३६

अथषट्त्रिंशो ऽध्यायः।
अपचाराः

अपचारास्तथा विष्णोर्द्वात्रिंशत्परिकीर्तिताः ।
यानैर्वा पादुकैर्वापि गमनं भगवद्गृहे ॥ ३६।१ ॥
देवोत्सवाद्यसेवाचाप्रणामं च तदग्रतः ।
एकहस्तप्रणामश्च तत्पुरस्तात्प्रदक्षिणम् ॥ ३६।२ ॥
उच्छिष्टे चैव चाशौचे भगवद्वन्दनादिकम् ।
पादप्रसारणं चाग्रे तथा पर्यङ्कबन्धनम् ॥ ३६।३ ॥
शयनं भोजनं चैव मुधाभाषणमेव च ।
उच्चैर्भाषा वृधाजल्पो रोदनाद्यं च विग्रहः ॥ ३६।४ ॥
निग्रहो ऽनुग्रहश्चैव स्त्रीषु साकूतभाषणम् ।
अश्लीलकथनं चैवाप्यधोवायुविमोक्षणम् ॥ ३६।५ ॥
कम्बलावरणं चैव वरनिन्दा परस्तुतिः ।
शक्तौ गौणोपचारश्चाप्यनिवेदितभक्षणम् ॥ ३६।६ ॥
तत्तत्कालोद्भवानां च फलादीनामनर्पणम् ।
विनियुक्तावशिष्टस्य प्रदानं व्यञ्जनादिषु ॥ ३६।७ ॥
पृष्ठीकृत्यासनं चैव परेषामभिवन्दनम् ।
गुरौमौनं निजस्तोत्रं देवतानिन्दनं तथा ॥ ३६।८ ॥
अपचारां स्तु विविधानीदृशान् परिवर्जयेत् ।
अपचारेष्वनन्तेषु सत्स्वन्येषु प्रमादतः ॥ ३६।९ ॥
“क्षमऽऽस्वेत्यर्थनैवैगा निष्कृतिर्निरुपद्रवा ।
अन्यथा यदि कुर्वाणःप्रमादात् ज्ञानतो ऽथवा ॥ ३६।१० ॥
स याति नरकान् घोरान् सन्ततं भृशदारुणान् ।
येतु स्मरणमात्रेण भवन्ति हृदयच्छिदः ॥ ३६।११ ॥
द्वात्रिंशन्नरकाः
द्वात्रिंशन्नरकास्ते तु कीर्त्यन्तेब्रह्मवादिभिः ।
रौरवध्वान्तशीतोष्णतापाम्बुजमहाम्बुजाः ॥ ३६।१२ ॥
कालसूत्रो ऽष्टमो ह्येते नरका इति विश्रुताः ।
सूच्यग्रकालखड्गाश्च क्षुरधाराञ्चबरीषकाः ॥ ३६।१३ ॥
तप्ताङ्गारमहादाहौ सन्तापश्चेति के चन ।
भवन्त्यष्टासु भीभत्का महाशब्दा भयानकाः ॥ ३६।१४ ॥
लक्षाप्रलेपमांसादनिरुच्छ्वसनसोच्छ्वसाः ।
युग्माद्रिशाल्मलीलोहप्रदीपक्षुत्पिपासिकाः ॥ ३६।१५ ॥
कृमीणां निचयश्चैव राजानः परिकीर्तिताः ।
लोहस्तम्भो ऽथ विण्मूत्रे तथा वैतरणी नदी ॥ ३६।१६ ॥
तामिस्रश्चान्धतामिस्रः कुम्भीपाको ऽथ रौरवः ।
महापदानुगामी च राजराजेश्वराह्वयः ॥ ३६।१७ ॥
त्रयस्त्रींशत्पुटेष्वर्धं पार्थिवं चार्धमायसम् ।
तन्मध्ये नरका घोरा बहुशस्तमसि स्थिताः ॥ ३६।१८ ॥
तेषां नरकभेदानामष्टाविंशतिकोटयः ।
एतेषां दारुणानां तु नरकाणां पतिस्थ्सितः ॥ ३६।१९ ॥
कूश्माण्ड इति विख्यातः प्रलयार्कालनद्युतिः ।
करालवदनः क्रुद्धो वृत्तकोटरलोचनः ॥ ३६।२० ॥
टङ्कपाणिस्तथाभूतैर्भूतैर्भूयोभिरावृतः ।
पापास्त्वेतेषु पच्यन्तेनराः कर्मानुरूपतः ॥ ३६।२१ ॥
यातनाभिर्विचित्राभिरापापप्रक्षयान्तकम् ।
प्रायश्चित्तोज्घिता दृप्तानिजधर्मपराङ्मुखाः ॥ ३६।२२ ॥
परधर्मरताश्चोराः पतन्ति नरकाग्निषु ।
महापातकिनःकल्पं तिष्ठन्ति नरकाग्निषु ॥ ३६।२३ ॥
मन्वन्तरं पातकिनो देवब्रह्मस्वहारिणः ।
उपपातकिनो मर्त्या देवदेवाग्नियज्वनाम् ॥ ३६।२४ ॥
द्विजगोगुरुधर्माणां निन्दका ब्रह्मणो दिनम् ।
अन्ये चतुर्युगं मर्त्यास्तदर्धं च नराधमाः ॥ ३६।२५ ॥
तिष्ठन्ति नरके घोरे निजपापानुरूप्यतः ।
द्यूतस्त्रीविषयासक्ता ये धर्मविकलाःखलाः ॥ ३६।२६ ॥
पतन्ति तेषु घोरेषु नरकेषु नराधमाः ।
न श्रुण्वन्ति च ये मूढास्साधूक्तं धर्मगौरवम् ॥ ३६।२७ ॥
“प्यत्यक्षं केन तद्दृष्टं प्रत्युऽऽतेति वदन्ति च ।
कामलोभाभिभूताश्च बिडालव्रतिनस्तथा ॥ ३६।२८ ॥
पापिष्ठाः कर्महीनाश्च जिह्वोपस्थपरायणाः ।
यतिनिन्दापरा ये च क्षेत्रतीर्थादिदूषकाः ॥ ३६।२९ ॥
पतन्ति तेषु ते मर्त्याविवशाः पापबन्धनाः ।
इहानुभूयनिर्दिष्टमायुर्मर्त्यास्स्वयम्भुवा ॥ ३६।३० ॥
निमित्तं किञ्चिदासाद्य विमुच्यन्तेकलेवरैः ।
लभन्ते ते पुनर्देबं यातनीयं स्वकर्मजम् ॥ ३६।३१ ॥
तन्मात्रगुणसम्पन्नं सुखदुःखोपभोगदम् ।
पापाः पापक्षयो यावत्पच्यन्ते नरकाग्निषु ॥ ३६।३२ ॥
आमलप्रक्षयाद्वह्नौ ध्मायन्तेधातवो यथा ।
यावन्तोजन्तवस्स्वर्गभूपातालेषु सर्वतः ॥ ३६।३३ ॥
तावन्त एव घोरेषु सन्त्यधो नरकाग्निषु ।
अष्टाविंशतिरेवोक्ताः क्षितेर्नरककोटयः ॥ ३६।३४ ॥
सप्तमस्य तलस्याधो घोरेतमसि संस्थिताः ।
घोराख्या प्रधमाकोटिस्सु घोरतलसंस्थिताः ॥ ३६।३५ ॥
अतिघोरा महाघोरा घोरघोरा च पञ्चमी ।
षष्ठी तरलताराख्या सप्तमी च भयावहा ॥ ३६।३६ ॥
अष्टमी कालरात्री च नवमी च भयोत्कटा ।
दशमी तदधश्चण्णा महाचण्डा ततो ऽप्यधः ॥ ३६।३७ ॥
चण्डकोलाहलाचान्या प्रचण्डानरकाधिका ।
पद्मापद्मवती भीमा भीमभीषणनायका ॥ ३६।३८ ॥
कराला विकराला च वज्रा विंशतिकास्मृता ।
त्रिकोणा पञ्चकोणा च सुदीर्घा परिवर्तुला ॥ ३६।३९ ॥
सप्तभौमाष्टभौमा च दीप्तायामेति चाष्टमी ।
इत्येता नामतः प्रोक्ता घोरा नरककोटयः ॥ ३६।४० ॥
अष्टाविंशतिरेवैताः पापानां यातनात्मनाम् ।
तासां क्रमेण विज्ञेयाः पञ्च पञ्चैकनायकाः ॥ ३६।४१ ॥
प्रत्येकं सर्वकोटीनां नामतस्तान्निबोधत ।
रौरवः प्रथमस्तेषां रुदन्ते यत्र देहिनः ॥ ३६।४२ ॥
महारौरवको यत्र महान्तो ऽपि रुदन्तिच ।
तमश्शीतं यथा चोष्णं पञ्चाद्या नायकास्स्मृताः ॥ ३६।४३ ॥
सुघोरस्सुतपस्तीक्ष्णः पद्मस्सं जीवनश्शतः ।
महामांसो विलोमश्च सुभीमश्च कटङ्कटः ॥ ३६।४४ ॥
तीव्रवेषी करालश्च विकरालः प्रकम्पनः ।
महापद्मस्सुपद्मश्च कालवक्रश्च गर्जनः ॥ ३६।४५ ॥
सूचीमुखस्सुनेमिश्च खादकस्सुप्रपीडनः ।
कुम्भीपाकस्सुपाकश्च चक्रकश्चातिदारुणः ॥ ३६।४६ ॥
अङ्गारराशिफवनमसृक्पूयचहद्रस्तथा ।
तीक्ष्णायस्तुण्डशकुनिर्महासंवर्तकस्तता ॥ ३६।४७ ॥
सुतप्ताब्जस्सुलोपश्च पूतिमांसो द्रवत्रपु ।
उच्छ्वासश्च निरुच्छ्वासो सुदीर्घः कूटशाल्मली ॥ ३६।४८ ॥
दरीष्टस्सुमहानादप्रभावस्सुप्रभावनः ।
ऋक्षमेषवृकाश्शल्य सिंहव्याघ्रगजाननाः ॥ ३६।४९ ॥
श्वसूकराजमहिषखरमेषहयाननाः ।
ग्रहकुम्भीरनक्रास्याः सर्पकूर्मास्यवायसाः ॥ ३६।५० ॥
कृध्रोलूकजलूकाश्च शार्दूलकपिकर्कटाः ।
गन्धकः पूतिवक्रश्च रक्ताक्षः पूतिमृत्तिकः ॥ ३६।५१ ॥
कणधूमस्तुषाग्निश्च कृमीणां निचयस्तथा ।
अमेध्यश्चाप्रतीकारो रुधिरान्नस्यभोजनम् ॥ ३६।५२ ॥
लालाभक्षमभक्षश्च सर्वभक्षश्च दारुणः ।
जङ्कटस्सुविलासश्च विकटः कटपूतनः ॥ ३६।५३ ॥
अम्बरीषः कटाहश्च कष्टा वैतरणी नदी ।
सुतप्तलोहशयनमेकपादप्रतप्तकम् ॥ ३६।५४ ॥
असितालवनं घोरमस्थिभङ्गप्रपीडनम् ।
तिलातसीक्षुयान्त्राणिकूटपाशप्रमर्दनम् ॥ ३६।५५ ॥
महाछुल्ली सुछुल्ली च तप्तलोहमयी शिला ।
पर्वतक्षुरधाराख्यं तथा च मलपर्वतः ॥ ३६।५६ ॥
मूत्रविष्ठान्धकूपेषु क्षारकूपेषु पातनम् ।
मुसलोलूखलं यन्त्रं शिलाशकललाङ्गलम् ॥ ३६।५७ ॥
तालपत्रासिगहनं महामशकमण्डपम् ।
सम्मोहनो ऽस्थिभङ्गश्च तपुःशूलमयोगुडः(?) ॥ ३६।५८ ॥
बहुदुःखं महादुःखं कश्मलं शमलं मलम् ।
हालाहलो निरूपश्च सुरूपश्च तमो ऽनुगः ॥ ३६।५९ ॥
एकपादस्त्रिपादश्च तीव्रवीचिश्च रन्तिमः ।
अष्टाविंशतिरेवैतैः क्रमशः पञ्चकाः स्मृताः ॥ ३६।६० ॥
कोटीनामानु पूर्व्येण पञ्च पञ्चैव नायकाः ।
रौरवाद्यं च वीर्यं च शतमेकन्तु सर्वतः ॥ ३६।६१ ॥
चत्वारिंशत्समधिकं महानरकमण्डलम् ।
तेषु पापाः प्रपच्यन्तेनराः कर्मानुरूपतः ॥ ३६।६२ ॥
यातनाभिर्विचित्राभिराकर्मप्रक्षयाद्भृशम् ।
सुसूढं हस्तयोर्बद्ध्वातप्तशृङ्खलया नराः ॥ ३६।६३ ॥
महावृङ्गरशाखासुगम्यन्तेयमकिङ्करैः ।
डोलिताश्चातिवेगेन निस्सञ्ज्ञा यान्तियोजनम् ॥ ३६।६४ ॥
अन्तरिक्षस्थितानां च लोहभारशतं ततः ।
पादयोर्बध्यते तेषां यमदूतैर्महाबलैः ॥ ३६।६५ ॥
तेन भारेण महता भृशमाताडितानराः ।
आख्यान्तस्स्वानि कर्माणि तूष्णीं तिष्टन्ति विह्वलाः ॥ ३६।६६ ॥
ततस्तप्तैरग्नि वर्णैर्लोहदण्डैस्सकण्टकैः ।
हन्यन्ते किङ्करैर्घोरैस्समर्तात्पापकारिणः ॥ ३६।६७ ॥
ततः क्षारेण दीप्तेन वह्नेरपि विशेषतः ।
समन्ततः प्रलिप्यन्ते ताम्रेण च पुनः पुनः ॥ ३६।६८ ॥
द्रुतेनात्यन्तलिप्तेन क्षताङ्गा जर्जरीकृताः ।
पुनर्विधाय चाङ्गानि शिरःप्रभृति चक्रमात् ॥ ३६।६९ ॥
वार्ताकवत्प्रपच्यन्ते तप्ततैले कटाहके ।
निष्ठापूर्णे तथाकूपे कृमीणान्निचये पुनः ॥ ३६।७० ॥
मेदो ऽसृक्पूयपूर्णायां वाप्यां क्षिप्यन्ति? ते पुनः ।
भक्ष्यन्ते कृमिभिस्तीव्रैर्लोहतुण्डैश्च वायसैः ॥ ३६।७१ ॥
श्वभिर्दंशैर्वृकैरुग्रैर्व्याघ्रैश्च विकृतैर्नरैः ।
पच्यन्ते चरुवद्वापि प्रदीप्ताङ्गारराशिषु ॥ ३६।७२ ॥
प्रोतास्तीक्ष्णेषु शूलेषु नराः पापेन कर्मणा ।
शैलपीठैरथाक्रम्य घोरैः कर्मभिरात्मजैः ॥ ३६।७३ ॥
तिलवत्सम्प्रपीड्यन्ते चक्राख्ये नरके नराः ।
पच्यन्ते चातितप्तेषु लोहभाण्डेष्वनेकथा ॥ ३६।७४ ॥
तैलपूर्णकटाहेषु सुतप्तेषु पुनःपुनः ।
सर्देन्द्रियाणि सम्बद्ध्य क्रमात्पापेन यातनाः ॥ ३६।७५ ॥
भवन्ति घोराः प्रत्येकं शरीरे तत्कृतेन च ।
ये श्रुण्वन्ति हरेर्निन्दां तेषां कर्णः प्रपूर्यते ॥ ३६।७६ ॥
अग्निनर्णैरयःकीलैस्तप्तैस्ताम्रादिकद्रुतैः ।
त्रपुसीसारकूरकूटाद्यैःक्षारेण जतुना पुनः ॥ ३६।७७ ॥
सुतप्ततीक्ष्णतैलेन वज्रलेपेन चान्ततः ।
क्रमादापूर्यते कर्णौ? नरकेषु च यातनाः ॥ ३६।७८ ॥
अनुक्रमेण सर्वेषु भ्रमन्त्येतेषु यातनाः ।
ये तु देव गृहं गत्वा तत्र सेवार्थमागताः ॥ ३६।७९ ॥
अथ वान्यत्र तद्रूपा मदमोहपराजिताः ।
परदारांश्च गच्छन्ति लुब्धास्स्निग्धेन चक्षुषा ॥ ३६।८० ॥
गुरोःकुर्वन्ति भ्रुकुटीं क्रूरनेत्राश्चये नराः ।
सूचीभिरग्निवर्णाभिस्तेषां चक्षुः प्रविध्यते ॥ ३६।८१ ॥
क्षाराद्यैश्च क्रमात्सर्वैर्देहे सर्वाश्च यातनाः ।
स्पर्शलोभेन ये मूढास्संस्पृशन्ति परस्त्रियः ॥ ३६।८२ ॥
तेषां तप्ताग्निवर्णाभिस्सूचीभिर्विध्यते करः ।
ततः क्षारादिकैस्सर्वं शरीरमनुलिप्यते ॥ ३६।८३ ॥
यातनाश्च महाकष्टास्सर्वेषु नरकेषु च ।
परेष्वजन्ति चात्युग्रं प्रदीप्तं लोहशाल्मलिम् ॥ ३६।८४ ॥
हन्यन्ते पृष्ठदेशेषु पुनर्भीमैर्महाबलैः ।
दन्तुरेणातिकुण्ठेन क्रकचेन बलीयसा ॥ ३६।८५ ॥
शिलःपृभृति पाट्यन्तेघोरैः कर्मभिरात्मजैः ।
तेनतेनैव रूपेण हन्यन्ते पारदारिकाः ॥ ३६।८६ ॥
गाढमालिङ्ग्यते नारी ज्वलन्तीलोहनिर्मिता ।
