन्थनम्
वस्त्रोत्तरीय्यान्गन्थादी नथवा, धारयेद्ध्विजः॥ 34
कुम्भस्य दक्षिणेपार्श्वे प्राङ्मुखोऽदङ्मुखोपि वा
स्वस्तिकासनमास्थाय ऋजुकायस्समाहितः॥ 35
ललाटा दिद्वादश स्थाने केशवादीन्प्रणम्य च
अकाराद्यक्षरं सर्वं न्यसित्वा सर्वसन्थिषु॥ 36
अङ्गुष्टादि कनिष्टान्तं करन्यासं समाचरेत्
बाहुमूले तु सन्न्यस्य सङ्खचक्रौन्यद्बुधः॥ 37
सूर्यसोमौन्य सेन्नेत्रे हृदीबीजाक्षरं न्यसेत्
हृच्छिरसि शिखा चैव कवचास्त्रादि पञ्चकम्॥ 38
एतन्न्यासक्रम ञ्चैव नित्यपूजोक्तवच्चरेत्
पश्चात्कुम्भन्तुसंस्पृश्यक्रमात्यूक्तादिकं जपेत् 39
श्रीभूसूक्तं ततोजप्त्वा सहस्रं शीर्षमुच्चरन्
वैष्णव न्तु ततोजप्त्वा ध्यायेत्सम्यक्समाहितः॥ 30
वायुधारणमाविश्य निश्चलं सम्यगाचरेत्
प्राणायामं ततः कृत्वा रेचपूरक कुम्भकैः॥ 31
– वायुधारणक्रम विशेषः–
एतत्फल क्रमं वक्ष्ये त्रिधा चैव पृधग्विधम्
तत्रैवेचकं पूर्वं सर्वपापस्य दाहयेत्॥ 32
पश्चात्तुपूरकं कृत्वा अमृताप्यायकं क्रमात्
तृतीय कुम्भकं विन्द्या दमृतत्त्व ञ्च संस्मरेत्॥ 33
तस्मात्सर्वप्रयत्नेन रेचकाद्यादि कारयेत्
दिवासोम्यनाधाद्यै ध्यायेत्सम्यक्समाहितः॥ 34
तत्कुम्भस्य जलेस्मृत्वा वारुणं मण्डलं बुधः
अर्धचन्द्राकृतिं स्मृत्वा तत्र बीजाक्षरं न्यसेत्॥ 35
तमोङ्कारेण संवेष्ट्य बिन्दुयुक्तं सुनिश्चलम्
आदित्यमण्डलान्तस्थं देवं तत्रै चाह्वयेत्॥ 36
नित्यपूजोक्तमार्गेण सकलं तत्र संस्मरेत्
आदिबीजं सुवर्णाभं प्रणवे नैव वेष्टयेत्॥ 37
पश्चाद्देवं समभ्यर्च्य अर्घ्यान्त ञ्चैव पूजयेत्
विशेषमत्र वक्ष्यामि वायुधारणमेव च॥ 38
अत्रैवाद्य मया प्रोक्तं विज्ञाप्यैव विचक्षणः
देवस्य पुर आसीनो रेचपूरक कुम्भकैः॥ 39
प्राणायामैर्व्यपौह्यैवं आत्मानं शोधयेत्पुनः
अधवाघ्नन्तिमुनयः प्राणायामन्तुधारयेत्॥ 40
अहोरात्र कृतं पापं तक्षणादेवनश्यति
कर्णणा मनसावाचा रात्रौ च कृतमेव च॥ 41
– प्राणायामफलम् –
तिष्टन्वै पूर्यसन्ध्यायां प्रणायामैर्व्यपोह्य तु
कर्णणा मनसा वाचा यदहःकृतमेनसः॥ 42
आसीनः पश्चिमासन्ध्यां प्राणायामैर्व्यपौह्य तु
प्राणायामैर्व्यपौहन्तु आत्मानं शोधयेत्पुनः॥ 43
ज्ञानाज्ञान कृतं पापं तक्षणादेव नश्यति
पावमानैश्चसुस्नानं यः कुर्यादघमर्षणम्॥ 44
अधाश्वमेधक्रतुभि स्सर्वपाप प्रणोदनः
हविष्यभुक्कृतासम्यक्प्राणायामास्तु षोडश॥ 45
भ्रूणहोपाकर्णाणः पुनस्त्यहरहः कृताः
न च ती व्रेण तपसा नस्याध्या येन चेज्यया॥ 46
“अपक्रमफलं सम्यक्प्राणायामैर्यधा भवेत्
तस्मात्पापोपकर्षणं रेचपूरक कुम्भकैः 47
– रेचकपूरक कुम्भकादि क्रमेण प्राणायमप्रयोगः–
क्रियाते यत्तद्द्रव्याणा मशुचित्वापनोदनात् अग्निकःकल्पितः तथा प्राणायामाः, पाप कर्षकाः, तत्र रेचकात्पापस्य दाहः
क्रियते। पूरकात्तदाऽमृताप्यायकम्, कुम्भकादमृतत्वं मया स्मृतम्, सत्मात्पूर्वं रेचयेत्, पश्चात्पूरक कुम्भकौ, तत्र
शरीरस्थस्यवायोः पारयुक्तस्य रेचकात्, पारकर्षणा, तस्माद्भवेत्, तस्मादनन्तर मतश्शरीरपापस्थम्, वायुं पाप समन्वितं
एवं ध्यात्वा विपापेनसह, वायु समन्वितम्, इजय पिङ्गलायानाद्या, बहिर्निष्क्रामसूर्यमण्डलम्, पिङ्गलयोनिं प्रशमय्य
सूर्यसोमेष्कणापि च देहस्थं, सर्वकल्मषं दहेत्, पूरककालेप्य मृतप्लानं चिन्तयेत्, चन्द्रमण्डलादमृतं वायुनासह,
इडाख्यानाद्यान्तः पूरयेत्, ततोऽमृत वासि तत्तम्, शरीरस्य कुम्भककाले चिन्तयेत्, द्विजश्चेत्कुम्भककाले गायत्रीम्
प्रणवान्विताम् सव्यागृतिकाम् सशिरस्काम् त्रिः कृत्वापठेत्
श्लो ॥ मूलमन्त्रं जपेत्तत्र तस्मादेवं प्रजापतेः
प्राणायामे न आत्मानं देवं बिम्भ ञ्च शोधयेत्॥
– निडीचक्र लक्षणम् –
देवमावाहयेत्तत्र, पूर्वनाडि चक्रस्य मध्ये ध्यायेत्, प्रणवं सप्राणानां, नाभिकन्धं भवेद्यधा, कुमुदोत्पलयोर्मूल, नालकन्दमाश्रमं
तथैव च, नाभिः नालाश्रयस्थानम्, तस्मान्नाभे रेवतस्याः, तदा नाडयस्थानमित्युक्तम्
श्लो॥ द्विसप्तति सहस्र ञ्च नाडयः परिकीर्तिताः,
तिर्यगूर्ध्व मधश्चापि देहं संवाप्यतिष्ठति॥
आग्नेयाश्चसौम्याश्च, सौम्याग्नेया इति त्रिधा नाभेः ऊर्ध्वमुखास्सर्वे आग्नेया अथोमुखाः सौम्यस्तिर्यग्गताः,
सौम्याग्नेया इतिस्मृता । अधवा, मूलमन्त्रं वा सर्वं जपेयुः,तस्मादेवं भूतः,प्रणायामैरात्मानम्, देहं बिम्बञ्च शोथयित्त्वैव,
देवमावाहयेत्,तत्र पूर्व नाडीचक्रं ध्यायेत् ’ सप्रणवः। नीडीनाड्याधिकं भवेत्। यथाकुमुदोत्पलयोः मूलनालकन्धमास्रयन्ति’
तधैव नाभिम्। नाडीभिर्नाडिमामाश्च, योतःस्थानं तस्मान्नाभिरेव च’ तस्यस्थानाद यःत्युत्तरम्। सप्तति सहस्रधारयः
परिकीर्तिताः। तिर्यगूर्ध्वमधश्च देहेव्यवस्थिताः । आग्नेयाः सौम्याः आग्नेय सौम्याः, इति त्रिथा। भिन्ना ऊर्ध्वमुखास्सर्वा़
आग्नेयाः अधोमुखासौम्याः ‘। तिर्यगूर्ध्वगता सौम्याग्नेयाः। शतद्वयमष्टोत्तरम्। षष्टिश्चप्रतिदिशं स्थिताशः।नासान्तादशनाडयः।
प्रधानाः। स्थाननामानि । नामवक्ष्यन्ते। इडापिङ्गला सुषुम्ना। गान्धारि हस्तिजिह्वा। सुयशापूषास्वलबुसा। कुहू शङ्खनी चेति। इडासुषुम्नो पिङ्गलया सहोर्ध्वमुखे नासापुटे स्थिते। वर्ण सुक्लरक्तै।
गान्धारि हस्तिजिह्वा पूषासहिते। अधोमुखे वस्तिदेशं समास्रित्यस्थिते। वर्णतःपीतकृष्णे । आलम्बुसासुयशे स्थिते।
दक्षिणतःवर्णतोबभृश्यामे। शङ्खिनी कुहूश्च वामपार्श्वे । समाश्रिते जनारुणे। एवं स्वदेहे नाडीचक्रं ध्यात्वा॥ प्राणादीश्चिन्तय
येत्, वायुतश्च दशप्रोक्ता। यधा सङ्ख्या क्रमेण । प्राणा पावव्यानोदान समान नागकूर्मकृकर देवदत्त धनञ्जय
इति। प्राणादश। तत्र पारणापानौ राजमणि प्रभौ। अपानकूर्मा विन्द्रगोप प्रभौ। समानकृकरौ श्यामवर्णौ। व्यासधनञ्जया
फेनवर्णौ। उदान देवदत्तौ किंञल्क सदृशप्रभौ। तान्दशयवायुनाड्यो वहन्ति तत्र क्रमेण वक्ष्यते। इडाप्राणं वहति।
तथाऽपानं गान्धारी । समानमलम्बु सा। कुहूव्यानम्। सुषुम्नो दानम्। पिङ्गलानागम् । हस्तिजिह्वादेवदत्तं पूषाकूर्मं
सुयशाकृकरं शङ्खिनी धनञ्जयमिति। क्रमेण नाड्योवायुन्वहन्ति। एतेषां दशानां मद्यौ हृत्पद्मं तिष्ठिति। तत्रेडासुखुम्नयोः
क्रमेण चरति। इडा चान्द्रमसीनाडी। पिङ्गला इडानाम नासापुटे स्थिता पिङ्गला दक्षिणनासापुटे स्थिता। आयनेद्वे
सङ्क्रान्ती विषुवे चात्र भवन्ति। प्रार्णाडायं वर्तते। तदा दक्षिणायनं भवेत्
पिङ्गलायान्तधोत्तरायणम्। तस्मान्नासापुट्यां हरन्। यधा वायुःप्रयान्त्यकाले। सकालं सङ्क्रान्ति युक्तम् यस्मिन्नुभाभ्यां
पुटाभ्यां समंयाति। कालं विषुवं वदन्ति। अये दक्षिणे येन कुर्यात् । एवं नडीकाल उक्तः। कन्द मध्योक्तमिडायास्त्रि
विधः। ते प्रत्येकन्त्रिविधा भिन्ना। तत्र षडं सात्रि कर्मन्धम्। मन्दा द्विगुणम्। मध्यमा द्विगुणमुक्तम्। तत्र रेचकपूरक
कुम्भकान् कुर्यात्। इडायां वायुः पूर्यते। पिङ्गलायां कुम्भते। सुषुम्नायां रेचते। वामेनाङ्गुष्टेन दक्षिणनासापुटं पिधाय।
वामनासापुटेन पूरयेत्। कुम्भकं केवलं कुर्यात्। ततोनासापुटम्। वामदक्षिणेनाङ्गुष्टेन पिधाय। दक्षिणपुटेन। रेचयेत्।
मात्रावशेन मात्रातिक्रमेण। मरुद्विषमत्वं कुरुते। यधाक्रमं विपर्यासे च। विषमं कुरुते। तस्मानात्राज्ञातव्या।
तस्यालक्षणमुच्यते। ः न दृतं नविशंब ञ्च कृत्वा प्रदक्षिणम् अङ्गुलस्पोटनं कुर्यान्मात्रा तत्र्तिमात्रया॥
पूर्वमिडया पूर्यते। द्विताय्यातृतीय्याभ्याम्। पिङ्गलया पूर्यते। चतुर्धया सुषुम्ना पूर्यते।पञ्चाम्यागान्धारी पूर्यते।
षष्टिसप्तमीभ्यां पूषापूर्यते। अष्टम्याहस्तजिह्वा। नवम्यालम्बुसा। दशम्या सुयशा। एकादश्या शङ्खिनी। द्वादश्या कुहुरिति।
क्रमेण पूर्यते । कुम्भकेन कर्मणास्तम्भिता। एतेवायवः । क्रमाद्द्विगुण मात्रा। चक्रं सर्वत्र भ्रमति। चक्रभ्रणमवेगेन
नाभिदेशे । हुताशनोद्धितोनिर्दयेत्। दोषान्सर्वान्शरीरगान् । तत्र वह्निमारुतैः। शोधयित्वानाड्यमायान्ति। सुम्भकमात्रा मतीत्य
रेचकं कुर्यात्। तत्र द्वाभ्यां मात्राभ्यां । कुहुर्वायुनामुच्यते। तृतीय्यचकतुर्धाभ्याञ्च । सिनीवालीमुच्यते। पञ्चमी,षष्टाभ्यान्तु
सुयश्चा। सप्तमाऽष्टमीब्यामलम्बुसा। नवमीदशमीभ्यां। हस्तिजिह्वा। एकादशी द्वादशीत्रयोदशी चतुर्धशी मात्राभिःपूषामुच्यते।
पञ्चदश्या इलामुच्यते। एवं क्रमेणोत्तराभिर्मात्राभिः पिङ्गलामुच्यते।
शेषाभ्यां सुषुम्नामुच्यते। नाड्यः नाभिस्तिथाः। प्राणादयोवायवः।पूरके क्षोभमायान्ति। कुम्भकेभ्रमन्तु। रेचके तु भ्रूलया
उच्यन्ते नागकूर्म कृकरदेवदत्त धनञ्जयाः पञ्चावायवः। पूरकलकालेजिताः। क्रमेण प्राणादिषु लयं यान्ति। कुम्भककाले अपान पूर्वकाश्चत्वारोवायवःप्रण एव लयंयान्ति। तत्रान्तः करण चतुष्टयेन्द्रियाण्यपि। प्राणयेव समायान्ति। तत्र पूरके
सर्वासुसन्धिषु। वायुनापूरितासु। हृत् पद्ममष्टश मूर्ध्वनाशमधोमुखं । विकासमुपयास्यत्र।कुम्भककाले। हृदयपद्मं
विकास्योर्ध्वमुखं भवेत्। तस्मिन् हृदयपद्मे। विकसितेष्ट पत्रकर्णिस्थिते। कर्णिकाद्युपर्यष्टकाख्यम् । पिङ्गलं तिष्टिति
देवंम ध्यायेत्। तन्मध्ये तद्ध्यान प्रकृतिश्च। प्राणान्तः करण चतुष्टयश्सक्तयो भूषणाश्च,
