अथ चतुस्त्रिंशो ऽध्यायः
स्वयंव्यक्तादि स्थानपञ्चकम्।
अत ऊर्ध्वं प्रवक्ष्यामि स्थलपञ्चककल्पनम् ।
देवदेवो महाबाहुर्हरिर्नारायणस्स्वयम् ॥ ३४।१ ॥
येन येन प्रकारेण आविरास्तेधरातले ।
अर्चावताररूपेण भक्तसौलभ्यहेतवे ॥ ३४।२ ॥
स्वयंव्यक्तं च दिव्यं च सैद्धं पौराणमेव च ।
पौरुषं चेति कथितं स्थलानां पञ्चकं बुधैः ॥ ३४।३ ॥
स्वयंव्यक्तं तु तत्प्रोक्तं यत्रासौ हरिव्ययः ।
स्वेच्छया लोकरक्षाये भूम्यामाविर्भवेत्स्वयम् ॥ ३४।४ ॥
न तत्र देवदेवस्य प्रतिष्ठा विधिसम्मता ।
न चापि कर्षणं नापि बिम्बशुद्ध्यादिकाः क्रियाः ॥ ३४।५ ॥
बिम्बेन सह देवेशस्सन्निधत्ते यतस्स्वयम् ।
यानदिच्छा वसेद्भूमौ तावत्कालं समर्चितः ॥ ३४।६ ॥
स्वयंव्यक्तस्थले पूजा सर्वलोकशुभप्रदा ।
स्वयंव्यक्तस्थलान्यत्र चत्वार्यासत भूतले ॥ ३४।७ ॥
यत्र वैखानसं शास्त्रमाश्रित्य परमं शुभम् ।
अर्चयामो जगद्योनिमहमन्ये च ते त्रयः ॥ ३४।८ ॥
मरीचिर्मन्धरे विष्णुमर्चयामास केशवम् ।
सर्वदेवोत्तमं देवं श्रीनिवासे ऽत्रिरर्चयत् ॥ ३४।९ ॥
काश्यपो विष्ण्वधिष्ठाने शुभक्षेत्रे ऽप्यहं भृगुः ।
यादृशीवर्तते पूजा या बिम्बानां च संस्थितिः ॥ ३४।१० ॥
न किं चित्तामतिक्रम्य पूर्वोक्तां तु समाचरेत् ।
स्वयमाविरभूद्देवो यत्र भक्तानुकम्पया ॥ ३४।११ ॥
कर्तव्यमखिलं तत्र तन्निदेशेन कल्प्यते ।
न वाप्युच्छास्त्रकरणं प्रवर्तयति माधवम् ॥ ३४।१२ ॥
तस्मात्सर्वप्रयत्नेन पूर्वैराचरितं चरेत् ।
अन्यथा चेत्तु कुर्वाणो देवायैवापराध्यति ॥ ३४।१३ ॥
यन्मायामोहितं सर्वं यस्यान्तं के ऽपि नो विदुः ।
तस्य देवस्य माहात्म्यं वक्तुं शक्नोति को भुवि ॥ ३४।१४ ॥
यद्यदा चरितं तत्र तत्सर्वं शास्त्रमेव हि ।
तत्रापि च विशेषो ऽस्ति प्रायश्चित्तादिदर्शने ॥ ३४।१५ ॥
सर्वं प्रामादिकं कुर्यात्तत्र शास्त्रं प्रवर्तकम् ।
श्रुतिस्मृती उभेतस्य परमाज्ञां वदन्ति ही ॥ ३४।१६ ॥
स्वयंव्यक्तस्थले पूजा सर्वलोकशूभावहा ।
स्वयं व्यक्तो जगन्नाथस्तादात्म्येन शिलादिषु ॥ ३४।१७ ॥
स्वयं भक्तजनाभीष्टान् विचार्यैव प्रयच्छति ।
न ह्यत्र साधनापेक्षा स्वयन्न्यक्तस्ततो वरः ॥ ३४।१८ ॥
देवैः प्रतिष्ठितो यत्र हरिराविर्बभूव हि ।
तद्दिद्यस्थलमुद्दिष्टं देवो दिव्य उदीर्यते ॥ ३४।१९ ॥
स्मृता देवास्त्रयस्त्रिंशत्तावत्कोटीमिता अपि ।
सर्वे ते फलकामास्स्युर्वे प्रपद्यन्ते यथा हरिम् ॥ ३४।२० ॥
तांस्तथा भजते देवो यतो ऽसौ करुणानिधिः ।
फलार्थिनो यदा देवाः प्रतिष्ठ्याप्य हरिं क्रमात् ॥ ३४।२१ ॥