पूर्वाकालं ज्वलन्तं तं पूरुषं लोहनिर्मितम् ॥ ३६।८७ ॥
दुश्चारिण्यःस्त्रीयो गाढमालिङ्गन्तिवदन्ति च ।
किं प्रधावसि वेगेन न ते मोहो ऽस्ति सम्प्रति ॥ ३६।८८ ॥
लङ्घितस्ते यथा भर्ता पापं भुङ्क्ष्व तदाधुना ।
लोहकुम्भे विनिक्षिप्ताः सापिधाने शनैश्शनैः ॥ ३६।८९ ॥
मृद्वग्निना प्रपच्यन्ते स्वपापैरिव मानवाः ।
उलूखलाद्यैः क्षोद्यन्ते प्रपीड्यन्ते शिलासु च ॥ ३६।९० ॥
क्षिप्यन्ते चान्धकूपेषु दश्यन्ते भ्रमरैर्भृशम् ।
कृमिभिर्भिन्न सर्वाङ्गाश्शतशो जर्जरीकृताः ॥ ३६।९१ ॥
सुतीक्ष्णक्षुरकूपेषु क्षिप्यन्ते तदनन्तरम् ।
महज्वाले च नरके पापाः पच्यन्ति सर्वतः ॥ ३६।९२ ॥
इतस्ततश्च धावन्ति दह्यमानास्तदर्चिषा ।
पृष्ठेनानीय जङ्घे द्वे विन्यस्ते स्रन्धयोजिते ॥ ३६।९३ ॥
तयोर्मध्येन चाकृष्य बाहुपृष्ठेन गाढतः ।
बद्ध्वा परस्परं सर्वं सुदृढं पापरज्जुभिः ॥ ३६।९४ ॥
पिण्डबद्धं दशन्त्येनं भ्रमारास्तीक्ष्णलोहजाः ।
मानिनां क्रोधिनां चैव तस्कराणां च दारुणाः ॥ ३६।९५ ॥
पिण्डबद्धास्स्मृता याम्यमहाज्वाले च यातनाः ।
रिज्जुभिर्वेष्टिताङ्गाश्च प्रलिप्ताः कर्दमेन च ॥ ३६।९६ ॥
करीषवत्प्रपच्यन्ते म्रियन्ते तेन तेतथा ।
सुतीक्ष्णक्षारतोयेन कर्मशानु शिलासु च ॥ ३६।९७ ॥
अपापसङ्क्षयात्पापा घृष्यन्ते चन्दनं यथा ।
शरीराभ्यन्तरगतैस्सन्ततं कृमिभिर्नराः ॥ ३६।९८ ॥
भक्ष्यन्ते तीव्रवदनैरादेह प्रक्षयाद्भृशम् ।
कृमीणां निचये क्षिप्ताः पूतिमांसस्य राशिषु ॥ ३६।९९ ॥
तिष्ठन्त्युद्विग्नहृदयाः पर्वताभ्यन्तरार्दिताः ।
सुतप्तवज्रलेपेन शरीरमुपलिप्यते ॥ ३६।१०० ॥
अधोमुखोर्ध्वपादाश्च वृता स्तप्यन्ति वह्निना ।
वदनान्तः प्रविन्यस्तं सुप्रतप्तमयोगुडम् ॥ ३६।१०१ ॥
ते खादन्ति पराधीना हन्यमानाश्च मुद्गरैः ।
ये देवारामपुष्पाणि लोभात्संसृह्य पाणिना ॥ ३६।१०२ ॥
जिघ्रन्ति मूढमनसो शिरसा धारयन्ति च ।
आरोप्यते शिरस्तेषां सुतप्तैर्लोहशङ्कुभिः ॥ ३६।१०३ ॥
ततः क्षारेण दीप्तेन तैलताम्रादिभिः क्रमात् ।
शरीरे च महाघोराश्चित्रा नरकयातनाः ॥ ३६।१०४ ॥
बहुधोत्पाट्यते जीह्वा ये ऽसत्य प्रियवादिनः ।
सन्दंशेन सुतप्तेन प्रपीड्योरसि पादतः ॥ ३६।१०५ ॥
मिध्यागमप्रवक्तुश्च जीह्वा चास्य विनिर्गता ।
क्रोशार्धजीह्वाविस्तीर्णैर्हलैस्तीक्ष्णैः प्रपाट्यते ॥ ३६।१०६ ॥
निर्भर्त्सयन्तिये क्रूरा मातरं पितरं गुरुम् ।
तेषां वज्रजलूकाभिर्मुखमादश्यते यतः ॥ ३६।१०७ ॥
ततःक्षारेण ताम्रेण त्रपुणा सिच्यते पुनः ।
द्रुतैर् आपूर्यते ऽत्यर्थं तप्तलोहैश्च तन्मुखम् ॥ ३६।१०८ ॥
इतस्ततः पुनर्धावन् बद्ध्यते यमकिङ्करैः ।
ये निन्दन्ति महात्मानमाचार्यं धर्मदेशिकम् ॥ ३६।१०९ ॥
विष्णुभक्तांश्च सम्मूढास्तद्धर्मं चैह शाश्वतम् ।
तेषामुरसि कन्थे च जिह्मायां दन्तसन्धिषु ॥ ३६।११० ॥
तालुन्योष्ठे च नासायां मूर्ध्नि सर्वाङ्गसन्धिषु ।
अग्निवर्णास्सुतप्ताश्च त्रिशिखा लोहशङ्कवः ॥ ३६।१११ ॥
आरोप्यन्ते सुबहुशः स्थानेष्वेतेषु मुद्गरैः ।
ततः क्षारेण तप्तेन ताम्रेण त्रपुणा पुनः ॥ ३६।११२ ॥
तप्तलोहादिभिस्सर्वैरापूर्यन्ते समन्ततः ।
यातनाश्च महाचित्राश्शरीरस्यापि सर्वतः ॥ ३६।११३ ॥
निश्शेषनरकेष्वेवं भ्रमन्ति क्रमशः पुनः ।
ये गृह्णन्ति परद्रव्यं पद्भ्यां विप्रं स्पृशन्ति च ॥ ३६।११४ ॥
देवोपकरणाङ्गं च ज्ञानं च लिखितं क्वचित् ।
हस्तपादाघनैस्ते षामापूर्यन्ते समन्ततः ॥ ३६।११५ ॥
क्षारताम्रादिभिर्धीप्तैर्दह्यन्ते क्रमशः पुनः ।
नरकेषु च सर्वेषु विचित्रा देहयातनाः ॥ ३६।११६ ॥
भवन्ति बहुशः कष्टाः पाणिपादसमुद्भवाः ।
प्रदत्तां देवदेवस्य तन्नाम्ना पूजकस्य वा ॥ ३६।११७ ॥
पदार्धिनामथान्येषां हठाद्वृत्तिं हरन्तिये ।
ते वै नरककूपेषु पच्यमानास्स्वकर्मभिः ॥ ३६।११८ ॥
व्रजन्तियातना भूयो नातियन्तियामाङ्गणम् ।
ये देवायतनारामवापीकूपमठाङ्गणम् ॥ ३६।११९ ॥
उपद्रवन्ति पापिष्ठा नृपास्तत्र वसन्ति च ।
व्यायामोद्वर्तनाभ्यङ्गस्नानपानान्नभोजनम् ॥ ३६।१२० ॥
क्रीडनं मैथुनं द्यूतमशौचाद्याचरन्ति च ।
ते नधैर्विविधैर्घोरैरिक्षु यन्त्रादिपीडनैः ॥ ३६।१२१ ॥
निरयाग्निषु पच्यन्ते यावदाचन्द्रतारकम् ।
देवायतनपर्यन्ते देवारामे च कुत्रचित् ॥ ३६।१२२ ॥
समुत्सृजन्ति ये मूढाःपुरीषं मूत्रमेव वा ।
तेषां शिश्नं सवृषणं हन्यते लोहमुद्गरैः, ॥ ३६।१२३ ॥
सूचीभीर्नेत्रपर्यन्तैर् अग्निवर्णैस्सकण्टकैः ।
अरोप्यन्ते गुदे तेषां यावन्मूर्ध्नि विनिर्गतैः ॥ ३६।१२४ ॥
ततः क्षारेण महता ताम्रेण त्रपुणा पुनः ।
द्रुतेनापूर्यते गाढं गुदं शिश्नं च देहिनाम् ॥ ३६।१२५ ॥
मनस्सर्वेन्द्रियाणां च यस्मादुक्तं प्रवर्तनम् ।
तस्मादिन्द्रियदुःखेन जायते तत्सुदुःखितम् ॥ ३६।१२६ ॥
अन्न पानमदत्तं यैर्मूढैर्नाप्यनुमोदितम् ।
धने सत्यपि ये दानं न च यच्छन्ति तृष्णया ॥ ३६।१२७ ॥
अतिथिं चावमन्यन्ते कालप्राप्तं गृहाश्रमे ।
तेजोहीना रणे बद्धा हस्तपादानधारिताः ॥ ३६।१२८ ॥
विस्तारिताङ्गाश्शुष्यन्ति तिष्ठन्त्यब्दशतं नराः ।
हस्तपादललाटेषु कीलिता लोहशङ्कुभिः ॥ ३६।१२९ ॥
नित्यं च विकृतं वक्रं कीलकद्वयघाटितम् ।
कृमिभिःप्राणिभिश्चोग्रैर्लोहतुण्डैश्च वायसैः ॥ ३६।१३० ॥
उपद्रवैर्बहुविधैर्मुखमन्तः प्रपीड्यते ।
जिह्वा ततः प्रभिन्ना च गाढं शृङ्खलया पुनः ॥ ३६।१३१ ॥
तिष्टन्ति लम्बमानाश्च लोहाकारास्सुवर्तुलाः ।
ततः स्वमांसमुत्कृष्य तिलमात्रप्रमाणतः ॥ ३६।१३२ ॥
खादितुं दीयते तेषां सूच्यग्रेण च शोणितम् ।
यथा निर्मांसतां प्राप्ताः कालेन बहुधा पुनः ॥ ३६।१३३ ॥
ततः क्षारेण दीप्तेन तच्छरीरं प्रलिप्यते ।
भिद्यन्ते वर्ष धाराभिश्शुष्यन्ते वायुना पुनः ॥ ३६।१३४ ॥
पुनस्तैलेन सिच्यन्ते सुतप्तेन समन्ततः ।
इति चित्रविधैर्घोरैर्मध्यमानास्स्वकर्मजैः ॥ ३६।१३५ ॥
म्रियन्ते नैव पापिष्ठा यावत्पापस्य सङ्क्षयः ।
तस्मात्पापं न कुर्वीत चञ्चले जीविते सति ॥ ३६।१३६ ॥
एवं क्लिष्टा विशिष्टाश्च सावशेषेण कर्मणा ।
ततः क्षितिं समासाद्य जायन्ते देहिनः पुनः ॥ ३६।१३७ ॥
स्थावरा विविधाः क्रूरास्तृण गुल्मादिभेदितः ।
तत्रानुभूय दुःखानि जायन्ते कीटयोनिषु, ॥ ३६।१३८ ॥
निष्क्रान्ताः कीटयोनिभ्योजायन्ते पक्षिणः क्रमात् ।
सङ्क्लिष्टाः पक्षिभेवेन भवन्ति मृगजातिषु ॥ ३६।१३९ ॥
मार्गं दुःघमतिक्रम्य जायन्ते पशुयोनिषु ।
क्रमाद्गोयोनिमासाद्य जायन्ते मानुषे पुनः ॥ ३६।१४० ॥
व्युत्क्रमेणापि मानुष्यं प्राप्यते पुण्यगौरवात् ।
ततो मनुष्यतां प्राप्य तत्तत्पापानुसारतः ॥ ३६।१४१ ॥
संयुतां पापचिह्नेश्च वर्तन्ते प्राणिनस्ततः ।
देवाभिगमनम्
स्नातो धृतोर्ध्वपुण्ड्रश्च प्रयतश्शान्तमानसः ॥ ३६।१४२ ॥
अव्यग्रश्चान्यकार्येषु गृहीत्वा शक्तितस्स्वयम् ।
फलादीन्युपहाराणि गन्धान् सुमनसस्तथा ॥ ३६।१४३ ॥
हिरण्यं हरिमुद्दिश्य येन सर्वाःकृता इमे ।
उपहारादिभिस्सम्यगभिसच्छेज्जगद्गुरुम् ॥ ३६।१४४ ॥
पत्रैः पुष्पैःफलैर् वापि यथाशक्ति समर्पितैः ।
अयत्नसुलभेनापि तोयेनापि स तुष्यति ॥ ३६।१४५ ॥
पादचार्येव गच्छेत्तु देवालयमतन्द्रितः ।
अशक्तो ऽप्यथ वाशक्त आढ्यो वा दुर्विधो ऽध वा ॥ ३६।१४६ ॥
आधिराज्ये जगद्धातुरधिकारी समस्स्मृतः ।
न हि संहरते ज्योत्स्नां चन्द्रश्चण्डालवेश्मनि ॥ ३६।१४७ ॥
न वा सौधेषु सम्राजां सुधाधाराः प्रवर्षति ।
भोगायतनमे तेषा मेकाकारं कलेपरम् ॥ ३६।१४८ ॥
अनुगृह्णाति दाता तस्य नोच्चानचो विधिः विष्णुपारम्यम् ।
देवतेह परञ्ज्योतिरेक एव परः पुमान् ॥ ३६।१४९ ॥
स एव बहुधा लोके मायया भिद्यते स्वया ।
विष्ण्वाख्यस्स स्वयं मायं प्रकृतिं व्यज्य स द्विधा ॥ ३६।१५० ॥
स्थितस्त्रिधा च सत्त्वादिगुणभेदात्प्रतीयते ।
विष्णुब्रह्मशिवाख्यो ऽसौ स्थित्युत्पत्यन्तकृत्स्मृतः ॥ ३६।१५१ ॥
विष्ण्वाद्या मूर्तयस्तस्य धर्मज्ञानादिभेदतः ।
चतस्र एव विज्ञेया वेदवर्ण युगाश्रयाः ॥ ३६।१५२ ॥
विष्णुश्च पुरुषस्सत्यो ह्यच्युतश्छानिरुद्धकः ।
पञ्चधोपनिषद्भेदान्महाभूतत्वमागतः ॥ ३६।२५३ ॥
मनश्श्रोत्रादिभिष्षड्भिरङ्गैश्च हृदयादिभिः ।
षडक्षरात्मको नित्यमृषिभिश्चैष भिद्यते ॥ ३६।१५४ ॥
सप्तव्याहृतिभिर्लो कैश्छन्दोभिः क्रतुभिस्तथा ।
सप्तधा भिद्यमानो ऽसौ विज्ञातव्यो विचक्षणैः ॥ ३६।१५५ ॥
अष्टप्रकृतिभिश्चासावष्टमूर्तिभिरेव च ।
अष्टाक्षरमयो नित्यमष्टधा चैष भिद्यते ॥ ३६।१५६ ॥
नारायणो नृसिंहश्च वराहो वामनस्तथा ।
रामब्रह्मेन्द्रसूर्याश्च चन्द्रस्तैर्न वधा स्थितिः ॥ ३६।१५७ ॥
इन्द्रो ऽग्निश्ट यमश्चैव निरृतिर्वरुणस् तथा ।
वायुस्सोमस्तथेशानो ब्रह्मानन्तश्चते दश ॥ ३६।१५८ ॥
एकादशेन्द्रियैर्भिन्नस् तथा द्वादशमानपैः ।
स त्रयोदशधा चैव विश्वेदेवादिभिः स्थितः ॥ ३६।१५९ ॥
स चतुर्दशधा भिन्नो मनुभिश्चाक्षुषादिभिः ।
तिथिभिः पञ्चदशधा भिन्नो ज्ञेयस्सु वै प्रभुः ॥ ३६।१६० ॥
स्वरैष्षोडशधा भिन्नोदिक्कोणावान्तरैस्तथा ।
मूर्त्यन्तरैश्च विज्ञेयो बहुधा तस्य विस्तरः ॥ ३६।१६१ ॥
एकद्वित्रिचतुःपञ्चषडाद्या विश्वतो मुखाः ।
मुखभेदास्समाख्यातास्तस्य विश्वात्मनो हरेः ॥ ३६।१६२ ॥
द्व्यादयो विश्वतःपाणेर्भुजभेदस्तथा स्मृताः ।
विविधाभरणा दीर्घा विविधायुधधारिणः ॥ ३६।१६३ ॥
मूर्धानश्चैव तस्योक्ता लसन्मुकुटकुण्डलाः ।
हैमोर्ध्वपुड्रलावण्यप्रभवा वक्रकुन्तलाः ॥ ३६।१६४ ॥
स्मेरारुणाधरास्सौम्याः प्रसादामृतवर्षिणः ।
सहस्रं पौरुषे सूक्ते पादाश्चाक्षीण्यनेकशः ॥ ३६।१६५ ॥
हिरण्यगर्भो ऽनेकात्मा विमलश्श्याम एव च ।
नीलः पीतस्तथा रक्तो नानावर्णः प्रकीर्तितः ॥ ३६।१६६ ॥
चन्द्रसूर्यौस्मृतौ तस्य नयने वामदक्षिणे ।
ब्रह्माणमाहुर्मूर्धानं केशांश्चास्य वनस्पतीन् ॥ ३६।१६७ ॥
आस्यं वेदाश्च ये ऽनन्ता तोयं रुधिरमेव च ।
उपजिह्वा तु तस्योक्तमुपश्रुतिशतं तथा ॥ ३६।१६८ ॥