प्रकृत्वाश्रम क्रमेण बहिस्तिष्ठन्ति। प्रकृतिरे तेषामाश्रय भूता भवति। प्रकृतिमधिष्ठाय पुरुषस्तिष्ठति। पुरुषध पुरुषस्सदा
विष्णुश्शाश्वतोनाराणः। सदात्मानं सङ्कोच यान्नास्ते। अणोरणायानत्यन्त शालिशूकाग्रस्य पिञ्जरस्तस्येश्वर स्यैश्वर्यावे
तच्छक्रं प्रवर्तते। सएतैस्तत्क्षेत्रं वहति पूजयति। एवं ध्यायेत् । एवं रेचक कुम्भकपूरकेः। प्राणायामैरात्मानं विशोध्यःमन्त्रन्यासं कारयेत्।
न्यासत्रयक्रमम्
पश्चादक्षरन्यासम्। तस्यादिमन्त्रे च बिम्बो च। बिम्बवशादेव न्यासं कुर्यात्। तत्रायं क्रमः स्थितेस्थितिन्यासं
कुर्यात्। आसीने सृष्टिन्यासनम्। शयने संहृतिन्यासम्। अथवा पात्रस्सृष्टिन्यासम्। माध्याह्नेस्थितन्यासम्। अपरे
संहृतिन्यासम्। इतिकेचित्। अन्यत्सर्वत्र स्थानकासन, शयानके तृतीयानाम् स्थितिन्यासं कुर्यादितिशेषः।
एवं क्रमेणात्मनो वायून्विचिन्तयेत्। तत्र पूरकादि त्रयामात्मनि कुर्यात्। एवं पूरक कुम्भककाले कुर्यात् ।
पूर्ववत्पूरक कुम्भकौकृतौ। हृत्पद्मन्ध्यात्वो पर्यष्टकाख्यं विचिन्त्य। मन्त्रन्यासं कृत्वा। प्रतिमारूपं ध्यात्वा। तत्र रक्षां
विधाय। बहिर्निधाय । मूलस्थानं प्रविश्च विश्वदेवमावाहयेत्॥
इितिश्रीवैखानसे भृगुप्रोक्तायां संहितायां वासाधिकारे
कुम्भध्यान वायुधारण न्यासत्रयक्रम भेदोनाम दशमोऽध्यायः
————————————
एकादशोऽध्यायः
-- हौत्रम् --
अत ऊर्ध्वं प्रवक्ष्यामि हौत्रकल्पमतः परम्
पूर्वोक्तगुण सम्पन्नं होतारं तत्र चह्वयेत्॥ 1
पादौप्रक्षाल्य चाचम्यकूर्च युक्तं समाहितः
सम्भूष्य पुष्पनन्धाद्यैः कुण्डलाद्यङ्गुलीयकैः॥ 2
सभ्यस्य पूर्व भागेतु पश्चिमाभिमुखस्थितः
सभ्याध्वर्युं समीक्ष्यैव प्रणवं पूर्वमुच्चरन्॥ 3
होतरेहिदेत्युक्त्वा तूर्ध्वेहोतारमुच्चरन्
अध्वर्योदेवतेत्युक्त्वा पादौ प्रक्षाल्य चाचमेत्॥ 4
पूर्ववत्तत्र संस्मृत्व्या ओंनमः प्रवक्ते बृवन्
होतश्चनाम शर्माणं संयोज्यैव समुच्चरन्॥ 5
भूतेभविष्यतीत्युक्त्वा हुङ्कारस्य तु पूर्वकम्
भूर्भूवस्सुवरित्युक्त्वा प्राङ्मुखश्च प्रदक्षिणम्॥ 6
ततोध्वर्वस्तदोङ्कारं धृवाग्नौसमिधं क्षिपेत्
होताग्नये समिध्यन्ते यजमान प्रवरं स्मृतम्॥ 7
तस्यैव प्रवरं पठ्य विपरीतं न कारयेत्
राजावाराज पत्नीवा अमात्यस्यान्यजातिषु॥ 8
तस्यैव प्रवरं तत्र काश्चप प्रवरं वदेत्
ग्रामस्तु यजमानश्चे द्वशिष्ट प्रवरं वदेत्॥ 9
अधवा काश्चपं तत्र प्रवरन्तु समुच्चरेत्
वैश्यादन्यत्र जाति ञ्च यजमानो भवेद्यदि 10
तस्यैव प्रवरं ब्रूयाद्गौतम प्रवरं वदेत्
ब्राह्मणो यजमानश्च तस्यैव प्रवरं चदेत्॥ 11
अधवा कारयेद्विद्वा न धातो त्रैवकाश्यपम्
एतैस्तत्प्रवरं योज्यमिति सर्वत्र निश्चितः॥ 12
आयातुभगवानन्तं पश्चिमाभिमुखस्थितः
– मूर्त्यावाहनम् –
विष्ण्वाद्यनि रुद्धान्त ञ्च सर्वमूर्तीन्समाह्वयेत्॥ 13
देवादिमुनिशर्वान्तं दक्षिणप्रणिधौजले
धात्रादिभूतपर्यन्तं उत्तरप्रणिधौजले 14
आवाहनक्रमेणैव जुष्टाकार क्रमंविधुः
जुष्टाकाक्रमेणैव अवस्थ्ये जुहोतिवै॥ 15
एवमेवक्रमेणैव हौत्रं सर्वत्र कारयेत्
तरुणालयबिम्भस्य वनियोगक्रमं शृणु॥ 16
इति क्षीवैखानसे भृगुप्रोक्तायां संहितायां
वासाधिकारे हौत्रकल्प विशेषोनाम एकादशोऽध्यायः
————————
द्वादशोऽध्यायः।
– बालालयस्थित दारु बेर परित्यागः –
बालालयस्य बिम्ब ञ्च दारुणादिक्रमं यदि॥ 1
तस्य बेरं समादाय अग्निनादाहयेद्बुधः
अधवा खानयेद्विद्वा न्जले चैव वेशेषतः॥ 2
कैश्चिदुक्तं विशेषेण जलेनैव विनिक्षिपेत्
सौवर्ण मणिरत्न ञ्च राजतं ताम्रमेव वा॥ 3
एतद्द्रव्य कृतं बेरं यदि तत्र विशेषतः
तस्य शक्तिं समादाय उक्तकुम्भेषु सन्यसेत्॥ 4
तद्बेर ञ्च समादाय लक्षणं तत्समीक्ष्यते
– शय्यावेदिस्तित सर्वदेवताराधनम् –
कौतुकाद्यादिना कल्प्य विधिना स्थाप्यचार्चयेत्॥ 5
शय्यावेद्यास्तुपरितः सर्वदेवान्समर्चयेत्
ऐशान्यादिक्रमेणैव बल्यन्तमिति पूजयेत्॥ 6
अधवा कारयेद्विद्वानर्घ्यान्त ञ्च समर्चयेत्
शङ्करं बलिरक्ष ञ्च रविश्शक्रस्सरश्वती॥ 7
मवित्रीं शौलुषिक ञ्च पावकं पश्चिमामुखान्
भौमङ्गुह ञ्च दुर्गा ञ्च यमंमन्दञ्चवै ततः॥ 8
रोहिण्यस्सप्तभिर्युक्तं सप्तमातॄस्स मर्चयेत्
उत्तराभिमुखान्यर्च्य आग्नेयादीनि कारयेत्॥ 9
पश्चिमेनैरुताद्यादि महाकाल्यादि नार्चयेत्
विष्णु ञ्च वरुण ञ्चैव दक्षिणाभिमुखान्क्रमात्॥ 10
पुष्परक्षक वायू च प्राङ्मुखांश्च समर्चयेत्
वायव्यादीश प्र्यन्तं दक्षिणाभिमुखान्क्रमात्॥ 11
शुक्र ञ्च भार्गवादींश्च सप्त च ऋषयस्तधा
भागीरधीं कुबेर ञ्च इन्दुभूतान्स मर्चयेत्॥ 12
द्वारेद्वाराधि देवत्यं धात्रादीन्सम्य गर्चयेत्॥
विमानं परितोभ्यर्च्य न्यक्षादीनर्चयेत्क्रमात्॥ 13
अनपायिनमभ्यर्च्य देवस्याग्रे निधाय च
भूतद्वयं तधा तार्क्ष्यं तधा चैवा मितम्पुनः॥ 14
चक्रं शङ्खाविन्देच अर्घ्यान्त ञ्च समर्चयेत्
एवं क्रमेण चाभ्यर्च्य सर्वशास्त्रेण निश्चयः॥ 15
अधवक्ष्ये विशेषेण सभ्यादींश्चापि हूयते
सहस्राहुति पूर्वस्या त्पदामाग्न्यन्तं पृधक्छृणु॥ 16
– सभ्येप्रधान होमः –
सभ्याग्नि ञ्च परिस्तीर्य प्राणायामादि पूर्वकम्
– सहस्राहुतिहोमः –
स्वस्तिचैवेति हुत्वा तु तधा चैव प्रजापते॥ 17
अग्निर्धीमतयेत्युक्त्वा अदित्येभ्यस्तधैव च
विश्वेदेवेभ्यहुद्वा तु मरुद्गणेभ्यवेएव च॥ 18
भूरग्नये भुवोवायु स्सुवरादित्यभूर्भुवः
दशकैश्सतशोहुत्वा सहस्राहुतिरुच्यते॥ 19
– व्याहृतित्रयन्यासः –
एवं हुत्वा पठेद्विद्वा न्सुवर्भुवर्भूरिति च
बिम्बस्य मूर्थ्निपादान्तं न्यसित्वा द्देशिकोत्तमः॥ 20
अकारादिक्षकारान्तं न्यसित्वासर्वसन्धिषु
ललाटादिषु सर्वेषु वृषणान्तन्तु विन्यसेत्॥ 21
न्यसित्वैवं क्रमेणैव विशेषमिति कध्यते
– सर्वदैवत्यम् –
अध वक्ष्ये विशेषेण सर्वदेव क्रमं परम्॥ 22
देवदेवं प्रणम्यैव सभ्याग्निस्तु परिस्तरेत्
सर्वदेवत्य मन्त्रांस्तु हुत्वातद्देशिकोत्तमः॥ 23
चिरायुषं यमित्युक्त्वा पुण्यैघेति समुच्चरन्
द्वौमन्त्रौमार्कण्डेयाय पद्मापि त्रेभृगवे च 24
इमौद्वौमन्त्रौभृगवे ध्यात्वा चैव सुहूयताम्
ब्रह्मजंहिर्ण्यगर्भौ ब्राह्म ञ्चेति द्वयं स्मृतम्॥ 25
रुद्रमन्यन्त्र्यम्ब कौद्वौत्र्यम्बका येति चोच्चरन्
द्वावापृधिवीस्वाहेति धातारादि द्वारदैवतम्॥ 26
यस्याश्श्रियोवा इत्युक्त्वा विधात्रेद्वार दैवतम्
तस्धुषोधृत्यमन्त्रन्तु भुवङ्गं तत्र हूयते॥ 27
य एषभिभ्रोत्युच्चार्य पतङ्गं तत्र हूयते
वितत्यविश्व मित्युक्त्वा पतिर ञ्चैव हूयते॥ 28
यनोभिरक्ष इत्युक्त्वा ररुणां तत्र हूयते
मणिकायमुनीन्त्रेति सन्ध्यायै इति च बृवन्॥ 29
सन्ध्या ञ्च तापसा येति तापसं विखनस ञ्च (?)
वैखानसायूत्यु तेति किष्किन्धायेति चक्रमात्॥ 30
तीर्धायचेतितीर्धाय द्वारपालान् हुनेत्क्रमात्
त्रातारमिन्द्रमित्याद्यै मन्त्रैरिन्द्रं य जेत्क्रमात् 31
अग्निर्मूर्धेतिमन्त्रेण अयमग्निरितबृवन्
एवं मन्त्र द्वयं हुत्वा पावकं परिपठ्यते॥ 32
यमोदाधार इत्यादि याम्यन्तत्रैवहूयताम्
वसवः प्रथमेत्युक्त्वा सहस्राक्ष इतिबृवन्॥ 33
द्वयोर्निऋति दैवत्यं हुत्वा तत्र समाहितः
येतेशत मित्यादिवारुण ञ्चैव तु हूयताम्॥ 34
मरुतः परमात्मेति मरुतोगणइत्यपि
एवं मन्त्रद्वयं हुत्वा वायुदेवत्यमुच्यते॥ 35
मिश्रवाससः कौबेरं कुबेरञ्चात्र हूयताम्
ईशानस्सर्वलोकना मीशईसेति चोच्चरन्॥ 35
एवमीसानदैवत्यं यजनं तत्र कारयेत्
उदुत्यं चित्रमित्युक्त्वा भास्करस्य विशेषतः॥ 37
अन्यैरनेकमन्त्रेण अनुवा केनचोच्चरन्
ममाग्नेवर्चमन्त्रेण अहमाग्नेऽग्नि मन्त्रवित्॥ 38
अग्नआयाहि वीतेति भौमस्यैवत्र योयजेत्
प्रभुर्देवेति मन्त्रेण ग्रहाधिपति मुच्छरन्॥ 39
असित ञ्चैव हुत्वा तु कारये द्देशिकोत्तमः
बृहस्पतेत्यादिहुत्वा बार्ह स्पत्यं प्रचक्षते॥ 40
श्रविष्टजोय उच्चार्य तद्विष्णोः परमं पदम्
तद्विप्रास इतिप्रोच्य बुधस्यैवच होमयेत्॥ 41
प्रजापतेनत्वदुच्चार्य सुभूः स्वयमितिबृवन्
शुक्रस्यैव यजेत्पश्चा भूभामिनीति उच्यते॥ 42
इष्टगामिनीत्युच्चार्य गङ्गायैव जुहोतिवै
सोमयास्तेतिमन्त्रेण यतेधामनि चोच्चरन्॥ 43
एतद्विन्दुद्व यंहुत्वा रुद्रमन्यत्र्यम्बकम्
– रौद्रमन्त्रहोमेहस्त प्रक्षालन पूर्वकमाचमनम् –
त्रिणेत्र ञ्चैव हुत्वा तु हस्तं प्रक्षाल्य चाचमेत्॥ 44
जगद्भुवं यजेच्चैव जगद्भुनइतीरयन्
सुब्रह्मण्यो बृहस्पृते सुब्रह्मण्योरुद्रभुव॥ 45
जगद्भुवस्स्रह्मण्यो जगद्भुवोयोयजच्च
एतानिरससङ्ख्यानि षण्नुखस्यैवहूयताम्॥ 46
अतोदेवादिमन्त्रेण इदं विष्णुरितिबृवन्
एवं मन्त्रद्व यंहुत्वा पुरुषस्याधि दैवतम्॥ 47
याब्रह्मचारिण्युच्चार्य साचारुजन्म मुच्चरन्
महाकाल्यैवहुत्वा तु तेनैवात्र जेत्क्रमात्॥ 48
एषामराणां याम्येति ज्येष्टा ञ्चैव यजेत्क्रामात्
षड्भिश्च जातवेदेति दौर्गमन्त्रं यजेत्क्रमात्॥ 49
नन्दिन्यामूल इत्युक्त्वा आपोविवेश चोच्चरन्
शाखिन्यैवं यजेच्चैव तेनमन्त्रमुदीरयन्॥ 50
शाखाभूतेतिमन्त्रेण, देवीप्रवाहिनी तथा
वेगिन्यैवततो हुत्वा तत्र मन्त्रं समीरयेत्॥ 51
बिसिनी भूतमन्त्रेण विद्युता येतिचोच्चरन्
शाखिन्यावंयजेत्तत्र जपित्वा मन्त्रवित्तमः॥ 52