समभ्यर्च्य च सम्प्राप्य वाम्भितं तदनन्तरम् ।
लोकानुग्रहहेतोर् वै तादृशं देवमन्दिरम् ॥ ३४।२२ ॥
चिरस्थायि च सङ्कल्प्य यथार्हं समपूजयन् ।
दिव्यस्थलस्थदेवो हि देवानां सन्निधापनात् ॥ ३४।२३ ॥
अत्यन्तं पुष्टिवः प्रोक्तस्सर्वशान्तिकरस्सृतः ।
दिव्यस्थलस्थपूजा तु शतयोजनविस्तृतम् ॥ ३४।२४ ॥
पुनाति परितो देशं नात्र सन्देह इष्यते ।
दिव्यस्थलानि कथितान्यसङ्ख्येयानि भूतले ॥ ३४।२५ ॥
न हि देवास्स्वयं भूमाववतीर्य कलौ क्वचित् ।
प्रतिष्ठां देवदेवस्य कुर्वन्ति कुहिचिद्ध्रुवम् ॥ ३४।२६ ॥
दिव्यस्थलानि भूभागे कलौ तु विरलानि वै ।
भविष्यन्ति बहून्यत्र लुप्तबूजानि सत्तमाः ॥ ३४।२७ ॥
दिव्यस्थलकृता पूजा शास्त्रसिद्धा न संशयः ।
नोच्छास्त्रं तु प्रतिष्ठादि कुर्वन्तिदिवि देवताः ॥ ३४।२८ ॥
देवाश्च देवलोके ऽपि कृत्वा वैष्णवमन्दिरम् ।
आराध्य च जगन्नाथं प्राप्नुवन्ति फलं बहु ॥ ३४।२९ ॥
या तु भूमितले पूजा तादृशी दिविजा न वै ।
कर्मभूमिस्तु सम्प्रोक्ता भूमिर्द्यैर्न हि तत्समा ॥ ३४।३० ॥
सञ्चिन्त्य पुण्यं पापं वा भूमौ लोकान्तरेनराः ।
गमिष्यन्तिततो ज्यायान् भूभागस्सर्वकर्मसु ॥ ३४।३१ ॥
ततो देवाः प्रतिष्ठाप्य चार्चयित्वा रमापतिम् ।
अर्चावताररूपेण स्वयं तीर्णाः पुनः पुनः ॥ ३४।३२ ॥
भूमिस्थानखिलान् जन्तून् तार्ययिष्यन्त्यनुग्रहात् ।
अतो विप्रास्सदा यज्ञैर्दानैश्च तपसा मुहुः ॥ ३४।३३ ॥
तोषयिष्यन्ति देवान्वै तेषामानृण्यहेतवे ।
देवा निसर्गरिपवो मनुष्येषु भवन्त्यपि ॥ ३४।३४ ॥
आराधनेन देवस्य चोपकुर्वन्ति मानवान् ।
इदमेव हरेः पूजाबलं सम्पादितं फलम् ॥ ३४।३५ ॥
सर्वे ऽपि सात्त्विका यान्ति तुष्यन्ति स्वार्जितैः फलैः ।
न द्विष्यन्ति रिपून्वापि तत्रो दाहरणं सुराः ॥ ३४।३६ ॥
यथा च्यवनधर्मा स्यात्स्वर्गस्स्वर्गाश्रितो ऽथ वा ।
तथादिन्यस्थलानिह न स्युश्शाश्वतिकानि तु ॥ ३४।३७ ॥
दिव्यस्थलेषु सर्वत्र दिव्येनैवागमेन तु ।
वैखानसेन पूजासीत्साहि श्रौती च सम्मता ॥ ३४।३८ ॥
प्रायश्चित्तोचितान्यत्र निमित्तानि यदातदा ।
शास्त्रोक्तं कारयेदेव नान्यथा कारयेद्विधिः ॥ ३४।३९ ॥
ये तु पूर्वार्जितैरेव तपोभिः परमात्मनि ।
रक्तात्मानस्तपस्सिद्धास्सङ्कल्प्य स्वतपःफलम् ॥ ३४।४० ॥
देवदेवं जगन्नाथं नारायणमनायम् ।
प्रतिष्ठाप्य क्वचिद्बिम्बे समभ्यर्च्य विशेषतः ॥ ३४।४१ ॥
उज्जीवनाय लाकानां प्रदास्यन्तीह पूजनम् ।
स देशस्सैद्ध इत्युक्तस्सैद्धा तत्रार्चनोच्यते ॥ ३४।४२ ॥