भ्रुवोर्मध्ये तथा रुद्रं भृगुं मनसि संस्थितम् ।
रुद्रा एकादश ज्ञे या स्तस्य कण्ठं समाश्रिता ॥ ३६।१६९ ॥
नक्षत्रग्रहताराश्च दन्तास्स्युर्मरुतो ऽपि च ।
धर्माधर्मौतथोर्ध्वाधरोष्ठौ तु परिकीर्तितौ ॥ ३६।१७० ॥
इन्द्राग्नी तालुके तस्य जिह्माचैव सरस्वती ।
दिशश्च विदिशश्चैव श्रोत्रयोन्तस्य संस्मृताः ॥ ३६।१७१ ॥
वायुःप्राणेषु विज्ञेयस्साध्याश्चाङ्गुलयःस्मृताः ।
ऋषयो रोमकूपेषु सागरा वस्तिगोचराः ॥ ३६।१७२ ॥
नद्यश्च वसुधा चास्य नागाश्च नलके स्थिताः ।
जानुस्थावश्विनौ देवौ पर्वताश्चोरुसंस्थिताः ॥ ३६।१७३ ॥
गुह्यो ऽस्य गुह्यका ज्ञेया वसवश्चोरसि स्थिताः ।
नखाग्रेषु च विज्ञेया दिव्या ओषधयस् तथा ॥ ३६।१७४ ॥
नासिकायाः पुटौ ज्ञेयावयने दक्षिणोत्तरे ।
ऋतवो बाहुमूले तु मासाः करतलेषु च ॥ ३६।१७५ ॥
ललाटाग्रे तथा सिद्धा भ्रुवोर्मेघास्सविद्युतः ।
यक्षकिन्नरगन्धर्वा दैतेया दानवास्तथा ॥ ३६।१७६ ॥
राक्षसाश्चारणाश्चास्य जठरं समुसाश्रिताः ।
पितरः प्रेतकूश्माण्ड वेतालप्रमथास्तथा ॥ ३६।१७७ ॥
पातालगोचराश्चास्य पावयुग्मं समाश्रिताः ।
पार्श्वयोस्तस्य विज्ञेयाःक्रिया वेदैरभिष्टुताः ॥ ३६।१७८ ॥
अग्निहोत्रादिकर्माणि वर्णाश्रमहितानि च ।
स्वाहास्वधावषट्का रास्सर्वे ऽस्य हृदये श्रिताः ॥ ३६।१७९ ॥
नाम्नां शतं सहस्रं वा तथानन्तं पठन्तियत् ।
अनन्तानन्तरूपस्य यथायोगं समन्वितम् ॥ ३६।१८० ॥
मूर्तयश्चास्य सर्वास्तास्सङ्ख्यातीताः प्रकीर्तिताः ।
देवादीनां च सर्वेषां मूर्तयस्तत्र संश्रिताः ॥ ३६।१८१ ॥
तस्मादनन्तन्सम्प्रोक्तः पुंसूक्ते तदुदीरितम् ।
“सहस्रशीर्षा पुरुषस्सहस्राक्षस्सहस्रपात्ऽऽ ॥ ३६।१८२ ॥
ब्राह्मणा मुखते यस्य क्षत्रिया यस्य बाहुतः ।
ऊरुतो यस्य वै जाता वैश्याश्चेति नरा भुवि ॥ ३६।१८३ ॥
चन्द्रमा मनसो जातश्चक्षुषोर्मिहिरस् तथा ।
मूखादिन्द्रस् तथाग्निश्च प्राणाद्वायुरजायत ॥ ३६।१८४ ॥
नाभ्यायस्यान्तरिक्षं च शिरसो द्यौरजायत ।
पद्भ्यां भूमिर्दिशश्श्रोत्राद्यस्य देवस्य सम्बभौ ॥ ३६।१८५ ॥
तमीदृशं महाविष्णुमप्रमेयमनामयम् ।
तत्प्रसादादृते ज्ञातुं वक्तुं वा नैव शक्यते ॥ ३६।१८६ ॥
सर्वदेवमयो विष्णुः सर्वे देवास्तदात्मकाः ।
अशेषं वाङ्मयं चेदं लोकालोकं चराचरम् ॥ ३६।१८७ ॥
वैष्णव्या व्याप्यते शक्त्या वायुनेवदिशो ऽन्तरम् ।
सर्वे विष्णुमयादेवास्सर्वशास्त्रेषु कीर्तिताः ॥ ३६।१८८ ॥
आधाराधेयभावेन द्वेधास व्याप्य तिष्ठति ।
सर्वभूतहितायैव निष्कलस्सकलःस्थितः ॥ ३६।१८९ ॥
निष्कलस्सकलश्चैवं ज्ञेयो विष्णुस्सनातनः ।
सर्वतःपाणिपादं तत्सर्वतो ऽक्षिशिरोमुखम् ॥ ३६।१९० ॥
सर्वतश्श्रुतिमल्लोके सर्वमावृत्य तिष्ठति, ।
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जतम् ॥ ३६।१९१ ॥
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ।
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ॥ ३६।१९२ ॥
भूतभर्तृच तद् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ।
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ॥ ३६।१९३ ॥
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ।
तच्चाद्यो जगतामीशः परेशः परमेश्वरः ॥ ३६।१९४ ॥
परावरस्वरूपेण विष्णुस्सर्वहृदि स्थितः ।
स्थूलसूक्ष्मपरत्वेन त्रिधा च भगवान् स्थितः ॥ ३६।१९५ ॥
प्रभविष्णुर्महाविष्णुस्सदाविष्णुः स्मृतश्च सः ।
आत्मा स ह्यन्तरात्मा च परमात्मा च संस्मृतः ॥ ३६।१९६ ॥
वैराजं लैङ्गिकं चैव बहिरन्तश्च सर्वशः ।
शब्दादिश्चिन्मयं रूपं जाग्रत्स्वप्न सुषुप्तिगम् ॥ ३६।१९७ ॥
मन्त्रानुस्वारनादेषु त्रयमन्वेषयेद्बुधः ।
वेदे च भगवच्छास्त्रे साङ्ख्ये योगे तथैव च ॥ ३६।१९८ ॥
धर्मशास्त्रे पुराणे च मुनिभिर्देवमानुषैः ।
पठ्यते निखिलैर्नित्यं विश्वं विष्णुमयं जगत् ॥ ३६।१९९ ॥
यच्च भूतं भविष्यच्च वर्तमानं तु किं चन ।
इन्द्रियाणीन्द्रियार्थाश्च भूतान्तः करणानि च ॥ ३६।२०० ॥
अव्यक्तं त्रिगुणा माया विद्या धर्मादयस्तथा ।
नियतिश्च कला कालः सर्वमन्यच्च तन्मयम् ॥ ३६।२०१ ॥
विष्णुरेव परो देवस्सर्व भूतेष्ववस्थितः ।
सर्वभूतानि चैवाचौ न तदस्तीह यन्न सः ॥ ३६।२०२ ॥
देवासुरादयो मर्त्याः पशवश्च सरीसृपाः ।
तरुवल्लीतृणौषध्यो महाभ्राशनिविद्युतः ॥ ३६।२०३ ॥
शैलाब्धिसरिदारामनगराणि सरांसि च ।
लोकाश्चान न्तकालो ऽग्नि प्रेतावासोरगालयाः ॥ ३६।२०४ ॥
सप्तभूरादयो ब्राह्मशैववैष्णवसञ्ज्ञिताः ।
सर्वे च विष्णुनैकेन व्याप्तास्सर्वात्मनात्मना ॥ ३६।२०५ ॥
वराहो भार्गवस्सिंहो रामश्रीधरवामनाः ।
अश्विकृष्णौ च दिक्ष्वेषां लोकैरण्डं सहाखिलम् ॥ ३६।२०६ ॥
यच्चानुक्तमशेषेण विष्णोरेता विभूतयः ।
विश्वव्यापितयेवैष विष्णुर्वृद्धैरुधीरितः ॥ ३६।२०७ ॥
पुरुसञ्ज्ञेशरीरे ऽस्मिन् शयनात्पुरुषः स्मृतः ।
सत्यश्छाबाधितार्थत्वान्नित्यत्वात्स प्रकीर्तितः ॥ ३६।२०८ ॥
अच्युतो ऽच्यवनादेव स हरिः समदीरितः ।
अनिरुद्धस्तथा प्रोक्तस्सर्वस्मादनिरोधनात् ॥ ३६।२०९ ॥
वसनास्तर्वभूतेषु वासुदेवत्वमीयिवान् ।
आदिमूर्तेस्समाकृष्टः स्मृतस्सङ्कर्षणः प्रभुः ॥ ३६।२१० ॥
प्रद्युम्नो द्युम्न पृष्ठत्वात्त्रिधामा धामभिस्त्रिभिः ।
वैकुण्ठामलवर्णत्वाद्वैकुण्ठश्टायमुच्यते ॥ ३६।२११ ॥
लीयेते प्रलये त्वस्मिन् केशावित्येष केशवः ।
नरनारीप्रकर्तृत्वान्नराणां चायनादयम् ॥ ३६।२१२ ॥
नारायणो नरोद्धानामयनत्वादपाञ्च सः ।
माधवो मधुषूत्पत्त्या धवत्वाद्वा श्रियःस्मृतः ॥ ३६।२१३ ॥
गोविन्दतीति गोविन्दो गावो विन्दन्ति यं तथा ।
असुरं मधुनामानं हन्तीति मधुसूदन ॥ ३६।२१४ ॥
त्रिभिःस्वैर्विक्रमैर्व्याप्तो जगदेष त्रिविक्रमः ।
वामनो व्रास्वतायोगाच्छ्रीधरो वहनाच्छ्रियः ॥ ३६।२१५ ॥
हृषीकस्येन्द्रियस्येशो हृषीकेश उदीरितः ।
पद्मं नाभेरभूद्यप्य पद्मनाभस्ततस्म्मतः ॥ ३६।२१६ ॥
उदरालम्बि दामास्येत्युक्तो दामोदरो हरिः ।
उत्तमः पुरुषोयस्मादुक्तस्स पुरुषोत्तमः ॥ ३६।२१७ ॥
विलोमेन्द्रियगम्यत्वात्प्रोच्यते स त्वधोक्षजः ।
अर्धमर्धं लरस्सिंहो नरसिंहा उदाहृतः ॥ ३६।२१८ ॥
जनार्दनस्स पापिष्ठान् जनानर्दयतीति सः ।
इन्द्रस्यावरजो भूत उपेन्द्रः प्रोच्यते हरिः ॥ ३६।२१९ ॥
हरणात्सर्वपापानां हरिर्नायणः स्मृतः ।
कर्षणात्पापराशीनां कृष्णस्सर्वात्मको हरिः ॥ ३६।२२० ॥
रुद्रो रोदयते तस्मात् ब्रह्मा बृंहणकर्मणा ।
इन्द्रश्च परमैश्वर्याद्वहनाद्वह्निरुच्यते ॥ ३६।२२१ ॥
यमस्संयमनात्पुंसां वरणाद्वरुणस्तथा ।
वायुर्वानात्सवात्सोमर् इशश्चेष्टे जनेषु यः ॥ ३६।२२२ ॥
आदित्यो ऽदितिपुत्रत्वाच्चन्द्रश्चन्दयते यतः ।
इत्येवं गुणवृत्त्योह्यैः शब्देरेको ऽप्यनेकथा ॥ ३६।२२३ ॥
श्रुतिभिः प्रोच्यते ब्रह्म विष्ण्वाख्यं जातु नेतरत् ।
तस्येश्वरस्य चैश्वर्यात्सर्वमेतत्प्रवर्तते ॥ ३६।२२४ ॥
सेश्वरं हि जगत्सर्वं भवेन्नानीश्वरं क्वचित् ।
तन्मयत्वेन गोविन्दे न्यस्तसर्वभरा नराः ॥ ३६।२२५ ॥
तद्याजीनो महाभागास्तरन्ति भववारिधिम् ।
तं प्रसाधयितुं यत्नः कार्यस्सरात्मना नरैः ॥ ३६।२२६ ॥
भक्तिनम्रस्सदा गच्छेत्सर्वो ऽपि जगतः पतिम् ।
तद्देवस्य प्रियं भूयाद्यतस्सम्माननं तु तत् ॥ ३६।२२७ ॥
तस्य सन्निहितो देवो यस्य चित्ते जनार्दनः ।
दानेन तपसा नान्यैस्त्यस्य तुष्टोभवेद्धरिः ॥ ३६।२२८ ॥
आरुह्य शकटं गच्छेद्यो विष्णोर्मन्दिरं नरः ।
नारी वा बालको वाथ वृद्ध आतुर एव वा ॥ ३६।२२९ ॥
तस्य पुण्यफलं नास्ति प्रेत्य युग्यश्च जायते ।
ये वाहयन्ति तान्मर्त्यान्नरा वा प्राणिनश्च ये ॥ ३६।२३० ॥
ते यास्यन्ति पदं विष्णोर्यस्मात्पादच रास्तु ते ।
ये वाहयन्ति जन्तूंस्तान् स्ते ऽपिमूढाः पतन्ति वै ॥ ३६।२३१ ॥
यस्तोदयति तानेव गमने मूढचेतनः ।
स यामीर्यातनाः प्राप्य तोद्यते यमकिङ्करैः ॥ ३६।२३२ ॥
पुनः पशुत्वमापन्नस्तोद्यते पशुभिर्नरैः ।
यो वा भृतकदानेन वाहनेन तु मानवः ॥ ३६।२३३ ॥
वाहयत्यथ वोहेत सो ऽपि यास्यति दुर्गतिम् ।
अपारे दुर्गसंसारे कर्मबद्धे विशेषतः ॥ ३६।२३४ ॥
स्वीयं कर्म समुत्सृज्य पतन्ति नरके ऽशुचौ ।
ततःपशुत्वमापन्नाश्चिरं तिष्ठन्ति भूतले ॥ ३६।२३५ ॥
पादुकामधिरुह्यापि यो देवालयमाप्रजेत् ।
स पशुर्जोयते प्रेत्य रोगी चेहप्रजायते ॥ ३६।२३६ ॥
पादुकां वाहनं चापि यो ऽधिष्ठित्य विमूढधीः ।
प्रणामं हरये कुर्यात्त स्य दूरतरो हरिः ॥ ३६।२३७ ॥
देवदर्णनमुद्दिश्य नैवेदं विध आव्रजेत् ।
अयत्नाद्गमने जाते ऽप्यवरुह्य च वाहनात् ॥ ३६।२३८ ॥
पादुकादि विमुच्यैव समुपस्पृश्य वारिणा ।
प्रविशेत्प्रयतो भूत्वा प्राकारं प्रथमं पुनः ॥ ३६।२३९ ॥
न विशेद्धाम देवस्य यादता वाहनादिभिः ।
तादृशं पुरुषं दृष्ट्वा यथाशक्त्यवबोधयेत् ॥ ३६।२४० ॥
आद्यस्त्वेषो ऽपचारस्स्याद्यत्नहार्योभवेत्ततः ।
श्मशानमध्ये गत्वातु यो गच्छेद्देवतागृहम् ॥ ३६।२४१ ॥
सप्तजन्मकृतात्पुण्यात्तत् क्षणान्मुच्यते नरः ।
सार्गालीं योनिमाश्रित्य पसेज्जन्मत्रयं ततः ॥ ३६।२४२ ॥
दरिद्राश्चैव मार्खाश्च भविष्यन्ति त्रिजन्मकम् ।
अन्यदेवगृहं गद्वाह्यस्नात्वा यो व्रजेद्गृहम् ॥ ३६।२४३ ॥
देवदेवस्य मोहात्तु तस्य पापं महाद्भवेत् ।
गृहाद्गृहं तथा गद्वा भिक्षार्थी क्षुधितस्स्वयम् ॥ ३६।२४४ ॥
भिक्षामलब्ध्वा कुत्रापि दरिद्रो जायते नरः ।
चत्वारि चैव जन्मानि तेषामन्ते च यो बुधः? ॥ ३६।२४५ ॥
चण्डालयोनि माप्नोति जन्मानि दश पञ्च च ।
अत्र चोदाहरन्तीमं विशेषं काश्यपादयः ॥ ३६।२४६ ॥
सर्वदेवमयो विष्णुस्सर्ववेदमयो हरिः ।
तस्यातिरिक्तं नो किञ्चिद्विशेषस्तत्र वक्ष्यते ॥ ३६।२४७ ॥
सर्वे ऽप्यधिकृता लोके तत्तत्कर्मानुरूपतः ।
आब्रह्मस्तम्बपर्यन्तं जगदन्तर्व्यवस्थिताः ॥ ३६।२४८ ॥
तस्मादेव जगत्सर्वं सर्गकाले प्रजायते ।
तस्मिन्नेव पुनस्तच्च प्रलये सम्प्रलीयते ॥ ३६।२४९ ॥