कजावाणीति मन्त्रेण विद्वान्नेति समुच्चरन्
चारण्यैव यजेत्पश्चा दुक्तमन्त्रेण कारयेत्॥ 53
मताह्यमेय मन्त्रेण आयामहं चेत्तुच्चरन्
दा मिन्याश्चैव देवत्यं जुहुया द्देशिकोत्तमः॥ 54
मयासत प्रसव्येति ददृण्या परिकीर्तितौ।
याभ्योहितप्तमुच्चार्य यामानसामित्युच्चरन्॥ 55
एव ञ्चैव तु हुत्वा तु रोहिणी गणमुच्चते
यतस्वमासीदस्मा इत्ये तौ मन्त्रौभृगोरपि॥ 56
कस्याङ्गिराविस्मापयति मन्त्र द्वयञ्चाङ्गिराः
व्यावर्धते सस्मारेति पुलगोम सुहूयताम्॥ 57
यएषोदान आनन्धः पुनस्यायजुहोति च
प्रप्रायशोये निष्यन्त क्रवे तुत धायजेत्॥ 58
योनोवशिष्ट इत्युक्त्वा तधा सप्तोत्तमायवै
वसिष्टस्य यजेत्तत्र य आनयूयेतिबृवन्॥ 59
यएवदिग्भ्य इत्युक्त्वा अत्रि ञ्चैव सहूयताम्
सएकोभूनित्त्युक्त्वा यस्त्रैष्टुभमितिबुवन्॥ 60
एतान्याकाशदैवत्यं ज्ञात्वा चैव विचक्षणः
प्रक्रम्यायोमातरिश्वा वायोश्चैवजुहोति च॥ 61
वृषाकपेओजोभिमानी पावकस्य च हुयते
आपोविश्वेति चातुर्यं जलंन्तस्याधि दैवतम्॥ 62
तयादित्या तत्रीण्येषा पृधिव्याश्चजुहोतिवै
पावकान महा आर्ण इतिसारस्वतंयजेत्॥ 63
शगंसानियच्छ, द्भूमेतिपवित्री ञ्च सुहूयताम्
यउत्तमोग्नेः पधेति जुहुयान्न्यक्ष दैवतम्॥ 64
यमर्पयन्तियस्संह विवस्वतेच हूयताम्
ऋचामधीनीतां धृतिमित्र स्यैवजुहोतिवै॥ 65
येनेष्टेच मसूह्येति महीधर न्तु हूयताम्
चरुम्पचेद्य च्छुल्याञ्चहविरक्षरमुच्यते॥ 66
चतुर्मुखीयालोकेति ब्राह्मण्यै च यधाक्रमम्
तधात्रिणेत्री चिह्नेति गणेश्वर्वै जुहोतिवै॥ (रुद्राण्यै ) 67
ज्वालामालाबालान्हरी षण्मूख्यैवसु हूयताम्
यगे युगे सर्वंरमा वैष्णव्यैच जुहोतिवै॥ 68
कल्पैष्व न्ते ष्वतीत्युक्त्वा वाराह्यैव जुहोतिवा
सासर्यमालाधरीति इन्द्राण्यैव जुहोतिवै॥ 69
चण्डीहरी मोहीति च एवं काल्वैजुहोतिवै
धातास्यविश्वं, पुल्लेति जुहुयात्पुष्प रक्षकम्॥ 70
विश्वान्बलीति सौर्येति बलिरक्षक हूयताम्
आग्नेयोप्रैषामइति विष्वक्सेनं यजेद्बुधः॥ 71
शतधारं कदापीति जुहुचात्तार्क्ष्य दैवतम्
धर्मौखमा योगन्धरं जुबुयाद्वैघ्न दैवतम्॥ 72
यमर्पयन्ति शन्नोनि शेषदेवं जहोतिवै
भूमानन्तोन्द्योनेति जहुयात्तत्रनेमिने॥ 73
आसाग्र ओज इत्यादि ध्यजन्तत्रैव हूयताम्
तन्मायशोस्मादुपास्ये ति शखाययजेद्बुधः॥ 74
भूतानां भूतभूतेति महाभूतं यजेद्बुधः
अक्षहन्तेये भूतेति पावकोर्जुन ञ्च यजेत्॥ 75
एतान्सर्वांश्च देवानां मन्त्रैहुत्वा यथाक्रमम्
वैष्णवं विष्णुसूक्त ञ्च तथा मिनादाहुतीयतम्॥ 76
आश्रावितादीनन्तेषु त्रिरावृत्यक्रमाद्यजेत्
इति श्रीवैखानसे भृगुप्रोक्तायां वासाधिकारे
सर्वदेवत्यंनाम द्वादशोऽध्यायः
—————
त्रयोदशोऽध्यायः।
– आहवनीये प्रधानहोमः –
अत ऊर्ध्वं, प्रवक्ष्याम्या हवनीयादिषु क्रमम्
यजेत्पुरुषसूक्तसन्तु, षोडशावर्त्य कारयेत्॥ 1
सकृज्जयादीन्हुत्वा तु केचिदाहवनीयके
– अन्वाहार्वे –
अन्वारार्यस्य, कुण्डे तु विष्णुसूक्तं, सहुयताम्॥ 2
ब्राह्मन्तुव्याहतीःश्चैव, जयादीन्जुहुयात्क्रमात्
– गार्हपत्ये –
वैष्णवांश्च जयादींश्च जहुयुद्गार्हपत्यके॥ 3
अधवाष्टाक्षरंमन्त्रं द्वादशाक्षरसंयुतम्
वैष्णवं, विष्णुगायत्रीं जहुयादिति, केचन॥ 4
– आवसत्थ्ये –
आवसत्ध्ये विशेषेण वैष्णवंरुद्र संयुतम्
आधवा, कायेद्विद्वा न्सूक्तमेकाक्षरादिकम्॥ 5
विष्ण्वादिचाक्षहन्तास्तु सर्वमूर्ती स्सुहूताम्
आहवनीयोक्त मन्त्र सङ्ख्यामावर्त्य हूयताम्॥ 6
विपरीतञ्चरेद्विद्वा न्विनश्यति नसंशयः
– यधोक्तद्रव्यहीने –
यधोक्तत्रव्यहीनेतु ग्रामस्ययजमानयोः॥ 7
द्रव्यहीनेततोद्दिश्य क्रियाहीने, विशेषतः
– मन्त्रहीने –
तत्रैव पुण्यहानिस्या न्मन्त्रहीने विशेषतः॥ 8
ऋत्विक् चैव कुरुश्चैव यजमानोनृपस्सधा़
एतानायुः क्षयंज्ञात्वा तस्मात्सं पूर्णमाचरेत्॥ 9
अज्ञानादर्धलोभाद्वा मोहाद्वा वैरिकारणातत्
अर्धतेजो, विनास ञ्च अल्पायुश्च, भवेन्नरः॥ 10
तस्मात्सर्व प्रयत्नेन यधोक्त, विधिनाचरेत्
– पौण्डरीक प्रधानहोमः –
अध वक्ष्ये, विशेषेण पौण्डरीकाग्नि कुण्डके॥ 11
मन्त्रद्रव्य क्रियादीनां सर्वङ्कृत्वा विचक्षणः
सितं रक्तंवा पद्मञ्च लब्धमानीय चादरात्॥ 12
कापिलेन घृताप्लुत्य सितं रक्तमाधापि वा
आब्जाग्निन्तु परिस्तीर्य प्रज्वाल्यैव विचक्षणः॥ 13
अधवाचरुणाज्येन पौरुषेण समन्वितम्
– महाशान्ति होमः – 14
रुद्रसूक्तं ततो हुत्वा सूक्तं गोदानकैर्युतम्
आत्मसूक्तं यजेच्चैव वैष्णवं सूक्त मेव च॥ 15
एवं सूक्तं सकृद्दुत्वा महाशान्ति रिहोच्यते
अधवाचेद्विसेषेण होतव्यं मन्त्रपारगाः॥ 16
अपूपसक्तुलाजैश्च तिलचूर्णैस्सहेव तु
आज्येनाप्लुत्य मन्त्रज्ञः प्रत्यग्निञ्चजुहोतिवै॥ 17
वैष्णवं विष्णुसूक्त ञ्च पौरुषेन समन्वितम्
महाशान्ति रीतीत्युक्त्वा समस्त दुरितापहम्॥ 18
पारमात्मिक मब्जाग्नौ जुहुयात्तदनुक्रमात्
कापिलेन घृताप्लुत्य श्वेतपद्म युतं क्रमात् 19
प्रत्येकं विष्णुगायत्र्या अष्टोत्तर शतंयजेत्
– पारमात्मिकम् –
अधवाजुहुयात्तत्र बिल्वपत्रं घृताप्लुतम्॥ 20
विष्णुस्सर्वेषामुच्चार्य सुसूक्ष्म ज्योतिमुच्चरन्
ईशोयस्मेति चोच्चार्य रायामीशं ततः परम्॥ 21
योब्रह्म शब्द मुच्चार्य योवात्रिमूर्तिरुच्चरन्
यद्वाकृतं समुच्चार्य कः कोश न्तु ततः परम्॥ 22
यंयज्ञेति मन्त्रेण योवाग विष्ठउच्चरन्
योवावायुरितीत्युक्त्वा त्वमग्नेत्रिगुणोवरः॥ 23
त्वञ्जीवस्त्व मन्त्रेण भूमेर्वितन्वन्नुच्चरन्
मनस्त्वम्भूत्वाम्बुद्धिर्य स्सूक्ष्मान्यस्यवा बयात्॥ 24
यन्त्वां सर्वपालनेति यस्त्वं कामो समुच्चरन्
अङ्गादङ्गात्स मन्त्रेण योमोहय समापयेत्॥ 25
योद्वादशात्मा इत्युक्त्वा योब्रह्मा ब्रह्मविदेति
सारस्वतोवा मान्त्रेण योवा परं समुच्चरन्॥ 26
योदोषश्चतुरश्चेति यस्यैतावा यधाक्रमम्
वाकोवा अनुद्वावेतौ योवा आयुर्यजेत्क्रमात्॥ 27
योवा तेजेति मन्त्रेण सहसं पासमुच्चरनम्
योवासहस्रं स्वातिगासत्वं सत्यो समुच्चरन्॥ 28
सत्यस्सत्वं पुण्यमति सत्योज्योति रितीरयन्
कामीमुमाच उच्चार्य आरणीवा ततः परम्॥ 29
तत्सत्वोवे मन्त्रेण यजेद्विष्णुं समन्त्रतः
तद्भूर्भूस्थम्भू मन्त्रेण आपोवा आप उच्चरन्॥ 30
त्रयूवा काम मित्युक्त्वा द्वौवा मुख्य इतिब्रुवन्
स एकैकस्स इत्युक्त्वा स्वयमादिरिति ब्रुवन्॥ 31
यस्स्वयं सृष्ट मित्युक्त्वा स्वौजसा सर्वमुच्चरन्
क्ष्मामेकामिति मन्त्रेण यः कुन्धेति समुच्चरन्॥ 32
येवा पृधा ञ्च मन्त्रेण याङ्गामुशन्ति मुच्चरन्
प्रजापतेनत्वेत्युक्त्वा योधूर्धुर मितीरयन् 33
योवाव्य हिंसीत्युच्चार्य तपोनिधि मतीरयन्
योवानृसिंह इत्युक्त्वा रयिः ककुत्सन्स मुच्चरेत्॥ 34
राकामहेति मन्त्रेण वेदाहमिति चोच्चरन्
दिग्दोषायस्य उच्चार्य पद्मास्येति मसुच्चरन्॥ 35
यः पुण्डरीक इत्युक्त्वा रयीणां पतिमुच्चरन्
रायां पतत्र इत्युक्त्वा यत्सारभूतमित्युत 36
फलोवा एष उच्चार्यधूर्णोवह समाहितः
विश्वं बिभर्षी त्युक्त्वा तु सोवा स्वरूपमुच्चरन्॥ 37
भूर्भुवंवेति मन्त्रेण दाक्षायण्यां यजोद्भुधः
आशास्मस्ता इत्युक्त्वा योजङ्गममितीरयन्॥ 38
योवादशानां हुत्वा तु चत्वारो दोषमुच्चरन्
उच्चार्याणोरणीयानिति ब्रुवन्॥ 39
ष्ट इत्युक्त्वा ब्जोजुषन्तं समुच्चरन्
त्मगुप्तं हुत्वा तु यञ्चिन्त ञ्च सुहूयाताम् 40
पुण्या ञ्च पुण्य इत्युक्त्वा सोनोभूतो समुच्चरन्
तस्वेव नित्यमुत्युक्त्वा यागावायुस्तधैव च॥ 41
सरोत्तमर्जोतिरिति सत्वानिर्भण्णमेव च
यस्येच्छालोकेवेति च योवेदादिस्समाहितः॥ 42
योवाव्यक्तमितीत्युक्त्वा योवाभूते समुच्चरन्
सत्यस्सत्यस्थ इत्युक्त्वा ऋतंसत्यं समाचरेत्॥ 43
आंराचिमन्त्मित्युक्त्वा मामात्मेति समुच्चरन्
एवं क्रमेण, जुहुयाद्देव देवमनुस्मरन्॥ 44
पारमित्मिक मित्युक्तं सर्वशास्त्रेण निश्चयः
अपरेवक्ष्यते विद्वा नष्टाशीतिक्रमं विदुः॥ 45
– अष्टाशीति –
अध वक्ष्ये विशेषेण अष्टाशीति क्रमं त्वहम्
आद्यन्तं प्रति मन्त्रेण स्मृत्वा देवं द्विजोत्तमाः॥ 46
आदावन्ते सकृद्धुत्वा व्याहृतीरिति केचन
विष्णवे, विष्णवेस्तिदाय, विष्णवे सर्वन्थराय च 47
विष्णवे सर्वगो प्त्रेच, विष्णवे सर्वात्मनेपि च,
विष्णवे सर्वदेवात्मने विष्णवे सर्ववेदात्मने॥ 48
विष्णवे सर्वमुनीनामात्मने विष्णवेयोगसन्धारणाय, विष्णवे सर्वप्रतिष्ठाय च,एतैश्चदशभिर्हुत्वा देवदेव मनुस्मरन्,
नारायणाय नारायणात्नने, नारायणाय सर्वदेवात्नने, नारायणायेन्द्ररूपोय, नारायणाय संयमनाधिपतये, नारायणाय
सम्भोगपतये, नारायणाय सर्वतृप्तिप्रदाय, नारायणायानन्तात्मने, नारायणाय ब्रह्मेशात्मने, नारायणाय प्रजापतये,
नाराणायानन्तशयनाय, एवमेकादशैर्हुत्वा देवमानम्य मन्तवित्, पुण्यनारायणाय, पुण्यनारायणाय
त्रिदशाधि पतये, पुण्यनारायणाय वटाक्षवासिने॥पुण्यनाराणाय
पादार्चिषे, पुण्यनाराणाय बालरूपिणे, पुण्यनाराणाय मायारुपिणे, पुण्यनाराणाय प्रबोधिने, पुण्यनाराणाय सर्वाधिष्टानाय,
पुण्यनारायणाय सर्वप्रहरणाय, पुण्यनारायणाय मूर्ध्निस्थानाय, एवं दशभिर्मन्त्रैर्हुत्वा॥ सम्यग्ध्यान परायणः, बालाय,