न हि सिद्धास्तपस्सिद्धिं कुर्वन्ति विभलां क्वचित् ।
यस्यानुग्रहमिच्छन्तस्तपस्यन्तीह साधवः ॥ ३४।४३ ॥
यं प्रसादयितुं विप्रा यज्ञदानादि कुर्वते ।
तस्यैवाराधनं हित्वा किं सिद्धास्सम्प्रकुर्वते ॥ ३४।४४ ॥
ते सिद्धास्ते महात्मानस्ते सन्त न्ते तपस्विनः ।
ये स्वकर्मफलं देवं विदित्वा श्रीपतिं हरिम् ॥ ३४।४५ ॥
प्रतिष्ठाप्य तु तद्रूपमर्चयन्ति निरन्तरम् ।
न ह्यन्यः प्रापणे हेतुरर्चनान्मुक्तिहेतवे ॥ ३४।४६ ॥
सैद्धस्थले तु या पूजा सर्वशान्तिकरी स्मृता ।
पञ्चाशद्योजनं तस्य परितः पावयेन्महीम् ॥ ३४।४७ ॥
सिद्धप्रतिष्ठिता देशा बहवो विदिताः पुरा ।
उत्पद्यन्ते भविष्यन्ति सन्तिसिद्धा धरातले ॥ ३४।४८ ॥
सैद्धस्थलानि भूयांसि भविष्यन्ति च सन्ति च ।
सिद्धा वैखानसं शास्त्रमाश्रित्यैव स्वनिर्मितम् ॥ ३४।४९ ॥
देवं सम्पूजयन्तीह तत्प्रायः प्रचलत्यपि ।
न हि सिद्धाः प्रकुर्वन्तिकिञ्चिदुच्छास्त्रमापदि ॥ ३४।५० ॥
तस्मात्सर्वप्रयत्नेन सर्वं सिद्धाश्रितस्थले ।
कुर्याद्वैखानसं शास्त्रमाश्रित्य सकलाः क्रियाः ॥ ३४।५१ ॥
सिद्धा जानन्ति शास्त्रार्थान् सिद्धा जानन्ति चागमान् ।
सिद्धास्समर्चयन्त्येव वैखानसविधानतः ॥ ३४।५२ ॥
यदि सिद्धाश्रितो देशःपूज्यते ऽन्यैः प्रमादतः ।
राजा तं तु विचार्यैव पुनर्वैखानसैःक्रमात् ॥ ३४।५३ ॥
सत्वरं याजयेत्कृत्वा प्रायश्चित्तं यथाविधि ।
सैद्धमेके स्थलं प्राहुरार्षमेतच्च सम्मतम् ॥ ३४।५४ ॥
अथ पौराणिको देशः कथ्यते यत्र यत्र वै ।
गाधा पौराणिकी भूयात्तत्पुराणस्थलं मतम् ॥ ३४।५५ ॥
अज्ञातकर्तृकाण्यत्र स्मर्यन्ते प्रायशो बहु ।
स्थलानीमानितत्तानि?पुराणानि प्रचक्षते ॥ ३४।५६ ॥
पुराणानि त्वनन्तानि स्थलानि पृथिवीतले ।
भवन्त्यथ कलौ प्राप्ते लुप्यन्ते तान्यनेकशः ॥ ३४।५७ ॥
दशयोजनपर्यन्तां भूमिं तु परितस्सकृत् ।
पुनाति देशः पौराणस्तत्र किं चिन्न हीयते ॥ ३४।५८ ॥
स्वयंव्यक्तादयस्सर्वे पौराणाः कीर्तिता अपि ।
स्वयंव्यक्तादिभेदेन व्यवहारस्य दर्शनात् ॥ ३४।५९ ॥
पुराणत्वं च तेषां स्यादन्यत् पौराणमुच्यते ।
पुराणस्थलदेवस्य प्रतिष्ठा विधिसम्मता ॥ ३४।६० ॥
प्रतिष्ठिते त्वविधिना स्थरे नैव रमेद्धरिः ।
न हि वृद्धास्समर्चन्ति बिम्बमुच्छास्त्रनिर्मितम् ॥ ३४।६१ ॥
न हि पौराणिके देशे यजमानस्य गौरवम् ।
अर्थस्य गौरवं चापि दर्शनीयं महात्मभिः? ॥ ३४।६२ ॥
यदि पश्येद्विसूढात्मा रौरवं नरकंव्रजेत् ।
एष एव विशेषस्स्यादन्यत्सैद्धवदाचरेत् ॥ ३४।६३ ॥