यः वरः प्रकृतेः प्रोक्तः पुराणः पुरुषो ऽव्ययः ।
स एव सर्वभूतात्मा नर इत्यभिधीयते ॥ ३६।२५० ॥
नराज्जातानि तत्त्वानि नाराणीति प्रचक्षते ।
तान्येव चायनं यस्य स तु नारायणः स्मृतः ॥ ३६।२५१ ॥
नारायणः परं ब्रह्म तत्त्वं नारायणः परः ।
विष्ण्वादिभिस्तथा केचिद्वासुदेवादिभिः परे ॥ ३६।२५२ ॥
सञ्ज्ञाभेदैर्महात्मानस्सदैवाराधयन्तितम् ।
सर्वत्र परिपूर्णस्य सर्वधा सर्ववस्तुषु ॥ ३६।२५३ ॥
न जातु लभ्यते किञ्चिद्येनाव्याप्तं तु किं चन ।
तस्मात्तस्मिन् समारोप्य सर्वं देवेश्वरेश्वरे ॥ ३६।२५४ ॥
उपासनं भवेद्यत्तु तद्भवेदुचितं बुधैः ।
अन्यत्र तं समारोप्य यदि चोपासनं भवेत् ॥ ३६।२५५ ॥
तद्भवेदन्यदेवार्चा तस्मात्परिमितं फलम् ।
ये ऽप्यन्यदेवताभक्तायजन्ते श्रद्धयो ऽन्विताः ॥ ३६।२५६ ॥
यजन्ते ते ऽपि देवेशं तमेवाविधि पूर्वकम् ।
अन्ये ते ब्रह्मरुद्रेन्द्रास्तदाद्या देवतास्स्मृताः ॥ ३६।२५७ ॥
वैष्णवा अवताराश्च ये तु शास्त्रोदिताः पुरा ।
परमार्थे न भिद्यन्ते नान्यत्वं स्यात्परस्परम् ॥ ३६।२५८ ॥
विष्ण्वालयादथैकस्मादन्यविष्ण्वालयस्य तु ।
तत् स्थानां दैवतानां वा नान्यत्वं जातु सम्भवेत् ॥ ३६।२५९ ॥
अथ शास्त्रविधिर्भिन्नो यत्र नाप्युपलभ्यते ।
तत्रान्यत्वं विजानीयान्न चेच्छेच्छास्त्रसङ्करम् ॥ ३६।२६० ॥
हरिं देवं तु संसेव्य वाहनस्थं द्विजोत्तमः ।
यदन्यं सेदते वीथ्यां तत्काले वाहनस्थितम् ॥ ३६।२६१ ॥
सो ऽपि पापमवाप्नोति विष्णुध्यानेन शुद्ध्यति ।
देवेशस्योत्सवो यत्र ग्रामे वा नगरे ऽपि वा ॥ ३६।२६२ ॥
पर्वताग्रे महानद्यास्तीरे दुर्गाटवीषुवा ।
तत्र गच्छेन्नरो भक्त्या सेवेतोत्सवमादरात् ॥ ३६।२६३ ॥
सह पुत्त्रेस्सहामात्यैस्सर्वैः परिजनैर्वृतः ।
वैष्णवं क्रतुदेशन्तु गत्वा सेवेत मानवः ॥ ३६।२६४ ॥
यथार्ऽहमुपयुञ्जीत स्वशक्तिं तत्क्रियासु च ।
श्रुत्वा देवोत्सवारम्भं पङ्गूभावेन यो नरः ॥ ३६।२६५ ॥
तिष्ठेत्स जन्मसाहस्रं पङ्गुरेव भविष्यति ।
तद्भवेद्विफलं जन्म भूभारस्तस्य जीवितम् ॥ ३६।२६६ ॥
देवेशस्योत्सवे सम्यग्वर्तमाने महाफले ।
यो ऽन्यत्र व्यापृतस्तत्र न गच्छेद्दुर्मना नरः ॥ ३६।२६७ ॥
न तस्य निष्कृतिः प्रोक्ता स पापी नरकं व्रजेत् ।
अनाहूतो ऽध्वरं गच्छेत्तथा गुरुकुलं व्रजेत् ॥ ३६।२६८ ॥
यो ऽध्वरं गन्तुकामो ऽत्र प्रतीक्षेतार्ङ्गणादिकम् ।
तन्य पूर्वार्जितं पुण्यं तत् क्षणादेव नश्यति ॥ ३६।२६९ ॥
देवोत्सवं तु यो मर्त्यो यतमानं तु सेवितुम् ।
वारयेद्येन केनापि हेतुना स तु दुर्मतिः ॥ ३६।२७० ॥
अफलस्सफलो वापि पतत्येव न संशयः ।
विष्णुपञ्चदिने वापि पुण्याहेष्वितरेष्वपि ॥ ३६।२७१ ॥
उपोषितस्तु श्रुत्वैव देवेशस्योत्सवं हठात् ।
तत् क्षणाद्यो न गच्छेत्तु तस्य पापं महद्भवेत् ॥ ३६।२७२ ॥
खट्वामास्थाय यश्शेते वर्तमाने तदुत्सवे ।
आसीनस्थ्सित एवात्र स यामीर्यातना व्रजेत् ॥ ३६।२७३ ॥
देवेशाभिमुखं गत्वा न कुर्याद्यो नमस्क्रियाम् ।
स पापिष्ठतरो लोके निष्कृतिर्नास्य विद्यते ॥ ३६।२७४ ॥
उत्क्रमिष्यन्ति यत्प्राणाः प्राणदे समुपस्थिते ।
प्रत्युद्थानाभिवादाभ्यां पुनस्तान् प्रतिपादयेत् ॥ ३६।२७५ ॥
सर्वेषां प्राणभूतो ऽसौ भगवान् हरिरव्ययः ।
प्राणिनश्चेतनास्सर्वे प्राण्येकः प्राणदो ऽपरः ॥ ३६।२७६ ॥
अन्यथा चेन्महादोषः सङ्क्षुफ्यन्ते च मानवाः ।
एकहस्तप्रणामेन यत्पापं न तदन्यतः ॥ ३६।२७७ ॥
हस्तौ द्वौ निर्मितौ धात्रा किं तेन सुकृतं भवेत् ।
प्राञ्जलीकृत्य हस्तौतु याचेत मधुसूदनम् ॥ ३६।२७८ ॥
य एकेनैव हस्तेन प्रणमेन्मन्दधीर्हरिम् ।
तस्यहस्तो भवेदेकः पश्चाज्जन्मशतैरपि ॥ ३६।२७९ ॥
इह वै जायते पङ्गू रोगी चैव न संशयः ।
किमिदं बहुलैश्चित्रैः करणैर्देहकल्पनम् ॥ ३६।२८० ॥
यद्येकैकं न चेत्तस्य कैङ्कर्यायोपयुज्यते ।
किं स्वाधीनेन हस्तेन स्वाधीनं कर्म सेवितुम् ॥ ३६।२८१ ॥
अशक्नु वानास्स्वातन्त्षहताः पापहता हताः ।
एकहस्तप्रणामस्तु परिहार्यो विशेषतः ॥ ३६।२८२ ॥
प्रणतं चैकहस्तेन यस्तु प्रत्यभिवादयेत् ।
तावुभौ नरकं यातस्तयोर्यस्मात्समागमः ॥ ३६।२८३ ॥
देवतास्तादृशं मूढं शपन्ति च विशङ्किताः ।
पुरस्ताद्यस्तु देवस्य कुर्यादात्मप्रदक्षिणम् ॥ ३६।२८४ ॥
आत्मना स भवेद्वापस्स द्रुह्येदात्मने बुधः ।
पुरस्ताद्देवबिम्बे तु देव्यमङ्गलविग्रहे ॥ ३६।२८५ ॥
वर्तमाने त्वनादृत्य न ह्यन्यस्य प्रदक्षिणम् ।
यत्र मानसिकार्चा स्यात्तच्च मानसिकं भवेत् ॥ ३६।२८६ ॥
अन्तर्यामी य एवास्ते हृदये निष्कलो हरिः ।
स एव सकलो भूत्वा बिम्बे यत्सन्निधापितः ॥ ३६।२८७ ॥
तस्मात्सकलपूजायां नैव कुर्याद्व्यतिक्रमम् ।
न कदापि भवेत्प्राज्ञ उच्भिष्टस्स्वेषु कर्मसु ॥ ३६।२८८ ॥
विण्मूत्रं पथि कृत्वातु शौचं यावन्न चाचरेत् ।
उच्छिष्टस्तावदेव स्यादनर्हस्सर्वकर्मसु ॥ ३६।२८९ ॥
नखरोमाणि यश्चैव केशास्थीनि तथैव च ।
क्षिपेत्तु देवतागारे स भवेद्ब्रह्महा नरः ॥ ३६।२९० ॥
माक्षिकीं योनिम्श्रित्य जायते म्रियते पुनः ।
सप्त जन्मानि तत्रैव व्रजेन्नरकमस्ततः ॥ ३६।२९१ ॥
ताम्बूलं चर्वितं यस्तु प्रक्षिपेद्देवमन्तिरे ।
स याति नरकं घोरं यावदाभूतसम्प्लवम् ॥ ३६।२९२ ॥
ततो मुक्तो महापापी शुनको ऽपरजन्मनि ।
संस्थितस्त्रीणि जन्मानि वसत्येव न संशयः ॥ ३६।२९३ ॥
निष्ठीवनकरो यस्तु मन्दिरे मधुविद्विषः ।
कृमिभक्ष्ये पतेद्घोरे नरके पापकृन्नरः ॥ ३६।२९४ ॥
श्लेष्मातकतरुर्भूत्वा जायते जन्मपञ्चकम् ।
मूत्रयेन्मन्दिरे यस्तु केशवस्य विमूढधीः ॥ ३६।२९५ ॥
स मूत्रगर्तनरके पतत्येव ह्यवाक्छिराः ।
तस्मान्मुक्तस्तुरक्तादिनिम्बकद्रुममास्थितः ॥ ३६।२९६ ॥
जनिष्यति न सन्देहस्सप्तजन्मसु सौकरीम् ।
पुरीषं वात्र कुर्वीत यो नरो भगवद्गृहे ॥ ३६।२९७ ॥
स याति नरकान् घोरान् पर्यायेणैकविंशतिम् ।
ततो मुक्तस्तु पापात्मा विष्ठायां जायते कृमिः ॥ ३६।२९८ ॥
समीपे मन्दिरस्यापि सकृन्मूत्रं करोति यः ।
स तिष्ठेद्रौरवे घोरे वर्षाणामयुतं शतम् ॥ ३६।२९९ ॥
ततो ऽपि मनुजो मुक्तो ग्रामसूकरजातिताम् ।
ग्रामे जन्मशतं प्राप्य विष्ठाभूसूकरस्तथा ॥ ३६।३०० ॥
यस्तु रेतोविसर्गं च कृत्वा कामादकामतः ।
अस्नातो देवतागारमियात्सद्यस्स नश्यति ॥ ३६।३०१ ॥
यो यत्र देवतागेहे दन्तधावनमाचरेत् ।
तथा निर्लेखयेज्जिह्वां स पापी नश्यति ध्रुवम् ॥ ३६।३०२ ॥
तैलेनाभ्यक्तसर्वाङ्गः कषायोद्वर्तितस्तथा ।
यो नरःप्रविशेद्गेहं देवस्य परमात्मनः ॥ ३६।३०३ ॥
स याति गृहगोधात्वं नवजन्मानि पञ्च च ।
अनुगम्य यथा प्रेतं याति देवालयं तु यः ॥ ३६।३०४ ॥
आराधितुमथेच्छेद्वास गच्छेन्नरायुतम् ।
बलिभुग्योनितां याति जन्मानि सुबहूनि वै ॥ ३६।३०५ ॥
भरणं तु तथा कृत्वा मृतकस्य विशेषतः ।
मन्दिरं न प्रवेष्टव्यं प्रविष्टस्तु प्रणश्यति ॥ ३६।३०६ ॥
चाण्डालीं योनिमाश्रित्य जन्मकृन्नव पञ्च च ।
भविष्यति तथा भूयः पृथक् क्रूरो ऽथ निष्ठुरः ॥ ३६।३०७ ॥
भुक्त्वाश्राद्धं परगृहे यायाद्विष्णुगृहन्तु यः ।
अर्चयेद्वा विशेषेण चटको जायते खलः ॥ ३६।३०८ ॥
तत्र जन्मशतं प्राप्य ततो गोधावपुर्गतः ।
छायामाक्रम्य यो मोहाद्याति विष्णोस्तु मन्दिरम् ॥ ३६।३०९ ॥
प्रदक्षिणमकुर्वन्वा यस्तिष्ठेन्मतिपूर्वकम् ।
सो ऽप्युच्छिष्टोभवेन्मूढस्तस्य पापफलं त्विदम् ॥ ३६।३१० ॥
तिष्सेत्स कानने शून्ये कण्टकैर् बहुभिर्वृतः ।
फलपुह्पादिहीनश्च श्मशाने? शून्यवृक्षताम् ॥ ३६।३११ ॥
यज्ञ सूत्रमधःकृत्य कर्णे कृत्वा विशेषतः ।
अपसव्यं च धृत्वैव धृत्वा चैव निवीतवत् ॥ ३६।३१२ ॥
न गच्छेद्देवतागारं न वा मुक्तशिखो नरः ।
अकच्छः पुच्छकच्छश्च नग्नः कौपीनमातृधृक् ॥ ३६।३१३ ॥
रिक्तहस्तश्शून्यफालस्त्यक्तसंव्यान एव च ।
खादन्नपि च ताम्बूलमुपहारादि भक्षयन् ॥ ३६।३१४ ॥
देवालयं विशेन्नैव तस्य पापं महद्भवेत् ।
दुराचारो हि पुरुषो नेहायुर्विन्दते महत् ॥ ३६।३१५ ॥
त्रस्यन्ति चास्य भूतानि तथा परिभनन्तिच ।
तस्मादाचारवानेव कुर्याद्वैवैदिकीः क्रियाः ॥ ३६।३१६ ॥
अपि पापशरीरस्य आचारो हन्त्यलक्षणम् ।
आचारलक्षणो धर्मः सन्तश्चारित्रलक्षणाः ॥ ३६।३१७ ॥
साधूनां च यथावृत्तमेतदाचारलक्षणम् ।
अप्यदृष्टं श्रवादेव पुरुषं धर्मचारिणम् ॥ ३६।३१८ ॥
स्वानि कर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम् ।
ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः ॥ ३६।३१९ ॥
अधर्मज्ञा दुराचारास्ते भवन्तिगतायुषः ।
विशीला धर्ममर्यादा नित्यं सङ्कीर्णमैथुनाः ॥ ३६।३२० ॥
अल्पायुषो भवन्तीहनरा निरयगामिनः ।
लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः ॥ ३६।३२१ ॥
नित्योच्छिष्टस्सङ्कुसुको नेहयुर्विन्दते क्वचित् ।
विष्णुस्थानसमीपस्थान् विष्णुसेवार्थमागतान् ॥ ३६।३२२ ॥
श्वपचान् पतितान्वापि स्पृष्ट्वा न स्नानमाचरेत् ।
उत्सवे वासुदेवस्य यःस्नाति स्पर्शशङ्कया ॥ ३६।३२३ ॥
स्वर्गस्थाः पितरस्तस्य पतन्ति नरके ऽशुचौ ।
पिबेत्पादोदकं विष्णोर्गुरूणां वा विशेषतः ॥ ३६।३२४ ॥
तत्र नाचमनं कुर्यात्तद्वत्सोमे द्विजोत्तमः ।
अन्यदेवार्थसन्दिष्ठैः पूजयेयुश्च ये हरिम् ॥ ३६।३२५ ॥
सप्तजन्मानि पञ्चापि मुडूकत्वं व्रजन्ति ते ।
जन्मद्वयन्तु वै मूढाश्शूद्रतां यान्ति ते नराः ॥ ३६।३२६ ॥
कुसुमानां निवेद्याहं गन्धमाघ्राति यो नरः ।
स पूतिगन्धसंयुक्तः कुष्ठी चैव भवेद्ध्रुवम् ॥ ३६।३२७ ॥
तदन्ते त्रीणि जन्मानि तादृशानि भवन्त्युत ।
जातकं मृतकं वापि यस्याशौचं विधीयते ॥ ३६।३२८ ॥
अनर्हस्सर्वकर्मभ्यो स नेयाद्देवता गृहम् ।
पुम्प्रसूतौ स्मृतं पूर्वैस्सापिण्ड्यं सप्तपूरुषम् ॥ ३६।३२९ ॥
कन्यकाजनने तद्वत्सापिण्डन्तु त्रिपूरुषम् ।
व्रतिनां सत्रिणां तद्वद्यतीनां ब्रह्मचारिणाम् ॥ ३६।३३० ॥
नाशौचः कथ्यते प्राज्ञैर्यथा शातातपो ऽब्रवीत् ।
व्रतसङ्कल्पमात्रेण व्रतित्वं व्रतिनो भवेत् ॥ ३६।३३१ ॥
