३५

अथ पञ्चत्रिंशो ऽध्यायः।

फलश्रुतिः

अथ वक्ष्ये विशेषेण क्रियायोगश्रितं फलम् ।
यस्तु देवालयं दारुशिलालोहविलेखनैः ॥ ३५।१ ॥
कारयेन्मृण्मयं वापि तस्यानन्तफलं स्मृतम् ।
अहन्यहनि यज्ञेन यजतो यन्महत्फलम् ॥ ३५।२ ॥
प्राप्नोति तत्फलं विष्णोर्यः कारयति मन्दिरम् ।
कुलानां शतमागामि समतीतं तथा शतम् ॥ ३५।३ ॥
तारयेद्भगवद्गेहमिति बुद्धिं करोति यः ।
सप्तजन्मकृतं पापमल्पं वा यदि वा बहु ॥ ३५।४ ॥
विष्णोरालयविन्यासप्रारम्भादेव नश्यति ।
सप्तलोकमयो विष्णुस्तस्य यःकुरुते गृहम् ॥ ३५।५ ॥
प्रतिष्ठां समपाप्नोति स नरस्साप्तलौकिकीम् ।
प्रशस्तदेशे भूभागे यो नरो भवनं हरेः ॥ ३५।६ ॥
कारयत्यक्षयान् लोकान् स वरः प्रतिपद्यते ।
इष्टकाचयविन्यासो यावद्वर्षाणि तिष्ठति ॥ ३५।७ ॥
तावद्वर्षसहस्राणि तत्कर्तादिवि मोदते ।
प्रतिमां लक्षणवतीं यः कारयति मानवः ॥ ३५।८ ॥
केसवस्य स तल्लोकमक्षयं प्रतिपद्यते ।
षष्टिं वर्षसहस्राणां सहस्राणि स मोगते ॥ ३५।९ ॥
स्वर्गौकसां निवासेषु प्रत्येकमरिसूदनः ।
ततः प्रयाति वैकुण्ठं निस्समाभ्यधिकं महः ॥ ३५।१० ॥
प्रतीष्ठाप्य हरेरर्चां सुप्रशस्ते निवेशने ।
पुरुषः कृतकृत्यत्वान्नैनं श्वो मरणं तपेत् ॥ ३५।११ ॥
ये भविष्यन्ति ये ऽतीता आकल्पाः पुरुषाः कुले ।
तांस्तारयति संस्थाप्य देवस्य प्रतियां हरेः ॥ ३५।१२ ॥
बेरपूजा त्वियं प्रोक्ता पूजानामुत्तमोत्तमा ।
अतीते यजमाने ऽपि चिरमस्या अवस्थिते ॥ ३५।१३ ॥
अनुशस्ताः किल पुरा यमेव यमकिङ्कराः ।
पाशधण्डधराः क्रूराः प्रजासंयमनोद्यताः ॥ ३५।१४ ॥
विहरध्वं यथान्याय्यं नियोगो मे ऽनुपाल्यताम् ।
नाज्ञाभङ्गं करिष्यन्ति भवतां जन्तवः क्वचित् ॥ ३५।१५ ॥
केवलं ये जगन्नाथमनस्तं समुपाश्रिताः ।
भवद्भिः परिहर्तव्यास्तेषां नास्त्यत्र संस्थितिः ॥ ३५।१६ ॥
ये तु भागवता लोके तच्चित्तास्तत्परायणाः ।
पूजयन्ति सदा विष्णुं ते वस्त्याज्याः सुदूरतः ॥ ३५।१७ ॥
यस्तिष्ठन् यस्स्वपन् भुञ्जन् उत्तिष्ठन् स्खलितेषु च ।
सङ्कीर्तयति गोविन्दं स वस्त्याज्यस्सुदूरतः ॥ ३५।१८ ॥
नित्यनैमित्तिकैर्देवं ये यजन्ते जनार्दनम् ।
नावलोक्या भवद्भिस्ते तत्तेजो हन्ति वौ गतिम् ॥ ३५।१९ ॥
ये धूपपुष्पवासोभिर्भूषणैश्चापि दुर्लभैः ।
अर्चयन्ति न ते ग्राह्यानराः कृष्णाश्रयोद्धताः ॥ ३५।२० ॥
उपलेपनकर्तारस्सम्मार्जनकराश्च ये ।
कृष्णालये परित्याज्यास्तेषां त्रिपूरुषं कुलम् ॥ ३५।२१ ॥
येन चायतनं विष्णोः कारितं तत्कुलोद्भवम् ।
पुंसां कुलं नावलोक्यं भवद्भिर्दुष्टचक्षुषा ॥ ३५।२२ ॥
येनार्चा भगवद्भक्त्या वासुदेवस्य कारिता ।
नरायुतं तत्कुलजं भवतां शासनातिगम् ॥ ३५।२३ ॥
भवतां भ्रमतामत्र विष्णुसंश्रयमुद्रया ।
विनाज्ञाभङ्गकृन्नैव भविष्यति नरःक्वचित् ॥ ३५।२४ ॥
यज्ञा नराणां पापौघक्षालनाः सर्वकामदाः ।
तथैवेज्या जगद्धातुस्सर्वयज्ञमयो हरिः ॥ ३५।२५ ॥
स्थापितं प्रतिमा विष्णोस्सम्यक् सम्पूज्य मानवः ।
यं यं कामयते कामं तं तमाप्नोत्यसंशयम् ॥ ३५।२६ ॥
यथा हि ज्वलनो वह्निस्तमोहानिन्तदर्थिनाम् ।
शीतहानिन्तदन्येषां स्वेदं स्वेदाभिलाषिणाम् ॥ ३५।२७ ॥
करोति क्षुधितानां च भोज्यां पाकक्रियां शिखी ।
तथैव कामान् भूतेशस्सददाति यथेप्सितम् ॥ ३५।२८ ॥
कल्पद्रुमादिवहरेर्यदिष्टं तदवाप्यते ।
यस्सदायतने विष्णोः कुरुते मार्जनक्रियाम् ॥ ३५।२९ ॥
सपांसुभुम्यैर्? देहस्य सर्वं पापं व्यपोहाति ।
यावन्तः पांसुकणिका मार्ज्यन्ते केशवालये ॥ ३५।३० ॥
वर्षाणि दिवि तावन्ते वसत्यस्तमलो नरः ।
अहन्यहनि यत्पापं कुरुते विषयी नरः ॥ ३५।३१ ॥
यो बाह्याभ्यन्तरं वेश्म मार्जयेत्केशवालये ।
सबाह्याभ्यन्तरं तस्य कायो निष्कल्मषो भवेत् ॥ ३५।३२ ॥
गोचर्ममात्रं सम्मृज्य हन्ति तत्केशवालये ।
सबाह्याभ्यन्तरं यच्च मार्जयेदच्युतालये ॥ ३५।३३ ॥
सबाह्याभ्यन्तरं तस्य कायं निष्कल्मषं विदुः? ।
उदकाभ्युक्षणं विष्णोर्यः करोति सता गृहे ॥ ३५।३४ ॥
सो ऽपिगच्छति यत्रास्ते भगवान् यादसां पतिः ।
मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा ॥ ३५।३५ ॥
विष्णोरायतने नित्यं यः करोत्यनु लेपनम् ।
प्रवाते वाति गुणवद्वर्षास्वतिमनोहरम् ॥ ३५।३६ ॥
स्वनुलिप्तं शूभाकारं स्वकृहं लभते नरः ।
पूर्णधान्यहिरण्यादिमणिमुक्ताफलोज्ज्वलम् ॥ ३५।३७ ॥
प्रत्यासन्नजलोपेतं गृहं प्राप्नोति शोभनम् ।
सामन्तस्वजनानां च सर्वेषामुत्तमोत्तमम् ॥ ३५।३८ ॥
तदाप्नोति गृहं रम्यमुपलेपनकृन्नरः ।
येनानुलिप्ते तिष्टन्ति विष्ण्वायतनभूतले ॥ ३५।३९ ॥
ब्राह्मणाःक्षत्रिया वैश्याश्शूद्रस्साध्व्यस्त्रियस्तथा ।
तस्य पुण्यफलं वक्तुं नालं देवास्सहानुगाः ॥ ३५।४० ॥
अप्सरोगणसङ्कीर्णं मुक्ताहालशतोज्ज्वलम् ।
श्रेष्ठं सर्वविमानानां स्वर्गधिष्ण्यमवाप्नुयात् ॥ ३५।४१ ॥
यावन्त स्तिथयो लिप्ता दिव्याब्दांस्तावतो नरः ।
तस्मिन्विमाने स नरस्त्स्री वा तिष्ठति शोभने ॥ ३५।४२ ॥
स्रग्गन्धवस्त्रसंयुक्तः सर्वभूषणभूषितः ।
गन्धर्वाप्सरसां सङ्घैः पूज्यमानस्स तिष्ठति ॥ ३५।४३ ॥
लिप्ता च यावता हस्ता विष्णोरायतने मही ।
तावद्योजनविस्तीर्णस्वर्गस्थानाधिपो भवेत् ॥ ३५।४४ ॥
पूज्यमानस्सुरगणैश्शीतोष्णादिविवर्जितः ।
मनोज्ञगात्रो विप्रेन्द्रैस्तिष्ठत्याभूतसम्प्लवम् ॥ ३५।४५ ॥
तत् क्षयादिह चागत्य विशिष्टे जायते कुले ।
अत्युत्कृष्टगृहं प्राप्य मर्त्यलोके ऽभिवाञ्छितम् ॥ ३५।४६ ॥
नतत्र तावद्दारिद्षं नोपसर्गोन वाकलिः ।
न तावन्मृतनिष्क्रान्तिर्यावज्जीवन्ति साक्षिणः ॥ ३५।४७ ॥
विष्णुस्समस्तभूतानि ससर्जैतानि यानि वै ।
तेषां मध्ये जगद्धातुरतीवेष्टा वसुन्धरा ॥ ३५।४८ ॥
कृते सम्मार्जने तस्यास्तथा चैवानुलेपने ।
प्रयाति परमं तोषं विष्णुर्भूर्वैष्णवीयतः ॥ ३५।४९ ॥
उपोषितो नरो नारी यःकरोत्यनुलेपनम् ।
न तस्यजायते भङ्गो गार्हस्थ्ये तु कदा च न ॥ ३५।५० ॥
या च नारी करोत्येवं यथावदनुलेपनम् ।
नाप्नोति सापि वैधव्यं गृहभङ्गं कदा च न ॥ ३५।५१ ॥
सर्वाभरणसम्पूर्णस्सर्वोपस्करधान्यवान् ।
गोमहिष्यादिसम्भागं गृहमाप्नोति मानव ॥ ३५।५२ ॥
तस्मादभीप्सता सम्यग्गार्हस्थ्यं तदखण्डितम् ।
विष्णोरायतने कार्यं सहसै वोपलेपनम् ॥ ३५।५३ ॥
यश्चानुलेपनं कुर्याद्विष्णोरायतने नरः ।
सो ऽपि लोकं समासाद्य मोदतेवै शतक्रतोः ॥ ३५।५४ ॥
पुष्पप्रकीर्णमत्यर्थं सुगन्धं केशवालये ।
उपलिप्ते नरो दत्वा न दुर्गतिमवाप्नुयात् ॥ ३५।५५ ॥
स्नानपानाम्भसां विष्णोः प्रदानात्तत्सलोकभाक् ।
स्नानीयद्रव्यदानेन नीरोगः प्रीत्य मोदते ॥ ३५।५६ ॥
क्षौमादिदानादाप्नोति परलोके महत्सुखम् ।
आलेपनद्रव्यदानात्कामानाप्नोति शाश्वतान् ॥ ३५।५७ ॥
एलाकर्पूरताम्बूलीतैलादि स्पर्शनात्पुखी ।
परत्रेह च लोके स्याद्दीर्घकालमसंशयः ॥ ३५।५८ ॥
सर्वयज्ञमयो विष्णुर्गव्यानां परमस्स्मृतः ।
जायते येषु लोकेषु पुलकस्सङ्गमोमहान् ॥ ३५।५९ ॥
येषु क्षीरवहा नद्यो ह्रदाः पायसकर्दमाः ।
तान् लोकान् पुरुषा यान्तिक्षीरस्नानकरा हरेः ॥ ३५।६० ॥
आह्गादं निर्वृतिं स्वास्थ्यमारोग्यं चारुरूपता ।
सप्तजन्मान्यवाप्नोति क्षीरस्नानकरो हरेः ॥ ३५।६१ ॥
दध्यादीनां विकाराणां क्षीरतस्सम्भवो यथा ।
तथैवाशेषकामानां क्षीरस्नापनतो हरेः ॥ ३५।६२ ॥
यथा च विमलं क्षीरं यथा निर्वृतिकारकम् ।
तथास्य निर्मलं ज्ञानं भवत्यतिफलप्रदम् ॥ ३५।६३ ॥
ग्रहानुकूलतां पुष्टिं प्रियं चाप्यखिले जने ।
करोति भगवान् विष्णुःक्षीरस्नापनतोषितः ॥ ३५।६४ ॥
सर्वो ऽस्यस्निग्धतामेति दृष्टिमात्प्रात्प्रसीदति ।
यस्स्नापयति देवस्य घृतेन प्रतिमां हरेः ॥ ३५।६५ ॥
इन्द्रप्रस्थे द्विजाग्षाणां स ददाति गवां शतम् ।
गवां शतस्य विप्राणां न दत्तस्य भवेत्फलम् ॥ ३५।६६ ॥
घृतप्रस्थेन तद्विष्णोर्लभेत्स्नानोपयोगिनाम् ।
पुरा राजर्षिभिः प्राप्ता सप्तद्वीपा वसुन्धरा ॥ ३५।६७ ॥
घृताढकेन गोविन्द प्रतिमास्नापनात्किल ।
प्रतिमासं सिताष्टम्यां घृतेन जगतः पतिम् ॥ ३५।६८ ॥
स्नापयित्वा समस्तेभ्यः पापेभ्यो ऽपि प्रमुच्यते ।
द्वादश्यां पौर्णमास्यां च गव्येन हविषा हरेः ॥ ३५।६९ ॥
स्नापनं देवदेवस्य महापातकनाशनम् ।
ज्ञानतो ऽज्ञानतो वापि यत्पापं कुरुते नरः ॥ ३५।७० ॥
तत्क्षालयति सन्ध्यायां घृतेन स्नापयन् हरिम् ।
घृतक्षीरेण देवेशे स्नापिते मधुसूदने ॥ ३५।७१ ॥
स गत्वावैष्णवं धाम मोदते सह सूरिभिः ।
स्रजं बद्ध्वा सुमनसां यः प्रयच्छति विष्णवे ॥ ३५।७२ ॥
स भुक्त्वा विपुलान् भोगान्नाकपृष्ठे विराजते ।
चामरव्यजन छत्रदानात्स्वाराज्यमश्नु ते ॥ ३५।७३ ॥
दानादाभरणादीनां तेजस्वी दिविमोदते ।
दानाच्च नवरत्नावां देवसालोक्यमश्नुते ॥ ३५।७४ ॥
आदर्शनप्रदानेन दृश्यस्सर्वैर्भविष्यति ।
गन्धद्रव्य प्रदानेन सुगन्धिर्दायते भृवेत् ॥ ३५।७५ ॥
धूपद्रव्यप्रदानेन स्वस्थानं स्वर्गिणां भवेत् ।
उपानहौ पादुके च वाहनं यानमेव च ॥ ३५।७६ ॥
ददाति यो सन्दयित्वा? मणिकाञ्चनचित्रितम् ।
स विमानं तु दुत्प्रापं प्राप्नो त्येव न संशयः ॥ ३५।७७ ॥