बालायवटपत्रशायिने " एवं मन्त्रद्वयं हुत्वा, केशवं मनसास्मरन् सत्यायसत्यनिष्टय, सत्यात्मनेसत्य नित्याय, सर्वेत्वगंहि
सत्येसत्यं प्रतिष्ठाय, सत्याय सर्वलोक प्रवर्तिने, सत्यात्म देवाय, सत्यमोदाय, सत्यसोपानकाय, त्वंहि सत्यात्मन्ध्पत्य
निष्ठोद्भवाय, एतैश्चदशभिर्हु त्वास्मृत्वा देवं जनार्धनम्, पुरुषाय, पुरुषसंस्तुताय, पुरुषसमधीताय, पुरुषनिष्ठाय,
पुरुषात्मने, पुरुष पुरुषाय, पुरुषसंस्तुताय, पुरुषसमधीताय, पुरुषनिष्ठाय, पुरुषात्मने, पुरुष पुरुषाय, पुरुषाय जगन्मित्राय,
पुरुषाय जगदाधाराय, पुरुषाय जगत्प्रवर्तिने, पुरुषाय जगधाराय, पुरुषाय जगत्प्रवर्तिने, पुरुषाय जगद्धेतवे,
एवं हुत्वा दशभिश्चैव स्मृत्वादेवं जगद्गुरुम्॥ विष्णु क्रीडात्मने, भूमिसङ्क्रीडात्मने, जगन्मोदाय, जगद्धिताय, निखुर्यपाय,
काय, कस्मै, कतमस्मै, सर्वस्मै, विष्णवे, विष्णवे मन्त्र संदृहणाय, धृवरूपिणे, संवृतात्मने, सम्प्रीतिकराय, सर्वशुभप्रदाय,
अशुभनाशाय, शुभसम्बर्हणाय “एवंसप्त दशैर्म न्त्रै रच्युतं मनसास्मरेत् ; " पुण्याय, पुण्या बलोर्जिताय, पुण्याय जय
समृद्धाय, पुण्याय कामानन्द जननाय पुण्या ब्रह्मसन्दृहणाय, पुण्याय
श्रीनिधानाय, पुण्याय ब्रह्मसन्धृहणय, पुण्याय वरस्थानाय, पुण्याय लोकमम्भावनाय, पुण्यायाद्भुताय
पुण्यायानादिनिधनाय, पुण्यायमितमहिम्ने , पुण्यायात्यन्तहिताय, पुण्याय सर्वप्रतिष्ठाय, पुण्या सर्वलोक प्रतिष्ठाय,
पुण्यायाद्भुताय,पुण्यायानादिनिधनाय, पुण्यायामितमहिम्ने, पुण्यायात्यन्तहिताय, पुण्याय सर्वप्रतिष्ठाय , पुण्याय सर्वलोक
प्रतिष्ठाय, पुण्याय सर्वलोक शुभावनहाय, पुण्याय सर्वात्मने
एवमष्टादशैर्मन्रैर्जुहु याद्धेशिकोत्तमः॥ 49
– गार्हपत्यादिषुस्विष्टकृत् –
गार्हपत्यावसत्ध्याश्चा हवनीयादि एव च॥ 50
अन्वाहार्याग्नि कुण्डे च स्विष्टाकारं पृधग्यजेत्॥
सभ्यंश्च पौण्डरीक ञ्च स्विष्टाकारं विनाचरेत्॥ 51
– चतुरिक्षुवेदाध्ययनम् –
ऋग्वेदं पूर्वभागे तु दक्षिणे तु यजुस्तथा
सामन्तु पश्चिमेभागे अधर्वन्तूत्तरे क्रमात्॥ 52
एवमध्ययनं प्रोक्तं ऋचां प्राचीरिति शृतिः
तस्मात्सर्व प्रयत्नेन ऋग्वेदादि क्रमं चरेत्॥ 53
विपरीतञ्चरेच्चैव निष्फलं तदुदाहृतम्॥
एवमध्ययनं कुर्यात्सर्वशास्त्रेण निश्चयः
इति श्रीवैखानसे भृगुप्रोक्तायां संहितायां वासाधिकारे पारमात्मिकं
अष्टाशीतिक्रमोनाम त्रयोदशोऽध्यायः।
चतुर्दशोऽध्यायः
– सभ्यप्रधानपूर्वक व सोर्धाराहोमम् –
पश्चात्सभ्यं परिस्तीर्य वसोर्दारं समाचरेत्
सृवङ्गृगहीत्वा हस्तेन पूर्वोक्ताज्यं प्रगृह्य च॥ 1
सृवेणस्रावये द्विद्वा नविच्छिन्नं समाचरेत्
विष्णुसूक्तं समुच्चार्य पुरुषसूक्त मतः परम्॥ 2
श्रीसूक्तं भूमिदैवत्यं अतोदेवादि वैष्णवम्
एकाक्षरादि सूक्त ञ्च विष्णुगायत्रियायुतम्॥ 3
एतैश्च सप्तभि स्सूक्तैश्च तु रावर्त्य हूयताम्
एवंङ्कर्तु मशक्तश्चे त्सकृद्वा ततर कारयेत्॥ 4
एवमेव क्रमेणैव रात्रिशेषं व्यपोह्य च
– शयनाधिवास स्थित देवप्रबोधम् –
ततः प्रभाते धर्मात्मा स्नात्वासूत्रोक्त वत्क्रमात्॥ 5
नित्यकर्म समाप्यैव व्रजेद्देवस्य मन्दिरम्
पादौ प्रक्षाल्यचाचम्य देवमुत्थाप्य मन्त्रवित्॥ 6
पूर्व वस्त्रं विसृज्यैव पुनरन्यं समाचरेत्।
उत्सवोक्तेन मार्गेण सर्वालङ्कारमाचरेत्॥ 7
– गर्भागारेपीठ कल्पनम् –
पश्चादालयमाविश्य सूत्रोण पदमाचरेत्
पूर्वान्तमुत्तरान्त ञ्च षट्सूत्र ञ्च प्रसार्य च॥ 8
मध्यपदे विशेषेण पीठं सम्यक्प्र कल्पयेत्
उक्तबीजं स्थलेन्यस्य बिन्दुं प्रणवसम्पुटम्॥ 9
ऊर्ध्वेपीठं प्रकल्प्यैव शिल्प शास्त्रोक्त मार्गतः
वृत्तं वा चतुरशं वा पद्माकारमधापि वा॥ 10
अन्यद्भद्राकृति ञ्चैव वैनतेययुतं पुनः
तदूर्ध्वे कल्पयेद्विद्वान्न व भागं विभागशः॥ 11
–रत्नन्यासावटदु कूलाच्छादनम् –
पूर्वोक्तेन क्रमेणैव रत्नं सम्यक्प्र कल्पयेत्
सुधया परिपूर्यैव क्षौमेणाच्छादयेत्पुनः॥ 12
तत्काले यजमानोऽपि आचार्यदीन्प्रणम्य च
– आचार्यदीनां दक्षिणादानम् –
वस्त्रोत्तरीया भरणैरलं कृत्य प्रयत्नतः॥ 13
सोदकं दक्षिणां दद्याद्विपरीतं न कारयेत्
एकविंशति निष्कन्तुगुरवे दक्षिणां ददेत्॥ 14
प्रत्येकं स्थापकादीनां निष्कमेकादशन्ददेत्
सभ्याध्वर्योर्विशेषेण तधाहोतृ समायुतम्॥ 15
पौण्डरीकस्यचाध्वर्योः प्रत्योकं पञ्चनिष्ककम्
आन्यदाहवनीयाद्य ध्वर्यूणा ञ्च चतुष्टयम्॥ 16
प्रत्येकं रुद्रनेत्राख्यं निष्कन्दत्वा समाहितः
परिषद्धोमे चाध्वर्यो रन्येषान्तु पृधक्चरेत्॥ 17
निष्कम्पादाधिकं दत्वा सम्पूर्णमितिपद्यते
यजनं दक्षिणाहीनं निष्पलन्दे शिकोत्तमः॥ 18
उक्त्वाध्वर्युस्त्वालाभे तु एकाध्वर्यैव कारयेत्
– देव्यादिनासहदेव मालय प्रवेशम् –
मुहूर्ते समनुप्राप्ते वादकाद्यादि नाह्वयेत्॥ 19
यात्रासनोक्त मार्गेण सर्वालङ्कार संयुतम्
तोयधारा समायुक्तं स्वस्ति सूक्तं समुच्चरन्॥ 20
कुम्भमादायचाचार्यो व्रजेयुस्तदनु क्रमात्
पश्चात्थ्पापकादिर्देवं देव्यौचसन्नयेत् बुधः॥ 21
प्रदक्षिणं शनैर्गत्वा देवागारं प्रविश्य च
देवस्य दक्षिणेपार्श्वे धान्यपीठं प्रकल्पयेत्॥ 22
– स्थापनम् –
पूर्वोक्त क्रमेणैव स्थापयित्वा सुरक्षयेत्
तस्य दक्षिण पार्श्वे तु श्रीदेवीं स्थआपयेद्बुधः॥ 23
तस्यैववामपार्श्वे तु मही ञ्च प्रतिष्ठापयेत्
पवित्री हरिणीभ्यान्तु सहैवादाय चादरात्॥ 24
अध वा लब्धरूपास्तु स्थापयित्वा समर्चयेत्
– उत्सवादिबेराणां स्थान निर्णयः –
देवस्य दक्षिणेभागे औत्सवन्तु समास्तरेत्॥ 25
अथ वा वामपार्श्वे तु स्थापयित्वा विचक्षणः
स्नापनं बलिबेर ञ्च दक्षिणे चोत्तरे तथा॥ 26
एवं स्थानं समीक्ष्यैव सौकर्यार्धं समाचरेत्
आसीनं वा शयानं वा स्थापनं यदि सम्भवेत्॥ 27
आङ्गिरेणोक्त मार्गेण कल्पये द्देशिकोत्तमः
तत्तन्मन्त्रेण संस्थाप्य सूक्तं स्पृष्ट्वा जपेद्गुरुः॥ 28
तत्तत्पादं स्पृशोभूत्वा सम्यग्ध्यान परायणः
– सूक्तादि पठनम् –
विष्णुसूक्त न्तु जप्यैव पुरुषसूक्तं चोच्चरेत् 29
धृव ञ्च वैष्णवं जप्त्वा देवीभ्यान्तु तधा पृधक्
पूरकं कुम्भक ञ्चैव रेचकश्च शरीरिणाम्॥ 30
क्रमादारोण ञ्चैव स्तम्भनं चावरोहणम्
पूरकाद्यास्त्रयः कालं सृष्ठिस्थिति सयात्मकम्॥ 31
सूतकं प्रेतक ञ्चैव पूतक ञ्च त्रिकालिका
नार्चयेदह्नि रात्रौ च बाह्यभ्यन्तरयोर्हरिम्॥ 32
सन्ध्यायमर्चयेत्प्राज्ञ स्सूतकं प्रेतकं विना
सूतकेप्रेतके काले पूजाभवतिनिष्फला॥ 33
सूतके प्रेतकंयाति प्रेतके सूतकं व्रजेत्
तस्मात्सर्व प्रयत्नेन पूतके हरिमर्चयेत्॥ 34
एवं देवार्चनाकालं ज्ञात्वासर्वं समाचरेत् 35
– बेरन्यास ः –
बेरन्यासं प्रवक्ष्यामि शृणुध्वं शास्त्रचोदितम्।
मूर्धादि पादपर्यन्तं न्यासङ्कृत्वा विचक्षणः 36
– व्याहृति त्रयन्यास क्रमः –
आचार्यस्सकलं ध्यात्वा सुदृढं विन्यसेद्बुधः॥
सुवर्भु वर्भूरित्यादि चाक्षराणां विशेषतः 37
ऋषिच्छन्दोधि देवांश्च क्रमाद्वक्ष्ये विशेषतः
सुवरिति सुवर्णोकं भुवर्लोकं भुवस्तधा 38
भूलोकं भूरित प्रोक्तं त्समाल्लोकत्रयात्मकाः॥
बिम्बस्य हृदये सम्यज् न्यसेद्बीजाक्षरं परम्॥ 39
– अक्षरत्रयन्यासः –
तदक्षरन्तु शुद्धात्मा प्रणवैर्वेष्ट्य मन्त्रवित्
अकारस्य ऋषिः ब्रह्मा गायत्रीछन्ध उच्यते॥ 40
परब्रह्म च तद्देवः परमात्मेतिकध्यते
रुक्माभं परमं बीजं सर्वकारण कारणम्॥ 41
तरुणार्क सहस्राभं ब्रह्मेशाभ्यां नमस्कृतम्
पद्मासनस्थं सौम्यं श्रीवत्सालं कृतोरसम्॥ 42
शङ्खचक्रधरं सौम्यं सर्वाभरण भूषितम्
– प्रणवाक्षर प्राथान्यम् –
ओं मित्येकाक्षरं ब्रह्म प्रणवं परिपठ्यते॥ 43
देवास्सप्रणवंयान्ति तस्मात्प्रण व उच्यते
ओङ्कारदुद्भवोब्रह्म अन्तर्यामी जगत्प्रभुः॥ 44
प्रणवस्य ऋषिर्ब्रह्मा छन्दोगायत्रि रुच्यते
परमात्मा चतुर्वेदो गोत्रमाधर्वणं चयत्॥ 45
भूरग्न्यात्मक इत्युक्त्वा भुवः प्राणात्मने त्यपि
सुनस्सूर्यात्मनेत्युक्त्वा ब्रह्मात्माभूर्भू वस्सुवः। 46
सत्यात्मनेऽस्त्राय तधा पञ्चाङ्गानि च भद्रतः
अक्षराणान्तु वक्ष्यामि देववर्णान्यनेकशः॥ 47
– प्रणवाक्षर विचार ः –
अकारं पृथिनी ज्ञेयं पीतवर्णेन संयुतम्
अन्तरिक्षमुकान्तु विद्युद्वर्ण मिहोच्यते॥ 48
मकारस्सुवरिति ख्याता शुक्लवर्णेन वर्णकम्
तस्यप्रकृति लोनस्य यः परस्समहेश्वरः॥ 49
अकारस्य मकारस्य ब्रह्मणः परिकल्पितम्
बीजमोङ्कार वृक्षस्य वडस्यमणि कायका॥ 50
शक्तिरन्य त्समाख्याता अकारद्वित यान्विता
गायत्री च तथानुष्टुह्जकती च यधाक्रमम्॥ 51
स्वरस्योङ्कार वृक्षस्य त्रिष्टुब्गाय त्रिरुच्यते
अनादि बीजमव्यक्तं अनन्ताक्षर मच्युतः॥ 52
अमृतश्चाव्य यस्तस्मदकारो विष्मुरुच्यते
उत्तमोत्तम मूर्ध्वस्थ मुभयोश्च ततः परम्॥ 53
जगतश्च तत स्तस्मादुकारो विधिरुच्यते
मिध्ये सर्वस्य जगतो जगन्मध्ये च यस्सधा॥ 54
महतः परमोमार्गो मकारः परमेश्वरः
एतानर्धान्समाहृत्य मुनिभिः परदर्शिभिः॥ 55
प्रणवस्तस्य ऋषिभिः प्रजापति रिहोच्यते
देवं ब्रह्माधिपं पीतं गोत्रञ्चाधार्वणं हियत्॥ 56
छन्दश्च देवीगायत्री रित्येवं मनसास्मरन्
एत न्न्यासमिदं शृत्वा मया चैव शृणुष्ववै॥ 57
क्षीकारलकार न्यासक्रमः (श्री महीदेव्याः न्यासक्रमः)