वृतमात्रस्तथर्त्विक्च सत्रे सत्री प्रकीर्तितः ।
काषायदण्डमात्रेण यतित्वञ्च यतेर्मतम् ॥ ३६।३३२ ॥
उपनीतो वसेन्मा वा तथा गुरुकुले क्रमात् ।
ब्रह्माध्येति नचाध्येति ब्रह्मचारी कुमारकः ॥ ३६।३३३ ॥
राजाज्ञाकारिणां तद्वद्राज्ञां च स्नातकस्य चर् ।
इदृशानामथान्येषामत्रास्तर्भावर् इरितः ॥ ३६।३३४ ॥
न कुर्याच्च नमस्कारं नैव प्रत्यभिवादयेत् ।
नार्ऽपयेदुपहारांश्च तीर्थादीन्नापि सेवते ॥ ३६।३३५ ॥
आशौची ब्राह्मणो यस्तु मोहाद्देवं प्रपूजयेत् ।
सप्तजन्मसु दारिद्षमत्यन्तं समवाप्नुयात् ॥ ३६।३३६ ॥
श्वानयोनिशतं प्राप्य ततश्चण्डालतामियात् ।
योभुक्त्वा देवतागारे निक्षिप्योच्छिष्टमत्र तु ॥ ३६।३३७ ॥
गच्छेदन्यत्र वा प्रास्यात्सोपि मूढो विपद्यते ।
यस्तु देवगृहद्वारे प्रसार्य चरणौ क्वचित् ॥ ३६।३३८ ॥
शेते निद्राति सम्मोहात्स याति नरकायुतम् ।
पुनश्च जन्म सम्प्राप्य नीचयोनिष्वनेकशः ॥ ३६।३३९ ॥
यातनाश्चानुभूयेव दौर्ब्राह्मण्यं व्रजेत्तु सः ।
यस्तु देवगृहे मूढश्सयीत मदमोहितः ॥ ३६।३४० ॥
तत्रोच्छिष्टनिधानेन भृशं निश्श्वासमारुतैः ।
दुर्गन्धी जायते मर्त्योजायते जन्मपञ्चकम् ॥ ३६।३४१ ॥
ततस्सूकरतां प्राप्य जन्मानि नव पञ्च च ।
क्लिश्यते बहुभिः कष्टैर्न शयीत हरेर्गृहे ॥ ३६।३४२ ॥
उपधानादिसहितं य स्तल्पमधितिष्ठति ।
देवालये विशेषेण प्राकारे वापि मूढधीः ॥ ३६।३४३ ॥
स भवेद्दुर्भगश्चैव सर्पयौनिषु जायते ।
सप्त पञ्च च जन्मानि ततो मानुषतां व्रजेत् ॥ ३६।३४४ ॥
शयीत देवतागेहे व्याधितो यस्तु दुर्मतिः ।
स भवेद्दुर्मना दीनो प्रेत्य चेह च जन्मनि ॥ ३६।३४५ ॥
यःस्त्रिया सहितो मूढश्शयीत भगवद्गृहे ।
स भवेद्दुरितष्षण्डस्सप्तजन्मानि पञ्च च ॥ ३६।३४६ ॥
योगिभिर्योगसिद्ध्यर्थमभ्यस्यन्ते विशेषतः ।
आसनानि त्वसङ्ख्यानि देवागारे न चाचरेत् ॥ ३६।३४७ ॥
मन्त्रयोगपरैस्तद्वल्लययोगपरायणैः ।
हठयोगिभिरेतानि क्रियन्ते राजयोगिभिः ॥ ३६।३४८ ॥
स्वस्तिकं सर्वतोभद्रं सिद्धं सिंहासनं तथा ।
सव्यं खूलं सुखं चैव गोमुखं गरुडं तथा ॥ ३६।३४९ ॥
मयूरं मत्स्यमत्स्येन्द्रं मण्डूकं मुद्गरं मृगम् ।
कुञ्जरं कुक्कुटं नागं काष्ठं क्रैञ्चं च कूर्मकम् ॥ ३६।३५० ॥
खड्गं च कामदहनं वैयाघ्रं वेणुकासनम् ।
योन्यासनं वासकं च धीरं पद्मासनं तथा ॥ ३६।३५१ ॥
वाराहं चैव पर्यङ्कं पतगासनमेव च ।
त्रिपदं हस्तिकर्णं च हेममर्धासनं तथा ॥ ३६।३५२ ॥
इत्यादीना मासना नामशीतिश्च तुरुत्तरा ।
अन्यानि शास्त्रसिद्धानि यानि सन्ति विशेषतः ॥ ३६।३५३ ॥
तान्यास्थायि तु देवाग्रेनो पतिष्ठेत बुद्धिमान् ।
भुञ्जीयाद्देवतागारे यः पापस्स तु दुर्मनाः ॥ ३६।३५४ ॥
कुक्षिरोगार्दितो भूत्वा जन्मानि दश पञ्च च ।
ततस्सृगालतां प्राप्य पतेद्धि नरके ऽशुचौ ॥ ३६।३५५ ॥
यो वा मूढमतिर्मोहात्कारयेद्द्विजभोजनम् ।
देवागारे विशेषेण स भवेन्निन्दितो जनः ॥ ३६।३५६ ॥
गर्भागारे चान्तराले तथा चैवार्धमण्डपे ।
महामण्डपमध्ये च नान्नमद्याद्विशेषतः ॥ ३६।३५७ ॥
अन्नं पात्रे विनिक्षिप्य पुटपत्रादिनिर्मिते ।
आपोशनं तु कृत्वैव यदद्याद्भोजनं तुतत् ॥ ३६।३५८ ॥
न देवताप्रसादस्य गृहीतस्याञ्जलौ तथा ।
न चैवापोशनं कुर्यात्कुर्याच्चेत्तदसम्मतम् ॥ ३६।३५९ ॥
यस्तु पानीयपात्राणि पीतान्यत्र तु विन्यसेत् ।
स गच्छेन्नरकान् क्रूरान् यावन्त उदबिन्दवः ॥ ३६।३६० ॥
पात्रे तिष्ठन्ति शरदस्तावतीर्नात्र संशयः ।
निवेदितं तु देवस्य देवस्याग्रे विशेषतः ॥ ३६।३६१ ॥
प्रदद्यात्तु क्रमेणैव वर्णाश्रमविधानतः ।
अश्नन्तिभक्तास्सर्वे ऽपिगृहीत्वैवाञ्जलौ पुनः ॥ ३६।३६२ ॥
ब्रह्मण्यदेवमुद्दिश्य पुरुषं ब्राह्मणप्रियम् ।
नारायणमनाद्यन्तं विष्णुं सर्वेश्वरेश्वरम् ॥ ३६।३६३ ॥
ब्राह्मणान् भोजयेद्यस्तु कर्मसाद्गुण्यसिद्धये ।
तथा निष्कृतिनिष्पत्त्यैशास्त्रोक्तेन विधानतः ॥ ३६।३६४ ॥
कारयेन्नोक्तदेशेषु कदापि द्विजभोजनम् ।
यस्त्वन्नं दापयेद्विप्रो द्विजेभ्यो भक्तिसंयुतः ॥ ३६।३६५ ॥
निवेदितं तु देवस्य सन्तुष्ट्यैस्वस्य तस्य च ।
तस्य तुष्यति देवेश आदाता तु विपद्यते ॥ ३६।३६६ ॥
दातुस्तु सकलं पापं मनोवाक्कायकर्मभिः ।
बहुशस्सञ्चितं पूर्वमादाता समवाप्नुयात् ॥ ३६।३६७ ॥
प्रसादो ऽपिहि देवस्य परपाकरुचिं नरम् ।
न जातु पावयेन्नैव पावयेत्पावयेन्न तु ॥ ३६।३६८ ॥
यदृच्छालाभसन्तुष्टं यथा भक्तवरं तथा ।
महिमानं प्रसादस्य यो ऽवजानाति मूढधीः ॥ ३६।३६९ ॥
तेन भुक्तं भवेत्पापं दातुरेव न संशयः ।
अयुतं ब्राह्मणानान्तु तर्पयित्वातु यत्फलम् ॥ ३६।३७० ॥
तत्फलं नश्यति क्षिप्रमुच्छिष्टस्य कणेन तु ।
अथान्नविक्रयेदोषः कथ्यते विधिवित्तमैः ॥ ३६।३७१ ॥
अन्नविक्रयिणः पापा व्रजन्ति यमयातनाः ।
प्रेत्य सृगालतां यान्ति नव जन्मानि पञ्च च ॥ ३६।३७२ ॥
यस्त्वन्नं भगवद्गेहे विक्रीणाति विशेषतः ।
चण्डालो जायते प्रेत्य क्षुधितश्च चरेन्मुहुः ॥ ३६।३७३ ॥
विक्रीणते तु ये विप्रा वाणिज्ये दत्तचक्षुषः ।
ये ऽप्यन्नमुपहारादि चेतरद्देवमन्दिरे ॥ ३६।३७४ ॥
ते ऽपि यान्ति महाघोरं नरकं भृशदारुणम् ।
यत्र नैवभवेष्यन्ति पालीयायोदबिन्दवः ॥ ३६।३७५ ॥
कणमन्नस्य वान स्यात्तप्यन्ते तत्र ते जनाः ।
ये गृहीत्वा तदन्नादि भुञ्जते क्षुधिता जनाः ॥ ३६।३७६ ॥
उपकुर्वन्तिये वा तानुच्यन्ते ऽभक्ष्यभोजनाः ।
अन्नं प्राणा मनुष्याणां सर्वमन्ने प्रतिष्ठितम् ॥ ३६।३७७ ॥
अन्नं ब्रह्मात्मकं विन्द्याद्विन्द्यादन्नमयीं तनुम् ।
अन्नं विक्रीणते ये तु प्राणविक्रयिणः स्मृताः ॥ ३६।३७८ ॥
तस्मात्सर्वप्रयत्नेन त्यजेत्तत्क्रय विक्रयौ ।
न कुर्याद्देवता गेहे ऽभ्युदयं श्राद्धभोजनम् ॥ ३६।३७९ ॥
कुर्यान्न चापि श्राद्धादीन्विहायापि द्विजाशनम् ।
तस्मात्सर्वप्रयत्नेन नाश्नीयाद्धरिमन्दिरे ॥ ३६।३८० ॥
मुधा सम्भाषते यस्तु प्रविश्य हरिमन्दिरम् ।
स निधिं पुरतस्सिद्धं त्यक्त्वा भिक्षति काकिणीम् ॥ ३६।३८१ ॥
यस्तु सम्भाषते व्यर्थं देवालयमुपाश्रितः ।
सिद्धमन्नं परित्यज्य भिक्षामटति दुर्जनः ॥ ३६।३८२ ॥
यन्मुहूर्तं क्षणं वापि परमात्मान चिन्त्यते ।
सा हानिस्तन्ममहच्छिद्रं सा भ्रान्तिस्सा तु विक्रिया ॥ ३६।३८३ ॥
दस्युभिर्मुषितेनेव दग्धेनेव दवाग्निना ।
व्याधिभिःपीडितेनेव चाकृष्टेनेव मृत्युना ॥ ३६।३८४ ॥
भीतेनेवोत्तमर्णेन धर्षितेनेव राजभिः ।
मग्नेनेव महासिन्धौ हतेनेव च वात्यया ॥ ३६।३८५ ॥
सम्पिष्टेनेव पाषाणैराक्रन्देद्यस्स मुच्यते ।
सन्त्यनेका प्रदेशाश्च समयाश्च विशेषतः ॥ ३६।३८६ ॥
लोकयात्राविनिष्पत्त्यै देहयात्रोपयोगिनः ।
तस्माद्देवगृहं गत्वा नरो नान्यपरो भवेत् ॥ ३६।३८७ ॥
यत्प्रसङ्गे हरेर्नाम तन्ममहत्त्वं च नाप्यते ।
स सर्वो ऽपि मुधा प्रोक्तोमिथ्येत्येके वदन्तितम् ॥ ३६।३८८ ॥
न हि देवस्य पुरतः क्वचिदप्यनृतं वदेत् ।
सत्यस्वरूपी भगवान् सत्यं तस्मैन गूहयेत् ॥ ३६।३८९ ॥
सत्यमेव परं ब्रह्म सत्यमेव परं तपः ।
सत्यमेव परो यज्ञस्सत्यमेव परं श्रुतम् ॥ ३६।३९० ॥
सत्यं देवेषु जागर्ति सत्यं धर्मतरोः फलम् ।
तपोयज्ञश्च पुण्यं च देवर्षिपितृपूजनम् ॥ ३६।३९१ ॥
आद्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितम् ।
सत्यं यज्ञन्तथा वेदास्सत्या देवी सरस्वती ॥ ३६।३९२ ॥
व्रतचर्या तथा सत्यमोङ्कारस्सत्यमेव च ।
सत्येन वायुरावाति सत्येनार्ऽकः प्रकाशते ॥ ३६।३९३ ॥
दहत्यग्निश्च सत्येन यायात्सत्येन सद्गतिम् ।
पर्जन्यो धरणीभागे सत्येनापः प्रवर्षति ॥ ३६।३९४ ॥
स्वाध्यायस्सर्ववेदानां सर्वतीर्थावगाहनम् ।
सत्यं तु वदतो लोके तुलितं स्यान्न संशयः ॥ ३६।३९५ ॥
अश्वमेधसहस्रं च सत्यं च तुलया कृतम् ।
अश्वमेधसहस्रात्तु भारस्सत्ये विशिष्यते ॥ ३६।३९६ ॥
सत्येन देवाः प्रीणन्ति पितरो ब्राह्मणास्तथा ।
सत्यमाहुःपरं धर्मं सत्यमाहुः परं पदम् ॥ ३६।३९७ ॥
सत्यमाहुः परं ब्रह्म तस्मात्सत्यं न लोभयेत् ।
ये सत्यनिरतास्सत्यशपथास्सत्यविक्रमाः ॥ ३६।३९८ ॥
महत्मानो मुनिश्रेष्ठास्ते परां सिद्धिमाप्नुवन् ।
दैवतैस्सह मोदन्ते स्वर्गे सत्यपरायणाः ॥ ३६।३९९ ॥
अप्चरोगणसङ्कीर्णैर्विमानैस्सञ्चरन्ति च ।
वक्तव्यं च सदा सत्यं न सत्याद्विद्यते परम् ॥ ३६।४०० ॥
अगोधे विमले शुद्धे सत्यतीर्थे शुचिह्रदे ।
स्नातव्यं मनसा युक्तैस्तत्स्नानं परमं स्मृतम् ॥ ३६।४०१ ॥
देवार्थे वा परार्थे वा पुत्रार्थे वा ऽऽत्मने तथा ।
ये ऽनृतं नाभिभाषन्ते ते स्वर्गं यान्तिमानवाः ॥ ३६।४०२ ॥
यस्सत्यवादी पुरुषो नानृतं परिभाषते ।
सम्प्राप्य विरजान् लोकानुषित्वा शाश्वतीस्समाः ॥ ३६।४०३ ॥
भगवद्भक्तिमुक्तानां जायते श्रीमतां कुले ।
साक्षिणस्सन्तिसर्वेते देवता भास्करादयः ॥ ३६।४०४ ॥
परीक्षन्ते च सर्वासु दशासु पुरुषं सदा ।
न वाच्यमनृतं तस्मात्प्राणैः कण्ठगतैरपि ॥ ३६।४०५ ॥
ये ऽनृतं ब्रुवते मूढाश्शपथानि च कुर्वते ।
देवागारे विशेषेण ते प्रणश्यन्ति सान्वयम् ॥ ३६।४०६ ॥
पुनर्जन्मशतं यान्ति कीटडयोनिष्वनेकशः ।
गीतवादित्रनृत्तादीन् पुण्याख्यानकथाश्च ये ॥ ३६।४०७ ॥
लोपयन्त्यथ पारुष्यैर्मन्दिरे मधुविद्विषः ।
ते यान्ति नरकं पापा जायन्ते नीचयोनिषु ॥ ३६।४०८ ॥
तथा ते ऽपि दुरात्मानो गार्दभीं योनिमाप्नुयुः ।
तथान्ते क्रूरा नव जन्मानि पञ्च च ॥ ३६।४०९ ॥
अनिबद्धप्रलापान् ये कुर्वते देवमन्दिरे ।
ते ऽपि तित्तिरितां भूत्वा जायन्ते जन्मपञ्चकम् ॥ ३६।४१० ॥
देवभाषां परित्यज्य देशभाषासु यो नरः ।
स्तुवीत देवतागेहे देवस्याग्रे विशेषतः ॥ ३६।४११ ॥
तस्य दोषोमहानाशु नैव पूजाफलं भवेत् ।
असाराणि तु शास्त्राणि भूयांसि पृथिवीतले ॥ ३६।४१२ ॥
यत्र देवस्य महात्म्यकथनं न प्रपञ्च्यते ।
तेषु शास्त्रेषु ये जाताश्शास्त्रार्थाश्च विशेषतः ॥ ३६।४१३ ॥
वादाश्च प्रतिवादाश्च संस्कारास्सर्व एव हि ।