अलङ्कृतं भद्रपीठं प्रयच्छन् सर्वकामभाक् ।
विनतानन्दनस्थानं ध्वजमुत्पाद्य दर्शयन् ॥ ३५।७८ ॥
सामीप्यं सहसा विष्णोर्याति सद्यो स संशयः ।
ध्वजं च वाद्यमुत्पाद्य विष्णुसात्कुरुते तु यः ॥ ३५।७९ ॥
स दिव्यदुन्दुभि प्रायंस्थानं प्राप्य विराजते ।
दासीदासं तथात्मान मात्मीयं च प्रयच्छलि ॥ ३५।८० ॥
वासुदेवाय दास्येन मुक्तिः करतलेस्थिता ।
नृत्तभेदैर्गीतभेदैस् तथा वाद्यैरनेकथा ॥ ३५।८१ ॥
श्रोतव्यैरपि दृश्यैश्च देवदेवस्य सन्निधौ ।
आसीनमुपचारैस्तैर्ये समाराधयन्तिते ॥ ३५।८२ ॥
प्रेत्य दिव्येषु लोकेषु पूज्यन्तेतैर्न संशयः ।
दीपं प्रयच्छति नरो विष्णोरायतने हि यः ॥ ३५।८३ ॥
सदक्षिणस्य यज्ञस्य फलं प्राप्नोत्यसंशयः ।
आहोरात्रमनिर्वाणं दीपमारोपयेन्नरः ॥ ३५।८४ ॥
सर्वपाप विशुद्धात्मा विष्णुलोके महीयते ।
दिनेदिने जपन्नाम केशवेति समाहितः ॥ ३५।८५ ॥
सकृद्ददातियोविप्रःप्रदीपं केशवालये ।
जातिस्मरत्वं प्रज्ञां च प्राकाश्यं सर्ववन्तुषु ॥ ३५।८६ ॥
अव्याहतेन्द्रियत्वं च समाप्नोति न संशयः ।
सर्वकालं च चक्षुष्मान् मेधावी दीपदो नरः ॥ ३५।८७ ॥
जायते नरकं चापि तमस्सञ्ज्ञं न पश्यति ।
सुवर्णमणिमुक्ताढ्यं मनोज्ञमतिशोभनम् ॥ ३५।८८ ॥
दीपमालाकुलं दिव्यं विमानमधिरोहति ।
तस्मादायतने विष्णोर्दद्याद्दीपं प्रयत्नतः ॥ ३५।८९ ॥
तांश् चदत्वान्नहीनस्ते? न च तैलवियोजनम् ।
कुर्वीत दीपहर्ताच मूकूऽन्धो जायते जडः ॥ ३५।९० ॥
अन्धेतमसि दुष्पारे नरके पतितान् किल ।
विक्रोशमानान्मनुजान् वक्ष्यन्ति यमकिङ्कराः ॥ ३५।९१ ॥
विलापैरल मत्रेवं किंवो विलपिते फलम् ।
तथा प्रमादिभिः पूर्वमात्मात्यन्तमुपेक्षितः ॥ ३५।९२ ॥
पुर्वमालोचितं नैतत्कथमन्ते भविष्यति ।
इदानीं यातना भौगाःकिं विलापः करिष्यति ॥ ३५।९३ ॥
देहोदितानि स्वल्पानि विषयाश्चातिकर्षकाः ।
एतत्कोन विजानाति येन यूयं प्रमादिनः ॥ ३५।९४ ॥
जन्तुर्जन्मसहस्रेभ्यो ह्येकस्मिन् मानुषो यदि ।
तत्राप्यतिविमाढत्वात्किम्भोगानभिधावति ॥ ३५।९५ ॥
को ऽतिभारो हरेर्नाम्नि जिह्वया परिकीर्तिते ।
वर्णिते तुल्यमूलेतु यदग्निर्लभ्यते सुखम् ॥ ३५।९६ ॥
अतो ऽधिकरोलाभः कोवश्चितैऽभवत्तथा ।
येनायतेषु हस्तेषु स्वातन्त्षेसति दीपकः ॥ ३५।९७ ॥
महाफलो विष्णुगृहे न दत्तो नरकापहाः ।
न वो विलपिते किं चिदिदानीं दृश्यते फलम् ॥ ३५।९८ ॥
अस्वातन्त्षे विलपतां स्वातन्त्षे तु प्रमादिनाम् ।
अवश्यम्पातिनः प्राणा भोक्ताजीवोप्यहर्निशम् ॥ ३५।९९ ॥
दत्तं चलभते भोक्तुं कामयन्विषयांस्तदा ।
एतत्स्वातन्त्षवद्भिर्वो युक्तमासीत्परीक्षितुम् ॥ ३५।१०० ॥
इदानीं किं विलापेन सहध्वं यदुपागतम् ।
यद्येतदनभीष्टं वो यद्दुःखं समुपस्थितम् ॥ ३५।१०१ ॥
यद्भूयो ऽपि मतिः पापे न कर्तव्या कथं च न ।
पापकर्मणिनिर्वृत्ते ऽप्यज्ञानादघनाशनम् ॥ ३५।१०२ ॥
कर्तव्यमप्यविच्छिन्नं स्मरद्भिर्मधुसूदनम् ।
विमानमतिविद्योति सर्वरत्नमयं दिवि ॥ ३५।१०३ ॥
समाप्नोति नरो दत्वा प्रदीपं केशवालये ।
हविषां पायसादीनां हरये च निवेदनात् ॥ ३५।१०४ ॥
सुखैकरसपूर्णत्मा राजते विष्णुसन्निधौ ।
भक्ष्यपानीयभोज्यानामन्येषामपि दानतः ॥ ३५।१०५ ॥
श्वेतद्वीपे तत्समीपे वसन्ति सुखिनस्सदा ।
बहुनात्र किमुक्तेन वासुदेवार्थमादरात् ॥ ३५।१०६ ॥
ददाति वस्तुदानम्? यस्थ्सानं प्राप्नोति चेप्सितम् ।
कर्मणां मार्जनादीनां फलभोगादनन्तरम् ॥ ३५।१०७ ॥
कर्मशेषैः पुनर्जन्म कर्मानुगुणयोनिषु ।
उत्कृष्टास्वेन भोक्तारो लभन्ते सुखिनस्सदा ॥ ३५।१०८ ॥
आरामाणां तटाकानां प्रपाणां च प्रवर्तनात् ।
विष्णोरालयसामीप्ये तत्फलं केन वर्ण्यते ॥ ३५।१०९ ॥
सुप्रदर्शा बलवती चित्रा धातुविभूषिता ।
उपेता सर्वभूतैश्च श्रेष्ठा भूमिरिहोच्यते ॥ ३५।११० ॥
तस्याः क्षेत्रविशेषाश्च तटाकानां च बन्धनम् ।
औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः ॥ ३५।१११ ॥
तटाकानां च वक्ष्यामि कृतानां चापि ये गुणाः ।
त्रिषु लोकेषु सर्वत्र पूजनीयः प्रतापवान् ॥ ३५।११२ ॥
अथ वा मित्रसदनं मैत्रं मित्रविवर्धनम् ।
कीर्तिसञ्जननं श्रेष्ठं तटाकानां निवेशनम् ॥ ३५।११३ ॥
धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः ।
तटाकं सुकृतं देशेक्षेत्रमेकं महाश्रयम् ॥ ३५।११४ ॥
चतुर्विधानां भूतानां तटाकमुपलक्षयेत् ।
तटाकानि च सर्वाणि दिशन्ति श्रियमुत्तमाम् ॥ ३५।११५ ॥
देवा मनुष्या गन्धर्वाः पितरो यक्षराक्षसाः ।
स्थावराणि च भूतानि संश्रयन्ति जलाशयम् ॥ ३५।११६ ॥
तस्मात्तांस्तु प्रवक्ष्यामि तटाके ये गुणास्स्मृताः ।
या च तत्र फलावाप्तिरृषिभिस्समुदाहृता ॥ ३५।११७ ॥
वर्षाकाले तटाके तु सलिलं यस्य तिष्ठति ।
अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः ॥ ३५।११८ ॥
शरत्का ले तु सलिलं तटाके यस्य तिष्ठति ।
गोसहस्रस्य सम्प्रेत्य लभते फलमुत्तमम् ॥ ३५।११९ ॥
हेमन्तकाले सलिलं तटाके यस्य तिष्ठति ।
स वै बहुसुवर्णस्य यज्ञस्य लभते फलम् ॥ ३५।१२० ॥
यस्य वै शैशिरे काले तटाके सलिलं भवेत् ।
तस्याग्निष्टोमयज्ञस्य भलमूहुर्मनीषिणः ॥ ३५।१२१ ॥
तटाकं सुकृतं यस्य वसन्तेतं महाश्रयम् ।
अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते ॥ ३५।१२२ ॥
निदाघकाले पानीयं तटाके यस्य तिष्ठति ।
वाजिमेधपलं तस्य फलं वै मुनयो विदुः ॥ ३५।१२३ ॥
स कुलं तारयेत्सर्वं यस्य खाते जलाशये ।
गावः पिबन्ति सलिलं साधवश्च नरास्सदा ॥ ३५।१२४ ॥
तटाके यस्य गावस्तु पिबन्ति तृषिता जलम् ।
मृगपक्षिमनुष्याश्य सो ऽश्वमेधफलं लभेत् ॥ ३५।१२५ ॥
यत्पिबन्ति जलं तत्र स्त्यायन्ते विश्रमन्तिच ।
तटाकदस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते ॥ ३५।१२६ ॥
दुर्लभं सलिलं चेह विशेषेण परत्र वै ।
पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती ॥ ३५।१२७ ॥
तटाके यस्य पानीयं पानीयाय जगत्पतेः ।
तस्य पुण्यफलं वक्तुं नालं देवास्सहानु गाः ॥ ३५।१२८ ॥
तटाके यस्य पानीये सायं प्रातर्द्विजातयः ।
स्नात्वा कुर्वन्ति कर्माणि तस्य नाकेस्थितिर्भवेत् ॥ ३५।१२९ ॥
तटाके यस्य देवस्य स्नापनं चाधिवासनम् ।
तस्य लोका भवन्त्येव पावनाः क्षतिवर्जिताः ॥ ३५।१३० ॥
सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते ।
पानीयावासदानं तु देवस्याग्रे प्रशस्यते ॥ ३५।१३१ ॥
अथ वक्ष्ये विशेषेण वृक्षाणामवरोपणम् ।
स्थानराणां च भूतानां जातयष्षट् प्रकीर्तिताः ॥ ३५।१३२ ॥
वृक्षगुल्पल तावल्ल्यस्त्वक्चारास्तृणजातयः ।
एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे ॥ ३५।१३३ ॥
कीर्तिश्च मानवे लोके प्रेत्य चैव फलं शुभम् ।
लभते नाम लोके च पितृभिश्च महीयते ॥ ३५।१३४ ॥
देवलोकगतस्यापि नामतस्य न नश्यति ।
अतीते ऽनागते चोभेपितृवं शे ऽन्यतस्तथा ॥ ३५।१३५ ॥
तारयेद्वृक्षरूपी च तस्माद्वृक्षांश्च रोपयेत् ।
तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः ॥ ३५।१३६ ॥
परलोकगतस्स्वर्गं लोकांश्चाप्नोति सो ऽव्ययान् ।
पुष्पैस्सुरगणान् वृक्षाः फलैश्चापि तथा पितृन् ॥ ३५।१३७ ॥
चायया चातिथींश्चापि पूजयन्ति महीरुहाः ।
किन्नरोरगरक्षांसि देवगन्धर्वमानवाः ॥ ३५।१३८ ॥
तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान् ।
पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् ॥ ३५।१३९ ॥
वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र तु ।
पत्रं फलं वा पुष्पं वा यस्यारामे ऽवरोपिते ॥ ३५।१४० ॥
अच्युतस्य पदं प्राप्तं लोकास्तस्याच्युता ध्रुवम् ।
पत्रैःफलैर् वापुष्पैर्वा प्रीयते भगवान् हरिः ॥ ३५।१४१ ॥
तस्मात्तटारे तद्वृक्षा रोप्याश्श्रेयोर्थिना सदा ।
पुत्रवत्परिपाल्याश्च पुत्रास्तेधर्मतस्स्मृताः ॥ ३५।१४२ ॥
तटाककृद्वृक्षरोपी इष्टयज्ञश्च यो नरः ।
एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः ॥ ३५।१४३ ॥
तस्मात्तटाकान् कुर्वीत आरामांश्चैव रोपयेत् ।
यजेच्च विविधैर्यज्ञैस्सत्यं च सततं वदेत् ॥ ३५।१४४ ॥
गोभूहिरण्यदानानि कृत्वाचार्याय विष्णवे ।
अर्चकाय विशेषेण स्वर्गतस्सुखमेधते ॥ ३५।१४५ ॥
अतिदानं तु सर्वेषां भूमिदानमिहोच्यते ।
अचला ह्यक्षयो भूमिस्सर्वान् कामान् प्रयच्छति ॥ ३५।१४६ ॥
यस्तुदद्याद्भूमिदानं देवनाम्नार्चकायहि ।
तस्यैहिकं भवेत्पुण्यं तथा पारत्रिकं बहु ॥ ३५।१४७ ॥
यस्तु दद्यात्स्वनाम्नैव पूजकाय वसुन्धराम् ।
तस्य कामाः प्ररोहन्ति सर्वमैहिकमश्नुते ॥ ३५।१४८ ॥
देवकार्याय वैदद्याद्यो देवाय वसुन्धराम् ।
देवनाम्नैव तस्य स्यात्केवलामुष्मिकं फलम् ॥ ३५।१४९ ॥
ब्रह्मार्पणधिया यस्तु गुप्तं दास्यति किं चन ।
देवाय देवकार्याय ब्राह्मणायाधिकारिणे ॥ ३५।१५० ॥
यावज्जीवति तद्दानं स्वर्गेतस्य स्थितिर्भवेत् ।
यं यं कामं तु मनसि कृत्वा यद्यच्च योर्ऽपयेत् ॥ ३५।१५१ ॥
तं तमेव फलं लब्ध्वाकर्तासम्मोदते चिरम् ।
किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने ॥ ३५।१५२ ॥