पुराणस्थलपूजा तु शास्त्रदृष्टेन वर्त्मना ।
प्रमादेतु समीकार्यान तेन स्याद्व्यतिक्रमः ॥ ३४।६४ ॥
मानुषं पञ्चमं प्रोक्तं स्थलं यत्र विशेषतः ।
ग्रामे वा नगरे वापि शास्त्रोक्ते सुमनोरमे ॥ ३४।६५ ॥
प्रतिष्टाप्यार्चके विष्णुस्सर्वदेवेश्वरेश्वरः ।
ब्राह्मणैः क्षत्रियैर्वैश्यैश्शूद्रैर्वान्यैर्नरोत्तमैः ॥ ३४।६६ ॥
वैखानसेन शास्त्रेण पञ्चरात्रेण वा पुनः ।
मानुषस्थलपूजा तु योजनं परितस्थ्सलम् ॥ ३४।६७ ॥
पापयेत्तस्य तु प्रोक्ताशक्तिरन्यातु तावती ।
मनुष्याः पुण्यकर्माणस्तत्र तत्र दिने दिने ॥ ३४।६८ ॥
प्रेरिता भगवद्भक्त्याधनिनो निर्धना अपि ।
निर्माय भगवद्गेहं प्रतिष्ठाप्य श्रियःपतिम् ॥ ३४।६९ ॥
अर्चयन्ति विशेषेण वैखानसविधानतः ।
विशालः पृथिवीभागः कालो ऽनादिरन्तकः ॥ ३४।७० ॥
शास्त्रं चाप्यतिगम्भीरं भक्ताश्च बहवो हरौ ।
तस्मात्सर्वप्रयत्नेन सर्वस्याप्यनुशासनम् ॥ ३४।७१ ॥
प्रोक्तं विखनसा पूर्वं भगवच्छास्त्रमुत्तमम् ।
अनेनैव प्रकारेण सर्वत्राराधयेद्धरिम् ॥ ३४।७२ ॥
भक्ताश्च बहुधा शास्त्रं प्रशंसन्तीदमेव ही ।
तदुक्तेनैव विधिना कल्पयेदालयादिकम् ॥ ३४।७३ ॥
यथा मानाधिकरणे मया प्रोक्तस्स विस्तरः ।
यत्र वा दृश्यते भेदो भगवच्छास्त्रशिल्पयोः ॥ ३४।७४ ॥
शिल्पशास्त्रं परित्यज्य भगवच्छास्त्रतश्चरेत् ।
प्रधानमेतच्छास्त्रं स्याद्भगवद्गेहकल्पने ॥ ३४।७५ ॥
न तच्छास्त्रमनादृत्य कार्यं किं चित्समाचरेत् ।
लोभान्मोहादथाज्ञानाच्छास्त्रे ऽस्मिन्न धृतं चरेत् ॥ ३४।७६ ॥
अतिक्रम्यापि शास्त्रं तत्पूजा निष्भला भवेत् ।
यजमानो विपद्येत तस्मादत्रोक्तमाचरेत् ॥ ३४।७७ ॥
तेनैव तु विधानेन प्रतिष्ठादिकमाचरेत् ।
ऐहिकामुष्मिकं यस्मात्फलद्वयमवाप्यते ॥ ३४।७८ ॥
ग्रामे विष्ण्वर्चनाहीने विष्ण्वर्चाहीनवेश्मनि ।
तीर्थपानं सुरापानमन्नं गोमांसभक्षणम् ॥ ३४।७९ ॥
देवधामविहीनं तु श्मशानं ग्राम उच्यते ।
गृहं च चितितुल्यं स्याद्यत्र नाराध्यते हरिः ॥ ३४।८० ॥
यो मोहादथ वालस्यादकृत्वा देवतार्चनम् ।
भुङ्क्ते स याति नरकान् सूकरेष्वसि जायते ॥ ३४।८१ ॥
केशवार्चागृहे यस्य न तिष्ठति शूभप्रदा ।
तस्यान्नं नैव भोक्तव्यमभक्ष्येण समं हि तत् ॥ ३४।८२ ॥
बिम्बशुद्ध्यादिकं कृत्वा शास्त्रोक्तविधिना पुनः ।
कलान्यासादिकं सर्वं विधाय परमेश्वरः ॥ ३४।८३ ॥
प्रतिष्ठाप्यार्च्यते यत्र परितो योजनावधि ।
पूयते ऽनुग्रहाद्विष्णोः स देशो ऽप्राकृतस्स्मृतः ॥ ३४।८४ ॥
तत्र पार्षदसंयुक्तश्श्रिया लक्ष्म्या समन्वितः ।