चित्रशिल्पा न सन्देहो नरस्तेन न मुच्यते ॥ ३६।४१४ ॥
सा विद्या या हरिं स्तौति सा क्रिया यत्तदर्चनम् ।
या न्या यदन्यदखिलं दुष्टोदर्का हि जीविका ॥ ३६।४१५ ॥
न हि देवगृहं गत्वा शास्त्रार्थैर्नी रसैर्नरः ।
मुहूर्तं क्षपयेत्कालं तद्देवस्य विमानना ॥ ३६।४१६ ॥
विशालं वाङ्मयं सर्वं सृष्ट्वा स्रष्टा हरिः प्रभुः ।
तदन्तस्सम्प्रविश्यैव वाच्यवाचकभेदतः ॥ ३६।४१७ ॥
विज्ञानाय मनुष्याणां विज्ञानघनविग्रहः ।
सदोपकुरुते यस्मात्सर्वे भक्तवराः सदा ॥ ३६।४१८ ॥
सर्वा वाचो विमुच्यान्याश्चिन्तयानाश्च सादरम् ।
तन्महत्त्वकथागन्धदरिद्रं वाचनं तथा ॥ ३६।४१९ ॥
पाठनं लेखनाद्यं च नैव कुर्याद्गृहे हरेः ।
स भवेदक्षरद्रोङी यस्तु कुर्याद्व्यतिक्रमम् ॥ ३६।४२० ॥
द्रुह्येत्स वाङ्मयायापि तस्माद्युक्ततरो भवेत् ।
यस्तु देवगृहं गत्वा रोदिति प्रणयाद्यथा ॥ ३६।४२१ ॥
दुःखितः स्तौति वा देवं तत्स्यान्मानसिकं मलम् ।
निर्वाणपरमं स्थानं म्लानेन मनसा तु यः ॥ ३६।४२२ ॥
सेवते स न जानाति तद्विष्णोः परमं पदम् ।
नारी वा पुरुषो वापि गत्वा देवगृहं क्वचित् ॥ ३६।४२३ ॥
न रोदेत्पातयेन्नाश्रु नैवान्यं रोदयेदपि ।
यावन्त्यश्रूणि रुदतां पतेयुर्देवमन्दिरे ॥ ३६।४२४ ॥
तावन्त्यब्दसहस्राणि ते वसन्ति यमालये ।
अनुभूय पुनस्तत्र यातनास्तीव्रचोदनाः ॥ ३६।४२५ ॥
प्राप्य तित् तिरितां कालं वसिष्यन्ति चिरं भुवि ।
नैवात्र हिंसां कुर्वीत प्राणिनां दुःखदां क्वचित् ॥ ३६।४२६ ॥
अहिंसा वैदिकं कर्म ध्यानमिन्द्रियनिग्रहः ।
तपो ऽथ गुरुशुश्रूषा धर्मद्वाराष्षडीरिताः ॥ ३६।४२७ ॥
अहिंसापाश्रयं धर्मं दान्तो विद्वान् समाचरेत् ।
त्रीदण्डं सर्वभूतेषु निधाय पुरुषश्शुचिः ॥ ३६।४२८ ॥
कामक्रोधौ च संयम्य ततः सिद्धिमवाप्नु ते ।
अहिंसकानि भूतानि दण्डेन विनिहन्तियः ॥ ३६।४२९ ॥
आत्मनस्सुखमन्विच्छन् स प्रेत्य न सुखी भवेत् ।
आत्मोपमस्तु भूतेषु यो वैभवति पूरुषः ॥ ३६।४३० ॥
त्यक्तदण्डो जितक्रोधस्स प्रेत्य सुखमेधते ।
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः ॥ ३६।४३१ ॥
मुह्यन्ति मार्गे देवाश्च ह्यपदस्य पदैषिणः ।
न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः ॥ ३६।४३२ ॥
एष साङ्ग्राहिको धर्मःकामादन्यः प्रवर्तते ।
प्रख्यापने च दाने च सुखदुःखे प्रियाप्रिये ॥ ३६।४३३ ॥
आत्मौवम्येन पुरुषः प्रमाणमधिगच्छति ।
ऋषयो ब्राह्मणा देवाः प्रशंसन्ति विशेषतः ॥ ३६।४३४ ॥
अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्णनात् ।
कर्मणा न नरः कुर्वन् हिंसां जातु विचक्षणः, ॥ ३६।४३५ ॥
वाचा च मनसा चैव ततो दुःखात्प्रमुच्यते ।
चतुर्विधेयं निर्दिष्टा ह्यहिंसा ब्रह्मवादिभिः ॥ ३६।४३६ ॥
एकैकतो ऽपि विभ्रष्टा न भवेन्नात्र संशयः ।
यथा सर्वश्चतुष्पाद्वै त्रिभिः पादैर्न तिष्ठति ॥ ३६।४३७ ॥
तथैवेयं विशेषेण कारणैः प्रोच्यते त्रिभिः ।
यथा नागपदे ऽन्यानि पदानि पदगामिनाम् ॥ ३६।४३८ ॥
सर्वाण्येवापिधीयन्ते पदजातानि कैञ्जरे ।
एवं लोकेष्वहिंसा तु निर्दिष्टाधर्मतः पुरा ॥ ३६।४३९ ॥
न ह्यतस्सदृशं किञ्चिदिहलोके परत्र च ।
यत्सर्वेष्विह भूतेषु दयाहिंसात्मिका तु या ॥ ३६।४४० ॥
न भयं विद्यते जातु नरस्येह दयावतः ।
दयावतामिमे लोकाः परत्रापि तपस्विनाम् ॥ ३६।४४१ ॥
अभयं सर्वभूतेभ्यो यो ददाति दयापरः ।
अभयं सर्वभूतानि ददतीति जगौ श्रुतिः ॥ ३६।४४२ ॥
क्षतं च पतितं चैव स्खलितं क्लिन्नमाहतम् ।
सर्वभूतानि रक्षन्ति समेषु विषमेषु च ॥ ३६।४४३ ॥
नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः ।
मुच्यते भयकालेषु मोक्षयेद्यो भये परान् ॥ ३६।४४४ ॥
प्राणदानात्परं दानं न भूतं न भविष्यति ।
न ह्यात्मनः प्रियकरं किं चिदस्तीह निश्चितम् ॥ ३६।४४५ ॥
अनिष्टं सर्वभूतानां मरणं नाम कथ्यते ।
मृत्युकाले हि भूतानां सद्यो जायेत वेपथुः ॥ ३६।४४६ ॥
व्याधिजन्मजरादुःखैर्नित्यं संसारसागरे ।
जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च ॥ ३६।४४७ ॥
गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः ।
मूत्रस्वेदपुरीषाणां परुषैर्भृशदारुणैः ॥ ३६।४४८ ॥
जाताश्चाप्यवशास्तत्र छिद्यमानाः पुनः पुनः ।
हन्यमानाश्च दृश्यन्ते विवशा घातुका नराः ॥ ३६।४४९ ॥
कुम्भीपाकेच पच्यन्तेतां तां योनिमुपागताः ।
आक्रम्य मार्यमाणाश्च त्रास्यन्त्यन्ये पुनः पुनः ॥ ३६।४५० ॥
नात्मनो ऽस्ति प्रियतमः पृथिवीमनुसृत्य ह ।
तस्मात्राणेषु सर्वेषु दयावानात्मवान् भवेत् ॥ ३६।४५१ ॥
येन येन शरीरण यद्यत्कर्मकरोति यः ।
तेन तेन शरीरण तत्तत्फलमुपाश्नुते ॥ ३६।४५२ ॥
अहिंसा परमो धर्मस्तथाहिंसा परो दमः ।
अहिंसा परमं दानमहिंसा परमं तपः ॥ ३६।४५३ ॥
अहिंसा परमो यज्ञस्तथाहिंसा परं फलम् ।
अहिंसा परमं मित्रमहिंसा परमं सुखम् ॥ ३६।४५४ ॥
सर्वयज्ञेषु वा दानं सर्वतीर्थेषु वा प्लुतम् ।
सर्वदानफलं वापि नैतत्तुल्यमहिंसया ॥ ३६।४५५ ॥
अहिंस्रस्य तपो ऽक्षय्यमहिंस्रो जयते सदा ।
अहिंस्रस्सर्वभूतानां यथा माता यथा पिता ॥ ३६।४५६ ॥
तस्मादहिंस्रस्सततमुपवास व्रतं चरेत् ।
फलमङ्गिरसाप्रोक्तमुपवासस्य विस्तरात् ॥ ३६।४५७ ॥
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा ।
धान्यान्यपि न हिंसेत यस्स भूयादहिंसकः ॥ ३६।४५८ ॥
नाश्नाति यावतो जीवस्तावत्पुण्येन यज्यते ।
आहारस्य वियोगेन शरीरं परितप्यते ॥ ३६।४५९ ॥
तप्यमाने शरीरे तु शरीरे चेन्द्रियाणि तु ।
तिष्ठन्ति स्ववशे तस्य नृपाणामिव किङ्कराः ॥ ३६।४६० ॥
निरुणद्धीन्द्रियाण्येव स सुखी स विचक्षणः ।
इन्द्रियाणां निरोधेन दानेन च दमेन च ॥ ३६।४६१ ॥
नरस्सर्वमवाप्नोति मनसा यद्यदिच्छति ।
एवं मूलमहिंसाया उपवासः प्रकीर्तितः ॥ ३६।४६२ ॥
कामान्यान्यान्नरो भक्त्या मनसेच्छति माधवात् ।
व्रतोपवासनात्प्रीतस्तान् प्रयच्छत्यसौ हरिः ॥ ३६।४६३ ॥
मासे मासे तथैकस्मिन्नेकस्मिन्नियतं चरेत् ॥ ३६।४६४ ॥
उपवासव्रतमिदं तस्यानन्तं फलं भवेत् ।
एकादश्यां निराहारस्सम्पूज्य हरिमव्ययम् ॥ ३६।४६५ ॥
तत्पादसलिलं तद्वत्तुलसीं च तदर्पितामा ।
पीत्वा च भक्षयित्वा च उपवासव्रतं चरेत् ॥ ३६।४६६ ॥
उपवासदिने यस्तु तीर्धं श्रीतुलसीयुतम् ।
न प्राश्नीयाद्विमूढात्मा रौरवं नरकं व्रजेत् ॥ ३६।४६७ ॥
न हि देवगृहं गत्वा विवदेत नरः क्वचित् ।
न तत् स्थानं विवादस्य तस्मात्तं दूरत स्त्यजेत् ॥ ३६।४६८ ॥
मनो ऽनवस्थितं यस्य स नालं पूजितं हरिम् ।
यस्यैव निर्मलं चित्तं सोर्ऽहस्सर्वेषु कर्मसु ॥ ३६।४६९ ॥
रागाद्यपेतं हृदयं वागदुष्टानृतादिना ।
हिंसादिरहितः कायः केशवाराधने त्रयम् ॥ ३६।४७० ॥
रागादिदूषिते चित्तं नास्पदं कुरुते हरिः ।
न बध्नाति पदं हंसः कदाचित्कर्दमाम्भसि ॥ ३६।४७१ ॥
न योग्या माधवं स्तोतुं वाग्दुष्टा चानृतादिना ।
तमसो नाशनायालं मेघच्छन्नोन चन्द्रयाः ॥ ३६।४७२ ॥
हिंसादिदूषितः कायः प्रभवेन्नार्चने हरेः ।
जनचित्तप्रसादाय यथा काशस्तमोवृतः ॥ ३६।४७३ ॥
मनोदोषविहीनानां न दोषस्स्यात्कथं च न ।
अन्यथालिङ्ग्यते कान्ता स्नेहेन दुहितान्यथा ॥ ३६।४७४ ॥
यतेश्च कामुकानां च योषिद्रूबे ऽन्यथा मतिः ।
अशिक्षयैव मनसः प्रायो लोकश्च वञ्च्यते ॥ ३६।४७५ ॥
लालेत्युद्विजते लोको वक्त्रासव इति स्पृहा ।
विशुद्धैः करणैस्तस्माद्व्रजेद्देवगृहं नरः ॥ ३६।४७६ ॥
विवादः क्रोधजो यस्मात्तस्मात्तं परिवर्जयेत् ।
क्रुद्धः पापं न कुर्यात्कः क्रुद्धो हन्याद्गुरूनपि ॥ ३६।४७७ ॥
क्रुद्धः परुषया वाचा नरस्साधूनधिक्षिपेत् ।
साधुसज्जनसन्तापः साधूनां च विमानना ॥ ३६।४७८ ॥
दहत्यासप्तमं तस्य कुलं नात्र विचारणा ।
वाच्यावाच्यं प्रकुपितो न विचानाति कर्हि चित् ॥ ३६।४७९ ॥
नाकार्यमस्ते क्रुद्धस्य नावाच्यं विद्यते क्वचित् ।
यस्समुत्पतितं क्रोधं क्षमया तु निरस्यति ॥ ३६।४८० ॥
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ।
ते मान्याःपुरुषश्रेष्ठाः क्षमया क्रोधमुद्धितम् ॥ ३६।४८१ ॥
निर्वापयन्ते ये नित्यं दीप्तमग्निमिवाम्भसा ।
परापवादं न ब्रूयान्नाप्रियं च कदा चन ॥ ३६।४८२ ॥
न मन्युः कश्चिदुत्पाद्यो महतां देवसन्निधौ ।
स्वयं दत्तावधानस्तु देवकार्ये विशेषतः ॥ ३६।४८३ ॥
मन्येत भगवत्सर्गे स्वात्मानं चाप्यकिञ्चनम् ।
स एव भगवान् देवस्सर्वज्ञः सर्वशक्तियुक् ॥ ३६।४८४ ॥
सर्वेशस्सर्ववित्सर्वोनिग्रहानुग्रहे रतः ।
तस्मान्नान्यस्य जात्वस्ति शक्तिः क्रोधप्रसादयोः ॥ ३६।४८५ ॥
इति सञ्चिन्त्य भूयो ऽपि सर्वेष्वपि च जन्तुषु ।
भगवत्सन्निधौ स्थित्वा आनृशंस्यं प्रयोजयेत् ॥ ३६।४८६ ॥
यद्यद्भावि भवद्भूतं विद्यात्तत्तस्य चेष्ठितम् ।
यद्यहङ्कारमाश्रित्य स्वातन्त्षमदमोहितः ॥ ३६।४८७ ॥
निग्रहे ऽनुग्रहे वापि शक्तिं स्वस्यावबोधयेत् ।
स याति नरकं घोरं न दैवं तस्य मृष्यति ॥ ३६।४८८ ॥
तथा स्त्रीणां विशेषण त्याज्या स्यादतिसङ्गतिः ।
देवतामन्दिरं प्राप्य कालेष्वन्येषु वा तथा ॥ ३६।४८९ ॥
आयुर्यशस्तपोहानिः पुंसां स्त्रीष्वतिसङ्गिनाम् ।
पुरुषेष्वतिसक्तानां तुल्या सा योषितामपि ॥ ३६।४९० ॥
कुलीना रूपवत्यश्च नाथवत्यश्च योषितः ।
मर्यादासु स तिष्ठन्ति स दोषः स्त्रीषु गर्हितः ॥ ३६।४९१ ॥
न स्त्रीभ्यः परमन्यद्वै पापीयस्तरमस्ति वै ।
स्त्रियो हि मूलं दोषाणां सर्वेषां नात्र संशयः ॥ ३६।४९२ ॥
समाज्ञातानृद्धिमतः प्रतिरूपान् व शेस्थितान् ।
पतीनन्तरमासाद्य नालं नार्यः परीक्षितुम् ॥ ३६।४९३ ॥
असद्धर्मस्त्वयं स्त्रीणां प्रायेण हि भवेद्भुवि ।
पापीयसो नरान् यद्वै त्यक्तलज्जा भजन्तिताः ॥ ३६।४९४ ॥
स्त्रीयं हि यः प्रार्थयते सन्निकर्षं च गच्छतिर् ।
इषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ॥ ३६।४९५ ॥
अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च ।