आचार्यायार्पिता भूमिरत्यन्तफलदायिनी ।
ततोर्ऽचकार्पिता दद्यादनन्तं फलमुच्यते ॥ ३५।१५३ ॥
पदार्थिनामथान्वेषां तथान्यविभवस्य च ।
सर्वमेव भवेद्दत्तं वसुधां यः प्रयच्छति ॥ ३५।१५४ ॥
फालकृष्टां महीं दद्यात्सबीजां सस्यमालिनीम् ।
यावत्सूर्यकरा लोके तावत्स्वर्गे महीयते ॥ ३५।१५५ ॥
फालकृष्टां महीं दद्यात्सबीजां सस्यमालिनीम् ।
यावत्सूर्यकरा लोके तावत्स्वर्गे महीयते ॥ ३५।१५६ ॥
यश्चापि कुरुते पापं पुरुषोवृत्तिकर्शितः ।
अपि गोकर्णमात्रेण भूमिदानेन शुद्ध्यति ॥ ३५।१५७ ॥
सप्तहस्तेन वा सम्यक्त्रिंशद्दण्डेन वर्धनम् ।
स शतान्येव गोकर्णमिति वेदविदो विदः ॥ ३५।१५८ ॥
जितेन्द्रयाय गुणिने पूजकाय तपस्विने ।
दद्यान्महीं भदेत्तस्य फलमक्षयमच्युतम् ॥ ३५।१५९ ॥
यथाप्सु पतितस्सद्यस्तैलबिन्दुः प्ररोहति ।
एवं भूमिकृतं दानं सस्ये सस्ये प्ररोहति ॥ ३५।१६० ॥
यथा बीजानि रोहन्ति प्रकीर्णानि महीतले ।
एवं कामाःप्ररोहन्ति भूमिदानसमार्जिताः ॥ ३५।१६१ ॥
यथा गौर्भरते वत्सं क्षीरिणी क्षीरमुत्सृजेत् ।
एवं दत्ताचिरं कालं भूमिर्भरति भूमिदम् ॥ ३५।१६२ ॥
इक्षुभिस्सततां भूमिं यवगोधूमशाद्वलैः ।
यो ददाति नरश्रेष्ठस्स न प्रच्यवते दिवः ॥ ३५।१६३ ॥
शुभं भद्रासनं छत्रं वराश्च वरयोषितः ।
भूमिदानस्य चिह्नानि फलमेतन्न संशयः ॥ ३५।१६४ ॥
आदित्य वसवो विष्णुर्ब्रह्मा सोमो हुताशनः ।
शूलपाणिश्च भगवानभिनन्दन्ति भूमिदम् ॥ ३५।१६५ ॥
सौवर्णछत्रहक्म्याणि वसोर्धाराश्च कामदाः ।
गन्धर्वाप्सरसो यत्र तत्र तिष्ठन्ति भूमिदाः ॥ ३५।१६६ ॥
इयमेव पुरा भूमिः पालिता बहुभिग्नृपैः ।
अन्यैश्च बहुभिर्दत्ता राजभिस्सत्यसङ्गरैः ॥ ३५।१६७ ॥
यस्य यस्य यदा भूमि स्तस्य तस्य तदा फलम् ।
भूमिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति ॥ ३५।१६८ ॥
तावुभौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ ।
दानपालनयोर्मध्ये दानाच्छ्रेयो ऽनुपालनम् ॥ ३५।१६९ ॥
दानात्स्वर्गमवाप्नोति पालनादच्युतं पदम् ।
स्वदत्ताद्द्विगुणं पुण्यं परदत्तानुपालनम् ॥ ३५।१७० ॥
भूमिदस्स्वर्गमारुह्य शास्वतीरेधते समाः ।
पुनश्च जन्म सम्पाप्य भवेद्भूमि पतिर्ध्रुवम् ॥ ३५।१७१ ॥
यथा भूमिस्सदा देवी दातारं कुरुते पतिम् ।
एवं सदक्षिणा दत्ताकुरुते गौर्जनाधिपम् ॥ ३५।१७२ ॥
अपि पापकृतं प्राप्य प्रतिगृह्णाति भूमिदम् ।
महीं ददत्पवित्रस्स्यात्पुण्या च जगती यतः ॥ ३५।१७३ ॥
नामैव प्रियदत्तेति गुह्यामेतत्सनातनम् ।
तदस्यास्सततं प्रीत्यैकीर्तनीया प्रयच्छता ॥ ३५।१७४ ॥
तपोयज्ञाश्रितं शीलमलोभस्सत्यवादिता ।
गुरुदैवतपूजा च नातिक्रामति भूमिदम् ॥ ३५।१७५ ॥
भर्तुर्निश्श्रेयसे युक्ता स्त्यक्तात्मादोरणे हताः ।
ब्रह्मलोकगतास्सन्तो नातिक्रामन्तिभूमिदम् ॥ ३५।१७६ ॥
यथा जनित्री क्षीरेण पुष्णाति स्वसुतं मुदा ।
एवं सर्वगुणैर्भूमिर्दातारमनुपुष्यति ॥ ३५।१७७ ॥
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ।
न तत्फलमवाप्नोति यद्दत्वा वसुधां पुनः ॥ ३५।१७८ ॥
मृत्योर्हि किङ्करा दण्डा ह्यग्नितापास्सुदारुणाः ।
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् ॥ ३५।१७९ ॥
पीतरः पितृलोकस्था देवलोके दिवौकसः ।
सन्तर्पयन्ति दातारं भूमेः प्रभवतान्नरः ॥ ३५।१८० ॥
आदित्या इव दीप्यन्ते तेजसा दि मानवाः ।
ये प्रयच्छन्ति वसुधां हरये लोकसाक्षिणे ॥ ३५।१८१ ॥
कृशाय कृशभृत्याय वृत्तिं क्षीणाय सीदते ।
देवाग्रेर्ऽप्यतु विप्राय सुश्रीर्भवति मानवः ॥ ३५।१८२ ॥
आस्फोटयन्ति पितरः प्रनृत्य नि पितामहाः ।
भूमिदो नः कुले जातस्सवस्सन्तारयिष्यति ॥ ३५।१८३ ॥
स नः कुलस्य पुरुषस्सनो बन्धुस्सनो गुरुः ।
स दाता स च विक्रान्तो यो ददाति वसुन्धराम् ॥ ३५।१८४ ॥
लोकांस्तु सृजता पूर्वं गावस्सृष्टास्स्वयम्भुवा ।
वृद्ध्यर्थं सर्वभूतानां तस्मात्ता मातरस्स्मृताः ॥ ३५।१८५ ॥
तास्तुदत्वा सौरभेयीस्स्वर्गेलोके महीयते ।
धेनुं दत्वा सुव्रतां च सोपधानां पयस्विनीम् ॥ ३५।१८६ ॥
सवत्सां कपिलां दिव्यामाचार्यायार्चकाय च ।
देवदेवस्य तुष्ट्यर्थं देवाय ब्राह्मणाय वा ॥ ३५।१८७ ॥
न तस्य शक्यते वक्तुं फलं वर्षशतैरपि ।
यावन्ति धेन्वालोमानि वत्सायाश्च विशेषतः ॥ ३५।१८८ ॥
तावद्वर्ष सहस्राणि कामान् दुह्येत सा वरा ।
प्रयच्छते यःकपिलां सवत्सां कांस्यजोहनाम् ॥ ३५।१८९ ॥
स्वर्णश्रुङ्गीं रौप्यखुरां तैस्तैर्द्रव्यगुणैः पुनः ।
सा गौः कामदुघा भूत्वा दातारमुपसर्पति ॥ ३५।१९० ॥
गोसहस्रं तु यो दद्यात्सर्वरत्नैरलङ्कृतम् ।
परां वृद्धिंश्रियं प्राप्य स्वर्गलोके महीयते ॥ ३५।१९१ ॥
दश चोभयतःप्रेत्य माता महपितामहाः ।
गच्छेत्सुकृतिनां लोकान् गावो दत्वा यथाविधि ॥ ३५।१९२ ॥
दायाद्यलब्धैर्योगाद्यैर्गावस्सम्पाद्य योददेत् ।
तस्यापि चाक्षया लोका भवन्तीह परत्र च ॥ ३५।१९३ ॥
यो वा द्यूते धनं जित्वागावःक्रीत्वा प्रयच्छति ।
स गच्छेद्विरजान् लोकान् गोप्रदानफलार्जितान् ॥ ३५।१९४ ॥
प्रतिगृह्यतु यो दद्याद्गावश्शुद्धेन चेतसा ।
स गत्वा दुर्लभं स्थानममरैस्सह मोदते ॥ ३५।१९५ ॥
यश्चात्मविक्रयं कृत्वा गावो दद्याद्यधाविधि ।
स गत्वा विरजान् लोकान् सुखं वसति देववत् ॥ ३५।१९६ ॥
सङ्ग्रामे यस्तनुं त्यक्त्वा त्वक्त्वा गावःप्रयच्छति ।
देहविक्रय मूल्यास्ता श्शाश्वताः कामदोहनाः ॥ ३५।१९७ ॥
जीर्णां चैवोपभुक्राञ्च जरद्गां शीलवर्जिताम्, ।
तमः प्रविशते दत्वा द्विजं क्लेशेन योजयेत् ॥ ३५।१९८ ॥
दानयोग्या भवेस्नैव कृशा दुष्टा पलायिनी ।
युञ्ज्यात्ल्केशैस्तु यो विप्रं दत्वैनां तद्वृधा भवेत् ॥ ३५।१९९ ॥
युवानं बलिनं श्यामं हलेन सह यूथपम् ।
गोपतिं हरये दद्याद्भूरिश्रुङ्गमलङ्कृतम् ॥ ३५।२०० ॥
ब्राह्मणानां गवां चैव कुलमेकं द्विधा कृतम् ।
एकत्र मन्त्रा स्तिष्ठन्ति हविरेकत्र तिष्ठति ॥ ३५।२०१ ॥
उपगम्य तु यो दद्याद्गावश्शुद्धेन चेतसा ।
यावन्तितासां रोमाणि तावत्स्वर्गे महीयते ॥ ३५।२०२ ॥
प्रवक्ष्यामि गवांलोका यादृशायत्र संस्थिताः ।
मनोज्ञा रमणीयाश्च सर्वकामदुहास्सदा ॥ ३५।२०३ ॥
पुण्याःपापहराश्चेव गवां लोका न संशयः ।
अत्यन्तसुखिनस्तत्र सर्वपापविवर्जिताः ॥ ३५।२०४ ॥
प्रमोदन्ते महास्थ्साने नरा विगतकल्मषाः ।
तुल्यप्रभावा देवैस्ते मोदन्ते प्सरसां गणैः ॥ ३५।२०५ ॥
गन्धर्वैरुपगीयन्ते गोशरण्या न संशयः ।
ब्राह्मणास्साधुवृत्ताश्च दयावन्तो ऽनुकम्पकाः ॥ ३५।२०६ ॥
घृणिनश्शुभकर्तारो मोदन्तेदैवतैस्सह ।
यथैव सलिले मत्स्यस्सलिलेन सहोष्य ते ॥ ३५।२०७ ॥
गोभिः पापकृतं कर्म दृढमेव व्यपोह्यते ।
मातरस्सर्वभूतानां प्रजानां रक्षणे कृताः ॥ ३५।२०८ ॥
ब्रह्माणा लोकसारेण गावःपापभयापहाः ।
तानु दत्तासु लोके ऽस्मिन् किं न दत्तं भवेदिह ॥ ३५।२०९ ॥
देवेशाय विशेषेण तत्क्रियाय तथा पुनः ।
प्रतिपाद्यास्सदा गानो भूतिं स्भारामभीप्सुभिः ॥ ३५।२१० ॥
सुवर्णं परमं दानं सुवर्णं दक्षिणा परा ।
एतत्पवित्रं परममेतत्स्वस्त्ययनं महत् ॥ ३५।२११ ॥
दशपूर्वान् परान् वंश्यानात्मानं च विशेषतः ।
अपिपापशतं कृत्वा दत्तं विप्रिषु तारयेत् ॥ ३५।२१२ ॥
सुवर्णं ये प्रयच्छन्ति नराश्शुद्धेव चेतसा ।
देवतास्ते प्रयच्छन्ति समस्तमिति नश्श्रुतम् ॥ ३५।२१३ ॥
अग्निर्हि देवतास्सर्वास्सुवर्णं च हुताशनः ।
तस्मात्सुवर्णं ददता दत्तास्सर्वाश्च देवताः ॥ ३५।२१४ ॥
अग्न्यभावे च कुर्वन्ति वह्निस्थाने च काञ्चनम् ।
सर्वदेवप्रमाणज्ञा वेदश्रुतिनिदर्शनात् ॥ ३५।२१५ ॥
यस्त्वेनं ज्वलयेदग्निमादित्योदयनं प्रति ।
दद्याद्वै देवमुद्दिश्य सर्वान्कामानवाप्नुयात् ॥ ३५।२१६ ॥
सुवर्णदस्सर्वलोके कामानिष्टानवाप्नुते ।
विरजाम्बरसंवीतः परियाति ततस्ततः ॥ ३५।२१७ ॥
विमानेनार्कवर्णेन भास्वरेण विराजता ।
अप्सरोगणसङ्कीर्णो भास्वरस्तेन तेजसा ॥ ३५।२१८ ॥
हंसबर्हिणयुक्तेन कामगेन नरोत्तमः ।
दिव्यगन्धवहस्स्वर्गे परिगच्छन्नितस्ततः ॥ ३५।२१९ ॥
तस्मात्स्वशक्त्या दातव्यं काञ्चनं मानवैर्भुवि ।
विमानेनार्कवर्णेन स याति स्वर्गमुत्तमम् ॥ ३५।२२० ॥
न ह्यतः परमं लोके सद्यः पापविनाशनम् ।
ब्रह्मकोशस्य शुद्धस्य सुवर्णं यः प्रयच्छति ॥ ३५।२२१ ॥
बहून्यब्दसहस्राणि स्वर्गेलोके महीयते ।
इति सङ्क्षेपतः प्रोक्तं स्वर्णदानफलं मया ॥ ३५।२२२ ॥
अथ वक्ष्ये विशेषेण फलमन्नस्य दापनात् ।
विष्णवे च श्रियै भूम्यै सर्वदेवेभ्य एव च ॥ ३५।२२३ ॥
तन्नि वेदित शेषस्य दानाच्चार्थिभ्य आदरात् ।
न शक्यते फलं तस्य वक्तुं वर्षशतैरपि ॥ ३५।२२४ ॥
तथापि गीयते यत्तु विस्तारात् परमर्षिभिः ।
सङ्क्षेपतः प्रवक्ष्यामि अन्नदानार्जितं फलम् ॥ ३५।२२५ ॥
प्रसादममृतं ब्रूयादन्नं देवनिवेदितम् ।
तीर्थं चामृतमित्येव देवपादोदकं वदेत् ॥ ३५।२२६ ॥
अन्नमेव प्रशंसन्ति देवा ऋषिगणास्तथा ।
लोकतन्त्रं हि सञ्ज्ञाश्च सर्वमन्ने प्रतिष्ठितम् ॥ ३५।२२७ ॥
अन्नेन सदृशं दानं न भूतो न भविष्यति ।
तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः ॥ ३५।२२८ ॥
अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः ।
अन्नेन धार्यते सर्वं विश्वं जगदिदं महत् ॥ ३५।२२९ ॥
अन्नाद्गृहस्था लोकेस्मिन् भिक्षवस्तापसास्तथा ।
अन्नाद्भवन्ति वै प्राणाः प्रत्यक्षं नात्र संशयः ॥ ३५।२३० ॥
कुटुम्बं पीडयित्वा तु ब्राह्मणाय महात्मने ।
दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता ॥ ३५।२३१ ॥
ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने ।
विदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः ॥ ३५।२३२ ॥
श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितम् ।
अर्चयेद्भूतिमन्विच्छन् गृहस्थो गृहमागतम् ॥ ३५।२३३ ॥
क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः ।
अन्नदः प्राप्नुते भू यो भुवि चेह च यत्सुखम् ॥ ३५।२३४ ॥
नावमन्येदभिगतं न प्रणुद्यात्कथं चन ।
अपि श्वपाके शुनि वा न दानं विप्रणश्यति ॥ ३५।२३५ ॥
यो दद्यादपरिक्लिष्टमन्न मध्वनि वर्तते ।
शान्तायादृष्टपूर्वाय समहद्धर्ममाप्नुयात् ॥ ३५।२३६ ॥
पितॄन् देवानृषीन्विप्रानतिथींश्च विशेषतः ।
यो नरःप्रीणयत्यन्नैस्तस्य पुण्यफलं महत् ॥ ३५।२३७ ॥
कृत्वातिपातकं कर्मयो दद्यादन्न मर्थिने ।
ब्राह्मणाय विशेषेण न स पापेन मुह्यते ॥ ३५।२३८ ॥
ब्राह्मणेष्वक्षयं नाम्नां शूद्रे महत्भलम् ।
अन्नदामपि शूद्रे च ब्राह्मणस्य विशिष्यते ॥ ३५।२३९ ॥
न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेन च ।
भिक्षितो ब्राह्मणेनेह दद्यादन्नं प्रयाचितः ॥ ३५।२४० ॥
अन्नदस्यान्नवृक्षाश्च सर्वकामफलप्रदाः ।
भवन्ति चेह नामुत्रनृपतेर्नात्रसंशयः ॥ ३५।२४१ ॥
आशंसते हि पितरस्सुवृष्टिमिव कर्षकाः ।
अस्माकमपि पुत्रो वा पौत्रो वान्नं प्रदास्यति ॥ ३५।२४२ ॥
ब्राह्मणोहि महद्भूतं स्वयं देहीति याचते ।
अकामोवा सकामो वा दत्वा पुण्यमवाप्नुयात् ॥ ३५।२४३ ॥
ब्राह्मणस्सर्वभूतानामतिधिः प्रसृताग्रभुक् ।
विप्रा यमधिगच्छन्ति भिक्षमाणा गृहं सदा ॥ ३५।२४४ ॥
सत्कृताच्च निवर्तन्ते तदतीव प्रवर्थते ।
महाभोगे कुले प्रेत्य जन्म चाप्नोति नित्यशः ॥ ३५।२४५ ॥
दत्वात्वन्नं नरो लोके यथास्थानमनुत्तमम् ।
नित्यं मृष्टान्नदायी तु स्वर्गे वसति सत्कृतः ॥ ३५।२४६ ॥
अन्नं प्राणा नराणांहि सर्वमन्ने प्रतिष्ठितम् ।
अन्नदः पशुमान् पुत्री धनवान् भोगवानपि ॥ ३५।२४७ ॥
प्राणवांश्चापि भवति रूपवांश्च तथा भवेत् ।
अन्नदःप्राणदो लोके सर्वदः प्रोच्यते तु सः ॥ ३५।२४८ ॥
अन्नं हिदत्वातिथये ब्राह्मणाय यथाविधि ।
प्रदाता सुखमाप्नोति दैवतैश्चापि पूज्यते ॥ ३५।२४९ ॥
ब्राह्मणो हि महद्भूतं क्षेत्रभूतमिहोच्यते ।
उप्यते यत्र तद्बीजं तद्धि पुण्यफलं महत् ॥ ३५।२५० ॥
प्रत्यक्षप्रीतिजननं भोक्तुर्दातुर्भवत्युत ।
सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत ॥ ३५।२५१ ॥
अन्नाद्धि प्रसवं यान्ति रतिरन्नाद्धि जायते ।
धक्मार्थावन्नतो विद्यात् रोगनाशस्तथान्नतः ॥ ३५।२५२ ॥
अन्नं ह्यद्भुतमित्याह पुरा कल्पे प्रजापतिः ।
अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम् ॥ ३५।२५३ ॥
अन्न प्रणाशे भिद्यन्ते शरीरे पञ्च धातवः ।
बलं बलवतो ऽपीह प्रणश्यत्यन्नहानितः ॥ ३५।२५४ ॥
आवाहाश्च विवाहाश्च यज्ञाश्चान्नकृते तथा ।
निवर्तन्ते विशेषेण ब्रह्म चात्र प्रदीयते ॥ ३५।२५५ ॥
अन्नतस्सर्वमेतद्धि यत्किञ्चित् स्थाणु जङ्गमम् ।
त्रिषुलोकेषु धर्मार्थमन्नं देयं ततो बुधैः ॥ ३५।२५६ ॥
अन्नदस्य मनुष्यस्य बलमोजो यशांसि च ।
आयुश्च वर्धते तद्वत्तेषु लोकेषु निश्चितम् ॥ ३५।२५७ ॥
मेघादूर्ध्वं सन्निधत्तेप्राणानां पवनः पतिः ।
यच्च मेघगतं वारि शक्रो वर्षति हर्षितः ॥ ३५।२५८ ॥
आदत्ते च रसान् भौमान् आदित्यस्स्वगभस्तिभिः ।
वायुरादित्यतप्तांश्च रसान् देवःप्रवर्षति ॥ ३५।२५९ ॥
तद्यथा मेघतो वारि पतितं भवति क्षितौ ।
तदा वसुमती देवी स्निग्धा भवति भाविता ॥ ३५।२६० ॥
ततस्सस्यानि रोहन्ति येन वर्तयते जगत् ।
मांसमेदो ऽस्थिशुक्राणां प्रादुर्भावस्ततः पुनः ॥ ३५।२६१ ॥
सम्भवन्ति ततश्शुक्रात्प्राणिनः पृधिवीतले ।
अग्निष्टोमौ हि तच्छ्रक्रं सृजतः पुष्यतश्च ह ॥ ३५।२६२ ॥
एवमन्नाद्धि सूर्यश्च पवनश्शुक्रमेवच ।
एक एव स्मृतो राशिस्ततो भूतानि जङ्गिरे ॥ ३५।२६३ ॥
प्राणान् ददाति भूतानां तेजश्च सततप्रभम् ।
गृहमभ्यागतायाथ यो दद्यादन्नमर्थिने ॥ ३५।२६४ ॥
अन्नदानाद्धि येलोकास्तांश्रुणुध्वं समाहिताः ।
भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् ॥ ३५।२६५ ॥
तारासंस्थानरूपाणि नाना स्तम्भान्वितानि च ।
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च ॥ ३५।२६६ ॥
तरुणादित्यवर्णानि स्थावराणि चराणिच ।
अनेकशतभौमानि सान्तर्जलचराणि च ॥ ३५।२६७ ॥
वैडूर्यार्कप्रकाशानि रौक्मरूप्यमयानि च ।
सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः ॥ ३५।२६८ ॥
वाप्यो वीथ्यः सभाः कूपादीर्घि काश्चैव सर्वशः ।
घोषवन्त्यथ यानानि मुक्तान्यथ सहस्रशः ॥ ३५।२६९ ॥
भक्ष्यभोज्यमयाश्शैला वासांस्याभरणानि च ।
क्षीरं स्रवन्ति सरितस्तथा चैवान्न पर्वताः ॥ ३५।२७० ॥
प्रासादाः पाण्डुराभ्राभाश्शय्याश्च कनकोज्ज्वलाः ।
तान्यन्नदाः प्रपद्यन्ते तस्मादन्नं ददेत्सदा ॥ ३५।२७१ ॥
दद्यादद्यात्सदैवान्नं विष्णवे विनिवेदितम् ।
हविःपात्रादि सौवर्णं राजतं ताम्रमेव वा ॥ ३५।२७२ ॥
कांस्यं वाप्यथ यो दद्यादर्घ्य पात्रादिकानपि ।
कलशान् करकान् कुम्भानन्यांश्चैव परिच्छदान् ॥ ३५।२७३ ॥
शक्तिलोभमकृत्वैव तस्य पुण्यफलं महत् ।
सौवर्णान्येवयो दद्यात्सारूप्यं लभते फलम् ॥ ३५।२७४ ॥
राजतान्यथ योदद्यात्सामीप्यं फलमाप्नुयात् ।
दद्यात्ताम्राणि कांस्यानि सारोक्यं पदमेति सः ॥ ३५।२७५ ॥
ध्वचान्विचित्रान् यो दद्यान्नानावर्ण समायुतान् ।
सर्वेषामुत्तमो भूत्वा कुलकेतुर्भविष्यति ॥ ३५।२७६ ॥
श्वेतं वितानं रक्तं वा कृष्णं पीतं च श्यामलम् ।
दुकूलेनाथ पट्टेन तन्तुनान्येन वा कृतम् ॥ ३५।२७७ ॥
यो दद्याद्देवदेवस्य स गच्छेद्वैष्णवं पदम् ।
सोपधानां सतल्पां च खट्वां दद्याच्च योहरेः ॥ ३५।२७८ ॥
कुबेरलोकमासाद्य तत्र सम्मोदते चिरम् ।
आतपत्रं तथा हैमं मुक्तादामविभूषितम् ॥ ३५।२७९ ॥
हैमदण्डयुतं दद्यादिन्द्रलोकं स गच्छति ।
राज्यकामी तु राजा स्यात्सार्वभौमो ऽपि जायते ॥ ३५।२८० ॥
मयूरच्छत्रदानात्तु वारुणं लोकमाप्नुयात् ।
चामरं हेमदण्डं च व्यजनं रत्नभूषितम् ॥ ३५।२८१ ॥
केवलं हेमदण्डं वा भक्त्या शक्त्या च संयुतम् ।
अर्पयेद्धरये यस्तु देवलोके महीयते ॥ ३५।२८२ ॥
मयूरव्यजनं तद्वद्रुक्मदण्डं च शक्तितः ।
भक्त्यैव यो हरेर्दद्याद्वायुलोके महीयते ॥ ३५।२८३ ॥
विमानं हैवसञ्च्छन्नं विष्णोर्यः कारयेन्नरः ।
अशक्यं तत्फलं वक्तुं सर्वैरपि सुरासुरैः ॥ ३५।२८४ ॥
सौवर्मं विष्णुरूपन्तु यो भक्त्यैव तु कारयेत् ।
तस्यापि यत्फलं सर्वमनन्तमिति नश्श्रुतम् ॥ ३५।२८५ ॥
मण्डपं वा प्रपां वाथ रत्नमुक्तोपशोभितम् ।
हेमलम्ब? समायुक्तं हैमस्तम्भपरिष्कृतम् ॥ ३५।२८६ ॥
कल्पयेद्विष्णुसालोक्यं प्राप्नोत्यमरदुर्लभम् ।
हैमं सिंहासनं श्रेष्ठं यो भक्त्यैवार्ऽपयेद्धरेः ॥ ३५।२८७ ॥
सिंहासनं समास्थाय माहेन्द्रीं सम्पदं व्रजेत् ।
हैमीर्याश्शिबिकाश्चैव रङ्गादीन्यश्च कारयेत् ॥ ३५।२८८ ॥
हैमं यानं तथारुह्य विष्णुलोकं स गच्छति ।
अशक्तोदारवान् वाथरङ्गादीन् शिबिकास्तथा ॥ ३५।२८९ ॥
सिंहासनं वा यो दद्यात्सोमलोकं स गच्छति ।
यश्च कांस्यमयीं घण्टांहृद्यध्वनियुतां ददेत् ॥ ३५।२९० ॥
हृद्यवाक्सुस्वरो हृद्यो वाग्मी स तु भवेन्नरः ।
शङ्खभेर्यादिदानेन शक्रलोके स पूज्यते ॥ ३५।२९१ ॥
नृत्तगेयादिभिर्वाद्यैर्घोषणं कारयेत्तु यः ।
नर्तयेदप्सरोभिर्वा गान्धर्वं लोकमाप्नुयात् ॥ ३५।२९२ ॥
वीणावेणुविनादैश्च शक्त्या यः पूजयेद्धरिम् ।
भुक्त्वात्रमहदैश्वर्यं वैष्णवं पदमाप्नुयात् ॥ ३५।२९३ ॥
यद्यद्द्रव्यं मुदा युक्तो दद्यात्तु हरये नरः ।
तदग्रे पूजकेभ्यश्च गुरवे च विशेषतः ॥ ३५।२९४ ॥
तत्प्रीत्यै चेतरेभ्यश्च ब्राह्मणेभ्यो विधानतः ।
समृद्धिं तस्य तस्यैव द्रव्यस्याप्नोत्यसंशयम् ॥ ३५।२९५ ॥
यं कामयित्वा दद्याद्यत्तत्सर्वं स लभेन्नरः ।
यद्यत्कर्म तदर्थं स्यात्परिचर्या च तस्य या ॥ ३५।२९६ ॥
तस्योपचारं यत्कर्म करोति श्रद्धया तु यः ।
सर्वयज्ञफलं प्राप्य नामीप्यं पदमाप्नु यात् ॥ ३५।२९७ ॥
तस्मादत्र प्रतिष्ठाप्य देवदेवस्य मन्दिरम् ।
शक्तिलोभमकृत्वैव विभवानाञ्चभक्तितः ॥ ३५।२९८ ॥
बहुधा बहुलां वृत्तिं कल्पयेच्चेत्तदुत्तमम् ।
अथार्ऽचने फलं वक्ष्ये विशेषेण मधुद्विषः ॥ ३५।२९९ ॥
भक्त्याप्रदक्षिणं कुर्वन्नित्यं विष्ण्वालये नरः ।
सायं प्रातश्च देवेशं नमस्यन्नथ चिन्तयन् ॥ ३५।३०० ॥
यः प्रमामं मुहुः कुर्यात्स तु यज्ञफलं लभेत् ।
उपचारविशेषाणाद्वक्ष्यते फलम् ॥ ३५।३०१ ॥
ध्यानमावाहनं कृत्वा सर्वान् कामानवाप्नुयात् ।