श्रीकारं रुक्मवर्णन्तु मङ्कणो ऋषिरुच्यते
छन्दो गायत्री रुद्दिष्टा देवता श्रीरुदाहृता॥ 58
ईकारं बीजमित्युक्तं शक्तिर्बिन्दुरिति स्मृतम्
लकारं शुक्लवर्ण न्तु विस्वामित्र ऋषिस्मृतः 59
छन्द श्चानुष्टुबित्युक्तो देवता हरिणी स्मृता
पठेत्त्वेकार बीजन्तु नादंशक्ति रुदाहृतम्॥ 60
– परिवार देवतानां तत्तद्बीजाक्षर न्यासः –
पर्वेषां परिवाराणां हृदयेत्वक्षरं न्यसेत्
उक्तबीजाक्षरं वाध तन्नामाद्यक्षरन्तु वा॥ 61
मार्कण्डेयं मकार ञ्च भृकार ञ्च भृगोस्तधा
मकारं ब्रह्मणो स्तद्वदुकारं शङ्करस्य तु॥ 62
इन्द्रस्य तु हकारं वा रकारं पावकस्य तु
यकारं यमदैवत्यं पकारं नैर् ऋतेस्तथा॥ 63
वकारं वा यकारं वा रकारं पवकस्य तु
वायोर्यकारं राकारं कुबेरेस्य तधैव च॥ 64
विकारं विष्वक्सेनस्य शकारं शङ्करस्य तु
रूकारं वा खकार वा भास्करस्य विशेषतः॥ 65
गकारं गरुडस्याध चकारं चक्रदैवतम्
छकार ञ्च ध्वजस्योक्तं शकारं शङ्ख दैवतम्॥ 66
भूकारं भूतदैवत्यं स्मृत्वा बीजाक्षरं न्यसेत्
बीजाक्षरो विशेषेण यस्यजेवस्यनोच्यते॥ 67
तस्य बीजाक्षरं प्रोक्तं तस्यनामादि चाक्षरम्
यद्देवस्य च यद्वर्णं तद्वर्णं तस्य चाक्षरम्॥ 68
एवं क्रमेण सम्प्रोक्तं शृणुध्वमृषि सत्तमाः
इति श्री वैखनसे भृगुप्रोक्तायां संहितायां 69
वासाधिकारे स्थापन विधान स्वरबीजाक्षर न्यासंनाम चतुर्दशोऽध्यायः। ———————————
अथ पञ्चदशोऽध्यायः।
– कुम्भस्पर्शने एकाक्षर सूक्तजपम् । –
अथ वक्ष्ये विशेषेण देवतावाहन क्रमम्
एकाक्षरादिना जप्त्वा शक्तिकुम्भं स्पृशन्जपेत्॥ 1
– अक्षरन्यासम् । –
बिम्बस्याङ्गस्य कृत्न्पेतु न्यसित्वा मन्त्रवित्तमः
अकारादिक्षकारान्तं न्यसित्वा सर्वसन्थिषु॥ 2
कूर्चेनादाय तद्भक्त्वा ध्यानयुक्तं सुनिश्चलम्
इदं विष्णुरीती त्युक्त्वा आयातु भगवानिति॥ 3
– बिम्बेष्वा वाहनम् –
कूर्चेनादाय तच्छक्तिं धृवबेर स्यमूर्धनि
अवाहयेत्तु तच्छक्तिं पञ्चमूर्ति क्रमेणवै॥ 4
अधवाऽचार्य हस्तेन तोयपुष्पादिना ह्वयेत्
अचले देवदेवेशं तद्व्याप्तं तिष्टति श्रुतिः॥ 5
– देव्यादीना मावाहनम् । –
सब्रह्म सशिवश्चेति प्रणम्यै वानुमन्यते
पश्चाद्देव्यौ समावाह्य समस्कुर्यात्प्रयत्नतः॥ 6
श्रियेजातेति मन्त्रेण श्रियमावाहयेद्बुधः
मेदिनीतिच मन्त्रेण हरिणीं सम्यगाह्वयेत्॥ 7
– कौतुकादि बेरेष्वा वाहनम् –
कौतुकं चोत्सव ञ्चैव स्नपन ञ्च तधैव च
धृवबेरा त्समावाह्य दीपाद्दीपमिव क्रमात्॥ 8
प्रणिधि मुद्धृत्य तत्काले कूर्चेनावाहयेद्बुधः
कौतुकस्य च देव्यादी सुत्सवस्य विशेषतः॥ 9
सम्यक्पूर्ववदाहृत चोक्तमन्त्रं समुच्चरेत्
यधागार्ह पत्य स्यादाहव नीयादिषु क्रमात्॥ 10
अग्निं प्रणीय हुत्वा तु तधा चैव धृवस्य तु
कौतुकादी न्समावाह्य विधिना सम्यगर्चयेत्॥ 11
द्विधाचावाहनं प्रोक्तं अचलेत त्तथाचले
अचले निष्कलं प्रोक्तं चलन्तस्य धृवादिषु। 12
पूर्व न्तु निष्कलं ध्यात्वा धृवे चा वाहयेत्ततः
अथवाचे द्विशेषेण आहू यात्रा विधिंस्मृतम्॥ 13
अचलं धृवबेर ञ्च चल न्त त्रैवजङ्गमम्
पूर्वं धृवादावाह्य तस्मादावाहयेच्चले॥ 14
नवधामार्ग मालक्ष्य यथेच्छं कर्तुरिच्छया
नित्यं विधिवदभ्यर्च्य यथारूपं प्रकल्पयेत्॥ 15
– अर्चकादीनां भूमिभोग क्रमः। –
भूमि भोगक्रम ञ्चैव तथावै चार्चकादिषु
वादकान् देवदास्यादीन् नृत्तगेयान् वनिर्दिशेत्॥ 16
सर्वमाचार्य हस्ते तु दत्तमेकं नसंशयः
एवं क्रमेण तत्सर्वं सर्वशास्त्रेण निश्चयः॥ 17
– लोहशिलादिषु दान शाशनम् । –
शिलायां लेखयेच्चैव तामरपत्रे तु लेखयेत्
विपरीतं न कुर्वीत विधिना परिकल्पयेत्॥ 18
– यागद्रव्यं आचार्य प्रतिग्रहम् । –
यागोपयुक्त द्रव्याणि सर्वमादाय बुद्धिमान्
आचार्य प्रदातव्यं दत्वोदक पुरस्सरम्॥ 19
अन्यथा यजमानस्य निष्पलन्त्विति शाशनम्
अधवा यजमानस्यकारयेद् त्रिणोक्तवत्॥ 20
एवं यः कुरुते भक्त्या ऐहिकामुष्मिक प्रदम्
स्वपुत्र दारकक्षेत्रं मित्र ञ्च कुलमेव च॥ 21
पशुपुत्र वाहनादि वृद्ध्यर्धन्तु विशेषतः
सुवर्णरत्न धान्यादि सर्वस्यैव प्रवृद्धये॥ 22
सर्वाशुभ विनाश ञ्च सर्वाभीष्ट प्रवृद्दिदम्
अन्ते विमान मारुह्य तद्विष्णोः परमं पदम्॥ 23
इति श्रीवैखानसे भृगु प्रोक्तायां संहितायां वासाधिकारे
आवहन क्रमं नाम पञ्चदशोऽध्यायः।
षोडशोऽद्यायः।
– श्री भूम्योः पृद्धक्प्र तिष्टाक्रमः। –
अथ ऊर्थ्वं प्रवक्ष्यामि श्रीभूम्योः स्थापनक्रमम्
देव्योर्मान ञ्च भेद ञ्च मधूच्चिष्टक्रमं तधा॥ 1
लोहस्रावादिकं कर्म तर्नन्यास क्रमं तथा
पीठ सङ्घट्टन ञ्चैव नयनोन्मीलन क्रमम्॥ 2
पञ्चागव्याधि वासादीन् शयनेऽप्यधि वासनम्
कुण्डस्य लक्षण ञ्चैव तधा त्रव्यस्य सङ्ग्रहम्॥ 3
एवमादीनि सर्वस्य पूर्वमेव प्रचोदितम्
विशेषमत्र वक्ष्यामि श्रुणुध्वं शास्त्रचोदितम्॥ 4
शयनात्पूर्व भागेतु सभ्यमेकं प्रकल्पयेत्
आ घारं विधिवत्कृत्वा हौत्रं तत्रैव शंशयेत्॥ 5
देवीभ्यामूर्ति रावाह्य मुनिभ्य ञ्च जयादिषु
जुष्टाकारं जुहुयात्कारये द्देशिकोत्तमः॥ 6
प्रतिष्टोक्त क्रमेणैव कुम्भमेकं प्रपूरयेत्
अधवा तत्पृ धक्कुम्भं पूजयित्वा समाहितः॥ 7
धृव देवं यदि स्यात्तु कुम्भं तत्रैव पूजयेत्
सूर्यमण्डल मध्यस्तं देवमावाहयेद्द्विजः॥ 8
अधवा घटद्वयं ग्राह्यं पूजयेच्छास्त्र निश्चयः
दुर्गा सारस्वतं सूक्तं श्रीसूक्तं सहितं क्रमात्॥ 9़
द्वादशावर्त्य हुत्व तु परवित्री ञ्चैव कारयेत्
सारस्वत ञ्च श्रीसूक्तं भूसूक्तं सहितं क्रमात्॥ 10
एवमष्टभि राहृत्य हरिण्या श्चात्रहूयते
रात्रिशेषं व्यपोह्यैव स्नानाद्यादीनि कारयेत्॥ 11
प्रतिष्टो क्रमेणैव कुम्भं देव्योश्च सन्नयेत्
उक्तस्थाने निवेश्यैव तत्न्मन्त्र मुदीरयन्॥ 12
तत्तत्पादं पृथक्न्पृश्य तत्तत्सूक्तं जपेद्बुधः
मूहूर्ते समनु प्रोप्ते उक्तन्यास क्रम़ं चरेत्॥ 13
पश्चादावाहनं कृत्वा विधिनासम्य गर्चयेत्
अथ वक्ष्ये विशेषेण देव्यो र्वैवाहिक क्रमम्॥ 14
– देव्योर्विवाह क्रमम्। –
देवं देव्यौ सहस्थाप्य विवाहं नैवकारयेत्
विवाहं तत्र कर्तव्यं कारयेदिति केचन॥ 15
पूर्वेच देव देवेशं संस्थाप्य विधिना बुधः
पश्चाद्देव्यौ सहस्थाप्य क्रमाद्वैवाहिकं चरेत्॥ 16
यागशाला मलङ्कृत्य पूर्वोक्तेन विधानतः
कुण्डमौपासनं कृत्वा तयोर्मध्ये तु कारयेत्॥ 17
शुद्दस्नानोक्त मार्गेण देवेशं स्नापयेद्बुधः
उत्सवोक्त क्रमेणैव देवेशं समलं कृतम्॥ 18
देवीभ्यां समलकृत्य आस्थाने विष्टरे न्यसेत्
ऊर्ध्वेवस्त्रं समास्तीर्य देवं देव्यौ समानयेत्॥ 19
विष्टरोपरि सन्न्यस्य विधिना सम्यगर्चयेत्
आघारं विधइवत्कृत्वा सर्ववाद्यादि घोषयेत्॥ 20
आचार्यं समलं कृत्य यजमानो मुदान्वितः
ग्रामस्य यजमानस्य कल्पयेद्याग मन्दिरम्॥ 21
अग्नेः पश्चिमतः कल्पय् तल्प मत्रैव कल्पयेत्
देव देव्यौ समानीय तल्पस्योपरि विन्यसेत्॥ 22
देवीद्वय यतं कल्प्य एकेवापि च कारयेत्
पाद्य माचमनं दत्वा पलश्चात्कर्म समाचरेत्॥ 23
अथवा वस्त्रद्वयं चन्नं विष्टरं तत्र विन्यसेत्
नृपवत्पूज यित्वैव उक्तभोगं ददेद्बुधः॥ 24
– मधुपर्कदानम् । –
प्रङ्मुखन्देव मासाद्यतस्य दक्षिण पार्श्वतः
उत्तराभि मुखस्तिष्ठन् मधुपर्कं प्रदापयेत्॥ 25
यन्मधुवो मधव्येति दद्यादाचमनं पुनः
आत्मसूक्तं ततोजप्त्वा सूक्तमेकाक्षरं बुधः॥ 26
देव देवं प्रणम्यैव स्वागत ञ्च समाचरेत्
सूत्रोक्ते नैव मार्गेण कृत्वा वैवाहिक क्रमम्॥ 27
देवं देव्यौच संवीक्ष्य प्रसुग्मन्तेति चोच्चरन्
अभ्रातृघ्नीति मन्त्रेण देवं देव्यौ परस्परम्॥ 28
पश्चात्तद्यज मानस्तु देव्यौदत्त्वा तु सोदकम्
देव्यौ प्रदाता तत्काले नामगोत्र पुरस्सरम्॥ 29
पाव(र्ष)कं सम्परि त्यैव त्रयोवाथ सकृत्क्रमात्
– गोत्र प्रवर निर्णयम् । –
अत्रिगोत्राश्च मह्याश्च गोत्रं प्रवदेच्छ्रियम्॥ 30
सदेवं भरद्वाजेन प्रोक्तोदश पुरस्सरम्
श्रियः प्रदान काले तु भृगुं वा भ्दिंवाचिन्तयेत्॥ 31
मह्याः प्रदाने सस्कृत्वा दाता चैव प्रजापतिम्
स़ञ्चिन्त्य दत्त्वा तन्नाम्ना देवदक्षिण हस्तके॥ 32
प्रधानमाहूतिं पश्चाल्लाज होमं यजेत्क्रमात्
देवं देव्योस्सहादाय परीत्नाग्निं विधानतः॥ 33
स्पृशन्नश्मन्तु तत्रैव देवं देव्यौ च कारयेत्
तथा सप्तपदाक्रान्तं देवदेव्यौ च कारयेत्॥ 34
अथैवाग्निं परीत्याशु पदाक्रान्तन्तु सप्तकम्
अश्म स्पर्शन ञ्चैव आचार्येणैव कारयेत्॥ 35
स्तोमानारोपये त्पश्चा द्विधिना सम्यगाचरेत्
धृव सन्दर्शनाद्यादि नाचरेति ति शाशनम्॥ 36
अन्यत्सर्वं समङ्कुर्या त्सूत्रोक्त विधिनाचरेत्
अधवाकारये द्विद्वा न्यजमान गृहेकृते॥ 37
– देव देव्योर्विवाहे यजमान गृहेकृते सति। –
विवाहं कुरते तत्र पक्वादीनि निवेदयेत्
हविरत्र निवेद्य ञ्च नकुर्याद्देशिकोत्तमः॥ 38
यानमारप्य तत्पश्चादुत्सवोक्त विधानतः
ग्रामं प्रदक्षिणी कृत्य आस्थाने स्थापयेद्भुधः॥ 39
शुद्धस्नानोक्त मार्गेण देवदेव्यौ सहासने
स्नानसनोक्त मार्गेण स्नापयित्वा विचक्षणः॥ 40
नित्यपूजोक्त मार्गेण मुखवासान्त मर्चयेत्
उपलाल्यच भक्तानां सन्मानं चानु पूर्वकम्॥ 41
देव देव्यौ सहादाय जीवस्थाने निवेशयेत्
पादौ पुष्पाञ्जलिं दत्त्वा स्तुत्वादेवं प्रणम्य च॥ 42