मर्यादायाममर्यादाः स्त्रीयस्तिष्ठन्ति भर्तृषु ॥ ३६।४९६ ॥
नासां कश्चिदगम्यो ऽस्तिनासां वयसि संस्थितिः ।
रूपवन्तं विरूपं वा पुमानित्येव भुञ्जते ॥ ३६।४९७ ॥
न भयान्नाप्यनुक्रोश्नान्नार्ऽथहेतोः कथं च न ।
न ज्ञातिकुलसम्बन्धात् त्स्रियस्तिष्ठन्ति भर्तृषु ॥ ३६।४९८ ॥
यौवने वर्तमानानां मृष्टाभरणवाससाम् ।
नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रीयः ॥ ३६।४९९ ॥
याश्च शस्वद्बहुमता रक्ष्यन्ते दयिताःस्त्रीयः ।
अपि ताः सम्प्रसज्जन्ते कुब्जान्धजूवामनैः ॥ ३६।५०० ॥
पङ्गुष्वन्येषु कुष्ठेषु ये चान्ये कुत्सिता नराः ।
स्त्रीणामगम्यो लोके ऽस्मिन्नास्ति कश्छिदिहोद्यते ॥ ३६।५०१ ॥
यदि पुंसां गतिस्तत्र कथं चिन्नोपपद्यते ।
अप्यन्योन्यं प्रवर्तन्तेन हि तिष्ठन्ति भर्तृषु ॥ ३६।५०२ ॥
दुष्ठाचाराः पापरता असत्या मायया वृताः ।
अदृष्टबुद्धिबहुलाः प्रायेणेत्यवधार्यते ॥ ३६।५०३ ॥
अलाभात्पुरुषाणां हि भयात्परिजनस्य च ।
वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः ॥ ३६।५०४ ॥
चलस्वभावा दुस्सेव्या दुर्ग्राह्या भावतस्तथा ।
प्राजस्य पुरुषस्येव यथा भावास् तथा स्त्रीयः ॥ ३६।५०५ ॥
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकस्सर्वभूतानां न पुंसां वामलोचनाः ॥ ३६।५०६ ॥
रहस्यमिदमन्यच्च विज्ञेयं सर्वयोषिताम् ।
दृष्ट्वैव पुरुषं ह्यन्यं योनिः प्रक्लिद्यते स्त्रियाः ॥ ३६।५०७ ॥
कामानामपि दातारं कर्तारं मानसान्त्वयोः ।
रक्षितारं न मृष्यन्ति स्वभर्तारमसत् स्त्रियः ॥ ३६।५०८ ॥
न कामभोगान् विपुलान् नालङ्कारार्थ सञ्चयान् ।
तथैव बहुमन्यन्ते यथा रत्यामनुग्रहम् ॥ ३६।५०९ ॥
अन्तकः शमनो मृत्युः पातालं बडबामुखम् ।
क्षुरधारा विषः सर्पो वह्निरित्येकतः स्त्रियः ॥ ३६।५१० ॥
एता हि स्वीयमायाभिर्वञ्चयन्तीह मानवान् ।
न चासां मुच्यते कश्चित्पुरुषो हस्तमागतः ॥ ३६।५११ ॥
गावो नवतृणानीव गृह्णन्त्येता नवं नवम् ।
शम्बरस्य च या माया या माया नमुचेरपि ॥ ३६।५१२ ॥
बलेः कुम्भीनसेश्चैव तास्सर्वायोषितो विदुः ।
हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति च ॥ ३६।५१३ ॥
अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः ।
यदि जिह्मा सहस्रं स्याज्जीवेच्च शरदां शतम् ॥ ३६।५१४ ॥
अनन्यकर्मा स्त्रीदोषाननुक्त्वा निधनं व्रजेत् ।
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः ॥ ३६।५१५ ॥
स्त्रीबुद्ध्या न विशिष्येत सुरक्ष्या न भवन्तिताः ।
अनृतं सत्यमित्याहुस्सत्यं चापि तथानृतम् ॥ ३६।५१६ ॥
इति यास्ताः कथं रक्ष्याः पुरुषैर्दुर्भराः स्त्रियः ।
सम्पूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु ॥ ३६।५१७ ॥
अपास्ताश्च तथा सद्यो विकुर्वन्ति मनः स्त्रियः ।
न च स्त्रीणां क्रियाः काश्चिदिति धर्मो व्यवस्थितः ॥ ३६।५१८ ॥
निरिन्द्रिया ह्यशास्त्राश्च स्त्रीयो ऽनृतमिति श्रुतिः ।
शय्यासनमलङ्कारमन्न पानमनार्यताम् ॥ ३६।५१९ ॥
दुर्वागर्भवं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः ।
न तासां रक्षणं शक्यं कर्तुं पुंसां कथं चन ॥ ३६।५२० ॥
अपि विश्वकृता चैव कुतस्तु पुरुषैरिह ।
वाचा च वधबन्धैर्वा क्लेशैर्वा विविधैस्तथा ॥ ३६।५२१ ॥
न शक्या रक्षितां नार्यस्ता हि नित्यमसंयताः ।
अविद्वांसमलंलोके विद्वांसमपि वा पुनः ॥ ३६।५२२ ॥
प्रमदाह्युत्पथं नेतुं कामक्रोधवशानुगम् ।
नातः परं हि नारीणां विद्यते च कदा चन ॥ ३६।५२३ ॥
यथा पुरुष संसर्गः परमेतत्फलं विदुः ।
आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः ॥ ३६।५२४ ॥
न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः ।
नानिलो ऽग्निर्न वरुणो न चान्ये त्रिदशान्तथा ॥ ३६।५२५ ॥
प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः ।
सहस्रेकिल नारीणां प्राप्येतैका कदा चन ॥ ३६।५२६ ॥
तथा शतसहस्रेषु यदि काचित्पतिव्रता ।
नैता जानन्ति पितरं न कुलं न च मातरम् ॥ ३६।५२७ ॥
न भ्रातॄन्न च भर्तारं न च पुत्रान् न देवरान् ।
लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः ॥ ३६।५२८ ॥
स्त्रीष्वायाससमेतस्य ये पुंसश्शक्रबिन्दवः ।
न ते सुखाय मन्तव्याः स्वेदजा इव बिन्दवः ॥ ३६।५२९ ॥
कृमिभिस्तुद्यमानस्य कुष्ठिनः पामनस्य वा ।
कण्डूयनाग्नितापाभ्यां यत्सुखं स्त्रीषु तद्विदुः ॥ ३६।५३० ॥
यादृशं विद्यते सौख्यं कण्डूपूयविनिर्गमे ।
तादृशं स्त्रीषु विज्ञेयं नाधिकं तासु विद्यते ॥ ३६।५३१ ॥
ग्रन्थेस्तु वेदना यद्वत् स्फुटितस्य निवर्तने ।
तद्वत् स्त्रीष्वपि विज्ञेयं न सौख्यं परमार्थतः ॥ ३६।५३२ ॥
वर्चोमूत्रविसर्गात्तु सुखं भवति यादृशम् ।
तादृशं स्त्रीषु विज्ञेयं नाधिकं तासु विद्यते ॥ ३६।५३३ ॥
न चाणुमात्रमप्येवे सुखमस्ति विचारतः ।
तथा देवोत्सवादीनां सेवा तासां निषिध्यते ॥ ३६।५३४ ॥
न हि स्वतन्त्रतो योषिज्जातु गच्छेत् स्थलान्तरम् ।
न हि निर्मिमते वृद्धा लीलया देवमन्दिरान् ॥ ३६।५३५ ॥
कामुकानां विलासार्थं तस्माद्युक्ततरो भवेत् ।
अनुगच्छेत्पिता भ्राता भर्ता पुत्रो ऽथ वा यदि ॥ ३६।५३६ ॥
तदा देवगृहं यायान्नान्यथा जातु कामिनी ।
ध्यायतो विषयान् पुंसस्सङ्गस्तेषूपजायते ॥ ३६।५३७ ॥
सङ्गात्सञ्जायते कामः कामात्क्रोधो ऽभिजायते ।
क्रोधाद्भवति सम्मोहस्सम्मोहात्स्मृतिविभ्रमः ॥ ३६।५३८ ॥
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ।
बलवानिन्द्रियग्रामो विद्वांसमपिकर्षति ॥ ३६।५३९ ॥
तस्मात् स्त्रीया भवेद्विद्वान्नातिसक्तः कथं चन ।
तस्मात् स्त्रीषु न कर्तव्यः प्रसङ्गो देवताकृहे ॥ ३६।५४० ॥
तथैव परदारेभ्यो मनः प्रहिणुयान्न च ।
परदारा न गन्तव्या नरैरृद्धिमभीप्सुभिः ॥ ३६।५४१ ॥
न हीदृशमनायुष्यं लोके किं चन विद्यते ।
यादृशं पुरुषस्येह परदारनिषेवनम् ॥ ३६।५४२ ॥
तादृशं विद्यते किञ्चि दनायुष्यं नृणामिह ।
यावन्तो रोमकूपाः स्युः स्त्रीणां गात्रेषु निर्मिताः ॥ ३६।५४३ ॥
तावद्वर्षसहस्राणि नरकं पर्युपासते ।
अतिसङ्गं त्यजेत्तस्माद्योषितां देवमन्दिरे ॥ ३६।५४४ ॥
यैरसभ्यः पदैरर्थः पदेनैकेन वा तथा ।
गम्यते कथनं तादृगश्लीलं परिवर्जयेत् ॥ ३६।५४५ ॥
अश्लीलकथनाच्चैव भवेदुद्वेजनं नृणाम् ।
भक्तानां भगवद्गेहे भवेच्चित्तमथाविलम् ॥ ३६।५४६ ॥
निवर्तेत मनस्तत्र निविष्टं परमात्मनि ।
तस्मादश्लीलमाभाष्ट नरः पापपरो भवेत् ॥ ३६।५४७ ॥
स तु चण्डालतां प्राप्य जायते जन्मनां शतम् ।
अर्तोन प्रविशेद्गेहं देवस्य परमात्मनः ॥ ३६।५४८ ॥
वायुभूते शरीरे ऽस्मिन् वायुसञ्चारकर्मणि ।
मलवायुविसर्गस्तु देवगेहे विशेषतः ॥ ३६।५४९ ॥
पातयेत्पुरुषं सत्यमपि वेदान्तपारगम् ।
तस्मादपानगन्धस्य विसर्गं नैव चाचरेत् ॥ ३६।५५० ॥
अथ वायुनिरोधेतु व्याधिकोपो भविष्यति ।
तस्माद्वायुविसर्गं तु कुर्यादेवाविचारयन् ॥ ३६।५५१ ॥
इति देवगृहं गन्तुं व्याधितो नैव चार्हति ।
तथा कुष्ठी विशेषेण पापरोगार्दितास्समे ॥ ३६।५५२ ॥
उद्वीक्षितुं च देवेशं मन्दिरे मधुसूदनम् ।
अर्चितुं सेवितुं चापि दातुं द्रव्यचयं तथा ॥ ३६।५५३ ॥
नार्हन्तियस्मात्तत्सक्तं पापं साङ्क्रामिकं भवेत् ।
यद्यन्यथा भवेत्सद्यस्स पापी सम्प्रजायते ॥ ३६।५५४ ॥
जन्मानि नव पञ्चापि जायते मलभुक् कृमिः ।
यदा विशेद्गृहं विष्णोस्सेवार्धं मधुविद्विषः ॥ ३६।५५५ ॥
कृत्वोपवीतवत्सम्यगुत्तरीयं मनोहरम् ।
सेवेत देवदेवशमुपवीतः सदा शुचिः ॥ ३६।५५६ ॥
कञ्चुकेनावृताङ्गस्तु न गच्छेद्धरिमन्दिरम् ।
नैवाभिवादनं कुर्यान्नाभिवाद्यः स उच्चते ॥ ३६।५५७ ॥
उष्णीषी न च सेवेत नैव पाणौ धृतायुधः ।
वस्त्रेणाच्छाद्य देहन्तुकम्बलेनेतरेण वा ॥ ३६।५५८ ॥
योगच्छेद्वैष्णवं धाम यो वापि प्रणमेद्धरिम् ।
श्वित्री सञ्जायते मूढो नवजन्मानि पञ्च च ॥ ३६।५५९ ॥
क्षौमादिभिर्वा संवीतो यो नरःप्रणमेद्धरिम् ।
चण्डालयोनितां याति नव जन्मानि पञ्च च ॥ ३६।५६० ॥
न जातु त्वमितब्रूयादापन्नोपि महत्तरम् ।
त्वङ्कारो वा वधो वेति विद्वत्सु न निशिष्यते ॥ ३६।५६१ ॥
परनिन्दा परस्यैव पुंसो निन्दा भविष्यति ।
परनिन्दा च शास्त्रस्य परस्य तु विनिन्दनम् ॥ ३६।५६२ ॥
परनिन्दा भवेत्क्रोधात्क्रोधात्सद्यो विनश्यति ।
निन्दया वै परेषां तु निन्दितास्ते पुनस्स्मृताः ॥ ३६।५६३ ॥
तस्मान्निदां परेषां तुदेवाग्रे परिवर्जयेत् ।
तथा परस्तुतिं चैव विधिना सन्त्यजेन्नरः ॥ ३६।५६४ ॥
परः परात्मा पुरुषः पुराणः प्रोच्यते तु यः ।
तदग्रे ऽन्यस्य देवस्य न स्तुतिं स्तावयेन्नरः ॥ ३६।५६५ ॥
यस्तु सर्वेश्वरादन्यमधिकं तस्य चाग्रतः ।
पूजयेद्यदि मन्येत पूजार्हं वास नश्यति ॥ ३६।५६६ ॥
सर्वं जगच्च तस्यैव स्वरूपं परमात्मनः ।
तथापि तत्तद्रूषेण तारतम्यजुषा पुनः ॥ ३६।५६७ ॥
पूज्यते भगवान् भक्तैस्तत्र शास्त्रोदिता गतिः ।
तस्माद्देवेश्वरादन्यद्यत्किञ्चित्थ्साणु जङ्गमम् ॥ ३६।५६८ ॥
पूजार्हं विद्यते वस्तु तद्धामनि विशेषतः ।
तस्मात्पूजां स्तुतिं चान्यामितरेषामसंशयम् ॥ ३६।५६९ ॥
त्यजेद्देवगृहे यस्तु सुखं मन्येत जीवितुम् ।
शक्तौ सत्यां विशेषेण यस्तुलोभादिना नरः ॥ ३६।५७० ॥
गौणैरर्चयते विष्णमुपचारैरुदीरितैः ।
न तस्य विद्यते पुण्यं स तूच्छास्त्रं व्रवर्तते ॥ ३६।५७१ ॥
यावता कीर्त्यतेशास्त्रे फलमाढ्यदरिद्रयोः ।
तत्तच्छक्त्यर्पितैरेव यथार्हं च धनादिकैः ॥ ३६।५७२ ॥
यथा तुष्यतिदेवेशो मुक्ताहारेण भूभुजाम् ।
तथैव तुलसीदाम्ना दुर्विधस्यापि तुष्यति ॥ ३६।५७३ ॥
तस्मात्कुर्वीत यत्नेन शक्तिलोभं न जातु चित् ।
अन्यथा यदि कुर्वाणः फलं नैव प्रपद्यते ॥ ३६।५७४ ॥
प्रेत्य मार्जारतां प्राप्य जायते जन्मपञ्चकम् ।
विषं प्राश्नाति सम्मूढो यस्स्वस्मै पचते नरः ॥ ३६।५७५ ॥
यो ऽद्यादन्नं कणं वापि यद्विष्णोरनिवेदितम् ।