अष्टाङ्गयोगमार्गेण मनसा भावयन् हरिम् ॥ ३५।३०२ ॥
सञ्चिन्त्य मनसा पूर्वं पूतकायो महामनाः ।
यः कुर्यात्पूजनं विष्णोस्तत्र देवो वसेद्ध्रुवम् ॥ ३५।३०३ ॥
अर्चकस्य तपोयोगात्पूजाया श्चातिशायनात् ।
आभिरूप्याच्च बिम्बस्य सन्निधेः प्रोच्यते हरेः ॥ ३५।३०४ ॥
आसनं हरये दत्वा प्रतिष्ठां लभते चिरम् ।
स्वागतेनानुमानेन यः पूजयति माधवम् ॥ ३५।३०५ ॥
सर्वैरनुमतो भूत्वा स्वागतं सो ऽभिपद्यते ।
पाद्यमाचमनीयं च समर्प्य हरये नरः ॥ ३५।३०६ ॥
बाह्यमाभ्यन्तरं यत्तु पापं तेन विमुच्यते ।
नित्यं पुष्पाणि पुण्यानि भक्त्या यस्तु समर्चयेत् ॥ ३५।३०७ ॥
सूर्यकोटिनिभं दिव्यं विमानमधिरुह्यसः ।
विष्णुलोकं गतस्सत्यं विष्णुवन्मोदते चिरम् ॥ ३५।३०८ ॥
देवेशं पुष्पमालाद्यैरलङ्कुर्याच्च यो बुधः ।
तस्यानन्तफलं प्रोक्त मनन्तो भगवान् हरिः ॥ ३५।३०९ ॥
चम्पकाशोकपुन्नाग जातीमलयपङ्कजम् ।
समर्प्य देवदेवाय शुभानामाश्रयो भवेत् ॥ ३५।३१० ॥
दमनोशीरलामज्जा केतक्युत्पलमर्पयेत् ।
मङ्गलं तस्य निश्छिद्रं भवेदेव न संशयः ॥ ३५।३११ ॥
तुलसीमर्पयेद्विद्वान् पादयोर्भक्तितो हरेः ।
स चान न्तफलं प्राप्य मोदते विष्णुसन्नेधौ ॥ ३५।३१२ ॥
सुगन्धिपुष्पदानेन सुगन्धिर्जायते नरः ।
बहुपुष्पप्रदानेन बहुधा तुष्यते?हरिः ॥ ३५।३१३ ॥
बहुजातिसुमानां च दानेन प्रीयते स वै ।
पादयोरर्पणाद्विष्णोः पुष्पाणां सञ्चयं सकृत् ॥ ३५।३१४ ॥
पदेपदे चाश्वमेधफलं प्राप्नोत्यसंशयम् ।
तुलसीं मूर्थ्नि देवस्य समर्प्य मधुविद्विषः ॥ ३५।३१५ ॥
नरः पापाद्विमुच्येत कर्मणा नोपलिप्यते ।
सर्वाङ्गेष्वर्पयन् पुष्पं सर्वगस्य नरो हरेः ॥ ३५।३१६ ॥
सर्वदा सर्वलोकेषु कामचोरो भविष्यति ।
अलङ्कृत्य फलैर्देवं पुष्पार्पणफलं लभेत् ॥ ३५।३१७ ॥
सङ्गन्धचन्दनद्रव्यं कर्पूरादियुतं तथा ।
यथार्हमर्पयेदङ्गेश्लक्ष्णं सर्वाङ्गसुन्दरम् ॥ ३५।३१८ ॥
स नरो विष्णुसालोक्यं प्रयात्यमरदुर्लभम् ।
स्वयमेवाहृतैः पुष्पैः पूजयेद्यस्तु माधवम् ॥ ३५।३१९ ॥
स सर्वान् समवाप्नोति पुष्पार्पणफलादिकान् ।
सर्वेषामपि पुष्पाणां तुलसी प्रीतिदा हरेः ॥ ३५।३२० ॥
तुलसीदलमादाय यत्र गच्छति पूजकः ।
अनुगच्छति तं देवो यथा गोर्वत्सला भृशम् ॥ ३५।३२१ ॥
प्रत्यहं पूजयेद्यस्तु तुलस्या गरुडध्वजम् ।
जन्ममृत्युजराव्याधिमुक्तो मुक्तिमवाप्नुयात् ॥ ३५।३२२ ॥
मणिकाञ्चनपुष्पाणि मुक्तावैदूर्यकानि च ।
तुलसीदलदानस्य कलां नार्ऽहन्ति षोडशीम् ॥ ३५।३२३ ॥
सुमञ्जरीदलैर्युक्तैः कोमलैस्तुलसीदलैः ।
ये कुर्वन्ति हरेः पूजां ते कृतार्थाः कलौ युगे ॥ ३५।३२४ ॥
शुष्कं पर्युषितं वार्ऽद्रं काष्ठं वा तुलसीदलम् ।
अर्चने वासुदेवस्य लक्षकोटिगुणं भवेत् ॥ ३५।३२५ ॥
तुलसीग्रहणं शस्तं विष्णोरर्चनहेतवे ।
वर्ज्यं पर्युषितं पुष्पं न वर्ज्यं तुलसीदलम् ॥ ३५।३२६ ॥
वर्ज्यं पर्युषितं तोयं न वर्ज्यं जाह्नवीजलम् ।
अन्यत्पर्युषितं वर्ज्यं न वर्ज्यं पद्मपुष्पकम् ॥ ३५।३२७ ॥
शुष्कैः पर्युषितैर्वापि काष्ठमूलमृदादिभिः ।
अर्चनाद्वासुदेवस्य मुक्तो भवति पूरुषः ॥ ३५।३२८ ॥
पुष्कराद्यानि तीर्थानि गङ्गाद्यास्सरितस्तथा ।
देवा दिविस्थिता ये वैतिष्ठन्ति तुलसीदले ॥ ३५।३२९ ॥
तावद्गर्जन्ति पुष्पाणि मालत्यादीनि गर्वतः ।
यावन्न प्राप्यते पुण्या तुलसी विष्णुवल्लभा ॥ ३५।३३० ॥
सकृदभ्यर्च्य गोविन्दं तुलस्या चैव मानवः ।
मुक्तिभागी निरातङ्कं कृष्णस्यानुचरो भवेत् ॥ ३५।३३१ ॥
नाक्षतैरर्चयेद्विष्णुं न शम्भुं शङ्खवारिणा ।
नार्चयेद्दूर्वया दुर्गां न तुलस्या सुरान्तरम् ॥ ३५।३३२ ॥
दलालाभे तुलस्यास्तु पत्रैराराधयेद्धरिम् ।
पत्रालाभे शिफाभिर्वा शिफाभावे शिफालवैः ॥ ३५।३३३ ॥
लवालाभे मृदा तत्र भक्तिमानर्चयेद्धरिम् ।
हरेरभ्यर्चनायां च तुलसी साधनं परम् ॥ ३५।३३४ ॥
अलाभे तुलसी च तन्नामग्रहणं परम् ।
भगवानरविन्दाक्षस्सन्तुष्यति सहस्रधा ॥ ३५।३३५ ॥
न पद्मैर्नापि कल्हारैर्न हेमकुसुमैरपि ।
तथा तुष्यति गोविन्दो यथैन तुलसीदलैः ॥ ३५।३३६ ॥
सङ्गृह्य तुलसीं भक्त्या सर्वानिष्ट ।
तुलस्यैव हरेः पूजां ये कुर्वन्ति सदा भुवि ॥ ३५।३३७ ॥
तस्मात्तुलस्या सदृशं स च भूतं न भावि च ।
तुलसीकाननामोदवापिता यत्र मारुताः ॥ ३५।३३८ ॥
न तत्र धरणीभागे चरन्ति यमकिङ्कराः ।
“तुलसी तुलसीऽऽत्येवं नामान्यावर्तयन्तिये ॥ ३५।३३९ ॥
ते विष्णुलोकमासाद्य पश्यन्ति मधुसूदनम् ।
दर्शनाच्छ्रवणात्स्वर्शात्स्मरणात्कीर्तनादपि ॥ ३५।३४० ॥
पुनाति तुलसी पुण्या दशपूर्वान् दशावरान् ।
तुलसीकाननं यत्र यत्र वा हरिकीर्तनम् ॥ ३५।३४१ ॥
तत्रैवास्ते हरिश्श्रीमान् शङ्खचक्रगदायुधः ।
यः पूजयेत्फलैर्विष्णुं नुपक्वैरमृतोपमैः ॥ ३५।३४२ ॥
पुण्यवृक्षसमुद्भूतैस्तत्फलं केन वर्ण्यते ।
चन्दनागुरुकोष्ठ्वाद्यैर्भूपमाघ्रापयेच्चयः ॥ ३५।३४३ ॥
सूर्यलोकं स गत्वैव याति विष्णोः परं पदम् ।
घृतेन कापिलेनैव दृढवर्तियुतं तु यः ॥ ३५।३४४ ॥
दर्शयेद्देवदेवस्य दीपं दृष्टिमनोहरम् ।
सो ऽन्धं नैव प्रविशति नरकं नरपुङ्गवः ॥ ३५।३४५ ॥
यस्तु तैलेन सन्दीप्तं दर्शयेद्दीपमुज्ज्वलम् ।
विमानमतिविद्योति यात्यारुह्य तमःपरम् ॥ ३५।३४६ ॥
कर्बूरदीपं यो भक्त्या दर्शयेद्धरये नरः ।
तस्य पापानि नश्यन्ति निर्लेपस्स भविष्यति ॥ ३५।३४७ ॥
विधिनार्ऽघ्यं हरेर्दद्यादष्ठाङ्गं भक्तितो नरः ।
चन्द्रलोकं स गत्वैव याति विष्णोः परं पदम् ॥ ३५।३४८ ॥
सुगन्धि शुभमुत्पूतं स्नानतोयं च यो ददेत् ।
देवेशस्य विशेषण स भवेद्वीतकल्मषः ॥ ३५।३४९ ॥
ततश्च वारुणं लोकं प्राप्य तत्रैव मोदते ।
प्लोतवस्त्रोत्तरीयाणि विशुद्धानि मृदूनि च ॥ ३५।३५० ॥
देवदेवस्य दत्वा तु सौम्यं लोकमवाप्नुयात् ।
कार्पासमथ च क्षौमं कौशेयं राङ्कवं तथा ॥ ३५।३५१ ॥
यथाशक्ति समर्प्यैव फलं चानन्तमश्नुते ।
कार्पासाद्राङ्गवं तस्मात्कौ शेयं क्षौममित्यपि ॥ ३५।३५२ ॥
प्रशस्तं कथितं वस्त्रं यथा शक्त्यनुरूपतः ।
सौवर्णाभरणान्यत्र मुक्तामणिकृतानि वा ॥ ३५।३५३ ॥
अर्पयेद्देवदेवस्य भवेद्भूमिपतिस्स हि ।
जाम्बूनदं शातकुम्भं हाटकं वैणवं तथा ॥ ३५।३५४ ॥
श्रुङ्गी च शुक्तिजं चैव जातरूपमतः परम् ।
रसविद्धं तथा प्रोक्तमाकरोद्गतमित्यपि ॥ ३५।३५५ ॥
प्रोक्तं बहुविधं हेम पूर्वात्पूर्वात्परं परम् ।
प्रत्युप्तानि विशेषेण रत्नैर्नावाविधैर्हरेः ॥ ३५।३५६ ॥
भूषणान्यर्पयेद्भक्त्या मित्राण्यस्य नवग्रहाः ।
राजश्रियं च भुक्त्वा न्ते विष्णुलोकं स गच्छति ॥ ३५।३५७ ॥
उपवीतं तु यो दद्यात्सौवर्णैस्तन्तुभिः कृताम् ।
द्विजोत्तमस्स्याद्विज्ञानी ब्रह्मलोकमवाप्नुयात् ॥ ३५।३५८ ॥
सालग्रामैश्च बहुभिर्निर्मितां मालिकां तु यः ।
अर्पयेद्देवदेवस्य स विष्णोर्याति सन्निधिम् ॥ ३५।३५९ ॥
लक्ष्मीः प्रियतमा विष्णोस्सा हि नित्यानपायिनी ।
स्वसङ्काल्पानुविद्धा च शक्तिस्सर्वात्मिका परा ॥ ३५।३६० ॥
प्रकृतेर्मूलभूता च स्वामिनी जगतां सताम् ।
लक्ष्मीप्रतिकृतिं कृत्वा मणिमुक्तादिभिर्मुना ॥ ३५।३६१ ॥
आबध्य मालिकायां यो देवेशाय समर्पयेत् ।
तस्य प्रसन्नौ जायेते दम्पती जगतः पती ॥ ३५।३६२ ॥
मात्रां च देवदेस्य दत्वा हस्ते विशेषतः ।
सर्वान् कामानवाप्नोति चरांशस्तर्पितो हरेः ॥ ३५।३६३ ॥
मधुपर्कं हरेर्दद्याद्भक्त्या प्रीतिकरं हरेः ।
विरजाम्ऽ बरसंवीतश्शशाङ्कधवलो मुदा ॥ ३५।३६४ ॥
चन्द्रलोकाधिपो भूत्वा यायाद्विष्णुपदं महत् ।
हविर्नि वेद्य देवस्य प्रतिष्ठाफलमश्नुते ॥ ३५।३६५ ॥
प्रभूतं विनिवेद्यैव जीर्णोद्धारफलं तथा ।
पायसं विनिदेद्यैव हरेर्भक्त्या विशेषतः ॥ ३५।३६६ ॥
पयोह्रदैश्च पितरस्तृप्तिमायान्ति तस्यतु ।
कृसरं विनिवेद्यैव देवस्य मुदितो नरः ॥ ३५।३६७ ॥
अक्षयं प्रतिपद्येत स्वगृहे ऽन्नं चिरं चिरम् ।
गौल्यं निवेद्य देवस्य प्राप्नोति गुडपर्वतान् ॥ ३५।३६८ ॥
मुद्गान्नस्य प्रदानेन मुद्गराशिं समाप्नुयात् ।
यवोदनस्य दोनेन नीरोगो भवति ध्रुवम् ॥ ३५।३६९ ॥
शुद्धान्नस्य प्रदानेन त्रिशुद्धा भवति प्रजा ।
अपूपादिप्रदानेन मनस्वी जायते नरः ॥ ३५।३७० ॥
उपदंशादिदानेन नोपदंशो भविष्यति? ।
सुगन्धि स्वादु शुद्धं च पानीयं यो हरेर्ददेत् ॥ ३५।३७१ ॥
हविर्दानफलस्यार्धं फलं सम्यक् समश्नुते ।
कदल्या नारिकेलस्य चूतस्य पनसस्य च ॥ ३५।३७२ ॥
फलानि च नुपक्वानि भक्त्या शुद्धानि यो ददेत् ।
हविर्दानाच्चतुर्भागं फलं सो ऽपि समाप्नुयात् ॥ ३५।३७३ ॥
कर्पूरैलालवङ्गैश्च तथा जातीफलादिभिः ।
मातुलुङ्गफलैश्शुद्धैस्सुपक्वैश्च युतं तथा ॥ ३५।३७४ ॥
ताम्बूलं क्रमुकैर्युक्तं मुखवासं च यो ददेत् ।
सर्वैश्वर्यमवाप्नोति विष्णुलोकं च गच्छति ॥ ३५।३७५ ॥
विधिना बलिमाराध्य कारयेद्यः प्रदक्षिणम् ।
बलं बलवतां लब्ध्वा विष्णुलोकं स गच्छति ॥ ३५।३७६ ॥
बलिं सेवेत यो भक्त्या सो ऽपि यज्ञफलं लभेत् ।
देवस्य मण्डपं कुर्याद्गन्धपुष्पैः प्रपान्तुवा ॥ ३५।३७७ ॥
सर्वैश्वर्यमवाप्यैव नित्यपुष्पफलं व्रजेत् ।
विष्णोः कथास्तु सङ्कीर्त्यस्तोत्रैः स्तुत्वा च वैष्णवैः ॥ ३५।३७८ ॥