एवं यः। कुरुते भक्त्या ऐहिकामुत्र सिद्धये
एवं क्रमेण कर्तव्यं विपरीतं नकारयेत्॥ 43
श्रीवैखानसे भृगुप्रोक्तायां संहितायां
वासाधिकारे श्रीभूम्योः प्रतिष्ठा विवाह विधिर्नाम षोडशोऽद्यायः।
सप्तदशोऽध्यायः।
– अवतार प्रतिष्ठा –
अध वक्ष्ये विशेषेण मत्स्यादीनां यधाक्रमम्
रूपं स्थानं प्रतिष्ठा च रुपेणैव यधाक्रमम्॥ 1
अल्पग्रन्ध ञ्च बह्वर्दं शृणुध्वं, मुनिसत्तमाः
पूर्वोक्त गुणसम्पन्नं शिल्पिञ्च समाह्वयेत्॥ 2
आयादीनि शुभं वीक्ष्य आनुकूल्य दिनेकृतम्
दारुकेष्ट शलावाध कृहीत्वाभास सार्थकम्॥ 3
रुपङ्कृत्वा यथान्यायं मत्स्यादीनि यधाक्रमम्
मत्स्यः कुर्मो वराहश्च नारसिंहोऽध वामनः॥ 4
रामोरामश्च रामश्च कृष्णः कल्कीतिते दश
अथवा बुद्दयुक्त वा कृष्णेन सहकारयेत्॥ 5
– श्री मत्स्यस्व रूपम्। –
देवस्य मत्स्यरूपस्य लक्षणं वक्ष्यते मया
ग्राम्यादीनि च सर्वत्र मध्यमे पशमेपि वा॥ 6
दीर्घशालां त्रिकूटं वा सर्वयत्नेन कारयेत्
हस्तिपृष्ट विमान न्तु कुम्भाकार मधापि वा॥ 7
एवं विमानं सङ्कल्प्य दक्षिणे इष्टकैर्युतम्
उक्तधृवस्य मानस्य धृवबेरन्तु मत्स्यकम्॥ 8
द्वितालोन्न तमं कुर्यान्मानमे व मुदाहृतम्
नासाग्र पुच्छपर्यन्तं अष्टाविंशति मात्रकम्॥ 9
नासामा त्रान्तरं मात्रश्चतुस्कन्धो द्विमात्रकम्
तस्मात्पुच्छ मूलान्तं चतुष्कं हस्तकूटवत्॥ 10
षण्मात्रं शीर्षके तारा मुदरं नवमात्रकम्॥ 11
पुच्छमूलं चतुर्मात्रं पुच्छन्तत्रैव योजयेत्
पुच्छार्धन्तु द्वितालं स्याद्विमात्रा द्यर्धमात्रकम्॥ 12
पक्ष स्यायाम विस्तारं कुर्यात्तद्वित्र्तिको बुधः
एवं मत्स्यं धृवम्बेरं कारयित्वापरं क्रमात्॥ 13
अवताराणा ञ्च सर्वेषां कौतुकन्तु चतुर्बुजम्
पूर्वोक्त विधिनालक्ष्य कौतुकं तत्र कारयेत्॥ 14
– तत्प्रतिष्ठा । –
विशेषमत्र वक्ष्यामि अब्जकुण्डं प्रधानकम्
हौत्रमन्त्रान् प्रशस्यैव विशेषोदेव माह्वये॥ 15
मत्स्य ञ्च जलज ञ्चैव भद्रं क्रीडा त्मकं त्विति
एवमादीनि सर्व ञ्च अन्यत्पूर्व वदाचरेत्॥ 16
जुष्टाकारं ततः कृत्वा मन्त्रमत्र विशेषतः
यस्स्वयं स्पष्ट मित्युक्त्वा अष्टोत्तर शतंयजेत्॥ 17
पूर्वोक्ते नैव मार्गेण संस्थाप्य विधिनार्चयेत्
एवं यः कुरुते भक्त्या सर्वकामार्थ सिद्धमे॥ 18
सुखानिह बहुन्भुक्त्वा अन्ते सायुत्यमाप्नुयात्
– श्री कूर्मरूपम् । –
कूर्मरूपं मयावक्ष्य लक्षणादीनि कारयेत्॥ 19
ग्रामादि वास्तुमध्ये तु पर्वताग्रे विशेषतः
नदीतीरेऽब्धि वालायां इन्द्राद्या अष्टदिक्षु च॥ 20
नन्द्यावर्ते च वृत्तायां कुम्बाकारे तधैव च
फेलाकार ञ्च सङ्कल्प्य विमानं तत्र कारयेत्॥ 21
द्वाराभिमुख मासीनं कूर्मरूप न्तु कारायेत्
कृत्वा सर्व ञ्च पूर्वोक्तं मानं रूप ञ्च कल्पयेत्॥ 22
उत्तम ञ्चैक तालेन मानमेव विधीयते
शिरोमानं द्विमात्रन्तु कण्ठस्यैकाङ्गुलं भवेत्॥ 23
हृदयं तत्रिमात्रं स्यात्तत्तत्सं जाति मध्यमम्
षष्टं त्रिमात्रमुक्त वै कोष्टबाहुतलं तधा॥ 24
एकैक मङ्गुलं पोर्क्तं पादमानं तधैव च
तद्विस्तार समायामं शेषरूपं विशेषतः॥ 25
एवमेवं धृवङ्कृत्वा कौतुकञ्च चतुर्भुजम्
कृत्वा विधानमेवन्तु पूर्ववत्द्सा येद्गुरुः॥ 26
– तत्प्रतिष्ठा । –
विशेषञ्चात्र वक्ष्यामि कार्हपत्ये विशेषतः
हौत्रमत्र प्रशंसन्ति विशेषं मूर्तिरुच्यते॥ 27
आगूबरं जल़ञ्चेति कूर्मं कच्छप मित्यपि
सर्वमावाह्य पूर्वोक्तं निरूप्याज्याहु तिर्यजेत्॥ 28
रायामीशेति मन्त्रेण अष्टाधिक शतं यजेत्
सर्वाग्निषु च हुत्वान्य त्पूर्वोक्ते नैवकारयेत्॥ 29
उक्तवत्थ्पापये द्विद्वा न्विधिना सम्यगर्चयेत्
एवं यः कुरुते भक्त्या ज्ञानैश्वर्यं लभेन्नरः॥ 30
इष्टान्सर्वा नवाप्नोति विष्णुलोकं सगच्छति-
इति श्री वैखानसे भृगु प्रोक्तायां संहितायां
वासाधिकारे मत्स्य कूर्म प्रतिष्ठा विधिर्नाम सप्तदशोऽध्यायाः।
अष्टादशोऽध्यायः।
– श्री वराह स्वरूपम् –
अथ ऊर्थ्वं वराहस्य लक्षणं स्थापनाक्रमम्
सर्वतो भद्रक ञ्चैव चतुष्कुट विमानके॥ 1
पर्वताकृतिके वापि विमानं चात्रकल्पयेत्
उक्तमानं धृवम्भेरं वराहं तत्र कल्पयेत्॥ 2
मध्यमं दशतालेन मानोन्मानन्तु कारयेत्
अर्थ्यर्धायत, मुद्दिष्ट मानासामुख मस्यवै॥ 3
दंष्ट्रमेकन्तु तत्रैव दक्षिणे समुदाहृतम्
सकर्णा शङ्ख संयुक्ता वीरमङ्कुर पूरितम्॥ 4
उक्तादन्य न्तु तत्सर्यं पूर्वोक्तेन विधानतः
मुखमानंस मुद्दिष्टं षोडशाङ्गुल मानतः॥ 5
मध्यं नासासमं कुर्यादूर्ध्व धश्च सम ञ्च तत
मुखंनाभ्याश्च पार्श्वे तु देवीप्रेक्ष्यं समाचरेत्॥ 6
दक्षिणे चारुपार्ष्ण ञ्च तामाहृत्याभिलाषिकम्
सम्प्रेक्षमाणे देवेशे देवीमुद मवाप्नुयात्॥ 7
महाविष्णोर्वराहस्य गरुडो भुजवाहनः
सत्यान पायुन ञ्चैव निर्माल्याभरणोच्यते॥ ? 8
– ऋगादि वेदपुरुष स्वरूपम् । –
देवस्य वाहनान्यत्र चत्वारः परिकीर्तिताः
श्वेतवर्णन्तु ऋग्वेदं यजुर्वेदन्तु पीतकम्॥ 9
बालार्कस्य निभं सामं रक्तवर्णं त्वधर्वणम्
द्विभुजो ऋग्वजुश्चै व मौली पीताम्भ रैर्युतम्॥ 10
चतुर्भुज ञ्च सामा स्याद्ध्यात्वा तद्देशिकोत्तम॥
द्विभुजं चाप्य धर्वाणं दक्षिणाद्युत्तरान्तकम्॥ 11
यथाक्रणेण सस्थाप्य चतुर्वेद विधिं क्रमात्
निर्माल्याभरण युक्तं पुलिन्द ञ्चैव कारयेत्॥ 12
मकुटाभरण संयुक्तं तप्तकाञ्चन सन्निभम्
विधिना कारयेत्सम्य क्कौतुकं तत्र कारयेत्॥ 13
यधोक्तं विधिनास्थाप्य विशेषं चात्र वक्ष्यते
सभ्ये हौत्रं प्रशंस्यैव मूर्तीरावाह येत्क्रमात्॥ 14
– तत्प्रतिष्ठा। –
वाराहं वरद ञ्चैव भूमिसन्धारणं त्विति
वज्रदंष्ट्रिण मित्युक्त्वा परिवार ञ्च पूर्ववत्॥ 15
ऋग्वेद ञ्च यजुर्वेदं समाधर्वण मेव च
एतद्वैतार्क्ष्य मावाह्य पुलिन्दंसु प्रसन्नकम्॥ 15
तपोमुख ञ्च पुण ञ्च निर्वाप्यग्निं समाचरेत्
एवं यः कुरुते भक्त्या यजमानो मदान्वितः॥ 16
ज्ञानैश्वर्य ञ्च सम्प्राप्य विष्णुलोक मवाप्नुयात्
इति श्री वैखानसे भृगु प्रोक्तायां संहितायां वासाधिकारे
वराहमूर्ति स्थापनं नाम अष्टादशोऽध्यायः।
विंशोऽध्यायः।
– नारसिंह स्वरूपम् –
अधवक्ष्ये विशेषेणे नारसिंह विधिक्रमम्
त्रिकूटे मण्डपेवापि हर्म्यके पर्वताकृतौ॥ 1
नृसिंह धृवबेरस्य धृवबेरोक्त वच्चरेत्
मध्यमं दशतालेन मानोन्मानादिकं भवेत्॥ 2
शिरोमानं त्रिमात्र न्तु नेत्रान्तं रसमात्रकम्
अनुक्त ञ्चैव यत्सर्वं शिल्पशास्त्रोक्त वच्चरेत्॥ 3
– तत्प्रतिष्ठा । –
अत्रैव कौतुकं कुर्याच्चतुर्बुज मधापि वा
विशेषमत्र वक्ष्यामि प्रधानं पद्मकुण्डके॥ 4
पूर्ववद्धौत्र मुच्चार्य मुर्तिमन्रैरे वाह्वयेत्
नारसिंहं तपोनाथं महाविष्णुं महाबलम्॥ 5
अनन्त बलमुत्युक्त्वा अन्यत्पूर्व वदाचरेत्
निर्वापञ्च तु कर्तव्यं स्वाहारा न्तु कारयेत्॥ 6
योवानृसिंह इत्युक्त्वा यजेदष्ट शताधिकम्
स्थापनाद्यर्चनं सर्वं पूर्वोक्ते नैव कारयेत्॥ 7
– वामन स्वरूपम् –
अतः परमिदं वक्ष्ये वामनस्य हरेर्विधम्
सोमं छन्दं त्रिकूटं वा विमानं दीर्घशालकम्॥ 8
राजधान्यां नगर्यां वा ग्रामे चैवाग्रहारके
विमाने दक्षिणे पार्श्वे कल्पयेद्वामना कृतिम्॥ 9
नवतालेन मानेन कार्यित्वा सलक्षणम्
ऊर्ध्वाधश्च समङ्कुर्या दायामं मुखमुच्यते॥ 10
गोलकं गलमानं स्यादानाभे स्सम्मितं मुखम्
मेढ्रान्मूलाङ्गुलं पञ्च ऊरुं तंमुख सम्मितम्॥ 11
जानुप्रदेशे कर्तव्यं गोलकं चाङ्गुलार्धकम्
मुखायाम ञ्च जङ्घे न्तु तारान्तश्चरणं भवेत्॥? 12
पादं त्र्यङ्गुलं तत्र अत्यर्थं गुल्भमङ्गुलम्
उष्णीषोर्दङ्गुलं विद्यात्प ञ्च तालन्तु वामनम्॥ 13
–चित्रवामनः –
द्वियङ्गुलाधिकं प्रोक्तं वामनं चित्रवामनम्
मुखायामं तदर्ध स्स्यात् बाहूद्वौमणिबन्धयोः॥ 14
तदूर्ध्वे मुखबन्दौ च सद्वियङ्गुल मुच्यते
दशाङ्गुलेन मानेन कारये द्देशिकोत्तमः॥ 15
नाहं तदुक्तवत्कृत्वा स्मृत्वा सर्वाङ्गुलं भवेत्
ब्रह्मवेष समायुक्तं जटिनं ब्रह्मचारिणम्॥ 16
कृष्टाजिनधरं शान्तमूर्तिं सर्वविभूषितम्
वेद्याध्ययन शील ञ्च हस्ते पुस्तकधारिणम्॥ 17
धारिणं छत्रहस्त ञ्च तिष्टन्तं मानुषं पदम्
– त्रिविक्रम्ः । –
स्थापये त्तत्र लोकेशं त्रिविक्रम ञ्च दैविके॥ 18
उक्तमानं धृवे चैव धृवबेरं त्रिविक्रमम्
मानोन्मान प्रमाणादि उत्तमं दशतालकम्॥ 19
– अष्टभुजः। –
चतुर्भुजं द्विभुजं वा ततश्चाष्ट भुजेन वा
हस्ते दक्षिणपार्श्वे तु गदाचक्रासि शक्तिधृत्॥ 20
तधैव वामपार्श्वे तु शङ्खंशार्ङ्कं शरम्पुनः
खेटकं चायुधाष्टौ तु सव्यहस्ते विचक्षणः॥ 21
वामेनोद्धृत पादेन दक्षिणाधः प्रासारितम्
उक्तं सूची तथा कुर्याद्धस्तं पूर्वविधानतः॥ 22
उद्धृत्य वामपादस्तु सुस्थि तेन च दक्षिणम्
अतिवेग समायुक्तं भूषितं सर्वभूषणैः॥ 23
– चतुर्भुजः। –
एवं भूजाष्टकं प्रोक्तं चतुर्बुज मधोच्यते
दक्षिणं हि जलादानं पूर्ववदितरं भवेत्॥ 24
कराभ्य ञ्च तुद्वाभ्या ञ्च सङ्खचक्रराव पि
द्विभुजं चात्र वक्ष्येत शृणुध्वं शास्त्रचोदितम्॥ 25
– द्विभुजः।–
भुजन्तु दक्षिण ञ्चैव पादं जलपरं भवेत्
वामेनोद्धृत पादेन प्रासारितेतरं भवेत्॥ 26
द्विभुजं भूतिकामी स्याद्राज्य कामी चुर्बुजम्
भुजमष्ट न्तु विजयी सर्वकामं सुखीलभेत्॥ 27
समतित्रय लोकस्य उद्धृतश्चैव पादयो ?