यथा च परमे व्योम्नि सन्निधत्ते तथा हरिः ॥ ३४।८५ ॥
तत्र देवास्त्रयस्त्रिंशत्पितरः पन्नगाश्च ये ।
साध्या विद्याधरा यक्षास्सर्वा वै देवयोनयः ॥ ३४।८६ ॥
सर्वसंवत्समृद्धिस्स्यात्पर्जन्यो वर्षुको भवेत् ।
वायुर्वाति सुखं तत्र सूर्यस्तपति तेजसा ॥ ३४।८७ ॥
चन्द्रमाश्शीतलैर्देशं सेवते किरणैस्तथा ।
भूमिस्सस्यवती च स्यात्प्रसन्नं च नभो भवेत् ॥ ३४।८८ ॥
नक्षत्रग्रहताराश्च प्रसादाभिमुखास्समे ।
राजन्वती प्रजा च स्यात्पशुपुत्रसमन्विता ॥ ३४।८९ ॥
न व्याधिजं भयं किं चिन्नापि ज्वरकृतं तथा ।
न व्यालजं भयं वापि भवेदत्रन संशयः ॥ ३४।९० ॥
नोपप्लवो नृपाणां वा मृगाणां वाप्यपां भवेत् ।
ब्राह्मणाः क्षत्रिया वैश्याश्शूद्रास्तत्र निवासिनः ॥ ३४।९१ ॥
स्वे स्वे कर्मण्यभिरता भवेयुस्सुखजीविनः ।
आग्निहोत्राश्च हूयन्ते तप्यन्ते ऽत्र तपांसि च ॥ ३४।९२ ॥
दीयन्ते भूरिदानानि यत्र देवो हरिस्प्वयम् ।
अप्राकृतमिमं देशं सन्निधानाच्छ्रियः पतेः ॥ ३४।९३ ॥
प्राकृतं यो वदेन्मूढस्स याति नरकं ध्रुवम् ।
अप्राकृतमिमं देवं नरो यश्चापनिह्नुते ॥ ३४।९४ ॥
चण्डालस्स तु विज्ञेयो निष्कृतिर्नास्य दृश्यते ।
महापातकीनां तद्वद्दृष्टं पातकिनामपि ॥ ३४।९५ ॥
उपपातकिनां चापि प्रायश्चित्तं विशेषतः ।
शास्त्रापलापिनां नैव प्रायश्चित्तं प्रदृश्यते ॥ ३४।९६ ॥
यस्तु सामान्यभावेन मन्यते स्थलमीदृशम् ।
ब्रह्महत्यामवाप्नोति भ्रूणहत्यां तथैव च ॥ ३४।९७ ॥
स्वर्णस्तेये च यत्पापं सुरापाने च यद्भवेत् ।
गुरुतल्पस्य गमने यच्चपापमुदीरितम् ॥ ३४।९८ ॥
वृषलीगमने यच्च पापं सर्वं तदश्नुते ।
नास्ति शास्त्रात्परं ज्ञानं नस्यात्तस्मात्प्रवर्तकम् ॥ ३४।९९ ॥
तस्मात्तस्यावमानेन सद्यः पतति दूषकः ।
तस्मिन् देशे विशेषेण सर्वेभागवता हरौ ॥ ३४।१०० ॥
देवपादोदकादीनि पीत्वा यास्यन्तिसद्गतिम् ।
न हि सर्वो ऽपि सर्वत्र स्वयंव्यक्तस्थलादिकम् ॥ ३४।१०१ ॥
गत्वैवाराधयेद्विष्णुं सदा तच्चाप्यसम्भवि ।
अत एव कृपासिन्धुर्भगवान् भूतभावनः ॥ ३४।१०२ ॥
अर्चावताररूपेण ग्रामे ग्रामे गृहे गृहे ।
अवतीर्य महाबाहुर्भक्तसौलभ्यहेतवे ॥ ३४।१०३ ॥
अर्च्यते शास्त्रविधिना तत्र कार्योन संशयः ।
तस्मादप्राकृतं देशं न ब्रूयात्प्राकृतं नरः ॥ ३४।१०४ ॥
न च सामान्यभावेन तं पश्येद्यदि पश्यति ।
नश्यत्येव न सन्देह इति शास्त्रविनिश्चयः ॥ ३४।१०५ ॥
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सहितायां प्रकीर्णाधिकारे चतुस्त्रिंशो ऽध्यायः।