श्रुत्वाभक्त्या हरिं ध्यायन् विष्णुलोके महीयते ।
सौम्यान् पुण्यानिमान् विष्णोश्चतुरो ऽप्यर्चनाविधीन् ॥ ३५।३७९ ॥
श्रावयेद्यो बुधो भक्त्या तथा यश्श्रुणुयादपि ।
सर्वपापविनिर्मुक्ता वैष्णवं पदमाप्नुयुः ॥ ३५।३८० ॥
अथोत्सवादिकरणे फलं वक्ष्ये मधुद्विषः ।
सकामानां फलं काम्यमकामानां परं पदम् ॥ ३५।३८१ ॥
उत्सवं तु प्रवक्ष्यन्ति देवदेवार्चनां सुराः ।
उत्साह उत्सवः प्रोक्तो मनुष्याणां विशेषेतः ॥ ३५।३८२ ॥
उदित्युत्कृष्टशब्दो ऽयं सवो यज्ञ उदाहृतः ।
तस्मादुत्तमयज्ञत्वादुत्सवः परिभाष्यते ॥ ३५।३८३ ॥
वाजिमेधास्तयागानां तस्माद्देवोत्सवो वरः ।
उत्सवं देवदेवस्य यः कुर्यात्स्वकुलं स्वकम् ॥ ३५।३८४ ॥
उत्तारयन् स्वयं विष्णोस्स याति परमं पदम् ।
सवादुत्तारणं यस्मादुत्सवः परिकीर्त्यते ॥ ३५।३८५ ॥
स यज्ञो वो नरान् युष्मानुत्तारयति निश्चयम् ।
इति वेदा वदन्तीति स उत्सव उदीर्य ते ॥ ३५।३८६ ॥
वाजीमेधसहस्रेण यजतो यत्फलं भवेत् ।
यश्चोत्सवेन यजते तयोस्तुल्यं फलं न्मृतम् ॥ ३५।३८७ ॥
यागानामपि सर्वेषां फलमुत्सवकर्मणा ।
देवस्याश्नुवते सर्वं ये यजन्ते संशयः ॥ ३५।३८८ ॥
सवानुत्क्रमते यस्मात्तस्मादुत्सव उछ्यते ।
उपकुर्वन्ति ये मर्त्या देवस्योत्सवकर्मणि ॥ ३५।३८९ ॥
कर्माणा मनसा वाचा ते ऽपि यान्ति फलं बहु ।
ग्रामे वा रगरे वऽपि पत्तने वा महोत्सवः ॥ ३५।३९० ॥
यत्र प्रवर्तते विष्णोस्सम्पदस्सन्ति तत्र वै ।
यत्र देशे जनपदे राष्ट्रे वा प्युत्सवो हरेः ॥ ३५।३९१ ॥
नापमृत्युभयं तत्र नैनावग्रहसम्भवः ।
नैव चोराद्युपहतिर्न तापत्रयसङ्गतिः ॥ ३५।३९२ ॥
धर्मश्चतुष्पाद्वर्तेत कलौ तत्रादिमो युगः ।
धार्मिकश्च भवेद्राजा प्रजा धर्मपरायणाः ॥ ३५।३९३ ॥
भवन्ति सुखिनस्सर्वे सर्वदुःखविवर्जिताः ।
महोत्सवे वर्तमाने यदर्थिभ्यः प्रदीयते ॥ ३५।३९४ ॥
पानीयमन्नं वस्त्रं वा तत्सहस्रगुणं भवेत् ।
पुष्पमुलफलैरिज्या देवस्याभरणादिकैः ॥ ३५।३९५ ॥
क्रियमाणा यथाशक्ति नित्यानन्त्याय कल्पते ।
सेवन्ते तत्र ये देवमहर्निशमतन्द्रिताः ॥ ३५।३९६ ॥
तेषां पुण्यफलं वक्तुं नालं देवास्सहासुराः ।
आलेपनं मार्जनं च रजः प्रशमनं तथा ॥ ३५।३९७ ॥
वारिभीर्दीपिकारोपं क्ष्वेलनास्फोटनादिकम् ।
कुर्वन्तिये ब्राह्मलोकं प्रयान्त्यमरदुर्लभम् ॥ ३५।३९८ ॥
यानं वहन्ति ये विप्रास्ते यान्ति ब्रह्मणः पदम् ।
रथं वहन्ति ये चाश्वास्ते ऽपि यान्तिसुरालयम् ॥ ३५।३९९ ॥
छत्रादिधारिणश्चापि मोदन्ते दिवि मानवाः ।
आचार्याश्चार्चकाश्चैव तथैव परिचारकाः ॥ ३५।४०० ॥
उत्सवे ऽधिकृता विष्णोः प्राप्नुवन्ति यथेप्सितम् ।
ऋचो यजूंषि सामानि ये तत्राधीयते जनाः ॥ ३५।४०१ ॥
ते परे व्योम्नि देवस्य पार्श्वे वर्तन्ति निस्स्पृहाः ।
सर्वशान्तिकरं सर्वदुःखोत्सादनमुत्तमम् ॥ ३५।४०२ ॥
राज्ञो राष्ट्रस्य सुखदमायुरारोग्य वर्धनम् ।
प्रजानां वासुदेवस्य कल्याणाराधनं महत् ॥ ३५।४०३ ॥
इमं देवादयस्सर्वे विष्णोरुत्सवमुत्तमम् ।
कृत्वा शाश्वतिकं स्थानं प्राप्नुवन्त्यतिदुर्लभम् ॥ ३५।४०४ ॥
अथ वक्ष्ये विशेषेण महास्नपनजं फलम् ।
येन द्रव्येण देवेशं स्नापयेद्यस्तुभक्तितः ॥ ३५।४०५ ॥
तद्द्रव्यं वर्थते तस्य नश्यं त्येवाशुभानि तु ।
राज्ञो राष्ट्रस्य तद्द्रव्यं समृद्ध्यैव भविष्यति ॥ ३५।४०६ ॥
अशुभानि विनश्यन्ति शूभानि प्रभवन्ति च ।
निर्माति यःप्रपां विष्णोर्देवस्य न्नपनाय वै ॥ ३५।४०७ ॥
तस्य निर्मीयते गेहस्स्वर्गे स्वर्गनिवासिभिः ।
मृद्भिस्संस्नापनाद्भूमिस्सर्वसस्यान्विता भवेत् ॥ ३५।४०८ ॥
नगैः प्रदक्षिणादेव गोत्रस्य स्थितिराप्यते ।
धान्यैस्संस्नापनाद्विष्णोर्धान्यानां वृद्धिराप्यते ॥ ३५।४०९ ॥
अङ्कुरैरर्चनाद्विष्णोः प्रजावृद्धिर्भविष्यति ।
मङ्गलैः पूजनात्सर्वमङ्गलानि भवन्ति वै ॥ ३५।४१० ॥
स्नापनात्पञ्चभिर्गव्यैः पापं सश्यति सर्वधा ।
घृतेन स्नापनाद्भुयात्सामाध्ययनजं फलम् ॥ ३५।४११ ॥
क्षीरेण स्नापयेद्विष्णुं गाश्च क्षीरवतीरियात् ।
मधुना स्नापयेद्विष्णुं मधुस्यन्दि भवेद्वचः ॥ ३५।४१२ ॥
दध्ना संस्नापयेद्देवमच्छं तस्य भवेद्यशः ।
गन्धोदस्नापनाद्विष्णोस्सर्वसम्पद्वृतोभवेत् ॥ ३५।४१३ ॥
स्नापयेदक्षतोदैस्तु प्रजा तस्याक्षता भवेत् ।
फलोदकस्नापनेन शुभानीयात्फलानि तु ॥ ३५।४१४ ॥
स्नापनात्तु कुशोदेन ब्रह्मवर्चसमाप्नुयात् ।
रत्नोदकस्नापनेन मणिरत्नादि वर्धयेत् ॥ ३५।४१५ ॥
जप्योदकस्य स्नानेन सर्वजापफलं लभेत् ।
भवन्त्योषधयस्सर्वास्सर्वौषध्युदकाप्लवात् ॥ ३५।४१६ ॥
पुण्यपुष्पार्चनेनैव पुण्यवान् जायते नरः ।
चूर्णैश्श्रीवेष्टकादीनीमर्पणाद्वृद्धिरायुषः ॥ ३५।४१७ ॥
उद्वर्तनात्कषायेण चूर्णेनावाप्यते रुचिः ।
तीर्थोदस्नापनेनैव तीर्थयात्राफलं भवेत् ॥ ३५।४१८ ॥
वनौषधीभिस्संस्पर्शाद्भवेन्नित्यमरोगता ।
हारिद्रचूर्णस्नानेन प्रीतो भवति चाच्युतः ॥ ३५।४१९ ॥
मार्जनात्सर्वगन्धैश्च श्रीर्भवत्यचला चला ।
मार्जनान्मूलगन्धैश्च कुलमेधेत नित्यशः ॥ ३५।४२० ॥
धातुभिश्चाप्यलङ्काराद्धातुवृद्धिर्भविष्यति ।
अन्यैरनुक्तैर्वा यस्तुद्रव्यैः स्नापनकर्मणि ॥ ३५।४२१ ॥
उपतिष्ठेज्जगद्योनिं फलं प्राप्नोति विस्तृतम् ।
यस्तु कुर्याज्जलद्रोणीं स्नानपीठं च शार्ङ्गिणः ॥ ३५।४२२ ॥
स सर्वैः पूज्ययानन्तु पीठे चात्युन्न ते वसेत् ।
एवं यस्स्नपनं विष्णोः कारयेच्छक्तितो नरः ॥ ३५।४२३ ॥
यथोक्तानीह लब्ध्वैवफलानि सुचिरं भुवि ।
अन्ते विमासमारुह्य हैमं देवैः परीवृतः ॥ ३५।४२४ ॥
किन्नरैरप्सरोभिश्च नृत्तैर्गेयैश्च तर्पितः ।
यक्षैर्वृतो ऽथ गन्धर्वैस्त्सूयामानो मुदान्वितः ॥ ३५।४२५ ॥
सर्वलोकात्परं पुण्यं वैकुण्ठं लोकमाप्नुयात् ।
देवदेवस्य विष्णोस्तु स्नपनं भक्तिमांस्तु यः ॥ ३५।४२६ ॥
सेवेत सो ऽपि पाप्मभ्यो मुच्यते नात्र संशयः ।
स्नापनान्तेतु देवेशस्योत्सवं यश्च कारयेत् ॥ ३५।४२७ ॥
प्रजावृद्धिं श्रियं स्फारां समाप्नोति विशेषतः ।
उत्सवं सेवतेयस्तु सो ऽपि यज्ञफलं लभेत् ॥ ३५।४२८ ॥
विष्णुपञ्चदिने यस्तु देवेशं स्नापयेत्प्रभुम् ।
तस्य स्यान्महती सम्पत्पशुपुत्रादि सम्मिता ॥ ३५।४२९ ॥
ग्रहणे विषुवे तद्वत्सङ्क्रमादिषु चैवहि ।
अन्येष्वपि च पुण्येषु कार्येषु जगतः प्रभुम् ॥ ३५।४३० ॥
स्नापयेद्यश्च सेवेत फलमाप्नोति सो ऽपि सः ।
यः कुर्याद्वैष्णवं धाम भक्तिश्रद्धासमन्वितः ॥ ३५।४३१ ॥
खण्डिते स्फटिते धाम्नि दूषिते च सूधादिभिः ।
समादध्यात्पुनर्धाम स लोकं याति वैष्णवं ॥ ३५।४३२ ॥
चोरैरपहृते बिम्बेयः कुर्यात्प्रतिमां पुनः ।
स्थापयेद्भक्ति युक्तश्च स याति परमां गतिम् ॥ ३५।४३३ ॥
प्रमादात्पतिते बिम्बे स्फुटते दूषिते ऽथ वा ।
यः सन्धाय पुनः कुर्यात्प्रितिष्ठां पूर्ववन्मुदा ॥ ३५।४३४ ॥
तस्य तष्यति देवेशो वरमिष्टं प्रदास्यति ।
शीर्णे जीर्णे तथा भिन्ने भूषणादौ विशेषतः ॥ ३५।४३५ ॥
नवीकृत्यार्ऽपयेद्यस्तु तस्य पापं प्रणश्यति ।
यानानि रथङ्गादीन्यालोक्य शिथिलानि वै ॥ ३५।४३६ ॥
समीकृत्य तु योदद्यात्तानि भक्त्या हरेन्नरः ।
तस्य कायकृतं पापं तत्क्षणादेव नश्यति ॥ ३५।४३७ ॥
यस्तु वीक्ष्य हरेरर्चां पतमानामनादरात् ।
नर्धयेद्धनदानेन तस्य लोका मधुद्विषः ॥ ३५।४३८ ॥
सीदतां वृत्तिहीनानां देवस्याघ्रे पदार्थिनाम् ।
यो दद्यादुचितां वृत्तिं स यमं नोपसर्पति ॥ ३५।४३९ ॥
यस्तु देवोत्सवादीनि कारयेद्भक्तिसंयुतः ।
लुप्तप्रायाणि तस्या ऽऽपि भवेत्फलमन न्तकम् ॥ ३५।४४० ॥
यः कुर्याद्देवतागारे लुप्तकार्याणि सत्तमः ।
न तस्य कृतकृत्यत्वादमात्या यमकिङ्कराः ॥ ३५।४४१ ॥
देवार्धे ब्राह्मणस्यार्ऽथे यस्त्यजेत्तनुमुत्तमाम् ।
तस्य वासो भवेत्स्वर्गे चावदिद्राश्च तुर्धश ॥ ३५।४४२ ॥
देवार्थे ब्राह्मणस्यार्ऽधे सर्वस्वं स्वन्त्यजेत्तु यः ।
तस्य तुष्यति देवेशस्स तु स्वाराज्यमश्नु ते ॥ ३५।४४३ ॥
प्रायश्चित्तनिमित्तानि सम्भूतानितु धामनि ।
दृष्ट्वा च श्रद्धया युक्तोयो देवमुपतिष्ठते ॥ ३५।४४४ ॥
तस्य तुष्यति देवेशः प्र हृष्टस्सम्प्रसीदति ।
प्रायश्चित्तान्यशेषाणि पापौघध्वंसनाय वै ॥ ३५।४४५ ॥
निर्दिष्टानि पुराकल्पे ब्रह्मणा परमेष्ठिना ।
लोकानुग्रहलेतोर्वै पवृत्तो गुरुरत्वरः ॥ ३५।४४६ ॥
नराणां सीदतां दृष्ट्वा चित्तवृत्तीस्सुदुर्मलाः ।
प्रायश्चित्तविधानं तु प्रोवाच जगतां हितः ॥ ३५।४४७ ॥
न कश्चिन्नाचरेत्कर्म शास्त्रोक्तं सकलं क्रमात् ।
तस्मात्सर्वप्रयत्नेन प्रायश्चित्तं समाचरेत् ॥ ३५।४४८ ॥
प्रायश्चित्तं तु कृत्वैव य उक्तामाचरेत्क्रियाम् ।
तस्य स्याद्द्विगुणं पुण्यं मतस्स्यादनुपालनम् ॥ ३५।४४९ ॥
भक्तिश्रद्धान्वितो यस्तु कुर्याद्वा कारयेत्क्रमात् ।
देवेशस्य प्रतिष्ठादि प्रायश्चित्तान्त सत्क्रियाः ॥ ३५।४५० ॥
तस्य पुण्यफलं वक्तुं न शक्यं त्रिदशैरपि ।
इह लोके ऽखिलान् कामाननुभूय सुखं चिरात् ॥ ३५।४५१ ॥
देहन्तेजायते सद्यश्शङ्खचक्रगदाधरः ।
श्रीवत्साङ्कश्चतुर्बाहुश्श्यामलाङ्गस्सु सुन्दरः ॥ ३५।४५२ ॥
गगने गरुडारूढस्सर्व देवनमस्कृतः ।