ब्रह्मलोकं समासाद्य ब्रह्मणः पुरतोधृतम्॥ 28
– त्रिविक्रम परिवारम् । –
पादप्राक्षालन परं विधात्रा परमेष्टि ना
प्रक्षालना त्परिभ्रष्टा गङ्गाद्यैः श्रोतरूपिणी॥ 29
दैत्ये भ्रममानेनस मुचितं श्याम रूपिणम्
जाम्बवं भ्रममाण न्तु वल्लरीताडन ञ्चरेत्॥ 30
लोकपालांश्च कर्तव्यं प्राञ्जली कृतमाचरेत्
मुष्टि प्रहरणं वामेशुक्रं दानं विचोदितम्॥ 31
प्रहरन्तं गरुत्नन्तं करेणैव तु दक्षिणे
दक्षिणे वा मनस्यैव जलदानपरं बलिम्॥ 32
हेमवर्णं प्रकल्प्यैव सर्वभूषण कैर्युतम्
प्रवालाभान्तु देवी ञ्च दक्षिणे च सुलोचनाम्॥ 33
महावर्ष समायुक्तं महाहलि करेण च
करमुद्दृत्य पाणिभ्यां धारया दानतत्परः॥ 34
कसकाभं पूजकं कृत्वा शङ्खभं शङ्करं भवेत्
भृगु ञ्च मार्कण्डेय ञ्च विधिना कारयेद्बुधः॥ 35
– तत्प्रतिष्ठा क्रमः । –
कौतुकस्योक्त मार्गेण कृत्वा चैव चतुर्भुजम्
प्रतिष्टोक्त क्रमेणैव सर्वं कृत्वा समाचरेत्॥ 36
विशेषमन्त्रं वक्ष्यामि शृणुध्वं मुनिसत्तमाः
अन्वाहार्ये प्रथानाग्नौ हौत्रं तत्र प्रशंसयेत्॥ 37
त्रिविक्रमं त्रिलोकेशं लोकाधार मिति ब्रुवन्
वैकुण्ठमित चा वाह्य वामन न्तु तथा ह्वयेत्॥ 38
वामनं वरद ञ्चैव काश्यपात्मज मित्य पि
अदितिप्रिय मित्येव मावाहन मधाचरेत्॥ 39
कनकाभं मुनिमुख्यं वसप ञ्च मयापरम्
शङ्खल ञ्च मिनि ञ्चेति सत्यधर्मं तपोनिधिम्॥ 40
पुण्य ञ्च जाम्बव ञ्चैव सुखदं वैविरोचनम्
त्रिलोकालोक नीलाभं विरजं जाम्बवन्विति॥ 41
अन्यत्पार्षदं सर्वं जुष्टाकारादिना चरेत्
योवात्रिमूर्ति मुच्चार्य अष्टोत्तरशतं यजेत्॥ 42
पूर्ववत्ध्पा युत्वा तु नित्यं विधिवदर्चयेत्
एवं यः कुरुते भक्त्या ऐहिकामुत्र सिद्धये॥ 43
इति श्री वैखानसे भृगु प्रोक्तायां संहितायां
वासाधिकारे वामन त्रिविक्रम स्थापन विधिर्नाम एकोन विंशोऽध्यायः।
——————————–
विंशोऽध्यायः।
– परशुरामस्य स्वरूपम्। –
अथः परशुरामस्य लक्षणं स्थापना क्रमम्
ग्रामाद्बाह्ये विविक्ते वा महादिक्ष्वष्ट केपि वा॥ 1
नदीतीरेऽब्धि पार्श्वे वा पुण्यक्षेत्रे मनोरमे
श्री प्रतिष्टित केचैव अङ्गनाकार केऽध वा॥ 2
मध्यमं दशतालेन सविंशति शताङ्गुलम्
द्विभुजं रक्तवर्ण ञ्च श्वेताम्बर युतं पुनः॥ 3
परशुं दक्षिणे हस्ते धृत्वा चैव विचक्षणः
वाममुद्दिस्य हस्तेन जटामुकुट शोभितम्॥ 4
उपवीता भरणैर्यु क्तं स्थानकं तत्र कारयेत्
तद्रूपं कौतुकं विन्दायदध वाचे च्चतुर्भुजम्॥ 5
– तत्प्रतिष्ठा । –
विशेष मत्र वक्ष्यामि अन्याहार्ये विशेषतः
हौत्र ञ्च चोक्त वद्घोष्टं मूर्तिं तत्रै व चाह्वयेत्॥ 6
रामं ऋषिसुतं विष्णुं परशुपाणिं समाह्वयेत्
अन्यत्सर्वं समानेति निर्वापं तत्र कारयेत्॥ 7
विष्णुर्विरिष्टे त्युच्चार्य शतमष्टाधिकं यजेत्
उक्तवत्थ्सापन ञ्चैव विधिना सम्यगर्चयेत्॥ 8
उत्सवादीनि सर्व ञ्च विष्णोरिव समाचरेत्
– श्रीरामं तत्प्रमाणम् । –
अथ वक्ष्ये विशेषेण रामं दासरधिं प्रतिः॥ 9
स्थापना लक्षण ञ्चैव शृणुध्वमृषि सत्तमाः
पुण्यार्धी विजयार्धी च वीर्यार्थी च विशेषतः॥ 10
कूटाकाराङ्गनाकारं फेलाकारं चतुस्फुटम्
स्वस्तिकन्तु विमान ञ्च कृत्वा चैव विचक्षणः॥ 11
पट्टणे खर्वटे वापि ग्रामे वा नगरेपि वा
सेनानिवेशन ञ्चैव पश्चिमे तु प्रकल्पयेत्॥ 12
ग्रामबाह्ये च नैऋरुत्यां वायन्यादिषु चक्रमात्
अन्यन्यनोरमे चैव नदीतीरेऽब्धि पार्श्वतः॥ 13
पुण्यक्षेत्रे च कर्तव्यं राघवस्य महात्मनः
पूर्वोक्तेन विधानेन धृवकौतुक संयुतम्॥ 14
रामं तद्धृवबेर न्तु सीतालक्ष्मण संयुतम्
धृवबेरोक्त मार्गेण धृवं तत्र प्रकल्पयेत्॥ 15
समं वा पादहीनं वा गर्भागारस्य विस्तृतम्
तस्यार्थं वा प्रकर्तव्यं हर्म्यं भानूच्छ्रयस्तधा॥ 16
द्वारस्य शुद्ध श्चाध्यर्थं पादहीनं समन्तु वा
एकप ञ्च दशाधिक्यं मानं मानाङ्गुलं भवेत्॥ 17
सप्ताष्टाङ्गुल मानेन द्विद्विरङ्गुल वर्थनात्
मानेन जयमानस्य हस्तकेनैव कारयेत्॥ 18
– यजमान हस्तेन बिम्बनिर्णाणम् । –
यजमान समं वापि कारयेल्लक्षणा न्वितम्
मानोन्मान प्रमाण न्तु मध्यमं दशतालकम्॥ 19
– सीतालक्ष्मण हनुमद्भरत शतृघ्नाः। –
रामस्य दक्षिणेपार्श्वे सीता हनुहत्समायुतम्
कक्षबूहु समंवापि नवतालेन मानतः॥ 20
लक्ष्मण न्तु तथावामे मौलिकर्ण समायुतम्
हन्वन्तं वास्य सीमान्तं दशतालाध मेन च॥ 21
शतृघ्नं भरत ञ्चापि कारयेच्चापि तत्समम्
अन्यांश्च देवदन्दर्वान् कारयेदुक्त मार्गतः॥ 22
– श्रीराम स्वरूपम् –
भूषिताभरणं सर्वं राघवं स्थानकं चरेत्
मौलि ञ्च मकुटं विन्द्या त्पत्रं मकर भूषितम्॥ 23
हारं श्रीवत्सं कृत्वा किरीटं वाधकारयेत्
ब्रह्मसूत्रन्तु क्षीवत्सं कौस्तुभस्तु समाचरेत्॥ 24
नानावस्त्रं समाच्छाद्यं श्यामं दूर्वानिभं भवेत्
– त्रिभङ्ग स्थानानि । –
त्रिभङ्ग्याङ्ग युतं भर्तुस्थान कंयुक्त मार्गतः॥ 25
वामपादं समाकु ञ्च दक्षिणं सुस्थितं भवेत्
कनिष्ट काङ्कित स्थाने चाङ्गुष्ट स्थितमाचरेत्॥ 26
गात्र ञ्चैव तथावक्त्रे कटियन्त्रि दशाभवेत्
भङ्गत्वात्र्तिषु च स्थाने त्रिभङ्गित्वा विधानतः॥ 27
वक्र न्तु दत्रिणे भागे मध्यभाग न्तु वामतः
कण्ठं दक्षिण तो भागे त्रिभङ्गं तदुदाहृतम्॥ 28
त्रिविधं त्रिभङ्ग मिति स्थानकासन लोहितम्
समभङ्गं त्रिभङ्ग ञ्च आभङ्ग ञ्च तधोच्यते॥ 29
– गुणत्रयेन त्रिभङ्गित्वम् –
तामसं सात्विक ञ्चैव राजस न्तु त्रिधाभवेत्
तामसं वैश्यशूद्राणं राज्ञां राजसमुच्यते॥ 30
ब्राह्मणं सात्विक ञ्चैव इति शास्त्रस्य निश्चयः
एतत्र्ति भाङ्गान्मात्रास्यु स्त्रिच तु ः पञ्च मात्रकम्॥ 31
पादाङ्गुष्टान्तरं प्रोक्तं पङ्त्करुद्रार्क मात्रकैः
तत्तद्गुणांशकां शन्तु पार्ण्ष्यरन्तर मीरितम्॥ 32
वामे धनुर्धर ञ्चैव दक्षिणे सायकोत्तमम्
सूत्रमेड्र समं बणं कटकं हस्तमाचरेत्॥ 33
अङ्गुलार्कान्तरं प्रोक्तं ऊरुमूलं तथाग्रयोः
तधैवोक्तं पुरस्ताश्च कटिसूत्र समन्तु वा॥ 34
समं वा नाभि सूत्र न्तु तालागंर तद्विधानतः
उदरे बाहुमध्ये वा चोदरं पञ्च सूत्रकम्॥ 35
नी वृत्त कूर्पयोश्रशोणि त्रिमात्रं समुदाहृतम्
सकर्ण मुख हस्तेन श्रोत्राग्रं सममुच्यते॥ 36
जगत्यङ्गुल निर्वृत्तं तालाग्रं कर्णयोजयेत्
पुरस्तात्कर्ण योर्हस्तं द्वादशाङ्गुल सूत्रयोः॥ 37
मध्येचोष्णीष चोच्चंवामूर्थान्तं वा विधानतः
मध्ये मौलिस्तु चोद्धारेनिवृत्तेषु मुखद्वयोः॥ 38
पादसूत्र क्रमं वक्ष्ये स्थानकस्य त्रिभङ्गिका
वामपार्श्वे ललाटे वा बूपार्म्वेऽक्षि शितान्तरे॥ 39
नासावाम पुटे चैव वामपादगतःतधा
वामपार्श्वे च हृदये नाभिवामे तथैव च॥ 40
पार्श्वेवामाङ्घ्रिवायोरु गुल्भ पार्श्वे प्रलम्भयेत्
वामपार्श्वं ककुत्पार्श्वं कटिश्चा शीर्ष पार्व्वयोः॥ 41
कटिवामं तधा चोरुपार्श्वे दक्षिण जङ्घयोः
पार्श्वे सूत्र न्तु सम्प्रोक्तं पृष्टसूत्रं प्रवक्ष्यते॥ 42
स्कन्ध चूचुक मध्ये तु दक्षिणे कर्ण पार्श्वतः
ऊरुमध्ये प्रदेशिन्या लम्बये द्देशिकोत्तमः॥ 43
वामकर्णस्य पार्श्वे तु कक्ष कट्यूरु बाहुके
गुणाङ्गुलन्तु कटाकां पादयोश्च कनिष्टिका॥ 44
अभङ्ग सूत्र मित्युक्तं समभङ्ग न्तु चोच्यते
वामे ललाटे मूर्ध्नि वावामेवाम नेत्रके॥ 45
वामनासा पुटे चैव समीक्ष्याचच वीक्षणः
हनौ ददाश्चपार्श्वे तु वामेचस्तन पीठिके॥ 46
अवक्र सूत्रं सञ्च्छद्य वामे नाभिस्त धैव च
वामोरु मध्यमुले तु लम्बयेत्पार्ण्षि पार्श्वतः॥ 47
पूर्ववत्पार्श्व सूत्र स्यादभङ्ग मितिचोच्यते
उद्दिष्ट मिहपूर्वं स्यात् न पीठस्य वामके॥ 48
ऊरुनाभि तथा वामे मध्ये पौर्ण्ष्य न्तके तधा
उद्दिष्ट मध्य सूत्रं तुपार्श्व सूत्र मधोच्यते॥ 49
कण्ठे दक्षिण पार्श्वे तु कक्षकट्यूरु बाह्यके
त्रियङ्गुल नालिकाद्बाह्यं पादयोश्च कनिष्ठिके॥ 50
कर्णयोःपार्श्व कौ वामे स्कन्धे चैव तु वर्थयेत्
चूचूकाग्रे तधाजानु प्रादेशं पादपार्श्वेतः॥ 51
– सीता –
जानकीं समभङ्गेन पार्श्वक्रान्त वरस्थितां
प्रासारिते दक्षहस्ते स पुष्पं वामहस्तेक॥ 52
स्रक्पुष्पबन्धुरां वाध देव्यश्री मण्डनोपमाम्
चित्राङ्गीं रुक्मवर्णा न्तु श्यामवस्त्रोप शोभिताम्॥ 53
– लक्ष्मण भरत शतृघ्नाः –
लक्ष्मण समभङ्गेन तप्तका ञ्च न सन्निभम्
सव्यहस्ते धरन् चापम्बाण मन्य त्करे भवेत्॥ 54
भरतं श्यामवर्णेन शतृघ्नुस्स्वर्ण वर्णकम्
लक्ष्मणस्या धवामे तु स्थितौबाण धनुर्धरौ॥ 55
मुक्त यज्ञोपवीतस्सन्के शबन्ध यतौतु वा
– हनुमन्तम् –
हनुमान्पि ङ्गलाभन्तं वार्ता विज्ञापने परम्॥ 56
करेण दक्षिणेनास्यं पुच्छञ्चान्येन वासनम्
सीतादेव्याश्च वामे च दीनमूर्थ्वाननं स्थितम्॥ 57
– सुग्रीवादयः –
सुग्रीवादि हरीस्सर्वा न्कृत्वा प्राञ्जलि सुस्थितान्
एवं सायुध मार्ग न्तु वक्ष्ये तत्र निरायुधम्॥ 58
– निरायुधं श्रीरामम् –
रामं देवी समायुक्तं मृगेन्द्रासन संस्थितम्ः
प्रासार्य दक्षिणं पाद मितर ञ्चैव कुञ्चितम्॥ 59
दक्षिणाभय हस्तन्तं वामं कटक मुच्यते
देवस्य दक्षिणे पार्श्वे देवीं प्रहसितानाम्॥ 60
दक्षिणं चोरु माश्रित्य सु पुष्पं वामके तधा
वामपादं समूकु ञ्च दक्षिणन्तु प्रासारितम्॥ 61
सिंहासना दधोवामे सुस्थितं पाञ्जलीकृतम्
भरतं लक्षण ञ्चैव शतृघ्नुन्तु तधैव च॥ 62
सिंहासना दधस्तात्तु समासीन मधापि वा
हनुमान्प्रा़ञ्जलि श्चैव स्थितानेव तु कारयेत्॥ 63
कौतुन न्तु स्थितंङ्कुर्या दासीनं वाधकारयेत्
सायुधे सायुधं तद्वच्चतुर्बुज मधापि वा॥ 64
– तत्प्रतिष्ठा –
उक्तमार्गेण कर्तव्यं कौतुकं तत्र कारयेत्
प्रतिष्टोक्त क्रमेणैव स्थापये द्देशिकोत्तमः॥ 65
विशेषं चात्र वक्ष्यामि शृणुध्वं शास्त्रचोदितम्
कुम्भमेकं प्रपूज्यैव तस्मिन्न्यान त्रयञ्चरेत्॥ 66
तल्पमेकं परिस्तीर्य देवं देवी ञ्च शाययेत्
दद्वेद्यां लक्ष्मणस्यापि पृधक्छै वाधिवासयेत्॥ 67
शत्रुघ्नं बरत ञ्चैव शयन ञ्च पृधक्चरेत्
वेद्यामन्य त्तधा कृत्वा वायुसूनु ञ्च तल्पयेत्॥ 68
दक्षिणग्नौ प्रधानस्य हौत्रं तत्र प्रशंसति
रामं दाशरथिं वीरं काकुत्थ्पमिति चाह्वयेत्॥ 69
सीतामयोनिजां लक्ष्मीं वैदीहीमिति चक्रमात्
रामानुज ञ्च सौमित्रीं लक्ष्मणं लक्ष्मिवर्धनम्॥ 70
भरतं रापप्रिय ञ्चेति कैकेयु सुतमेव च
सुवृत्तमितिचावाह्य भरतस्य विशेषतः॥ 71
शत्रुघ्नं सुमनस्क ञ्च लक्ष्मणानुज मेव च
दशरधात्मज ञ्चेति शतृघ्न ञ्च समाह्वयेत्॥ 72
कपिराजं हनूमन्तं शब्दराशिं महामतिम्
इत्येत दुक्त्वा चावाह्य परिवारानिति क्रमात्॥ 73