स भवेद्ब्रह्महाभूयः स भुङ्क्तेपूयशोणितम् ॥ ३६।५७६ ॥
यत्पिबेच्च यदश्नीयात् यच्चजिघ्रेच्च धारयेत् ।
अनुलिम्पेच्च यत्तत्तन्निवेद्याग्रे मधुद्विषे ॥ ३६।५७७ ॥
तन्निवेदितशेषं तु भुञ्जीयाद्वोपयोजयेत् ।
विष्णोर्निवेदितं यस्तु न भुङ्क्ते मनुजाधमः ॥ ३६।५७८ ॥
कल्पकोटिशतेनापि निष्कृतिर्नास्य विद्यते ।
निवेदितं तु यद्विष्णोर्भक्तेभ्यस्तस्य दापनात् ॥ ३६।५७९ ॥
प्रीयत् भगवान् देवस्तत्परस्तु भवेन्नरः ।
निवेदितं यदि ब्रूयादुच्छिष्टमिति मन्दधीः ॥ ३६।५८० ॥
स तु दुर्गतिमासाद्य विन्दते यमयातनाः ।
विभूतिं समुपाश्रित्य यस्यानन्तस्य शाश्वतम् ॥ ३६।५८१ ॥
समृद्धा धरणी सेयं सशैलवनकानना ।
या च भूयांसि लोके ऽस्मिन्नुत्पादयति सन्ततम् ॥ ३६।५८२ ॥
ओषधीर्निखिला स्तद्वत्पुष्पाणि च फलानि च ।
तस्यानृण्यस्यहेतोर्वैय तेत विधिना नरः ॥ ३६।५८३ ॥
यस्तु नार्ऽपयते विष्णोस्तत्तत्कालोद्भवानि तु ।
सस्यानि चौषधीस्तद्वत्फलानि कुसुमानि च ॥ ३६।५८४ ॥
सम्भृतानि यथाशक्ति सभवेद्ब्रह्मह् नरः ।
नवानि काले जातानि सस्यादीनि विशेषतः ॥ ३६।५८५ ॥
ध्यायन्ति देवदेवेशमभिगन्तुं यतन्ति च ।
कदर्थयन्तोये मूढास्तेषामभ्यर्थनं परम् ॥ ३६।५८६ ॥
औदासीन्येन तिष्ठन्ति स्वयं वाप्युपयुञ्जते ।
तेयान्तिनरकान् घोरान् कृतघ्ना यान्तियान् बहून् ॥ ३६।५८७ ॥
शपन्त्यौषधयस्सर्वास्तस्माद्भक्त्या विशेषतः ।
नवं सस्यं फलं पुष्पं दधिक्षीरं घृतं मधु ॥ ३६।५८८ ॥
यदर्हमर्पणे सर्वमग्रे तस्मै समर्पयेत् ।
लोभान्मोहादथाज्ञानाद्य उच्छिष्टं निवेदयेत् ॥ ३६।५८९ ॥
देवेशाय विशेषेण स भवेत्पातकी नरः ।
उच्छिष्ट मन्यदेवस्य यो देवाय निवेदयेत् ॥ ३६।५९० ॥
सो ऽपि चण्डालतां प्राप्य नश्येदेव न संशयः ।
निवेदितं तु देवस्य य उच्छिष्टेन योजयेत् ॥ ३६।५९१ ॥
देवानामित रेषां वा मनुष्याणामथापि वा ।
स पापी जन्मसाहस्रं श्वानयोनिषु जायते ॥ ३६।५९२ ॥
न हि देवगृहं गत्वा पृष्टी कृत्यासनं चरेत् ।
देवाभिमुख एव स्याद्भक्तस्सर्वात्मनानरः ॥ ३६।५९३ ॥
न पृष्ठं दर्शयेज्जातु देवाग्रे हितचिन्तकः ।
पार्श्वतस्तु चरन्नेव निवर्तेतालयं प्रति ॥ ३६।५९४ ॥
नैवान्यं प्रणमेज्जातु प्रविश्य हरिमन्दिरम् ।
स हि सर्वेश्वर श्शेषी यस्तत्रास्ते रमाधवः ॥ ३६।५९५ ॥
पूजार्हश्च प्रणामार्हः पूजार्हस्तत्र नेतरः ।
यस्तथा प्रणमेन्मूढस्स याति नरकायुतम् ॥ ३६।५९६ ॥
चण्डालयोनिमासाद्य भजते यातना मुहुः ।
यस्तु देवगृहं प्राप्तान् वैष्णवान् भगवत्प्रियान् ॥ ३६।५९७ ॥
आचार्यमृत्विजश्चाथ पूजकान् परिचारकान् ।
नार्ऽचयेन्मौनमास्थाय स विनश्यति सान्वयः ॥ ३६।५९८ ॥
यदिष्टं याजकेभ्यस्स्यात्पूरणायेव तस्यतु ।
भक्ताः परिचरेयुश्च विशेषाद्ग्रामवासिनः ॥ ३६।५९९ ॥
अन्यथा चेन्मदोषस्सर्वेषां च विपचद्भवेत् ।
अत्मानं यो विशेषेणस्तौत्यहङ्कार भाविदः ॥ ३६।६०० ॥
अनादृत्य गुरून् दैवमनिबद्धं च सम्पदेत् ।
अवलीप्तोन जानाति दोषमात्मनि सङ्गतम् ॥ ३६।६०१ ॥
कुलविद्यातपस्सम्पत्प्रमुखैर्गर्विते नरः ।
न सुखं न च सौभाग्यं येनात्मान्तूयते स्वयम् ॥ ३६।६०२ ॥
तस्मादात्मस्तुतिं कृत्वा नरः पतति निश्चयम् ।
ततो जन्मशतं प्राप्य मृगयोनौ विशेषतः ॥ ३६।६०३ ॥
जायते म्रियते ऽभीक्ष्णं तस्य पापं महद्भवेत् ।
यस्देवगृहं गत्वा वाञ्छत्यपचितिं जनः ॥ ३६।६०४ ॥
स तु तित् तिरितां याति नवजन्मानि पञ्च च ।
देवेशस्यतु सेवार्थं वर्णानामानुपूर्व्यशः ॥ ३६।६०५ ॥
अधिकारः समाख्यातस्तत्क्रमं न विमानयेत् ।
विशन्ति गर्भगेहेतु ये वैखानससूत्रिणः ॥ ३६।६०६ ॥
गर्भागारे प्रवेष्टव्यो न ह्यवैखानसः क्वचित् ।
अन्तराले तथा येषां स्थानं तत्तु प्रवक्ष्यते ॥ ३६।६०७ ॥
अन्ये द्विजाश्च तिष्ठन्ति यथा स्यादाश्रमक्रमः ।
ते द्विजास्तत् स्त्रीयश्चापि सेवन्ते तत्र सङ्गताः ॥ ३६।६०८ ॥
क्षत्रजाता विशेषण स्थित्वा चैवार्ऽधमण्डपे ।
देवेशमभिसेवन्ते तदीया याश्च योषितः ॥ ३६।६०९ ॥
सङ्गताश्शूद्रजाताश्च प्रतिलोमभवाश्चये ।
महामण्डपमास्थाय सेवन्ते पुरुषोत्तमम् ॥ ३६।६१० ॥
अनुलोमभुवश्चैवये चान्ये म्लेच्छजातयः ।
गोपुराद्बाह्यतः स्थित्वा सेवन्ते मन्दिरं हरेः ॥ ३६।६११ ॥
तारतम्यमिदं ज्ञात्वा सेवेत सततं हरिम् ।
देवतानिन्दनं कुर्याद्यस्स पापीन मुच्यते ॥ ३६।६१२ ॥
अन्यदेवसमं यस्तु मन्यते पुरुषोत्तमम् ।
चण्डालयोनितामेति नव जन्मानि पञ्च च ॥ ३६।६१३ ॥
अपह्नुत्य पुनर्देवां स्तद्द्रव्यादि हरेत्तु यः ।
स भवेद्देवहा सत्यं जायते श्वादियोनिषु, ॥ ३६।६१४ ॥
तिरस्कृत्य तथा देवान् भगवच्छास्त्रमेव च ।
कर्माणि स्वेच्छया कुर्यात्सो ऽपि स्याद्देवहा नरः ॥ ३६।६१५ ॥
कथायां कथ्यमानायां देवस्य मधुविद्विषः ।
अनादृत्य च ये यान्ति ते नराः पापकारिणः ॥ ३६।६१६ ॥
तोयहीने ऽतिरौद्रे च वने वै शून्यवृक्षताम् ।
जायन्ते सप्तजन्मानि ततश्चण्डालतां ययुः ॥ ३६।६१७ ॥
देवेषु गोषु विप्रेषु देवागारेषु चैव हि ।
वहेन्नैवाधिपत्यं यन्नासावृद्धिमवाप्नुयात् ॥ ३६।६१८ ॥
दोषाश्च बहुला स्तस्मिन्नाधिपत्ये स्मृता बुधैः ।
कामतो ऽकामतश्चापि सर्वं तस्य विचेष्टितम् ॥ ३६।६१९ ॥
पापायैव भवेत्तस्माद्भूतिकामस्तु तं त्यजेत् ।
सेवार्थिनां सकाशात्तु बलात्कारेण यः प्रभुः ॥ ३६।६२० ॥
गृह्णीयात्तुकरं सद्यः पतेत्स सह तेन च ।
देवस्य सन्निधौ भक्तैर्भक्त्यायत्तु समर्प्यते ॥ ३६।६२१ ॥
पत्रं फलं वा मूलं वा स्वर्णं वासांसि चेतरत् ।
दायाद्यमर्चकानां तु यो मोहादपनिह्नुते ॥ ३६।६२२ ॥
स्वयं वाप्युपयुञ्जीत स पापी नरकं व्रजेत् ।
विश्राणयन्ति हरये यद्भक्ता भक्तिभाविताः ॥ ३६।६२३ ॥
तन्नाम्ना पूजकानेव जानन्ति फलभागिनः ।
स्थिरजङ्गमयोः पूजा यतस्सम्पादिता भवेत् ॥ ३६।६२४ ॥
तस्माद्भगवतो नाम्ना दत्तं यद्देवमन्दिरे ।
विहायाभरणादीनि वासांस्यन्यत्परिच्छदम् ॥ ३६।६२५ ॥
देवालङ्कारयोग्यानि मूल्यवन्ति विशेषतः ।
अर्चका एव गृह्णीयुः प्रतिबध्नीत नेतरः ॥ ३६।६२६ ॥
यस्त्वधीकारगर्वेण देवागारमुपाश्रितः ।
अकाले सेवितुं चेच्छेत्सो ऽपि यास्यति दुर्गतिम् ॥ ३६।६२७ ॥
अथ वा सेवितुं चेच्छेत्कारणेनापि केन चित् ।
उक्तेष्वेव तु कालेषु सेवेत मतिमान्नरः ॥ ३६।६२८ ॥
अन्त्यार्चनावसाने यत् कवाटो बध्यते ततः ।
पुनरुद्घाटनं यावत्प्रत्यूषे च भविष्यति ॥ ३६।६२९ ॥
तावन्नैव हरिं सेवेदकालस्स विशेषतः ।
प्रत्यूषाद्यन्त्यकालान्तपूजने ऽपि तु मन्त्रतः ॥ ३६।६३० ॥
तत्तत्काले कवाटस्य बन्धने विहिते ऽपि च ।
न तदा तावती हानिरवबद्धे ऽप्यमन्त्रकम् ॥ ३६।६३१ ॥
अथार्ऽचनार्हकालेपि भक्तानां सेवनाय तु ।
अकाला बहवः प्रोक्तास्तथा यवसिकोदिता ॥ ३६।६३२ ॥
तस्मादकालसेवां तु विधिना परिवर्जयेत् ।
विषयाक्रान्तचित्तानां विष्ण्वर्चनमकुर्वताम् ॥ ३६।६३३ ॥
कर्मभूमौ नृणां जन्म कर्मापि विभलं ध्रुवम् ।
यो गुरौ मानुषं भावं शिलाभावं च दैवते ॥ ३६।६३४ ॥
मन्त्रेषु जीविकाभावं हिंसाभावं मखेषु च ।
पूजकेषु च पूजायां नीरसं भावमेति सः ॥ ३६।६३५ ॥
सर्वधा निन्दितव्यो हि जीवितं तस्य निष्फलम् ।
क्षमामन्त्रः
अथ वक्ष्ये विशेषण क्षमामन्त्रविधिं परम् ॥ ३६।६३६ ॥
अपचारेषु सर्वेषु यं जप्त्वा मुच्यते नरः ।
अपराधः कृतो येन जानता स्ववशेन सः ॥ ३६।६३७ ॥
क्षमामन्त्रसहस्रस्य जापेनापि न मुच्यते ।
क्षमामन्त्रस्त्वशेषाघध्वंसनक्षम उच्यते ॥ ३६।६३८ ॥
“नारायण नमस्ते ऽस्तु नमो भक्तपरायण ।
नमो नमो नमस्ते ऽस्तु नमस्ते ऽस्तु नमो नमः ॥ ३६।६३९ ॥
अज्ञानादर्थलोभाद्वा रागाद्द्वेषात्प्रमादतः ।
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६।६४० ॥
सन्ध्ययोश्च दिवा रात्रौ जाग्रत्स्वप्नसुषुप्तिषु ।
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६।६४१ ॥
कायेन मनसा वाचा सर्वैर्वापि समुच्चितैः ।
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६।६४२ ॥
तिष्ठता प्रजता चैव शय्यासनगतेन च ।
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६।६४३ ॥
स्नास्यता जपता वापि यजता जुह्वता मया ।
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६।६४४ ॥
भुजता ध्यायता नूनं विषयानुपसेवता ।
अपराधाः कृता ये तान् क्षमस्व पुरुषोत्तम ॥ ३६।६४५ ॥
मया वा मज्जनैर्वापि मम बन्धुभिरेववा ।
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६।६४६ ॥
राज्ञा वा तदमात्यैर्वा राजभृत्यैरथापिवा ।
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६।६४७ ॥
आचार्येणार्ऽचकेनापि भक्तैर्वापरिचारकैः ।
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६।६४८ ॥
गायकैर्नर्तकैर्वाथ वादित्राणां च वादकैः ।
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६।६४९ ॥
प्रणवादिविसर्गान्तं क्रियासु विधिपूर्वकम् ।
अमन्त्रमर्चने दोषं क्षमस्व पुरुषोत्तम ॥ ३६।६५० ॥
उद्धानाच्छयना न्तन्तु क्रियासु विविधासु च ।
श्रद्धालोपकृतं दोषं क्षमस्व पुरुषोत्तम ॥ ३६।६५१ ॥
कश्शक्नोत्यर्चितुं देवं त्वामनाद्यन्तमव्ययम् ।
तस्मादज्ञानचरितं क्षमस्व पुरुषोत्तम ॥ ३६।६५२ ॥
प्रार्थये देवदेवं त्वां प्रसीद भगवन्मयि ।
प्रसीदतु रम् मह्यं तव वक्षःस्थलालया ॥ ३६।६५३ ॥
इशाना जगतो देवी माता नित्यानपायिनी ।
प्रसीदन्तु सुराः सर्वे प्रसादाद्युवयोर्मयि ॥ ३६।६५४ ॥
स्वस्त्यस्तु कृपयास्माकं युवयोः सुप्रसन्नयोः ।
उपचारापदेशेन कृतानहरहर्मया ॥ ३६।६५५ ॥
अपचारानिमान् त्सर्वान् क्षमस्व पुरुषोत्तम ।
इति विज्ञापयेद्भूयो भक्तिसाध्वसभावितः ॥ ३६।६५६ ॥
तदर्थनात्परं प्रीतः प्रसीदति खगध्वजः ।
क्षमामन्त्रमिमं देयान्न चाशुश्रूषवे क्वचित् ॥ ३६।६५७ ॥

गुह्याद्गुह्यतमो गोप्यस्सर्वदा गुरुभिः सदा इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सिहितायां प्रकीर्णाधिकारे षट्त्रिंशो ऽध्यायः।