अदित्यमण्डलं भित्वा गत्वा शुभ्रांशुमण्डलम् ॥ ३५।४५३ ॥
ततो ऽवतीर्य निखिलान् लोकानपि यथाक्रमम् ।
सत्यस्थं सत्यरोकस्थं जगतः प्रभवाप्ययम् ॥ ३५।४५४ ॥
तथाशेषविशेषं च नित्यानन्दं निरञ्जनम् ।
सुधारससमास्वादतुलितं नित्यतृप्तिदम् ॥ ३५।४५५ ॥
शाश्वतं तत्परञ्ज्योतिः प्रविशेन्नात्र संशयः ।
अथ वक्ष्ये विशेषेण क्रियालोपे च यत्फलम् ॥ ३५।४५६ ॥
निर्मातुमालयं यस्तु सङ्कल्प्य मतिमान्नरः ।
परेणेद्बोधितो भूयस्तस्मा दर्थान्नि वर्तते ॥ ३५।४५७ ॥
तावुभौ नरकं प्रेत्य भवेतां दुःखभागिनौ ।
कर्ता कारयिता चैव प्रेरकश्चानुमोदकः ॥ ३५।४५८ ॥
सुकृते दुष्कृते चैव वदन्ति समभागिनः ।
निर्मातुमिच्छया धाम देवस्य मधुविद्विषः ॥ ३५।४५९ ॥
स्वयं निवर्तते यस्तु तस्य स्यान्महती विपत् ।
सङ्कल्प्य देवतागारं निर्मातुं यो विशेषतः ॥ ३५।४६० ॥
आचार्यं वृणुयान्नो चेत्तस्य कार्यं प्रणश्यति ।
आचार्यस्सततं गोप्ता आचार्यस्तु पिता स्मृतः ॥ ३५।४६१ ॥
आचार्यस्सर्वमेवेति यो मन्येत स मन्यते ।
आरभ्य गेहनिर्माणं देवस्य जगतः पतेः ॥ ३५।४६२ ॥
असमाप्य तु यो मूढो निवर्ते प्रविलोभतः ।
तस्य सम्पद्विनाशस्स्यात् क्रुद्धो भवति चाव्ययः ॥ ३५।४६३ ॥
प्रवृत्तायां प्रतिष्ठायां येन केनापि हेतुना ।
यः कुर्यादन्तरायं तु तस्य पुण्यं विनश्यति ॥ ३५।४६४ ॥
येन विघ्नस्तदा भूयात्तं हत्वापि न दोषभाक् ।
यस्तु शास्त्रोदितं कर्म कुर्वन्तं च पदार्थिनम् ॥ ३५।४६५ ॥
शिल्पिनं विवदेन्मूढस्तस्य नास्तिफलं क्वचित् ।
विवदेत य उच्छास्त्रमाचार्येण पदार्थिना ॥ ३५।४६६ ॥
तस्याशुभानि भूयांसि भवेयुर्नात्र संशयः ।
अध्वरे वर्तमाने तु सम्भारान् शास्त्रचोदितान् ॥ ३५।४६७ ॥
यो न दद्यात्स पापीयान् नाप्नुयात् कर्मजं फलम् ।
प्रतिष्ठाप्य हरेर्बिम्बं यो न सत्कुरुते गुरुम् ॥ ३५।४६८ ॥
अन्यान्पदार्थिनश्चापि स किञ्चिन्नाप्नुयात्फलम् ।
प्रतिष्ठान्ते तथा नित्यमविच्छिन्नं तु पूजितुम् ॥ ३५।४६९ ॥
अर्चकं वृणुयान्नो चेद्यजमानो विनश्यति ।
अर्चकं च तथाचार्यमन्यांश्चापि पदार्थिनः ॥ ३५।४७० ॥
कालावधिं विनिश्चित्य यः कर्मसु नियोजयेत् ।
स भवेद्ब्रह्महा चैव धनं तस्य विलुप्यति ॥ ३५।४७१ ॥
दायर्हां कायेद्व्रत्तिमर्चकस्य न चेद्यदि ।
यजमानो विपद्येत देवावासो नशिष्यति ॥ ३५।४७२ ॥
आचार्यमर्चकं कुर्यात् स्वस्थानाद्यो ऽवरोपितम् ।
अन्यं वा योजयेत्तत्र तावुभौ विनशिष्यतः ॥ ३५।४७३ ॥
आपद्यपि च कष्ठायां न कदाप्यन्यमर्चकम् ।
पूर्वावरोपणादेव नियुञ्ज्यात्तु कथं चन ॥ ३५।४७४ ॥
आद्यार्चकस्य वंशेतु जायन्ते ये महाशयाः ।
सर्वे च क्रमशः पूजां कर्तुमर्हन्ति ते यतः ॥ ३५।४७५ ॥
पित्र्यं भवति देवस्य दायाद्यं पूजनं स्वतः ।
तस्मात्तद्वंशजान् हित्वा यद्यन्यैः कारितार्ऽचना ॥ ३५।४७६ ॥
ब्रह्महत्याभवेत्तस्य तत्बूजा निष्फला भवेत् ।
यस्तुदद्यादर्चकाय भृत्यर्थं के वलं धनम् ॥ ३५।४७७ ॥
अन्यद्वाप्यस्थिरं वस्तु न हरिस्तेन तुष्यति ।
लोभान्मोहादथाज्ञानाद्य आदत्तेर्ऽचको धनम् ॥ ३५।४७८ ॥
वेतनार्धं तथा दद्याद्यजमानो विमूढधीः ।
उभौतौनरकं यातो यादच्चन्द्र दिवाकरम् ॥ ३५।४७९ ॥
वित्तार्थं पूजयेद्यस्तु नियम्याप्यवधिं हरिम् ।
सवैदेवलको नाम सर्वकर्म बहिर्कृतः ॥ ३५।४८० ॥
अदत्वा वसुधामग्रे पूजनार्थ मथार्चके ।
निर्माति ब्राह्मणं भूयो यजमानस्तु देवलम् ॥ ३५।४८१ ॥
नह्यस्मात्पातकं किञ्चि द्ब्राह्मणाया ऽपराध्यति ।
अलब्ध्वादेवतागारनिर्माणसदृशं फलम् ॥ ३५।४८२ ॥
ब्रह्मघ्नत्वमनुप्राप्य विनश्यति न संशयः ।
हर्ता हारयिता भूमेर्दत्तस्य दनुशासिनः ॥ ३५।४८३ ॥
तत्किङ्कराणामन्येषां यो मूढस्स तमोवृतः ।
सम्बद्धो वारुणैः पाशैः कृष्यमाणस्समन्ततः ॥ ३५।४८४ ॥
दुःखितो नरके भूयस्तिर्यग्योनिषु जायते ।
स्वदत्तां वरदत्तां वा यो हरेत वसुन्धराम् ॥ ३५।४८५ ॥
षष्टिर्वर्षसहस्राणि विष्ठायां जायते कृमिः ।
स्वदत्ताद्द्विगुणं पुण्यं परदत्तानु पालनम् ॥ ३५।४८६ ॥
परदत्तापहारेण स्वदत्तं निष्पलं भवेत् ।
अन्यायेन हृता भूमिरन्यायेनैन हारिता ॥ ३५।४८७ ॥
हरतो हारकस्यापि दहत्यासप्तमं कुलम् ।
पञ्च कन्यानृते हन्ति दश हन्ति गवानृते ॥ ३५।४८८ ॥
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ।
हन्ति जातानजातांश्च हिरण्यार्ऽधे ऽनृतं वदन् ॥ ३५।४८९ ॥
सर्वं भूम्यनृते हन्ति नो ब्रूयादनृतं क्वचित् ।
विन्ध्याटवीष्वतोयासु शुष्ककोजरवासिनः ॥ ३५।४९० ॥
कृष्णसर्पाः प्रजायन्ते देवब्रह्मस्वहारिणः ।
तटाकानां सहस्रेण हयमेधशतेन च ॥ ३५।४९१ ॥
गवां कोटिप्रदानेन भूमिहर्तान शुद्ध्यति ।
ब्रह्मस्वं ब्रह्महत्या च दरिद्रस्य च यद्धनम् ॥ ३५।४९२ ॥
गुरुमित्रधनं चैव स्वर्गस्थमपि पातयेत् ।
ब्रह्मस्वे नो मतिं कुर्यात्प्राणैः कण्ठगतैरपि ॥ ३५।४९३ ॥
अग्निदग्धाः प्ररोहान्ति ब्रह्मदग्धो न रोहति ।
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ॥ ३५।४९४ ॥
विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम् ।
ब्रह्मस्वं प्रणयाद्भुक्तं दहत्यासप्तमं कुलम् ॥ ३५।४९५ ॥
विक्रमेण तु भोक्तॄणां दशपूर्वान् दशावरान् ।
लोहचूर्णांश्च चूर्णांश्च विषं वा जरयेत्पुमान् ॥ ३५।४९६ ॥
ब्रह्मस्वं त्रिषु लोकेषु कःपुमान् जरयिष्यति ।
देवस्वं ब्राह्मणस्वं च लोभेनो पहिनस्ति यः ॥ ३५।४९७ ॥
स पापात्तु परेलोके गृध्रोच्छिष्टेन जीवति ।
देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च ॥ ३५।४९८ ॥
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ।
सहस्रसम्मिता धेनुरनड्वान् दशधेनवः ॥ ३५।४९९ ॥
दशावड्वत्समं यानं दशयानसमो हयः ।
दशवाजिसमा कन्या भूमिदानेन सा समा ॥ ३५।५०० ॥
षष्टिर्वर्ष सहस्राणि स्वर्गे तिष्ठति भूमिधः ।
आच्छेत्ताचानुमन्ता च तान्येन नरके वसेत् ॥ ३५।५०१ ॥
पतन्त्यश्रूणि रुदतां दीनानामवसीदताम् ।
ब्राह्मणानां हृते क्षेत्रे हन्यादासप्तमं कुलम् ॥ ३५।५०२ ॥
साधुभ्यो भूमिमाक्षिप्य न भूमिं विन्दतेक्वचित् ।
ददद्धि भूमिं साधुभ्यो विन्दते फूमिमुत्तमाम् ॥ ३५।५०३ ॥
अर्चकः प्रणिधिर्यस्माद्देवेशस्य जगत्पतेः ।
स देवो ब्राह्मणस्साधुर्महद्भूतं प्रचक्षते ॥ ३५।५०४ ॥
तस्मात्तदर्पितां वृत्तिं नैव शङ्केत बुद्धिमान् ।
तदर्चकार्पितां भूमिं यो हरेत यतेत वा ॥ ३५।५०५ ॥
किं पुनस्तस्य वक्तव्यं न भवेत्तस्य निष्कृतिः ।
न वाचा शक्यते वक्तुं गतिस्तस्य दुरात्मनः ॥ ३५।५०६ ॥
म्रियेत सद्य एवासौ जायते ऽथ पुनः पुनः ।
न तस्य शरणं क्वापि लभ्यते पापकर्मणः ॥ ३५।५०७ ॥
देवस्ये ऽपि मतिं कुर्यात्प्रह्मस्वं न हरेत्क्वचित् ।
प्रासादमण्डपादीनां भोक्तारः कैटभद्विषः ॥ ३५।५०८ ॥
तेमूढमतयः प्रेत्य नरकेषु निरत्ययाः ।
वसन्ति भूयो जायन्ते नीचयोनिषु च ध्रुवम् ॥ ३५।५०९ ॥
भूषणच्छत्रवस्त्रादिहर्ता यो दुर्मतिर्नरः ।
गले निगलितः पाशैः कृष्यते निरयेषु सः ॥ ३५।५१० ॥
वाहनानि च यानानि वैष्णवानि हरन्तिये ।
मोहाद्वसन्ति ते दीर्घ मङ्गारनरकोदरे ॥ ३५।५११ ॥
प्रेत्य भूयो ऽपि जायन्ते गर्दभोष्ट्रादियोनिषु ।
चन्दनादीनि वस्तूनि पुष्पाणि सुरभीण्यपि ॥ ३५।५१२ ॥
व्रजन्ति स्वानि विष्णोस्ते व्रजन्ते याम्ययातनाम्? ।
अनुभूय पुनर्भूयो जायन्ते गन्धमूषिकाः ॥ ३५।५१३ ॥
उपानत्पादुकापीठवाहनानि हरन्तिये ।
उषित्वा नरकेष्वेते जायन्ते फणिनां कुले ॥ ३५।५१४ ॥
गोभूहिरण्यवस्त्रादि धनं विष्णोः परिग्रहम् ।
आहृत्य ये ऽनुभुञ्जन्ते नरकेषु दुरत्ययाः ॥ ३५।५१५ ॥
उषित्वा प्रेत्य भूयो ऽपि जायन्ते श्वादियोनिषु ।
सर्वेषु नरकेष्वेवं देवब्रह्मस्वहारिणः ॥ ३५।५१६ ॥
नसन्ति मूढमतयो याम्यदुःखेषु यातनाः ।
वासुदेवप्रतिकृतेर्भेदनच्छेदनादिषु ॥ ३५।५१७ ॥
विक्रीडादीनियान्येषु यतन्ते पापचेतसः ।
एते यान्ति क्रमात्सर्वास्नरकान् भृशदारुणान् ॥ ३५।५१८ ॥
अन्येष्वप्यपचारेषु स्थूलसूक्ष्मेषु मानवाः ।
कृतिनः प्रेत्य नरके पच्यन्ते दुःखभागिनः ॥ ३५।५१९ ॥
अथनित्यार्चनायां वै देवेशस्य विशेषतः ।
उपचारादिहानो तु पापस्येदं फलं भवेत् ॥ ३५।५२० ॥
आसनस्य विहीने तु धर्मनाशो भविष्यति ।
स्वागते बुद्धिनाशस्स्यान्मूकत्वमनुमानके ॥ ३५।५२१ ॥
विहीने पादुकायास्तु पङ्गुत्वं सम्भवत्युत ।
पाद्यहीने महान्रोगः क्लेशश्चापि भविष्यति ॥ ३५।५२२ ॥
दन्त धावनहीने च दुष्टदन्तो ऽभिजायते ।
ताम्बूलहीने विद्वेषं कुष्टं तैलविहीनके ॥ ३५।५२३ ॥
केशसंशोधने हीने गलरोगो भविष्यति ।
स्नानद्रव्यविहीने च स्नानहीने तथैव च ॥ ३५।५२४ ॥
राजयक्ष्मा भवेद्रोगः पापिष्ठश्च सुदारुणः ।
प्लोतहीने वातरोगो वस्त्रहीने जलोदरः ॥ ३५।५२५ ॥
संव्यानहीने हृद्रोगो यज्ञसूत्रविहीनके ।
अग्निदाहभयं चैव मन्दाग्नित्वं च जायते ॥ ३५।५२६ ॥
गन्धहीने च कुष्ठस्स्याद्भूषाहीने महद्भयम् ।
पुष्पहीने त्वलाभस्स्यात्तथा च कफसम्भवः ॥ ३५।५२७ ॥
(शूद्राहृतैः क्रयक्रीतैर् अर्चनं निष्फलं सुमैः ।
अरण्याद्वागृहाद्वापि विक्रीतान्यापणान्तरात् ॥ ३५।५२८ ॥