जुष्टागारादि सर्व ञ्च पूर्ववत्का रयेद्बुधः
रायामीशेति मन्त्रेण शतमष्टोत्तरं यजेत्॥ 74
हरिरेवभवेद्रामो तस्मात्सर्वं हरिरिव
प्रतिष्ठा चोत्सव ञ्चैव सततं नित्यपूजनम्॥ 75
पूर्वोक्तेन विधानेन सर्व सम्पूर्ण माचरेत्
अधवक्ष्ये विशेषेण मूर्तिभेदं यथाक्रमम्॥ 76
मूर्तिभेद स्तधामूर्ति भेदं चाध प्रवक्ष्यते
अन्यत्र्वूर्वोक्त विधिनाकारये द्देशिकोत्तमः॥ 77
स्वप्रधानं मयाप्रोक्तं वक्ष्याम्यधा प्रधानकम्
आलये गर्भगेहे तु स्थापिते तु चतुर्भुजम्॥ 78
बेरं कौतुक संयुक्ते विधिनाचार्चना कृते
पश्चाद्विमान शोभार्थमुत्स वार्ध न्तु यत्नतः॥ 79
वीर्यार्धं विजायार्ध ञ्च शत्रुपक्ष क्षयाय च
लोहं शुद्दं समाहृत्य यजमानः स्वशक्तितः॥ 80
धृवबेर स्यमानं यच्चतुर्धांशं विभज्य च
एकाभागं व्यपोह्यैव त्रिभागं चोत्तमं भवेत्॥
द्विबागं मध्यमं प्रोक्तं एकभागन्तु थाधमम्॥ 81
कौतुकस्योक्त मानं वा मानं मात्राङ्गुलेन वा
त्रयोदशाङ्गुलं तिर्यक् द्वियं गुलविर्धनात्॥ 82
एकोन त्रिंसदङ्गुले नवधा चेति केचन
विधिना कारयेद्रामं सीतालक्ष्मण संयुतम्॥ 83
विमाना द्दक्षिणे पार्श्वे प्रधमावरणे तधा
प्रतिष्ठाप्यार्चनं यस्तु वरं प्राधान्यमुच्यते॥ 84
अवतारै र्विशेषेण स्वप्रधानं तदुत्तमम्
कृत्वा वरप्रदाने तु मध्यमा देशिकोत्तमः॥ 85
– श्री कृष्टस्य भेदाः। –
वामपार्श्वे तथा कृष्णं देवीभ्या ञ्च समन्वितम्
नवनीत नट ञ्चैव तधा कालीय मर्दनम्॥ 86
पार्थपारथि रूप ञ्च विश्वरूप मधापि वा
वेणुञ्चाधर योग ञ्च हस्ताभ्यां क्रीडयन्क्रमात्॥ 87
सुस्थितं वामपाद ञ्च दक्षिणे नैव बन्धयेत्
अधवा चतुर्बुजं कृष्णं वेणु़ञ्चाधर योजितम्॥ 88
धारयेच्चक्र शङ्खाभ्यां भजे पार्श्वे यधाक्रमम्
नवनीतादि कृष्टस्य देवीभ्यां सहितं क्रमात्॥ 89
अधवा रहितं तत्र कारये दिति केचन
अन्यानि कृष्णरूपाणि यजमानेच्छया पुनः॥ 90
कृष्णरूपं असङ्ख्याकं सङ्ख्यावक्तुंन शक्यते
देवाना ञ्च ऋषीणा ञ्च वक्तुं नैवावतारकम्॥ 91
स्वेच्छारूप ञ्च कृत्वा तु तद्रूपे तु समर्चयेत्
प्रतिष्ठाप्या र्चयेद्बक्त्या सर्वत्रैवहिताय च॥ 92
एवं यः कुरुते भक्त्या सर्वान्कामानवार्नुयात्
सभुक्त्या चैहिकान्सर्वान्सं प्राप्यैव ततः परम्॥ 93
विष्णुलोकं समासाद्य विष्णुवन्मो दतेचिरम्
इति श्री वैखानसे भृगु प्रोक्तायां संहितायां
वासाधिकारे श्रीराम परिवार प्रितिष्टा मूर्ति भेदोनाम विंशोऽध्यायः।
———————————
एकविंशोऽध्यायः
– श्री बलराम स्वरूपम्। –
अध वक्ष्ये विशेषेण बलभद्रस्य लक्षणम्
रामं तृतीय मित्युक्तं यदुश्रेष्टं महाबलम्॥ 1
इहलोक हितार्थाय भूभार हरणाय च
वसुदेव सुतोभूत्वा सर्वान्लोका नपापयत्॥ 2
रामं यदुवर ञ्चैव कृत्वाभक्ति पुरस्सरम्
पश्चिमे चोत्तरे चैव दक्षिणे वा यधार्हके॥ 3
हस्तिपृष्टे विमाने च सोमछन्द मधापि वा
ग्रामाग्रहार योर्वापि नगर्यां पत्यने पिवा॥ 4
खर्वटे राजध्यान्य ञ्च सेवासंवेशिनां तथा
बहुबेर क्रमेणैव कृष्णस्यार्धासने तथा॥ 5
एकबेर विधानंवा श्वेतवर्णं भुजद्वयम्
धसतालेन मानेन कृत्वारूपं समाहितः॥ 6
मुसलं दक्षिणेहस्ते धारिणं वामके हलम्
श्रोणिसूत्र समेनैव मुष्टिना मुसलं धृतम्॥ 7
सूत्रबूहु समङ्कुर्याद्धलं वामे तधैव च
मार्गन्तु सायुधं प्रोक्तं वक्ष्ये चैव निरायुधम्॥ 8
मृगराजासना सीनं देवीयुक्तं विशेषतः
वामपादं समूकु ञ्च्य दक्षिणं सम्प्रसार्य च॥ 9
दक्षिणेऽभय हस्तेन वाममूरौ समं भवेत्
कुर्यात्तधैव पत्नी ञ्च नीलोत्पल दलप्रभाम्॥ 10
दक्षिणे कमलंहस्ते वाममूरौ च विन्यसेत्
देवती ञ्च समासीनां सर्वाभरण भूषिताम्॥ 11
देवं देवीयुतं तत्र कारयेत्तु विचक्षणः
पूर्ववत्कौतुकं कल्प्य प्रतिष्ठां पुनराचरेत्॥ 12
– तत्प्रतिष्ठा । –
विशेष ञ्चात्र वक्ष्यामि अग्नावाहन वीयके
हौत्रमत्र पशंसन्ति विधिनावाहये त्सुधीः॥ 13
रामं यदुवरं विष्णुं हलायुध मितिक्रमात्
इन्दिरां रेवती ञ्चैव लक्ष्मीं रामप्रियामिति॥ 14
एवं चावहनं तत्र सभ्याग्नि सवमाचरेत्
अग्निराहव नीयादी न्केचिदत्र प्रकल्पयेत्॥ 15
एवं विधाने कर्तव्यं यःकुर्याद्बक्ति संयुतः
सर्वकाम फलं भुक्त्वा विष्णोः पदमवाप्नुयात्॥16
– श्री कृष्ण स्वरूपम् ।–
अतः परमिदं वक्ष्ये कृष्णस्य स्थापनाविधिम्
सर्वान्कामान्य दीच्छेत्तु ग्रामादीनां समर्चयेत्॥ 17
तन्मध्ये पश्चिमे कुर्यादुत्तरे दक्षिणेऽध वा
नैर् रुत्यां वायुदेशेवा आरामे च वनाश्रमे॥ 18
नदीतीरेऽब्धि पार्श्वे वा ग्रामाद्बाह्ये मनोरमे
सरित्तटाक तीरे वा कृष्णस्यापि च मन्दिरम्॥ 19
सर्वतो भद्रक ञ्चैव नन्द्यावर्त मधापि वा
स्वस्तिकं भद्रक ञ्चैव पर्वताकृति रेव वा॥ 20
कुम्भाकारे त्रिकूटाख्ये विमानेष्य न्यकेष्व पि
यधावित्ता नु सारेण कर्षणाद्यादि कारयेत्॥ 21
कृष्णस्य धृवबेरन्तु देव्योश्च सहितं क्रमात्
उक्त धृवस्यमानेन कुर्यात्कृष्टं विधानतः॥ 22
मानोन्मान प्रमाणानि मध्यमं दशतालकम्
राघवेन समं कृष्णं विशेष ञ्चा त्रवक्ष्यते॥ 23
लीलायष्टि धरं देवं वामेना सङ्ग कूर्परम्
हिक्कासूत्रा दधोवामे कूर्परं स्याद्दशाङ्गुलम्॥ 24
सखीन्वा कारयेद्विद्वा न्वस्वत्रिय व याङ्गुलम्
यष्टि हस्त न्तु दक्षिण्यं नाभिसूत्रा दधोन्नतिम्॥ 25
मात्रपञ्च चतुस्त्रीणि विधानं सह तालकम्ः
समभङ्गेन संयुक्तं गुणराज समुन्नतम्॥ 26
अर्थं जानुसु पुष्टाङ्गं क्रीडारस समन्वितम्
नासाग्र सूत्रयेल्लम्ब मास्येहन्वोस्तु मध्यमम्॥ 27
मात्राद्दक्षिणतो हिक्का तदर्धं हृदयं भवेत्
मेढ्रन्त न्नाभिमध्ये वा वामपार्श्वे द्विमात्रकम्॥ 28
अन्तरे वा मपार्ण्ष्यार्ह पादसूत्रेण बुद्धिमान्
सर्वभूषण संयुक्तं सूत्रं ब्रह्म समन्वितम्॥ 29
रक्ताम्भर धरं ञ्चैव श्यामलं कमलेक्षणम्
मकुटे कुन्तलैर्युक्तं रुक्मवर्णं समाहितम्॥ 30
– श्री कृष्ण परिवार स्वरूपम्। –
रुक्मिणीं दक्षिणे कुर्यात्सत्य भामान्तु वामतः
वामेवामकरे धृत्वा उत्फुल्लं चारविन्दकम्॥ 31
अन्यत्तद्वि परितं वा सथृत्वोत्पल पद्मके
रुक्मीणीं रुक्मवर्णाभां श्यामाभां सत्यभामिनीम्॥ 32
वसुदेवं देवकी ञ्च पुरतो दक्षिणे कृते
यशोधानन्द गोप ञ्च देवीशं वीक्ष्य सुस्थितान्॥ 33
साम्ब प्रद्युम्नकौ वामे कल्पये द्देशिकोत्तमाः
गोपीमन्य त्तथा कुर्याद्दामं सुमनसं तथा॥ 34
कृष्णस्य कर्णनाभ्यन्तं समन्तं हनुमास्यकम्
कक्षबाहु समं वाथ कारयेद्युक्ततः क्रमात्॥ 35
नवतालेन मानेन सर्वभूषण भूषितम्
देवकीं वसुदेव ञ्च रुक्मवर्णेन कारयेत्॥ 39
यशोदां गौरवर्णाभां कर्बुवं नन्दगोपकम्
प्रद्युम्नं श्याम वर्ण ञ्च साम्बं कालाम्बुद प्रभम्॥ 40
दामं रक्तनिभं कुर्याद्गौरं समुनसं तथा
पूर्वोक्तेनैव कृत्वा तु मानोन्मान प्रमाणतः॥ 41
पुनःस्थापन मार्गेण उक्तवत् स्थाप येत्क्रमात्
विशेषं चात्र सम्प्रोक्तं शृणुध्वं शास्त्र चोदितम्॥ 42
प्रधानं चावसत्थ्याग्नौ हौत्रमत्र प्रशंसयेच्
अथवा पौण्डरीकाग्नौ हौत्रमत्रैव कारयेत्॥ 43
– तत्प्रितिष्टा –
कृष्ण मावाहया मीति पुण्यं नारायणं ततः
वटपत्र शायिन ञ्चेति त्रिदशाधि पमित्यपि॥ 44
रुक्मिणीं सुन्दरीं देवीं पद्मामिति तधैव च
सत्यपूपां सती ञ्चैव सन्नती ञ्च क्षमामिति॥ 45
प्रद्युम्न ञ्च सुरूपाक्षं दैत्यनाशं महाबलम्
अनिरुद्धं महान्त ञ्च वैराग्यमिति च क्रमात्॥ 46
सर्वतेजो मय ञ्चेति अनिरुद्धं समाह्वयेत्
साम्बं सर्वमुख ञ्चेति समृद्दं सर्वगं तथा॥ 47
वसुदेवं वृष्णिनाधं सुकर्म ञ्च धृडव्रतम्
देवकीं देवपूज्या ञ्च वसुदेव प्रियामिति॥ 48
उग्रसेन सुता ञ्चेति विधिनैव समाह्ययेत्
नन्दगोपम गोकुलेशं सुमनस्कं हरिप्रियम्॥ 49
यशोदां दानशील ञ्च पुण्या ञ्च शुभगामिति
रामं कृष्णसख ञ्चेति पुण्यं पुण्यात्मकं त्विति॥ 50
एवमावाह्य चान्येषु निरूप्याज्या हुतिर्यजेत्
सत्यसत्यस्थ मित्युक्त्वा शतमष्टाधिकं यजेत्॥ 51
अष्टाविंशति भिर्वा पि जुहुयादिति केचन
पर्यायेण क्रमं हुत्वा प्रधान ञ्चेति कीर्त्यते॥ 52
स्थापनं चार्चनं नित्यं स्नपनं चोत्सवं तथा
सर्वं हरे रिव ध्यात्वा विधिना सम्यगाचरेत्॥ 53
एवं यः कुरुते भक्त्या सर्वान्कामा नवाप्नुयात्
– श्री कल्किस्वरूपम् । –
अतः परं प्रवक्ष्यामि कल्कि विष्णुरिति क्रमम्॥ 54
ग्रामदेश्च प्रकर्तव्यं कृष्णस्योक्त वदालयम्
मध्यमं दशतालेन कल्किरूपेण कारयेत्॥ 55
अश्वासन मुखं कुर्या दन्यांश्चैव नराकृतिः
चतुर्भुजं चतुर्हास्तं क्रमाच्चैवा युधी भवेत्॥ 56
शङ्खं चक्र ञ्च घड्ग ञ्च खेटकं चोग्ररूपिणम्
देवं हयननं कृत्वा शुद्दस्पटिक सन्निभम्॥ 54
तेनैव कौतुकं कुर्याद्विष्णु रूपं चतुर्बुजम्
स्थापयेदुक्त मार्गेण पौण्डरीके विशेषतः॥ 55
हौत्रमत्र प्रशंसन्नि मूर्तीरा वाहयेत्क्रमात्
कल्किनं वाजिरुप ञ्च विष्णुं संहार कारिणम्॥56
अन्य देवान्समा वाह्य पूर्वोक्तेन विधानतः
जुष्टाकारादिभिः कृत्वा स्मृत्वा देवं प्रणम्य च॥57
धूर्णोवहन्त मित्युक्त्वा जचेदष्टाधिकं शतम्
अधवा कल्किनं रूपं अश्वारूढं भुजद्वयम्॥ 58
घड्ग ञ्च खेटकं धार्यं श्वेतवर्णो ग्ररूपिणम्
एवं कृत्वा विशेषेण स्मृत्वादेवं प्रणम्य च॥ 59
स्थापना द्यर्चनादीनि सर्वं पूर्ववदाचरेत्
– श्री बौद्ध स्वरूपम् –
अध वक्ष्ये विशेषेण बुद्धरूप विधिक्रमम्॥ 60
मध्यमं दशतालेन मानोन्मानादि कारयेत्
नवरूपेण वाकल्प्य द्विभुजं मकुटं विना॥ 61
कुन्तलं मूर्ध्नि चासीनं स्वस्तिकेनैव कारयेत्
वामपाणि ञ्च कृत्वा तु आसनस्योपरि स्थितः॥62
ज्ञान मुद्रान्य हस्तेन गृत्प्रदेशेन कारयेत्
उत्तराच्छादनं कृत्वा रक्तचन्दन सन्निभम्॥ 63
देवी विना प्रकुर्वीत उक्तवत्कौतुकं कृतम्
विस्तरेण मयाप्रोक्तं मूर्तिवत्सर्व माचरेत्॥ 64
– तत्प्रतिष्ठा । –
आहवनीये होतव्यं पूर्ववद्धौत्र माचरेत्॥
बुद्धं ञ्चैव तपोनाथं वैष्णव ञ्चा च्युतं तथा॥ 65
एवमाद्यादि मावाह्य निर्वापञ्चत्र कारयेत्
धूर्णोवहन्त मुच्चार्य यजेदष्टाधिकं शतम्॥ 66
अधवा विश्वजित्सूक्तं रात्रिसूक्तं यजेत्क्रमात्
पूर्वोक्तोन विधानेन प्रतिष्ठाप्यार्चयेत्क्रमात्॥ 67
एवं दशावतारंश्च रूपं स्थाप्य समर्चयेत्
उत्सवं स्नपन ञ्चैव विधिनाकारये ध्बुधः॥ 68
विपरीतं न कुर्वीत इति शास्त्रेण निश्चयः
तस्मात्सर्व प्रयत्नेन कृत्वाशास्त्रोक्त वत्क्रमात्॥ 69
इिति श्री वैखानसे भृगुप्रोक्तायां संहितायां
वासाधिकारे कृष्ण कल्कि बौद्ध प्रादुर्भा वो नाम एकविंशोऽध्यायः।
—————————–