अयाचितानि पुष्पाणि लब्धान्यर्हाणि नार्ऽचने ।
तथा पर्युषितैर्यापि जन्तुभिर्दूषितैरपि ॥ ३५।५२९ ॥
म्लानैरस्पृश्यसंस्पृष्टैर्दुर्गन्धैः पादलङ्घितैः ।
प्रतिलोमान्त्यजानीतैरर्चनं त्वफलं भवेत् ॥ ३५।५३० ॥
उत्तमं स्वार्जितं पुष्पं मध्यमं वन्यमुच्यते ।
अधमं तु क्रयक्रीतं पारक्यमधमाधमम् ॥ ३५।५३१ ॥
हस्तानीतं पटानीतं स्वयं पतितमेव वा ।
अन्यारामोद्भवं पुष्पं नार्ऽपयेदिति के चन ॥ ३५।५३२ ॥
आरहरे च शुक्रे च मन्वादिषु युगादिषु ।
नाहरेत्तुलसीपत्रं मध्याह्नात्परतस्तथा ॥ ३५।५३३ ॥
सङ्क्रान्त्यां पक्षयोरन्ते द्वादश्योर्निशि सन्ध्ययोः ।
तुलसीं ये विचिन्वन्ति ते कृन्तन्ति हरेश्शिरः ॥ ३५।५३४ ॥
भृग्वर्काङ्गारके वारे द्वादश्यां पञ्चपर्वसु ।
नाहरेत्तुलसीपत्रं नन्दायां श्रवणे ऽपि च ॥ ३५।५३५ ॥
केशकीटापविद्धानि शीर्णपर्युषितानि च ।
भुग्नपत्रं न च ग्राह्यं कृमिदुष्टं च नाहरेत् ॥ ३५।५३६ ॥
वर्जयेदूर्णनाभेन वासितं यदि शोभनम् ।
स्थलजं नोद्धरेत्पुष्पं छेदयेज्जलजं न तु ॥ ३५।५३७ ॥
निषिद्धैर्दुःखदैर्देवं नार्ऽचयेत कदा चन ।
न शुष्कैःपूजयेद्देवं कुनुमैर्न महीगतैः ॥ ३५।५३८ ॥
न विशीर्णतरैश्शिष्टैर्नाशुभैर्नाविकासिभिः ।
पूतिगन्धोग्रन्धानि ह्युग्रगन्धानि वर्जयेत् ॥ ३५।५३९ ॥
स्नानं कृत्वा तु ये के चित्पुष्पं गृह्णन्ति वैद्विजाः ।
देवतास्तन्न गृह्णन्तितन्न गृह्णन्ति मानवाः ॥ ३५।५४० ॥
पितरस्तन्न गृह्णन्ति भस्मीभवति काष्ठवत् ।
स्नानं कृत्वातु मध्याह्ने पुष्पाणि न समाहरेत् ॥ ३५।५४१ ॥
तेभ्यःक्रुद्धो ऽक्षयं दुःखं क्रोधाद्विष्णुः प्रयच्छति ।
अन्यदेवार्ऽथसन्दिष्टैः पूजयेद्यो हरिं प्रभुम् ॥ ३५।५४२ ॥
स तु तेनैव पापेन मण्डूको जायते नरः ।
ततस्स नरकं याति यावदाभूतसम्प्लवम् ॥ ३५।५४३ ॥
कुसुमानां निवेद्यानां गन्धमाघ्राति यो नरः ।
स पूति गन्धसंयुक्तः कुष्ठी चैव प्रजायते ॥ ३५।५४४ ॥
जन्मद्वयं तु वै मूढश्शूद्रतां याति मानवः ।
असूत्रग्रथितं पुष्पमस्नेहाक्तं तथोदनम् ॥ ३५।५४५ ॥
अवालुकायुतं तोयं सर्वं पर्युषितं भवेत् ।
एतैस्तु पूजनात्सद्यो निष्फलास्सकलाः क्रियाः ॥ ३५।५४६ ॥
आदर्शनविहीने तु कामिला च भविष्यति ।
बाधिर्यं धूपहीने च दीपहीने ऽन्धतामियात् ॥ ३५।५४७ ॥
अर्घ्यहीने तु देवस्य कुलं भवति निन्दितम् ।
मधुपर्कविहीने च मधुमेहो भविष्यति ॥ ३५।५४८ ॥
मात्रादानविहीने तु सर्वनाशो भविष्यति ।
रक्षानीराजने हीने राङ्गसैर्(?) आवृतिर्भवेत् ॥ ३५।५४९ ॥
वेदाध्ययनहीने तु कर्मलोपो भवेद्ध्रुवम् ।
हविर्निवेदने हीने दुर्भिक्षं भवति ध्रुवम् ॥ ३५।५५० ॥
उपदंशविहीने च दारिद्षं ग्रामवासिनाम् ।
नालिकेरफले हीने हीने क्षीरादिके तथा ॥ ३५।५५१ ॥
विनाशस्सर्वसस्यानां दुर्भिक्षं च भवेध्ध्रुवम् ।
हीने भक्ष्यादिके चैव विविधे हविषी प्रभो ॥ ३५।५५२ ॥
तद्ग्रामयजमानस्य विशेषेणाशुभं भवेत् ।
विनियोगक्रमस्यात्रहीने पूजैव नश्यति ॥ ३५।५५३ ॥
काले यवनिकाहीने कर्ता चैव विनश्यति ।
द्वारपूजाविहीने तु तस्क रादिप्रवेशनम् ॥ ३५।५५४ ॥
द्वारपालकपूजायो हीने चौराद्युपद्रवः ।
शान्तस्य पूजने हीने तथा चैवानपायिनाम् ॥ ३५।५५५ ॥
राज्ञो राष्ट्रस्य सर्वस्य विनाशस्स्यान्न संशयः ।
यजमानस्य तत्रापि परराजाद्युपद्रवः ॥ ३५।५५६ ॥
पापरोगादिपीडा च भविष्यति तथा पुनः, ।
सर्पवृश्चिकलूताद्यैर्हानिश्चैव भवेद्बहु ॥ ३५।५५७ ॥
पुष्पन्यासेर्ऽचनेहीने न्यूने वा मन्त्रवर्जिते, ।
तद्ग्रामवासिनां चैव राजद्वेषो भविष्यति ॥ ३५।५५८ ॥
भूतपीठस्य पार्श्वे वा दक्षिणे वा विशेषतः, ।
भूतादिनागपर्यन्तं बल्यर्चनविहीनके ॥ ३५।५५९ ॥
शाकिन्यादिग्रहास्सर्वे प्रविशन्ति न संशयः ।
श्रीदेव्या अर्चने हीने सम्पदां तु भवेत् क्षयः ॥ ३५।५६० ॥
हरिण्यर्चनहीने च स्थाननाशो भविष्यति, ।
अग्निपूजाविहीने तु न्यूने वा मन्त्रवर्जिते ॥ ३५।५६१ ॥
निवेदनाज्यहीने वा सम्भवेद्वर्णसङ्करः, ।
वर्णाश्रमादिहानिश्च ब्राह्मणानां विपद्भवेत् ॥ ३५।५६२ ॥
पानीयहीने देवस्य भवेत्तत्र त्ववग्रहः, ।
मुखवासविहीने तु जनविद्वेषणं भवेत् ॥ ३५।५६३ ॥
बलिद्रव्यविहीने तु न्यूने मन्त्रविवर्जिते ।
बलक्षयो जनानां स्यात्पितॄणां पतनं भवेत् ॥ ३५।५६४ ॥
पुष्पाञ्जलिविहीने तु राजकोपा भविष्यति, ।
प्रणामस्तुतिहीने तु सद्यो मृत्युर्भविष्यति, ॥ ३५।५६५ ॥
ध्यानहीने कुलं हन्ति न्यासहीने विपद्भवेत् ।
प्राणायामविहीने तु परचक्रभयं भवेत् ॥ ३५।५६६ ॥
शौचाचारविहीने तु पशुपुत्रादिनाशनम् ।
बिम्बन्यासविहीने तु कलत्रं तस्य नश्यति ॥ ३५।५६७ ॥
प्रदक्षिणविहीने तु पातकी जायते नरः ।
नित्यमर्चावसानेतु पूजकाचार्ययोर्मुदे ॥ ३५।५६८ ॥
दक्षिणादानहीने तु सा पूजा निष्फला भवेत् ।
राष्ट्रस्य यजमानस्य राज्ञश्चापि भवेद्भयम् ॥ ३५।५६९ ॥
हीने तु पाचकादीनां दक्षिणादानकर्मणि ।
पशुवाहननाशश्च तद्ग्रामे सम्भवेन्नृणाम् ॥ ३५।५७० ॥
प्रातः पूजाविहीने तु तद्ग्रामे ऽवग्रहो भवेत् ।
ब्राह्मणानां क्रियाहानिस्सर्वकर्मविनाशनम् ॥ ३५।५७१ ॥
मध्याह्नपूजाहीने तु राष्ट्रक्षोभो भविष्यति ।
सायङ्कालार्ऽचने हीने तद्ग्रामयजमानयोः ॥ ३५।५७२ ॥
अर्थहानिः प्रजाहानिर्भविष्यति न संशयः ।
उपसन्ध्यार्चने हीने कर्मलोपो भविष्यति ॥ ३५।५७३ ॥
विष्णुपञ्चदिने चैव हीने स्नानेर्ऽचने तथा ।
उत्सवे च विशेषण यजमानभयं भवेत् ॥ ३५।५७४ ॥
मासपूजाविहीनेतु भ्रातृद्वेषो भविष्यति ।
विषुदे चायने चैव हीने तत्रोक्तकर्मणि ॥ ३५।५७५ ॥
ग्रामस्य यजमानस्य यशोहानिर्भविष्यति ।
स्नपनोक्ते तथान्यस्मिन् दिवसे स्नानवर्जिते ॥ ३५।५७६ ॥
अकाले च कृते वापि भवेत् क्षामभयं तथा ।
नित्योत्सवविहीने तु निरानन्दो भवेज्जनः ॥ ३५।५७७ ॥
अन्यस्मिन्नर्चनद्रव्ये विहीने दोष आपतेत् ।
निमित्ते यदि सम्प्राप्ते स्नापयेच्चेन्न माधवम् ॥ ३५।५७८ ॥
तस्य पापफलं नक्तुं न केनापि हि शक्यते ।
राज्ञो राष्ट्रस्य च भवेत्सर्वत्रात्याहितं ध्रुवम् ॥ ३५।५७९ ॥
गृहनाशः प्रपाहीने हीनायां चाप्यलङ्कृतौ ।
मृत्सुहीनानु नाशस्स्यात्सस्यानां तु न संशयः ॥ ३५।५८० ॥
पर्वतेषु विहीनेषु स्थैर्यं तस्य विलुप्यते ।
धान्येषु तु विहीनेषु द्यान्यनाशो भवेत्तथा ॥ ३५।५८१ ॥
अङ्कुराणामभावे तु प्रजाहानिश्च सम्भवेत् ।
मङ्गलेष्वथ हीनेषु तस्य भूयादमङ्गलम् ॥ ३५।५८२ ॥
पञ्चगव्यविहीने तु गोहत्या समवाप्यते ।
घृतहीने बुद्धिनाशो ऽनायुष्यं क्षीरहीनके ॥ ३५।५८३ ॥
मधुहीने महान् व्याधिर्दधिहीने तु सञ्ज्वरः ।
क्षीरहीने भवेत्तस्य मलिना कीर्तिरेव हि ॥ ३५।५८४ ॥
गन्धोदकविहीने तु दुर्गन्धो जायते भृशम् ।
अक्षतोदकहीने तु क्षतिस्तस्य प्रजायते ॥ ३५।५८५ ॥
फलोदकविहीने तु विफलं तस्य जीवितम् ।
कुशोदकविहीने च नैधेत ब्रह्मवर्चसम् ॥ ३५।५८६ ॥
रत्नोदकविहीने च धनध्यान्य विनाशनम् ।
अभावे चौषधीनान्तु व्याधिपीडा भविष्यति ॥ ३५।५८७ ॥
उपस्नानविहीने तु मलिनं जायते कुलम् ।
उष्णाम्भसामभोवे तु भवेदुष्णशरीरता ॥ ३५।५८८ ॥
पुण्यपुष्पविहिने तु पापीयान् जायते नरः ।
जातीफलादिचूर्णस्य चाभावे तु विपद्भवेत् ॥ ३५।५८९ ॥
कषायचूर्णहीने तु कान्तिहीनो भवेन्नरः ।
वनौषधीनां चालाभे रोगी भवति निश्चयः ॥ ३५।५९० ॥
हारिद्रचूर्णहीने तु गतश्रीर्जायते नरः ।
मूलगन्धविहीने तु वार्धक्यं भवति ध्रवम् ॥ ३५।५९१ ॥
धातूनामप्यभावेतु सिर्धातुर्जायते नरः ।
प्लोतवस्त्रोत्तरीयाणां भूषणानां विहीनके ॥ ३५।५९२ ॥
कर्मनाशो भवेदेव न तुष्टति रमापतिः ।
आचार्यस्यर्त्विजां तद्वदन्येषां च पदार्थिनाम् ॥ ३५।५९३ ॥
दक्षिणादानहीने च सर्वनाशो भविष्यति ।
हीने हविषि देवस्य निष्फलं स्नपनं भवेत् ॥ ३५।५९४ ॥
स्नपनान्तोत्सवे हीने न देवःपरितुष्यति ।
शिथिलं भगवद्गेहं दृष्ट्या श्रुत्वा च योनरः ॥ ३५।५९५ ॥
तत्क्रिया लोपिता वापि स भवेद्देवहा ध्रुवम् ।
तद्ग्रामवासिनस्सर्वे राजा चान्योधनी पुनः ॥ ३५।५९६ ॥
शीघ्रं सर्वं समीकृत्य पूर्ववत्पुनराचरेत् ।
अन्यथा यदि कुर्याच्छेद्राजराष्ट्रं विनश्यति ॥ ३५।५९७ ॥
धर्मसेतुमिमं विन्द्यात्सर्वसाधारणं नरः ।
पालनीयस्सदा सो ऽयं जगतां यत्र संस्थितिः ॥ ३५।५९८ ॥
प्रायश्चित्तनिमित्तेतु सम्प्राप्ते यस्तु मूढधीः ।
अकृत्वा निष्कृतिं कुर्यात्कारयेत्कर्म चोत्तरम् ॥ ३५।५९९ ॥
लोभान्मोहदथाज्ञानादनादृत्य च शासनम् ।
भगवच्छासनद्रोही स भवेत्पातकी जनः ॥ ३५।६०० ॥
प्रमादिनां मनुष्याणां स्खलनं नियतं यतः ।
निष्कृतिर्विहिता पूर्वैर्नतामतिचरेत्क्वचित् ॥ ३५।६०१ ॥
ब्रह्माद्यैरपि यद्देवैरशक्यं पूजनं हरेः ।
तदुक्ता निष्कृतिः पूर्वैर्नतामतिपतेत्क्वचित् ॥ ३५।६०२ ॥
निमित्ते यस्त्वकृत्वैव प्रायश्चित्तं यथोचितम् ।
न्नित्यं नैमित्तिकं काम्यं कुर्यात्तदकृतं भवेत् ॥ ३५।६०३ ॥
तस्मान्निमित्ते सम्प्राप्ते निष्कृतिं सद्य आचरेत् ।
इति सङ्क्षेपतः प्रोक्तं क्रियायोगाश्रितं फलम् ॥ ३५।६०४ ॥

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सहितायां प्रकीर्णाधिकारे पञ्चत्रिंशो ऽध्यायः